| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च । भरतस्य कुरोः पूरोरजमीढस्य चान्वये ॥१॥
प्रजापतेः तु दक्षस्य मनोः वैवस्वतस्य च । भरतस्य कुरोः पूरोः अजमीढस्य च अन्वये ॥१॥
prajāpateḥ tu dakṣasya manoḥ vaivasvatasya ca . bharatasya kuroḥ pūroḥ ajamīḍhasya ca anvaye ..1..
यादवानामिमं वंशं पौरवाणां च सर्वशः । तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ॥२॥ ( धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥२॥ )
यादवानाम् इमम् वंशम् पौरवाणाम् च सर्वशस् । तथा एव भारतानाम् च पुण्यम् स्वस्त्ययनम् महत् ॥२॥ ( धन्यम् यशस्यम् आयुष्यम् कीर्तयिष्यामि ते अनघ ॥२॥ )
yādavānām imam vaṃśam pauravāṇām ca sarvaśas . tathā eva bhāratānām ca puṇyam svastyayanam mahat ..2.. ( dhanyam yaśasyam āyuṣyam kīrtayiṣyāmi te anagha ..2.. )
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः । दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ॥३॥ ( मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ॥३॥ )
तेजोभिः उदिताः सर्वे महा-ऋषि-सम-तेजसः । दश प्रचेतसः पुत्राः सन्तः पूर्व-जनाः स्मृताः ॥३॥ ( मेघ-जेन अग्निना ये ते पूर्वम् दग्धाः महा-ओजसः ॥३॥ )
tejobhiḥ uditāḥ sarve mahā-ṛṣi-sama-tejasaḥ . daśa pracetasaḥ putrāḥ santaḥ pūrva-janāḥ smṛtāḥ ..3.. ( megha-jena agninā ye te pūrvam dagdhāḥ mahā-ojasaḥ ..3.. )
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः । सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥४॥
तेभ्यः प्राचेतसः जज्ञे दक्षः दक्षात् इमाः प्रजाः । सम्भूताः पुरुष-व्याघ्र स हि लोक-पितामहः ॥४॥
tebhyaḥ prācetasaḥ jajñe dakṣaḥ dakṣāt imāḥ prajāḥ . sambhūtāḥ puruṣa-vyāghra sa hi loka-pitāmahaḥ ..4..
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥५॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसः मुनिः । आत्म-तुल्यान् अजनयत् सहस्रम् संशित-व्रतान् ॥५॥
vīriṇyā saha saṅgamya dakṣaḥ prācetasaḥ muniḥ . ātma-tulyān ajanayat sahasram saṃśita-vratān ..5..
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः । मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥६॥
सहस्र-सङ्ख्यान् समितान् सुतान् दक्षस्य नारदः । मोक्षम् अध्यापयामास साङ्ख्य-ज्ञानम् अनुत्तमम् ॥६॥
sahasra-saṅkhyān samitān sutān dakṣasya nāradaḥ . mokṣam adhyāpayāmāsa sāṅkhya-jñānam anuttamam ..6..
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे । प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥७॥
ततस् पञ्चाशतम् कन्याः पुत्रिकाः अभिसंदधे । प्रजापतिः प्रजाः दक्षः सिसृक्षुः जनमेजय ॥७॥
tatas pañcāśatam kanyāḥ putrikāḥ abhisaṃdadhe . prajāpatiḥ prajāḥ dakṣaḥ sisṛkṣuḥ janamejaya ..7..
ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥८॥
ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे ॥८॥
dadau sa daśa dharmāya kaśyapāya trayodaśa . kālasya nayane yuktāḥ saptaviṃśatim indave ..8..
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ॥९॥ ( इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ॥९॥ )
त्रयोदशानाम् पत्नीनाम् या तु दाक्षायणी वरा । मारीचः कश्यपः तस्याम् आदित्यान् समजीजनत् ॥९॥ ( इन्द्र-आदीन् वीर्य-सम्पन्नान् विवस्वन्तम् अथ अपि च ॥९॥ )
trayodaśānām patnīnām yā tu dākṣāyaṇī varā . mārīcaḥ kaśyapaḥ tasyām ādityān samajījanat ..9.. ( indra-ādīn vīrya-sampannān vivasvantam atha api ca ..9.. )
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः । मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ॥१०॥
विवस्वतः सुतः जज्ञे यमः वैवस्वतः प्रभुः । मार्तण्डः च यमस्य अपि पुत्रः राजन् अजायत ॥१०॥
vivasvataḥ sutaḥ jajñe yamaḥ vaivasvataḥ prabhuḥ . mārtaṇḍaḥ ca yamasya api putraḥ rājan ajāyata ..10..
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः । मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥११॥ ( ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥११॥ )
मार्तण्डस्य मनुः धीमान् अजायत सुतः प्रभुः । मनोः वंशः मानवानाम् ततस् अयम् प्रथितः अभवत् ॥११॥ ( ब्रह्म-क्षत्र-आदयः तस्मात् मनोः जाताः तु मानवाः ॥११॥ )
mārtaṇḍasya manuḥ dhīmān ajāyata sutaḥ prabhuḥ . manoḥ vaṃśaḥ mānavānām tatas ayam prathitaḥ abhavat ..11.. ( brahma-kṣatra-ādayaḥ tasmāt manoḥ jātāḥ tu mānavāḥ ..11.. )
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् । ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ॥१२॥
तत्र अभवत् तदा राजन् ब्रह्म क्षत्रेण सङ्गतम् । ब्राह्मणाः मानवाः तेषाम् साङ्गम् वेदम् अदीधरन् ॥१२॥
tatra abhavat tadā rājan brahma kṣatreṇa saṅgatam . brāhmaṇāḥ mānavāḥ teṣām sāṅgam vedam adīdharan ..12..
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च । करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ॥१३॥
वेनम् धृष्णुम् नरिष्यन्तम् नाभाग-इक्ष्वाकुम् एव च । करूषम् अथ शर्यातिम् तथा एव अत्र अष्टमीम् इलाम् ॥१३॥
venam dhṛṣṇum nariṣyantam nābhāga-ikṣvākum eva ca . karūṣam atha śaryātim tathā eva atra aṣṭamīm ilām ..13..
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् । नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ॥१४॥
पृषध्र-नवमान् आहुः क्षत्र-धर्म-परायणान् । नाभागारिष्ट-दशमात् मनोः पुत्रान् महा-बलान् ॥१४॥
pṛṣadhra-navamān āhuḥ kṣatra-dharma-parāyaṇān . nābhāgāriṣṭa-daśamāt manoḥ putrān mahā-balān ..14..
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ । अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ॥१५॥
पञ्चाशतम् मनोः पुत्राः तथा एव अन्ये अभवन् क्षितौ । अन्योन्य-भेदात् ते सर्वे विनेशुः इति नः श्रुतम् ॥१५॥
pañcāśatam manoḥ putrāḥ tathā eva anye abhavan kṣitau . anyonya-bhedāt te sarve vineśuḥ iti naḥ śrutam ..15..
पुरूरवास्ततो विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ॥१६॥
पुरूरवाः ततस् विद्वान् अनिलायाम् समपद्यत । सा वै तस्य अभवत् माता पिता च इति हि नः श्रुतम् ॥१६॥
purūravāḥ tatas vidvān anilāyām samapadyata . sā vai tasya abhavat mātā pitā ca iti hi naḥ śrutam ..16..
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः । अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ॥१७॥
त्रयोदश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः । अमानुषैः वृतः सत्त्वैः मानुषः सन् महा-यशाः ॥१७॥
trayodaśa samudrasya dvīpān aśnan purūravāḥ . amānuṣaiḥ vṛtaḥ sattvaiḥ mānuṣaḥ san mahā-yaśāḥ ..17..
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः । जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥१८॥
विप्रैः स विग्रहम् चक्रे वीर्य-उन्मत्तः पुरूरवाः । जहार च स विप्राणाम् रत्नानि उत्क्रोशताम् अपि ॥१८॥
vipraiḥ sa vigraham cakre vīrya-unmattaḥ purūravāḥ . jahāra ca sa viprāṇām ratnāni utkrośatām api ..18..
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह । अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ॥१९॥
सनत्कुमारः तम् राजन् ब्रह्म-लोकात् उपेत्य ह । ततस् चक्रे प्रत्यगृह्णात् न च अपि असौ ॥१९॥
sanatkumāraḥ tam rājan brahma-lokāt upetya ha . tatas cakre pratyagṛhṇāt na ca api asau ..19..
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत । लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ॥२०॥
ततस् महा-ऋषिभिः क्रुद्धैः शप्तः सद्यस् व्यनश्यत । लोभ-अन्वितः मद-बलात् नष्ट-सञ्ज्ञः नराधिपः ॥२०॥
tatas mahā-ṛṣibhiḥ kruddhaiḥ śaptaḥ sadyas vyanaśyata . lobha-anvitaḥ mada-balāt naṣṭa-sañjñaḥ narādhipaḥ ..20..
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ॥२१॥
स हि गन्धर्व-लोक-स्थः उर्वश्या सहितः विराज् । आनिनाय क्रिया-अर्थे अग्नीन् यथावत् विहितान् त्रिधा ॥२१॥
sa hi gandharva-loka-sthaḥ urvaśyā sahitaḥ virāj . ānināya kriyā-arthe agnīn yathāvat vihitān tridhā ..21..
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ॥२२॥
षट् पुत्राः जज्ञिरे अथ ऐलात् आयुः धीमान् अमावसुः । दृढायुः च वनायुः च श्रुतायुः च उर्वशी-सुताः ॥२२॥
ṣaṭ putrāḥ jajñire atha ailāt āyuḥ dhīmān amāvasuḥ . dṛḍhāyuḥ ca vanāyuḥ ca śrutāyuḥ ca urvaśī-sutāḥ ..22..
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् । स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ॥२३॥
नहुषम् वृद्ध-शर्माणम् रजिम् रम्भम् अनेनसम् । स्वर्भानवी-सुतान् एतान् आयोः पुत्रान् प्रचक्षते ॥२३॥
nahuṣam vṛddha-śarmāṇam rajim rambham anenasam . svarbhānavī-sutān etān āyoḥ putrān pracakṣate ..23..
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः । राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ॥२४॥
आयुषः नहुषः पुत्रः धीमान् सत्य-पराक्रमः । राज्यम् शशास सु महत् धर्मेण पृथिवीपतिः ॥२४॥
āyuṣaḥ nahuṣaḥ putraḥ dhīmān satya-parākramaḥ . rājyam śaśāsa su mahat dharmeṇa pṛthivīpatiḥ ..24..
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् । नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥२५॥
पितृन् देवान् ऋषीन् विप्रान् गन्धर्व-उरग-राक्षसान् । नहुषः पालयामास ब्रह्म-क्षत्रम् अथो विशः ॥२५॥
pitṛn devān ṛṣīn viprān gandharva-uraga-rākṣasān . nahuṣaḥ pālayāmāsa brahma-kṣatram atho viśaḥ ..25..
स हत्वा दस्युसङ्घातानृषीन्करमदापयत् । पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ॥२६॥
स हत्वा दस्यु-सङ्घातान् ऋषीन् करम् अदापयत् । पशु-वत् च एव तान् पृष्ठे वाहयामास वीर्यवान् ॥२६॥
sa hatvā dasyu-saṅghātān ṛṣīn karam adāpayat . paśu-vat ca eva tān pṛṣṭhe vāhayāmāsa vīryavān ..26..
कारयामास चेन्द्रत्वमभिभूय दिवौकसः । तेजसा तपसा चैव विक्रमेणौजसा तथा ॥२७॥
कारयामास च इन्द्र-त्वम् अभिभूय दिवौकसः । तेजसा तपसा च एव विक्रमेण ओजसा तथा ॥२७॥
kārayāmāsa ca indra-tvam abhibhūya divaukasaḥ . tejasā tapasā ca eva vikrameṇa ojasā tathā ..27..
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् । नहुषो जनयामास षट्पुत्रान्प्रियवाससि ॥२८॥
यतिम् ययातिम् संयातिम् आयातिम् पाञ्चम् उद्धवम् । नहुषः जनयामास षट् पुत्रान् प्रियवाससि ॥२८॥
yatim yayātim saṃyātim āyātim pāñcam uddhavam . nahuṣaḥ janayāmāsa ṣaṭ putrān priyavāsasi ..28..
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः । स पालयामास महीमीजे च विविधैः सवैः ॥२९॥
ययातिः नाहुषः सम्राज् आसीत् सत्य-पराक्रमः । स पालयामास महीम् ईजे च विविधैः सवैः ॥२९॥
yayātiḥ nāhuṣaḥ samrāj āsīt satya-parākramaḥ . sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ ..29..
अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा । अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥३०॥
अतिशक्त्या पितृन् अर्चन् देवान् च प्रयतः सदा । अन्वगृह्णात् प्रजाः सर्वाः ययातिः अपराजितः ॥३०॥
atiśaktyā pitṛn arcan devān ca prayataḥ sadā . anvagṛhṇāt prajāḥ sarvāḥ yayātiḥ aparājitaḥ ..30..
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः । देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥३१॥
तस्य पुत्राः महा-इष्वासाः सर्वैः समुदिताः गुणैः । देवयान्याम् महा-राज शर्मिष्ठायाम् च जज्ञिरे ॥३१॥
tasya putrāḥ mahā-iṣvāsāḥ sarvaiḥ samuditāḥ guṇaiḥ . devayānyām mahā-rāja śarmiṣṭhāyām ca jajñire ..31..
देवयान्यामजायेतां यदुस्तुर्वसुरेव च । द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥३२॥
देवयान्याम् अजायेताम् यदुः तुर्वसुः एव च । द्रुह्युः च अनुः च पूरुः च शर्मिष्ठायाम् प्रजज्ञिरे ॥३२॥
devayānyām ajāyetām yaduḥ turvasuḥ eva ca . druhyuḥ ca anuḥ ca pūruḥ ca śarmiṣṭhāyām prajajñire ..32..
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् । जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥३३॥
स शाश्वतीः समाः राजन् प्रजाः धर्मेण पालयन् । जराम् आर्छत् महा-घोराम् नाहुषः रूप-नाशिनीम् ॥३३॥
sa śāśvatīḥ samāḥ rājan prajāḥ dharmeṇa pālayan . jarām ārchat mahā-ghorām nāhuṣaḥ rūpa-nāśinīm ..33..
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥३४॥
जरा-अभिभूतः पुत्रान् स राजा वचनम् अब्रवीत् । यदुम् पूरुम् तुर्वसुम् च द्रुह्युम् च अनुम् च भारत ॥३४॥
jarā-abhibhūtaḥ putrān sa rājā vacanam abravīt . yadum pūrum turvasum ca druhyum ca anum ca bhārata ..34..
यौवनेन चरन्कामान्युवा युवतिभिः सह । विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥३५॥
यौवनेन चरन् कामान् युवा युवतिभिः सह । विहर्तुम् अहम् इच्छामि साह्यम् कुरुत पुत्रकाः ॥३५॥
yauvanena caran kāmān yuvā yuvatibhiḥ saha . vihartum aham icchāmi sāhyam kuruta putrakāḥ ..35..
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ॥३६॥
तम् पुत्रः देवयानेयः पूर्वजः यदुः अब्रवीत् । किम् कार्यम् भवतः कार्यम् अस्माभिः यौवनेन च ॥३६॥
tam putraḥ devayāneyaḥ pūrvajaḥ yaduḥ abravīt . kim kāryam bhavataḥ kāryam asmābhiḥ yauvanena ca ..36..
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३७॥
ययातिः अब्रवीत् तम् वै जरा मे प्रतिगृह्यताम् । यौवनेन त्वदीयेन चरेयम् विषयान् अहम् ॥३७॥
yayātiḥ abravīt tam vai jarā me pratigṛhyatām . yauvanena tvadīyena careyam viṣayān aham ..37..
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ॥३८॥
यजतः दीर्घ-सत्रैः मे शापात् च उशनसः मुनेः । काम-अर्थः परिहीणः मे तप्ये अहम् तेन पुत्रकाः ॥३८॥
yajataḥ dīrgha-satraiḥ me śāpāt ca uśanasaḥ muneḥ . kāma-arthaḥ parihīṇaḥ me tapye aham tena putrakāḥ ..38..
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥३९॥
मामकेन शरीरेण राज्यम् एकः प्रशास्तु वः । अहम् तन्वा अभिनवया युवा कामान् अवाप्नुयाम् ॥३९॥
māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ . aham tanvā abhinavayā yuvā kāmān avāpnuyām ..39..
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् । तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥४०॥
न ते तस्य प्रत्यगृह्णन् यदु-प्रभृतयः जराम् । तम् अब्रवीत् ततस् पूरुः कनीयान् सत्य-विक्रमः ॥४०॥
na te tasya pratyagṛhṇan yadu-prabhṛtayaḥ jarām . tam abravīt tatas pūruḥ kanīyān satya-vikramaḥ ..40..
राजंश्चराभिनवया तन्वा यौवनगोचरः । अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ॥४१॥
राजन् चर अभिनवया तन्वा यौवन-गोचरः । अहम् जराम् समास्थाय राज्ये स्थास्यामि ते आज्ञया ॥४१॥
rājan cara abhinavayā tanvā yauvana-gocaraḥ . aham jarām samāsthāya rājye sthāsyāmi te ājñayā ..41..
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् । सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥४२॥
एवम् उक्तः स राजर्षिः तपः-वीर्य-समाश्रयात् । सञ्चारयामास जराम् तदा पुत्रे महात्मनि ॥४२॥
evam uktaḥ sa rājarṣiḥ tapaḥ-vīrya-samāśrayāt . sañcārayāmāsa jarām tadā putre mahātmani ..42..
पौरवेणाथ वयसा राजा यौवनमास्थितः । यायातेनापि वयसा राज्यं पूरुरकारयत् ॥४३॥
पौरवेण अथ वयसा राजा यौवनम् आस्थितः । यायातेन अपि वयसा राज्यम् पूरुः अकारयत् ॥४३॥
pauraveṇa atha vayasā rājā yauvanam āsthitaḥ . yāyātena api vayasā rājyam pūruḥ akārayat ..43..
ततो वर्षसहस्रान्ते ययातिरपराजितः । अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥४४॥
ततस् वर्ष-सहस्र-अन्ते ययातिः अपराजितः । अतृप्तः एव कामानाम् पूरुम् पुत्रम् उवाच ह ॥४४॥
tatas varṣa-sahasra-ante yayātiḥ aparājitaḥ . atṛptaḥ eva kāmānām pūrum putram uvāca ha ..44..
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः । पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥४५॥
त्वया दायादवान् अस्मि त्वम् मे वंश-करः सुतः । पौरवः वंशः इति ते ख्यातिम् लोके गमिष्यति ॥४५॥
tvayā dāyādavān asmi tvam me vaṃśa-karaḥ sutaḥ . pauravaḥ vaṃśaḥ iti te khyātim loke gamiṣyati ..45..
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च । कालेन महता पश्चात्कालधर्ममुपेयिवान् ॥४६॥1.75.58
ततस् स नृप-शार्दूलः पूरुम् राज्ये अभिषिच्य च । कालेन महता पश्चात् कालधर्मम् उपेयिवान् ॥४६॥१।७५।५८
tatas sa nṛpa-śārdūlaḥ pūrum rājye abhiṣicya ca . kālena mahatā paścāt kāladharmam upeyivān ..46..1.75.58

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In