| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः । कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥१॥
ययातिः पूर्वकः अस्माकम् दशमः यः प्रजापतेः । कथम् स शुक्र-तनयाम् लेभे परम-दुर्लभाम् ॥१॥
yayātiḥ pūrvakaḥ asmākam daśamaḥ yaḥ prajāpateḥ . katham sa śukra-tanayām lebhe parama-durlabhām ..1..
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम । आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ॥२॥
एतत् इच्छामि अहम् श्रोतुम् विस्तरेण द्विजोत्तम । आनुपूर्व्या च मे शंस पूरोः वंश-करान् पृथक् ॥२॥
etat icchāmi aham śrotum vistareṇa dvijottama . ānupūrvyā ca me śaṃsa pūroḥ vaṃśa-karān pṛthak ..2..
वैशम्पायन उवाच॥
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः । तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥३॥
ययातिः आसीत् राजर्षिः देवराज-सम-द्युतिः । तम् शुक्र-वृषपर्वाणौ वव्राते वै यथा पुरा ॥३॥
yayātiḥ āsīt rājarṣiḥ devarāja-sama-dyutiḥ . tam śukra-vṛṣaparvāṇau vavrāte vai yathā purā ..3..
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय । देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥४॥
तत् ते अहम् सम्प्रवक्ष्यामि पृच्छतः जनमेजय । देवयान्याः च संयोगम् ययातेः नाहुषस्य च ॥४॥
tat te aham sampravakṣyāmi pṛcchataḥ janamejaya . devayānyāḥ ca saṃyogam yayāteḥ nāhuṣasya ca ..4..
सुराणामसुराणां च समजायत वै मिथः । ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ॥५॥
सुराणाम् असुराणाम् च समजायत वै मिथस् । ऐश्वर्यम् प्रति सङ्घर्षः त्रैलोक्ये सचराचरे ॥५॥
surāṇām asurāṇām ca samajāyata vai mithas . aiśvaryam prati saṅgharṣaḥ trailokye sacarācare ..5..
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् । पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥६॥ ( ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ॥६॥ )
जिगीषया ततस् देवाः वव्रिरे आङ्गिरसम् मुनिम् । पौरोहित्येन याज्य-अर्थे काव्यम् तु उशनसम् परे ॥६॥ ( ब्राह्मणौ तौ उभौ नित्यम् अन्योन्य-स्पर्धिनौ भृशम् ॥६॥ )
jigīṣayā tatas devāḥ vavrire āṅgirasam munim . paurohityena yājya-arthe kāvyam tu uśanasam pare ..6.. ( brāhmaṇau tau ubhau nityam anyonya-spardhinau bhṛśam ..6.. )
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् । तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ॥७॥ ( ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ॥७॥ )
तत्र देवाः निजघ्नुः यान् दानवान् युधि सङ्गतान् । तान् पुनर् जीवयामास काव्यः विद्या-बल-आश्रयात् ॥७॥ ( ततस् ते पुनर् उत्थाय योधयाम् चक्रिरे सुरान् ॥७॥ )
tatra devāḥ nijaghnuḥ yān dānavān yudhi saṅgatān . tān punar jīvayāmāsa kāvyaḥ vidyā-bala-āśrayāt ..7.. ( tatas te punar utthāya yodhayām cakrire surān ..7.. )
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि । न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥८॥
असुराः तु निजघ्नुः यान् सुरान् समर-मूर्धनि । न तान् सञ्जीवयामास बृहस्पतिः उदार-धीः ॥८॥
asurāḥ tu nijaghnuḥ yān surān samara-mūrdhani . na tān sañjīvayāmāsa bṛhaspatiḥ udāra-dhīḥ ..8..
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । सञ्जीवनीं ततो देवा विषादमगमन्परम् ॥९॥
न हि वेद स ताम् विद्याम् याम् काव्यः वेद वीर्यवान् । सञ्जीवनीम् ततस् देवाः विषादम् अगमन् परम् ॥९॥
na hi veda sa tām vidyām yām kāvyaḥ veda vīryavān . sañjīvanīm tatas devāḥ viṣādam agaman param ..9..
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥१०॥
ते तु देवाः भय-उद्विग्नाः काव्यात् उशनसः तदा । ऊचुः कचम् उपागम्य ज्येष्ठम् पुत्रम् बृहस्पतेः ॥१०॥
te tu devāḥ bhaya-udvignāḥ kāvyāt uśanasaḥ tadā . ūcuḥ kacam upāgamya jyeṣṭham putram bṛhaspateḥ ..10..
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् । यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ॥११॥ ( शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥११॥ )
भजमानान् भजस्व अस्मान् कुरु नः साह्यम् उत्तमम् । या असौ विद्या निवसति ब्राह्मणे अमित-तेजसि ॥११॥ ( शुक्रे ताम् आहर क्षिप्रम् भाग-भाज् नः भविष्यसि ॥११॥ )
bhajamānān bhajasva asmān kuru naḥ sāhyam uttamam . yā asau vidyā nivasati brāhmaṇe amita-tejasi ..11.. ( śukre tām āhara kṣipram bhāga-bhāj naḥ bhaviṣyasi ..11.. )
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः । रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ॥१२॥
वृषपर्व-समीपे स शक्यः द्रष्टुम् त्वया द्विजः । रक्षते दानवान् तत्र न स रक्षति अदानवान् ॥१२॥
vṛṣaparva-samīpe sa śakyaḥ draṣṭum tvayā dvijaḥ . rakṣate dānavān tatra na sa rakṣati adānavān ..12..
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् । देवयानीं च दयितां सुतां तस्य महात्मनः ॥१३॥
तम् आराधयितुम् शक्तः भवान् पूर्व-वयाः कविम् । देवयानीम् च दयिताम् सुताम् तस्य महात्मनः ॥१३॥
tam ārādhayitum śaktaḥ bhavān pūrva-vayāḥ kavim . devayānīm ca dayitām sutām tasya mahātmanaḥ ..13..
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते । शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ॥१४॥ ( देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥१४॥ )
त्वम् आराधयितुम् शक्तः न अन्यः कश्चन विद्यते । शील-दाक्षिण्य-माधुर्यैः आचारेण दमेन च ॥१४॥ ( देवयान्याम् हि तुष्टायाम् विद्याम् ताम् प्राप्स्यसि ध्रुवम् ॥१४॥ )
tvam ārādhayitum śaktaḥ na anyaḥ kaścana vidyate . śīla-dākṣiṇya-mādhuryaiḥ ācāreṇa damena ca ..14.. ( devayānyām hi tuṣṭāyām vidyām tām prāpsyasi dhruvam ..14.. )
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः । तदाभिपूजितो देवैः समीपं वृषपर्वणः ॥१५॥
तथा इति उक्त्वा ततस् प्रायात् बृहस्पति-सुतः कचः । तदा अभिपूजितः देवैः समीपम् वृषपर्वणः ॥१५॥
tathā iti uktvā tatas prāyāt bṛhaspati-sutaḥ kacaḥ . tadā abhipūjitaḥ devaiḥ samīpam vṛṣaparvaṇaḥ ..15..
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः । असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥१६॥
स गत्वा त्वरितः राजन् देवैः सम्प्रेषितः कचः । असुर-इन्द्र-पुरे शुक्रम् दृष्ट्वा वाक्यम् उवाच ह ॥१६॥
sa gatvā tvaritaḥ rājan devaiḥ sampreṣitaḥ kacaḥ . asura-indra-pure śukram dṛṣṭvā vākyam uvāca ha ..16..
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ॥१७॥
ऋषेः अङ्गिरसः पौत्रम् पुत्रम् साक्षात् बृहस्पतेः । नाम्ना कचः इति ख्यातम् शिष्यम् गृह्णातु माम् भवान् ॥१७॥
ṛṣeḥ aṅgirasaḥ pautram putram sākṣāt bṛhaspateḥ . nāmnā kacaḥ iti khyātam śiṣyam gṛhṇātu mām bhavān ..17..
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ । अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥१८॥
ब्रह्मचर्यम् चरिष्यामि त्वयि अहम् परमम् गुरौ । अनुमन्यस्व माम् ब्रह्मन् सहस्रम् परिवत्सरान् ॥१८॥
brahmacaryam cariṣyāmi tvayi aham paramam gurau . anumanyasva mām brahman sahasram parivatsarān ..18..
शुक्र उवाच॥
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥१९॥
कच सुस्वागतम् ते अस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्ये अहम् अर्च्यम् त्वाम् अर्चितः अस्तु बृहस्पतिः ॥१९॥
kaca susvāgatam te astu pratigṛhṇāmi te vacaḥ . arcayiṣye aham arcyam tvām arcitaḥ astu bṛhaspatiḥ ..19..
वैशम्पायन उवाच॥
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥२०॥
कचः तु तम् तथा इति उक्त्वा प्रतिजग्राह तत् व्रतम् । आदिष्टम् कवि-पुत्रेण शुक्रेण उशनसा स्वयम् ॥२०॥
kacaḥ tu tam tathā iti uktvā pratijagrāha tat vratam . ādiṣṭam kavi-putreṇa śukreṇa uśanasā svayam ..20..
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवयानीं च भारत ॥२१॥
व्रतस्य व्रत-कालम् स यथोक्तम् प्रत्यगृह्णत । आराधयन् उपाध्यायम् देवयानीम् च भारत ॥२१॥
vratasya vrata-kālam sa yathoktam pratyagṛhṇata . ārādhayan upādhyāyam devayānīm ca bhārata ..21..
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे । गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥२२॥
नित्यम् आराधयिष्यन् ताम् युवा । गायन् नृत्यन् वादयन् च देवयानीम् अतोषयत् ॥२२॥
nityam ārādhayiṣyan tām yuvā . gāyan nṛtyan vādayan ca devayānīm atoṣayat ..22..
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥२३॥
संशीलयन् देवयानीम् कन्याम् सम्प्राप्त-यौवनाम् । पुष्पैः फलैः प्रेषणैः च तोषयामास भारत ॥२३॥
saṃśīlayan devayānīm kanyām samprāpta-yauvanām . puṣpaiḥ phalaiḥ preṣaṇaiḥ ca toṣayāmāsa bhārata ..23..
देवयान्यपि तं विप्रं नियमव्रतचारिणम् । अनुगायमाना ललना रहः पर्यचरत्तदा ॥२४॥
देवयानी अपि तम् विप्रम् नियम-व्रत-चारिणम् । अनुगायमाना ललना रहः पर्यचरत् तदा ॥२४॥
devayānī api tam vipram niyama-vrata-cāriṇam . anugāyamānā lalanā rahaḥ paryacarat tadā ..24..
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् । तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥२५॥
पञ्च वर्ष-शतानि एवम् कचस्य चरतः व्रतम् । तत्र अतीयुः अथो बुद्ध्वा दानवाः तम् ततस् कचम् ॥२५॥
pañca varṣa-śatāni evam kacasya carataḥ vratam . tatra atīyuḥ atho buddhvā dānavāḥ tam tatas kacam ..25..
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः । जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥२६॥ ( हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ॥२६॥ )
गाः रक्षन्तम् वने दृष्ट्वा रहसि एकम् अमर्षिताः । जघ्नुः बृहस्पतेः द्वेषात् विद्या-रक्षा-अर्थम् एव च ॥२६॥ ( हत्वा शालावृकेभ्यः च प्रायच्छन् तिलशस् कृतम् ॥२६॥ )
gāḥ rakṣantam vane dṛṣṭvā rahasi ekam amarṣitāḥ . jaghnuḥ bṛhaspateḥ dveṣāt vidyā-rakṣā-artham eva ca ..26.. ( hatvā śālāvṛkebhyaḥ ca prāyacchan tilaśas kṛtam ..26.. )
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् । ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ॥२७॥ ( उवाच वचनं काले देवयान्यथ भारत ॥२७॥ )
ततस् गावः निवृत्ताः ताः अगोपाः स्वम् निवेशनम् । ताः दृष्ट्वा रहिताः गाः तु कचेन अभ्यागताः वनात् ॥२७॥ ( उवाच वचनम् काले देवयानी अथ भारत ॥२७॥ )
tatas gāvaḥ nivṛttāḥ tāḥ agopāḥ svam niveśanam . tāḥ dṛṣṭvā rahitāḥ gāḥ tu kacena abhyāgatāḥ vanāt ..27.. ( uvāca vacanam kāle devayānī atha bhārata ..27.. )
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । अगोपाश्चागता गावः कचस्तात न दृश्यते ॥२८॥
अहुतम् च अग्निहोत्रम् ते सूर्यः च अस्तम् गतः प्रभो । अगोपाः च आगताः गावः कचः तात न दृश्यते ॥२८॥
ahutam ca agnihotram te sūryaḥ ca astam gataḥ prabho . agopāḥ ca āgatāḥ gāvaḥ kacaḥ tāta na dṛśyate ..28..
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥२९॥
व्यक्तम् हतः मृतः वा अपि कचः तात भविष्यति । तम् विना न च जीवेयम् कचम् सत्यम् ब्रवीमि ते ॥२९॥
vyaktam hataḥ mṛtaḥ vā api kacaḥ tāta bhaviṣyati . tam vinā na ca jīveyam kacam satyam bravīmi te ..29..
शुक्र उवाच॥
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् । 30॥
अयम् एहि इति शब्देन मृतम् सञ्जीवयामि अहम् । ३०॥
ayam ehi iti śabdena mṛtam sañjīvayāmi aham . 30..
वैशम्पायन उवाच
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् । आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ॥३१॥ ( हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ॥३१॥ )
ततस् सञ्जीवनीम् विद्याम् प्रयुज्य कचम् आह्वयत् । आहूतः प्रादुरभवत् कचः अरिष्टः अथ विद्यया ॥३१॥ ( हतः अहम् इति च आचख्यौ पृष्टः ब्राह्मण-कन्यया ॥३१॥ )
tatas sañjīvanīm vidyām prayujya kacam āhvayat . āhūtaḥ prādurabhavat kacaḥ ariṣṭaḥ atha vidyayā ..31.. ( hataḥ aham iti ca ācakhyau pṛṣṭaḥ brāhmaṇa-kanyayā ..31.. )
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया । वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ॥३२॥
स पुनर् देवयान्या उक्तः पुष्प-आहारः यदृच्छया । वनम् ययौ ततस् विप्रः ददृशुः दानवाः च तम् ॥३२॥
sa punar devayānyā uktaḥ puṣpa-āhāraḥ yadṛcchayā . vanam yayau tatas vipraḥ dadṛśuḥ dānavāḥ ca tam ..32..
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः । प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ॥३३॥
ततस् द्वितीयम् हत्वा तम् दग्ध्वा कृत्वा च चूर्णशस् । प्रायच्छन् ब्राह्मणाय एव सुरायाम् असुराः तदा ॥३३॥
tatas dvitīyam hatvā tam dagdhvā kṛtvā ca cūrṇaśas . prāyacchan brāhmaṇāya eva surāyām asurāḥ tadā ..33..
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् । पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥३४॥
देवयानी अथ भूयस् अपि वाक्यम् पितरम् अब्रवीत् । पुष्प-आहारः प्रेषण-कृत्-कचः तात न दृश्यते ॥३४॥
devayānī atha bhūyas api vākyam pitaram abravīt . puṣpa-āhāraḥ preṣaṇa-kṛt-kacaḥ tāta na dṛśyate ..34..
शुक्र उवाच॥
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥३५॥
बृहस्पतेः सुतः पुत्रि कचः प्रेत-गतिम् गतः । विद्यया जीवितः अपि एवम् हन्यते करवाणि किम् ॥३५॥
bṛhaspateḥ sutaḥ putri kacaḥ preta-gatim gataḥ . vidyayā jīvitaḥ api evam hanyate karavāṇi kim ..35..
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् । सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ॥३६॥
मा एवम् शुचः मा रुद देवयानि; न त्वादृशी मर्त्यम् अनुप्रशोचेत् । सुराः च विश्वे च जगत् च सर्व; मुपस्थिताम् वैकृतिम् आनमन्ति ॥३६॥
mā evam śucaḥ mā ruda devayāni; na tvādṛśī martyam anupraśocet . surāḥ ca viśve ca jagat ca sarva; mupasthitām vaikṛtim ānamanti ..36..
देवयान्युवाच॥
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः । ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ॥३७॥
यस्य अङ्गिराः वृद्धतमः; बृहस्पतिः च अपि पिता तपोधनः । ऋषेः पुत्रम् तम् अथो वा अपि पौत्रम्; कथम् न शोचेयम् अहम् न रुद्याम् ॥३७॥
yasya aṅgirāḥ vṛddhatamaḥ; bṛhaspatiḥ ca api pitā tapodhanaḥ . ṛṣeḥ putram tam atho vā api pautram; katham na śoceyam aham na rudyām ..37..
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः । कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ॥३८॥
स ब्रह्मचारी च तपोधनः च; सदा उत्थितः कर्मसु च एव दक्षः । कचस्य मार्गम् प्रतिपत्स्ये न भोक्ष्ये; प्रियः हि मे तात कचः अभिरूपः ॥३८॥
sa brahmacārī ca tapodhanaḥ ca; sadā utthitaḥ karmasu ca eva dakṣaḥ . kacasya mārgam pratipatsye na bhokṣye; priyaḥ hi me tāta kacaḥ abhirūpaḥ ..38..
शुक्र उवाच॥
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति । अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ॥३९॥ ( अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ॥३९॥ )
असंशयम् माम् असुराः द्विषन्ति; ये मे शिष्यम् नागसम् सूदयन्ति । अ ब्राह्मणम् कर्तुम् इच्छन्ति रौद्रा; स्ते माम् यथा प्रस्तुतम् दानवैः हि ॥३९॥ ( अपि अस्य पापस्य भवेत् इह अन्तः; कम् ब्रह्महत्या न दहेत् अपि इन्द्रम् ॥३९॥ )
asaṃśayam mām asurāḥ dviṣanti; ye me śiṣyam nāgasam sūdayanti . a brāhmaṇam kartum icchanti raudrā; ste mām yathā prastutam dānavaiḥ hi ..39.. ( api asya pāpasya bhavet iha antaḥ; kam brahmahatyā na dahet api indram ..39.. )
वैशम्पायन उवाच॥
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् । संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥४०॥
सञ्चोदितः देवयान्या महा-ऋषिः पुनर् आह्वयत् । संरम्भेण एव काव्यः हि बृहस्पति-सुतम् कचम् ॥४०॥
sañcoditaḥ devayānyā mahā-ṛṣiḥ punar āhvayat . saṃrambheṇa eva kāvyaḥ hi bṛhaspati-sutam kacam ..40..
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार । तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ॥४१॥
गुरोः भीतः विद्यया च उपहूतः; शनैस् वाचम् जठरे व्याजहार । तम् अब्रवीत् केन पथा उपनीतः; मम उदरे तिष्ठसि ब्रूहि विप्र ॥४१॥
guroḥ bhītaḥ vidyayā ca upahūtaḥ; śanais vācam jaṭhare vyājahāra . tam abravīt kena pathā upanītaḥ; mama udare tiṣṭhasi brūhi vipra ..41..
कच उवाच॥
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ॥४२॥
भवत्-प्रसादात् न जहाति माम् स्मृतिः; स्मरे च सर्वम् यत् च यथा च वृत्तम् । न तु एवम् स्यात् तपसः व्ययः मे; ततस् क्लेशम् घोरम् इमम् सहामि ॥४२॥
bhavat-prasādāt na jahāti mām smṛtiḥ; smare ca sarvam yat ca yathā ca vṛttam . na tu evam syāt tapasaḥ vyayaḥ me; tatas kleśam ghoram imam sahāmi ..42..
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ॥४३॥
असुरैः सुरायाम् भवतः अस्मि दत्तः; हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीम् मायाम् आसुरी च एव माया; त्वयि स्थिते कथम् एव अतिवर्तेत् ॥४३॥
asuraiḥ surāyām bhavataḥ asmi dattaḥ; hatvā dagdhvā cūrṇayitvā ca kāvya . brāhmīm māyām āsurī ca eva māyā; tvayi sthite katham eva ativartet ..43..
शुक्र उवाच॥
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य । नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ॥४४॥
किम् ते प्रियम् करवाणि अद्य वत्से; वधेन मे जीवितम् स्यात् कचस्य । न अन्यत्र कुक्षेः मम भेदनेन; दृश्येत् कचः मद्-गतः देवयानि ॥४४॥
kim te priyam karavāṇi adya vatse; vadhena me jīvitam syāt kacasya . na anyatra kukṣeḥ mama bhedanena; dṛśyet kacaḥ mad-gataḥ devayāni ..44..
देवयान्युवाच॥
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ॥४५॥
द्वौ माम् शोकौ अग्नि-कल्पौ दहेताम्; कचस्य नाशः तव च एव उपघातः । कचस्य नाशे मम ना अस्ति शर्म; तव उपघाते जीवितुम् न अस्मि शक्ता ॥४५॥
dvau mām śokau agni-kalpau dahetām; kacasya nāśaḥ tava ca eva upaghātaḥ . kacasya nāśe mama nā asti śarma; tava upaghāte jīvitum na asmi śaktā ..45..
शुक्र उवाच॥
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ॥४६॥
संसिद्ध-रूपः असि बृहस्पतेः सुत; यत् त्वाम् भक्तम् भजते देवयानी । विद्याम् इमाम् प्राप्नुहि जीवनीम् त्वम्; न चेद् इन्द्रः कच-रूपी त्वम् अद्य ॥४६॥
saṃsiddha-rūpaḥ asi bṛhaspateḥ suta; yat tvām bhaktam bhajate devayānī . vidyām imām prāpnuhi jīvanīm tvam; na ced indraḥ kaca-rūpī tvam adya ..46..
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् । ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥४७॥
न निवर्तेत् पुनर् जीवन् कश्चिद् अन्यः मम उदरात् । ब्राह्मणम् वर्जयित्वा एकम् तस्मात् विद्याम् अवाप्नुहि ॥४७॥
na nivartet punar jīvan kaścid anyaḥ mama udarāt . brāhmaṇam varjayitvā ekam tasmāt vidyām avāpnuhi ..47..
पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात । समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥४८॥
पुत्रः भूत्वा भावय भावितः मा; मस्मात् देहात् उपनिष्क्रम्य तात । समीक्षेथाः धर्मवतीम् अवेक्षाम्; गुरोः सकाशात् प्राप्य विद्याम् सविद्यः ॥४८॥
putraḥ bhūtvā bhāvaya bhāvitaḥ mā; masmāt dehāt upaniṣkramya tāta . samīkṣethāḥ dharmavatīm avekṣām; guroḥ sakāśāt prāpya vidyām savidyaḥ ..48..
वैशम्पायन उवाच॥
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः । कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥४९॥
गुरोः सकाशात् समवाप्य विद्याम्; भित्त्वा कुक्षिम् निर्विचक्राम विप्रः । कचः अभिरूपः दक्षिणम् ब्राह्मणस्य; शुक्ल-अत्यये पौर्णमास्याम् इव इन्दुः ॥४९॥
guroḥ sakāśāt samavāpya vidyām; bhittvā kukṣim nirvicakrāma vipraḥ . kacaḥ abhirūpaḥ dakṣiṇam brāhmaṇasya; śukla-atyaye paurṇamāsyām iva induḥ ..49..
दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ॥५०॥
दृष्ट्वा च तम् पतितम् ब्रह्मराशि; मृतम् कचः अपि । विद्याम् सिद्धाम् ताम् अवाप्य अभिवाद्य; ततस् कचः तम् गुरुम् इति उवाच ॥५०॥
dṛṣṭvā ca tam patitam brahmarāśi; mṛtam kacaḥ api . vidyām siddhām tām avāpya abhivādya; tatas kacaḥ tam gurum iti uvāca ..50..
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् । ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ॥५१॥ 1.76.64
ऋतस्य दातारम् अनुत्तमस्य; निधिम् निधीनाम् चतुर्-अन्वयानाम् । ये न आद्रियन्ते गुरुम् अर्चनीयम्; पापान् लोकान् ते व्रजन्ति अप्रतिष्ठान् ॥५१॥ १।७६।६४
ṛtasya dātāram anuttamasya; nidhim nidhīnām catur-anvayānām . ye na ādriyante gurum arcanīyam; pāpān lokān te vrajanti apratiṣṭhān ..51.. 1.76.64
वैशम्पायन उवाच॥
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् । दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ॥५२॥
सुरा-पानात् वञ्चनाम् प्रापयित्वा; सञ्ज्ञानाशम् च एव तथा अति घोरम् । दृष्ट्वा कचम् च अपि तथा अभिरूपम्; पीतम् तदा सुरया मोहितेन ॥५२॥
surā-pānāt vañcanām prāpayitvā; sañjñānāśam ca eva tathā ati ghoram . dṛṣṭvā kacam ca api tathā abhirūpam; pītam tadā surayā mohitena ..52..
समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ॥५३॥
समन्युः उत्थाय महा-अनुभाव; स्तदा उशनाः विप्र-हितम् चिकीर्षुः । काव्यः स्वयम् वाक्यम् इदम् जगाद; सुरा-पानम् प्रति वै जात-शङ्कः ॥५३॥
samanyuḥ utthāya mahā-anubhāva; stadā uśanāḥ vipra-hitam cikīrṣuḥ . kāvyaḥ svayam vākyam idam jagāda; surā-pānam prati vai jāta-śaṅkaḥ ..53..
यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ॥५४॥
यः ब्राह्मणः अद्य प्रभृति इह; न् मोहात् सुराम् पास्यति मन्द-बुद्धिः । अपेत-धर्मः ब्रह्म-हा च एव स स्याः; गर्हितः स्यात् परे च ॥५४॥
yaḥ brāhmaṇaḥ adya prabhṛti iha; n mohāt surām pāsyati manda-buddhiḥ . apeta-dharmaḥ brahma-hā ca eva sa syāḥ; garhitaḥ syāt pare ca ..54..
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ॥५५॥
मया च इमाम् विप्र-धर्म-उक्ति-सीमाम्; मर्यादाम् वै स्थापिताम् सर्व-लोके । सन्तः विप्राः शुश्रुवांसः गुरूणाम्; देवाः लोकाः च उपशृण्वन्तु सर्वे ॥५५॥
mayā ca imām vipra-dharma-ukti-sīmām; maryādām vai sthāpitām sarva-loke . santaḥ viprāḥ śuśruvāṃsaḥ gurūṇām; devāḥ lokāḥ ca upaśṛṇvantu sarve ..55..
इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः । तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ॥५६॥
इति इदम् उक्त्वा स महा-अनुभाव; स् तपः-निधीनाम् निधिः अप्रमेयः । तान् दानवान् दैव-विमूढ-बुद्धी; निदम् समाहूय वचः अभ्युवाच ॥५६॥
iti idam uktvā sa mahā-anubhāva; s tapaḥ-nidhīnām nidhiḥ aprameyaḥ . tān dānavān daiva-vimūḍha-buddhī; nidam samāhūya vacaḥ abhyuvāca ..56..
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे । सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ॥५७॥
आचक्षे वः दानवाः बालिशाः स्थ; सिद्धः कचः वत्स्यति मद्-सकाशे । सञ्जीवनीम् प्राप्य विद्याम् महार्थाम्; तुल्य-प्रभावः ब्रह्मणा ब्रह्म-भूतः ॥५७॥
ācakṣe vaḥ dānavāḥ bāliśāḥ stha; siddhaḥ kacaḥ vatsyati mad-sakāśe . sañjīvanīm prāpya vidyām mahārthām; tulya-prabhāvaḥ brahmaṇā brahma-bhūtaḥ ..57..
गुरोरुष्य सकाशे तु दश वर्षशतानि सः । अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥५८॥ 1.76.72
गुरोः उष्य सकाशे तु दश वर्ष-शतानि सः । अनुज्ञातः कचः गन्तुम् इयेष त्रिदशालयम् ॥५८॥ १।७६।७२
guroḥ uṣya sakāśe tu daśa varṣa-śatāni saḥ . anujñātaḥ kacaḥ gantum iyeṣa tridaśālayam ..58.. 1.76.72

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In