| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥१॥
समावृत्त-व्रतम् तम् तु विसृष्टम् गुरुणा तदा । प्रस्थितम् त्रिदश-आवासम् देवयानी अब्रवीत् इदम् ॥१॥
samāvṛtta-vratam tam tu visṛṣṭam guruṇā tadā . prasthitam tridaśa-āvāsam devayānī abravīt idam ..1..
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च । भ्राजसे विद्यया चैव तपसा च दमेन च ॥२॥
ऋषेः अङ्गिरसः पौत्र वृत्तेन अभिजनेन च । भ्राजसे विद्यया च एव तपसा च दमेन च ॥२॥
ṛṣeḥ aṅgirasaḥ pautra vṛttena abhijanena ca . bhrājase vidyayā ca eva tapasā ca damena ca ..2..
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥३॥
ऋषिः यथा अङ्गिराः मान्यः पितुः मम महा-यशाः । तथा मान्यः च पूज्यः च भूयस् मम बृहस्पतिः ॥३॥
ṛṣiḥ yathā aṅgirāḥ mānyaḥ pituḥ mama mahā-yaśāḥ . tathā mānyaḥ ca pūjyaḥ ca bhūyas mama bṛhaspatiḥ ..3..
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥४॥
एवम् ज्ञात्वा विजानीहि यत् ब्रवीमि तपोधन । व्रत-स्थे नियम-उपेते यथा वर्तामि अहम् त्वयि ॥४॥
evam jñātvā vijānīhi yat bravīmi tapodhana . vrata-sthe niyama-upete yathā vartāmi aham tvayi ..4..
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि । गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥५॥
स समावृत्त-विद्यः माम् भक्ताम् भजितुम् अर्हसि । गृहाण पाणिम् विधिवत् मम मन्त्र-पुरस्कृतम् ॥५॥
sa samāvṛtta-vidyaḥ mām bhaktām bhajitum arhasi . gṛhāṇa pāṇim vidhivat mama mantra-puraskṛtam ..5..
कच उवाच॥
पूज्यो मान्यश्च भगवान्यथा तव पिता मम । तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥६॥
पूज्यः मान्यः च भगवान् यथा तव पिता मम । तथा त्वम् अनवद्य-अङ्गि पूजनीयतरा मम ॥६॥
pūjyaḥ mānyaḥ ca bhagavān yathā tava pitā mama . tathā tvam anavadya-aṅgi pūjanīyatarā mama ..6..
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥७॥
आत्म-प्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वम् भद्रे धर्मतः पूज्या गुरु-पुत्री सदा मम ॥७॥
ātma-prāṇaiḥ priyatamā bhārgavasya mahātmanaḥ . tvam bhadre dharmataḥ pūjyā guru-putrī sadā mama ..7..
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥८॥
यथा मम गुरुः नित्यम् मान्यः शुक्रः पिता तव । देवयानि तथा एव त्वम् ना एवम् माम् वक्तुम् अर्हसि ॥८॥
yathā mama guruḥ nityam mānyaḥ śukraḥ pitā tava . devayāni tathā eva tvam nā evam mām vaktum arhasi ..8..
देवयान्युवाच॥
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः । तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥९॥
गुरु-पुत्रस्य पुत्रः वै न तु त्वम् असि मे पितुः । तस्मात् मान्यः च पूज्यः च मम अपि त्वम् द्विजोत्तम ॥९॥
guru-putrasya putraḥ vai na tu tvam asi me pituḥ . tasmāt mānyaḥ ca pūjyaḥ ca mama api tvam dvijottama ..9..
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः । तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥१०॥
असुरैः हन्यमाने च कच त्वयि पुनर् पुनर् । तदा प्रभृति या प्रीतिः ताम् त्वम् एव स्मरस्व मे ॥१०॥
asuraiḥ hanyamāne ca kaca tvayi punar punar . tadā prabhṛti yā prītiḥ tām tvam eva smarasva me ..10..
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥११॥
सौहार्दे च अनुरागे च वेत्थ मे भक्तिम् उत्तमाम् । न माम् अर्हसि धर्म-ज्ञ त्यक्तुम् भक्ताम् अनागसम् ॥११॥
sauhārde ca anurāge ca vettha me bhaktim uttamām . na mām arhasi dharma-jña tyaktum bhaktām anāgasam ..11..
कच उवाच॥
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते । प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥१२॥
अनियोज्ये नियोगे माम् नियुनक्षि शुभ-व्रते । प्रसीद सुभ्रु त्वम् मह्यम् गुरोः गुरुतरी शुभे ॥१२॥
aniyojye niyoge mām niyunakṣi śubha-vrate . prasīda subhru tvam mahyam guroḥ gurutarī śubhe ..12..
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥१३॥
यत्र उषितम् विशाल-अक्षि त्वया चन्द्र-निभ-आनने । तत्र अहम् उषितः भद्रे कुक्षौ काव्यस्य भामिनि ॥१३॥
yatra uṣitam viśāla-akṣi tvayā candra-nibha-ānane . tatra aham uṣitaḥ bhadre kukṣau kāvyasya bhāmini ..13..
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने । सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥१४॥
भगिनी धर्मतः मे त्वम् मा एवम् वोचः शुभ-आनने । सुखम् अस्मि उषितः भद्रे न मन्युः विद्यते मम ॥१४॥
bhaginī dharmataḥ me tvam mā evam vocaḥ śubha-ānane . sukham asmi uṣitaḥ bhadre na manyuḥ vidyate mama ..14..
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ॥१५॥ ( अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥१५॥ )
आपृच्छे त्वाम् गमिष्यामि शिवम् आशंस मे पथि । अविरोधेन धर्मस्य स्मर्तव्यः अस्मि कथा-अन्तरे ॥१५॥ ( अप्रमत्त-उत्थिता नित्यम् आराधय गुरुम् मम ॥१५॥ )
āpṛcche tvām gamiṣyāmi śivam āśaṃsa me pathi . avirodhena dharmasya smartavyaḥ asmi kathā-antare ..15.. ( apramatta-utthitā nityam ārādhaya gurum mama ..15.. )
देवयान्युवाच॥
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः । ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥१६॥
यदि माम् धर्म-काम-अर्थे प्रत्याख्यास्यसि चोदितः । ततस् कच न ते विद्या सिद्धिम् एषा गमिष्यति ॥१६॥
yadi mām dharma-kāma-arthe pratyākhyāsyasi coditaḥ . tatas kaca na te vidyā siddhim eṣā gamiṣyati ..16..
कच उवाच॥
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः । गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥१७॥
गुरु-पुत्री इति कृत्वा अहम् प्रत्याचक्षे न दोषतः । गुरुणा च अभ्यनुज्ञातः कामम् एवम् शपस्व माम् ॥१७॥
guru-putrī iti kṛtvā aham pratyācakṣe na doṣataḥ . guruṇā ca abhyanujñātaḥ kāmam evam śapasva mām ..17..
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया । शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥१८॥
आर्षम् धर्मम् ब्रुवाणः अहम् देवयानि यथा त्वया । शप्तः न अर्हः अस्मि शापस्य कामतः अद्य न धर्मतः ॥१८॥
ārṣam dharmam bruvāṇaḥ aham devayāni yathā tvayā . śaptaḥ na arhaḥ asmi śāpasya kāmataḥ adya na dharmataḥ ..18..
तस्माद्भवत्या यः कामो न तथा स भविष्यति । ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥१९॥
तस्मात् भवत्या यः कामः न तथा स भविष्यति । ऋषि-पुत्रः न ते कश्चिद् जातु पाणिम् ग्रहीष्यति ॥१९॥
tasmāt bhavatyā yaḥ kāmaḥ na tathā sa bhaviṣyati . ṛṣi-putraḥ na te kaścid jātu pāṇim grahīṣyati ..19..
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा । अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥२०॥
फलिष्यति न ते विद्या यत् त्वम् माम् आत्थ तत् तथा । अध्यापयिष्यामि तु यम् तस्य विद्या फलिष्यति ॥२०॥
phaliṣyati na te vidyā yat tvam mām āttha tat tathā . adhyāpayiṣyāmi tu yam tasya vidyā phaliṣyati ..20..
वैशम्पायन उवाच॥
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा । त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥२१॥
एवम् उक्त्वा द्विजश्रेष्ठः देवयानीम् कचः तदा । त्रिदश-ईश-आलयम् शीघ्रम् जगाम द्विजसत्तमः ॥२१॥
evam uktvā dvijaśreṣṭhaḥ devayānīm kacaḥ tadā . tridaśa-īśa-ālayam śīghram jagāma dvijasattamaḥ ..21..
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः । बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥२२॥
तम् आगतम् अभिप्रेक्ष्य देवाः इन्द्र-पुरोगमाः । बृहस्पतिम् सभाज्य इदम् कचम् आहुः मुदा-अन्विताः ॥२२॥
tam āgatam abhiprekṣya devāḥ indra-purogamāḥ . bṛhaspatim sabhājya idam kacam āhuḥ mudā-anvitāḥ ..22..
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् । न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥२३॥1.77.23
यत् त्वम् अस्मद्-हितम् कर्म चकर्थ परम-अद्भुतम् । न ते यशः प्रणशिता भाग-भाज् नः भविष्यसि ॥२३॥१।७७।२३
yat tvam asmad-hitam karma cakartha parama-adbhutam . na te yaśaḥ praṇaśitā bhāga-bhāj naḥ bhaviṣyasi ..23..1.77.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In