| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥१॥
कृत-विद्ये कचे प्राप्ते हृष्ट-रूपाः दिवौकसः । कचात् अधीत्य ताम् विद्याम् कृतार्थाः भरत-ऋषभ ॥१॥
kṛta-vidye kace prāpte hṛṣṭa-rūpāḥ divaukasaḥ . kacāt adhītya tām vidyām kṛtārthāḥ bharata-ṛṣabha ..1..
सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥२॥
सर्वे एव समागम्य शतक्रतुम् अथ अब्रुवन् । कालः ते विक्रमस्य अद्य जहि शत्रून् पुरंदर ॥२॥
sarve eva samāgamya śatakratum atha abruvan . kālaḥ te vikramasya adya jahi śatrūn puraṃdara ..2..
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा । तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥३॥
एवम् उक्तः तु सहितैः त्रिदशैः मघवान् तदा । तथा इति उक्त्वा उपचक्राम सः अपश्यत वने स्त्रियः ॥३॥
evam uktaḥ tu sahitaiḥ tridaśaiḥ maghavān tadā . tathā iti uktvā upacakrāma saḥ apaśyata vane striyaḥ ..3..
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥४॥
क्रीडन्तीनाम् तु कन्यानाम् वने चैत्ररथ-उपमे । वायु-भूतः स वस्त्राणि सर्वाणि एव व्यमिश्रयत् ॥४॥
krīḍantīnām tu kanyānām vane caitraratha-upame . vāyu-bhūtaḥ sa vastrāṇi sarvāṇi eva vyamiśrayat ..4..
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥५॥
ततस् जलात् समुत्तीर्य कन्याः ताः सहिताः तदा । वस्त्राणि जगृहुः तानि यथा आसन्नानि अनेकशस् ॥५॥
tatas jalāt samuttīrya kanyāḥ tāḥ sahitāḥ tadā . vastrāṇi jagṛhuḥ tāni yathā āsannāni anekaśas ..5..
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥६॥
तत्र वासः देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिमिश्रम् अ जानन्ती दुहिता वृषपर्वणः ॥६॥
tatra vāsaḥ devayānyāḥ śarmiṣṭhā jagṛhe tadā . vyatimiśram a jānantī duhitā vṛṣaparvaṇaḥ ..6..
ततस्तयोर्मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥७॥
ततस् तयोः मिथस् तत्र विरोधः समजायत । देवयान्याः च राज-इन्द्र शर्मिष्ठायाः च तद्-कृते ॥७॥
tatas tayoḥ mithas tatra virodhaḥ samajāyata . devayānyāḥ ca rāja-indra śarmiṣṭhāyāḥ ca tad-kṛte ..7..
देवयान्युवाच॥
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥८॥
कस्मात् गृह्णासि मे वस्त्रम् शिष्या भूत्वा मम आसुरि । समुदाचार-हीनायाः न ते श्रेयः भविष्यति ॥८॥
kasmāt gṛhṇāsi me vastram śiṣyā bhūtvā mama āsuri . samudācāra-hīnāyāḥ na te śreyaḥ bhaviṣyati ..8..
शर्मिष्ठोवाच॥
आसीनं च शयानं च पिता ते पितरं मम । स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥९॥
आसीनम् च शयानम् च पिता ते पितरम् मम । स्तौति वन्दति च अभीक्ष्णम् नीचैः स्थित्वा विनीत-वत् ॥९॥
āsīnam ca śayānam ca pitā te pitaram mama . stauti vandati ca abhīkṣṇam nīcaiḥ sthitvā vinīta-vat ..9..
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥१०॥ ( लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥११॥ )
याचतः त्वम् हि दुहिता स्तुवतः प्रतिगृह्णतः । सुता अहम् स्तूयमानस्य ददतः अ प्रतिगृह्णतः ॥१०॥ ( लप्स्यसे प्रतियोद्धारम् न हि त्वाम् गणयामि अहम् ॥११॥ )
yācataḥ tvam hi duhitā stuvataḥ pratigṛhṇataḥ . sutā aham stūyamānasya dadataḥ a pratigṛhṇataḥ ..10.. ( lapsyase pratiyoddhāram na hi tvām gaṇayāmi aham ..11.. )
वैशम्पायन उवाच॥
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥१२॥
समुच्छ्रयम् देवयानीम् गताम् सक्ताम् च वाससि । शर्मिष्ठा प्राक्षिपत् कूपे ततस् स्व-पुरम् आव्रजत् ॥१२॥
samucchrayam devayānīm gatām saktām ca vāsasi . śarmiṣṭhā prākṣipat kūpe tatas sva-puram āvrajat ..12..
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥१३॥
हता इयम् इति विज्ञाय शर्मिष्ठा पाप-निश्चया । अन् अवेक्ष्य ययौ वेश्म क्रोध-वेग-परायणा ॥१३॥
hatā iyam iti vijñāya śarmiṣṭhā pāpa-niścayā . an avekṣya yayau veśma krodha-vega-parāyaṇā ..13..
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥१४॥
अथ तम् देशम् अभ्यागात् ययातिः नहुष-आत्मजः । श्रान्त-युग्यः श्रान्त-हयः मृग-लिप्सुः पिपासितः ॥१४॥
atha tam deśam abhyāgāt yayātiḥ nahuṣa-ātmajaḥ . śrānta-yugyaḥ śrānta-hayaḥ mṛga-lipsuḥ pipāsitaḥ ..14..
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् । ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥१५॥
स नाहुषः प्रेक्षमाणः उदपानम् गत-उदकम् । ददर्श कन्याम् ताम् तत्र दीप्ताम् अग्नि-शिखाम् इव ॥१५॥
sa nāhuṣaḥ prekṣamāṇaḥ udapānam gata-udakam . dadarśa kanyām tām tatra dīptām agni-śikhām iva ..15..
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥१६॥
ताम् अपृच्छत् स दृष्ट्वा एव कन्याम् अमर-वर्णिनीम् । सान्त्वयित्वा नृप-श्रेष्ठः साम्ना परम-वल्गुना ॥१६॥
tām apṛcchat sa dṛṣṭvā eva kanyām amara-varṇinīm . sāntvayitvā nṛpa-śreṣṭhaḥ sāmnā parama-valgunā ..16..
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥१७॥
का त्वम् ताम्र-नखी श्यामा सुमृष्ट-मणि-कुण्डला । दीर्घम् ध्यायसि च अत्यर्थम् कस्मात् श्वसिषि च आतुरा ॥१७॥
kā tvam tāmra-nakhī śyāmā sumṛṣṭa-maṇi-kuṇḍalā . dīrgham dhyāyasi ca atyartham kasmāt śvasiṣi ca āturā ..17..
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥१८॥
कथम् च पतिता असि अस्मिन् कूपे वीरुध्-तृण-आवृते । दुहिता च एव कस्य त्वम् वद सर्वम् सुमध्यमे ॥१८॥
katham ca patitā asi asmin kūpe vīrudh-tṛṇa-āvṛte . duhitā ca eva kasya tvam vada sarvam sumadhyame ..18..
देवयान्युवाच॥
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥१९॥
यः असौ देवैः हतान् दैत्यान् उत्थापयति विद्यया । तस्य शुक्रस्य कन्या अहम् स माम् नूनम् न बुध्यते ॥१९॥
yaḥ asau devaiḥ hatān daityān utthāpayati vidyayā . tasya śukrasya kanyā aham sa mām nūnam na budhyate ..19..
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥२०॥
एष मे दक्षिणः राजन् पाणिः ताम्र-नख-अङ्गुलिः । समुद्धर गृहीत्वा माम् कुलीनः त्वम् हि मे मतः ॥२०॥
eṣa me dakṣiṇaḥ rājan pāṇiḥ tāmra-nakha-aṅguliḥ . samuddhara gṛhītvā mām kulīnaḥ tvam hi me mataḥ ..20..
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥२१॥
जानामि हि त्वाम् संशान्तम् वीर्यवन्तम् यशस्विनम् । तस्मात् माम् पतिताम् अस्मात् कूपात् उद्धर्तुम् अर्हसि ॥२१॥
jānāmi hi tvām saṃśāntam vīryavantam yaśasvinam . tasmāt mām patitām asmāt kūpāt uddhartum arhasi ..21..
वैशम्पायन उवाच॥
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥२२॥
ताम् अथ ब्राह्मणीम् स्त्रीम् च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणौ उज्जहार ततस् अवटात् ॥२२॥
tām atha brāhmaṇīm strīm ca vijñāya nahuṣātmajaḥ . gṛhītvā dakṣiṇe pāṇau ujjahāra tatas avaṭāt ..22..
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥२३॥
उद्धृत्य च एनाम् तरसा तस्मात् कूपात् नराधिपः । आमन्त्रयित्वा सुश्रोणीम् ययातिः स्व-पुरम् ययौ ॥२३॥
uddhṛtya ca enām tarasā tasmāt kūpāt narādhipaḥ . āmantrayitvā suśroṇīm yayātiḥ sva-puram yayau ..23..
देवयान्युवाच॥
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ॥२४॥
त्वरितम् घूर्णिके गच्छ सर्वम् आचक्ष्व मे पितुः । न इदानीम् हि नगरम् वृषपर्वणः ॥२४॥
tvaritam ghūrṇike gaccha sarvam ācakṣva me pituḥ . na idānīm hi nagaram vṛṣaparvaṇaḥ ..24..
वैशम्पायन उवाच॥
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ॥२५॥
सा तु वै त्वरितम् गत्वा घूर्णिका असुर-मन्दिरम् । दृष्ट्वा काव्यम् उवाच इदम् सम्भ्रम-आविष्ट-चेतना ॥२५॥
sā tu vai tvaritam gatvā ghūrṇikā asura-mandiram . dṛṣṭvā kāvyam uvāca idam sambhrama-āviṣṭa-cetanā ..25..
आचक्षे ते महाप्राज्ञ देवयानी वने हता । शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥२६॥
आचक्षे ते महा-प्राज्ञ देवयानी वने हता । शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥२६॥
ācakṣe te mahā-prājña devayānī vane hatā . śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ ..26..
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥२७॥
श्रुत्वा दुहितरम् काव्यः तत्र शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखात् मार्गमाणः सुताम् वने ॥२७॥
śrutvā duhitaram kāvyaḥ tatra śarmiṣṭhayā hatām . tvarayā niryayau duḥkhāt mārgamāṇaḥ sutām vane ..27..
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥२८॥
दृष्ट्वा दुहितरम् काव्यः देवयानीम् ततस् वने । बाहुभ्याम् सम्परिष्वज्य दुःखितः वाक्यम् अब्रवीत् ॥२८॥
dṛṣṭvā duhitaram kāvyaḥ devayānīm tatas vane . bāhubhyām sampariṣvajya duḥkhitaḥ vākyam abravīt ..28..
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥२९॥
आत्म-दोषैः नियच्छन्ति सर्वे दुःख-सुखे जनाः । मन्ये दुश्चरितम् ते अस्ति यस्य इयम् निष्कृतिः कृता ॥२९॥
ātma-doṣaiḥ niyacchanti sarve duḥkha-sukhe janāḥ . manye duścaritam te asti yasya iyam niṣkṛtiḥ kṛtā ..29..
देवयान्युवाच॥
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥३०॥ ( सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥३०॥ )
निष्कृतिः मे अस्तु वा मा अस्तु शृणुष्व अवहितः मम । शर्मिष्ठया यत् उक्ता अस्मि दुहित्रा वृषपर्वणः ॥३०॥ ( सत्यम् किल एतत् सा प्राह दैत्यानाम् असि गायनः ॥३०॥ )
niṣkṛtiḥ me astu vā mā astu śṛṇuṣva avahitaḥ mama . śarmiṣṭhayā yat uktā asmi duhitrā vṛṣaparvaṇaḥ ..30.. ( satyam kila etat sā prāha daityānām asi gāyanaḥ ..30.. )
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी । वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥३१॥
एवम् हि मे कथयति शर्मिष्ठा वार्षपर्वणी । वचनम् तीक्ष्ण-परुषम् क्रोध-रक्त-ईक्षणा भृशम् ॥३१॥
evam hi me kathayati śarmiṣṭhā vārṣaparvaṇī . vacanam tīkṣṇa-paruṣam krodha-rakta-īkṣaṇā bhṛśam ..31..
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥३२॥
स्तुवतः दुहिता हि त्वम् याचतः प्रतिगृह्णतः । सुता अहम् स्तूयमानस्य ददतः अ प्रतिगृह्णतः ॥३२॥
stuvataḥ duhitā hi tvam yācataḥ pratigṛhṇataḥ . sutā aham stūyamānasya dadataḥ a pratigṛhṇataḥ ..32..
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥३३॥
इति माम् आह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोध-संरक्त-नयना दर्प-पूर्णा पुनर् पुनर् ॥३३॥
iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ . krodha-saṃrakta-nayanā darpa-pūrṇā punar punar ..33..
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥३४॥
यदी अहम् स्तुवतः तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठाम् इति उक्ता हि सखी मया ॥३४॥
yadī aham stuvataḥ tāta duhitā pratigṛhṇataḥ . prasādayiṣye śarmiṣṭhām iti uktā hi sakhī mayā ..34..
शुक्र उवाच॥
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥३५॥
स्तुवतः दुहिता न त्वम् भद्रे न प्रतिगृह्णतः । अ स्तोतुः स्तूयमानस्य दुहिता देवयानि असि ॥३५॥
stuvataḥ duhitā na tvam bhadre na pratigṛhṇataḥ . a stotuḥ stūyamānasya duhitā devayāni asi ..35..
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥३६॥ 1.78.38
वृषपर्वा एव तत् वेद शक्रः राजा च नाहुषः । अचिन्त्यम् ब्रह्म निर्द्वन्द्वम् ऐश्वरम् हि बलम् मम ॥३६॥ १।७८।३८
vṛṣaparvā eva tat veda śakraḥ rājā ca nāhuṣaḥ . acintyam brahma nirdvandvam aiśvaram hi balam mama ..36.. 1.78.38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In