| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् । सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥१॥
स च अपि च्यवनः ब्रह्मन् भार्गवः अजनयत् सुतम् । सुकन्यायाम् महात्मानम् प्रमतिम् दीप्त-तेजसम् ॥१॥
sa ca api cyavanaḥ brahman bhārgavaḥ ajanayat sutam . sukanyāyām mahātmānam pramatim dīpta-tejasam ..1..
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् । रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥२॥
प्रमतिः तु रुरुम् नाम घृताच्याम् समजीजनत् । रुरुः प्रमद्वरायाम् तु शुनकम् समजीजनत् ॥२॥
pramatiḥ tu rurum nāma ghṛtācyām samajījanat . ruruḥ pramadvarāyām tu śunakam samajījanat ..2..
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः । विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ॥३॥
तस्य ब्रह्मन् रुरोः सर्वम् चरितम् भूरि-तेजसः । विस्तरेण प्रवक्ष्यामि तत् शृणु त्वम् अशेषतस् ॥३॥
tasya brahman ruroḥ sarvam caritam bhūri-tejasaḥ . vistareṇa pravakṣyāmi tat śṛṇu tvam aśeṣatas ..3..
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः । स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ॥४॥
ऋषिः आसीत् महान् पूर्वम् तपः-विद्या-समन्वितः । स्थूलकेशः इति ख्यातः सर्व-भूत-हिते रतः ॥४॥
ṛṣiḥ āsīt mahān pūrvam tapaḥ-vidyā-samanvitaḥ . sthūlakeśaḥ iti khyātaḥ sarva-bhūta-hite rataḥ ..4..
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् । गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ॥५॥
एतस्मिन् एव काले तु मेनकायाम् प्रजज्ञिवान् । गन्धर्व-राजः विप्र-ऋषे विश्वावसुः इति श्रुतः ॥५॥
etasmin eva kāle tu menakāyām prajajñivān . gandharva-rājaḥ vipra-ṛṣe viśvāvasuḥ iti śrutaḥ ..5..
अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन । उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ॥६॥
अथा अप्सराः मेनका सा तम् गर्भम् भृगु-नन्दन । उत्ससर्ज यथाकालम् स्थूलकेश-आश्रमम् प्रति ॥६॥
athā apsarāḥ menakā sā tam garbham bhṛgu-nandana . utsasarja yathākālam sthūlakeśa-āśramam prati ..6..
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह । कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ॥७॥
उत्सृज्य च एव तम् गर्भम् नद्याः तीरे जगाम ह । कन्याम् अमर-गर्भ-आभाम् ज्वलन्तीम् इव च श्रिया ॥७॥
utsṛjya ca eva tam garbham nadyāḥ tīre jagāma ha . kanyām amara-garbha-ābhām jvalantīm iva ca śriyā ..7..
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः । स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ॥८॥
ताम् ददर्श समुत्सृष्टाम् नदी-तीरे महान् ऋषिः । स्थूल-केशः स तेजस्वी विजने बन्धु-वर्जिताम् ॥८॥
tām dadarśa samutsṛṣṭām nadī-tīre mahān ṛṣiḥ . sthūla-keśaḥ sa tejasvī vijane bandhu-varjitām ..8..
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः । जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ॥९॥ ( ववृधे सा वरारोहा तस्याश्रमपदे शुभा ॥९॥ )
स ताम् दृष्ट्वा तदा कन्याम् स्थूलकेशः द्विजोत्तमः । जग्राह अथ मुनि-श्रेष्ठः कृपा-आविष्टः पुपोष च ॥९॥ ( ववृधे सा वरारोहा तस्य आश्रम-पदे शुभा ॥९॥ )
sa tām dṛṣṭvā tadā kanyām sthūlakeśaḥ dvijottamaḥ . jagrāha atha muni-śreṣṭhaḥ kṛpā-āviṣṭaḥ pupoṣa ca ..9.. ( vavṛdhe sā varārohā tasya āśrama-pade śubhā ..9.. )
प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता । ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥१०॥
प्रमदाभ्यः वरा सा तु सर्व-रूप-गुण-अन्विता । ततस् प्रमद्वरा इति अस्याः नाम चक्रे महान् ऋषिः ॥१०॥
pramadābhyaḥ varā sā tu sarva-rūpa-guṇa-anvitā . tatas pramadvarā iti asyāḥ nāma cakre mahān ṛṣiḥ ..10..
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् । बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥११॥
ताम् आश्रम-पदे तस्य रुरुः दृष्ट्वा प्रमद्वराम् । बभूव किल धर्म-आत्मा मदन-अनुगत-आत्मवान् ॥११॥
tām āśrama-pade tasya ruruḥ dṛṣṭvā pramadvarām . babhūva kila dharma-ātmā madana-anugata-ātmavān ..11..
पितरं सखिभिः सोऽथ वाचयामास भार्गवः । प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥१२॥
पितरम् सखिभिः सः अथ वाचयामास भार्गवः । प्रमतिः च अभ्ययात् श्रुत्वा स्थूलकेशम् यशस्विनम् ॥१२॥
pitaram sakhibhiḥ saḥ atha vācayāmāsa bhārgavaḥ . pramatiḥ ca abhyayāt śrutvā sthūlakeśam yaśasvinam ..12..
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् । विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥१३॥
ततस् प्रादात् पिता कन्याम् रुरवे ताम् प्रमद्वराम् । विवाहम् स्थापयित्वा अग्रे नक्षत्रे भग-दैवते ॥१३॥
tatas prādāt pitā kanyām rurave tām pramadvarām . vivāham sthāpayitvā agre nakṣatre bhaga-daivate ..13..
ततः कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥१४॥
ततस् कतिपयाहस्य विवाहे समुपस्थिते । सखीभिः क्रीडती सार्धम् सा कन्या वरवर्णिनी ॥१४॥
tatas katipayāhasya vivāhe samupasthite . sakhībhiḥ krīḍatī sārdham sā kanyā varavarṇinī ..14..
नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् । पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥१५॥
न अपश्यत प्रसुप्तम् वै भुजगम् तिर्यक्-आयतम् । पदा च एनम् समाक्रामत् मुमूर्षुः काल-चोदिता ॥१५॥
na apaśyata prasuptam vai bhujagam tiryak-āyatam . padā ca enam samākrāmat mumūrṣuḥ kāla-coditā ..15..
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा । विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥१६॥
स तस्याः सम्प्रमत्तायाः चोदितः कालधर्मणा । विष-उपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत् ॥१६॥
sa tasyāḥ sampramattāyāḥ coditaḥ kāladharmaṇā . viṣa-upaliptān daśanān bhṛśam aṅge nyapātayat ..16..
सा दष्टा सहसा भूमौ पतिता गतचेतना । व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ॥१७॥
सा दष्टा सहसा भूमौ पतिता गत-चेतना । व्यसुः अप्रेक्षणीया अपि प्रेक्षणीयतम-आकृतिः ॥१७॥
sā daṣṭā sahasā bhūmau patitā gata-cetanā . vyasuḥ aprekṣaṇīyā api prekṣaṇīyatama-ākṛtiḥ ..17..
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता । भूयो मनोहरतरा बभूव तनुमध्यमा ॥१८॥
प्रसुप्ता इव अभवत् च अपि भुवि सर्प-विष-अर्दिता । भूयस् मनोहरतरा बभूव तनु-मध्यमा ॥१८॥
prasuptā iva abhavat ca api bhuvi sarpa-viṣa-arditā . bhūyas manoharatarā babhūva tanu-madhyamā ..18..
ददर्श तां पिता चैव ते चैवान्ये तपस्विनः । विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥१९॥
ददर्श ताम् पिता च एव ते च एव अन्ये तपस्विनः । विचेष्टमानाम् पतिताम् भू-तले पद्म-वर्चसम् ॥१९॥
dadarśa tām pitā ca eva te ca eva anye tapasvinaḥ . viceṣṭamānām patitām bhū-tale padma-varcasam ..19..
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः । स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ॥२०॥
ततस् सर्वे द्विजवराः समाजग्मुः कृपा-अन्विताः । स्वस्त्यात्रेयः महा-जानुः कुशिकः शङ्ख-मेखलः ॥२०॥
tatas sarve dvijavarāḥ samājagmuḥ kṛpā-anvitāḥ . svastyātreyaḥ mahā-jānuḥ kuśikaḥ śaṅkha-mekhalaḥ ..20..
भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः । प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ॥२१॥
भारद्वाजः कौणकुत्सः आर्ष्टिषेणः अथ गौतमः । प्रमतिः सह पुत्रेण तथा अन्ये वन-वासिनः ॥२१॥
bhāradvājaḥ kauṇakutsaḥ ārṣṭiṣeṇaḥ atha gautamaḥ . pramatiḥ saha putreṇa tathā anye vana-vāsinaḥ ..21..
तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् । रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ॥२२॥1.8.27
ताम् ते कन्याम् व्यसुम् दृष्ट्वा भुजगस्य विष-अर्दिताम् । रुरुदुः कृपया आविष्टाः रुरुः तु आर्तः बहिस् ययौ ॥२२॥१।८।२७
tām te kanyām vyasum dṛṣṭvā bhujagasya viṣa-arditām . ruruduḥ kṛpayā āviṣṭāḥ ruruḥ tu ārtaḥ bahis yayau ..22..1.8.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In