| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शुक्र उवाच॥
यः परेषां नरो नित्यमतिवादांस्तितिक्षति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥१॥
यः परेषाम् नरः नित्यम् अतिवादान् तितिक्षति । देवयानि विजानीहि तेन सर्वम् इदम् जितम् ॥१॥
yaḥ pareṣām naraḥ nityam ativādān titikṣati . devayāni vijānīhi tena sarvam idam jitam ..1..
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥२॥
यः समुत्पतितम् क्रोधम् निगृह्णाति हयम् यथा । स यन्ता इति उच्यते सद्भिः न यः रश्मिषु लम्बते ॥२॥
yaḥ samutpatitam krodham nigṛhṇāti hayam yathā . sa yantā iti ucyate sadbhiḥ na yaḥ raśmiṣu lambate ..2..
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥३॥
यः समुत्पतितम् क्रोधम् अक्रोधेन निरस्यति । देवयानि विजानीहि तेन सर्वम् इदम् जितम् ॥३॥
yaḥ samutpatitam krodham akrodhena nirasyati . devayāni vijānīhi tena sarvam idam jitam ..3..
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥४॥
यः समुत्पतितम् क्रोधम् क्षमया इह निरस्यति । यथा उरगः त्वचम् जीर्णाम् स वै पुरुषः उच्यते ॥४॥
yaḥ samutpatitam krodham kṣamayā iha nirasyati . yathā uragaḥ tvacam jīrṇām sa vai puruṣaḥ ucyate ..4..
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥५॥
यः सन्धारयते मन्युम् यः अतिवादान् तितिक्षति । यः च तप्तः न तपति दृढम् सः अर्थस्य भाजनम् ॥५॥
yaḥ sandhārayate manyum yaḥ ativādān titikṣati . yaḥ ca taptaḥ na tapati dṛḍham saḥ arthasya bhājanam ..5..
यो यजेदपरिश्रान्तो मासि मासि शतं समाः । न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥६॥
यः यजेत् अपरिश्रान्तः मासि मासि शतम् समाः । न क्रुध्येत् यः च सर्वस्य तयोः अक्रोधनः अधिकः ॥६॥
yaḥ yajet apariśrāntaḥ māsi māsi śatam samāḥ . na krudhyet yaḥ ca sarvasya tayoḥ akrodhanaḥ adhikaḥ ..6..
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ॥७॥
यत् कुमाराः कुमार्यः च वैरम् कुर्युः अचेतसः । न तत् प्राज्ञः अनुकुर्वीत विदुः ते न बलाबलम् ॥७॥
yat kumārāḥ kumāryaḥ ca vairam kuryuḥ acetasaḥ . na tat prājñaḥ anukurvīta viduḥ te na balābalam ..7..
देवयान्युवाच॥
वेदाहं तात बालापि धर्माणां यदिहान्तरम् । अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥८॥
वेद अहम् तात बाला अपि धर्माणाम् यत् इह अन्तरम् । अक्रोधे च अतिवादे च वेद च अपि बलाबलम् ॥८॥
veda aham tāta bālā api dharmāṇām yat iha antaram . akrodhe ca ativāde ca veda ca api balābalam ..8..
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥९॥
शिष्यस्य अ शिष्य-वृत्तेः हि न क्षन्तव्यम् बुभूषता । तस्मात् सङ्कीर्ण-वृत्तेषु वासः मम न रोचते ॥९॥
śiṣyasya a śiṣya-vṛtteḥ hi na kṣantavyam bubhūṣatā . tasmāt saṅkīrṇa-vṛtteṣu vāsaḥ mama na rocate ..9..
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥१०॥
पुमांसः ये हि निन्दन्ति वृत्तेन अभिजनेन च । न तेषु निवसेत् प्राज्ञः श्रेयः-ऋथी पाप-बुद्धिषु ॥१०॥
pumāṃsaḥ ye hi nindanti vṛttena abhijanena ca . na teṣu nivaset prājñaḥ śreyaḥ-ṛthī pāpa-buddhiṣu ..10..
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥११॥
ये तु एनम् अभिजानन्ति वृत्तेन अभिजनेन च । तेषु साधुषु वस्तव्यम् स वासः श्रेष्ठः उच्यते ॥११॥
ye tu enam abhijānanti vṛttena abhijanena ca . teṣu sādhuṣu vastavyam sa vāsaḥ śreṣṭhaḥ ucyate ..11..
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः । न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ॥१२॥ ( यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥१२॥ 1.79.13 )
वाच्-दुरुक्तम् महा-घोरम् दुहितुः वृषपर्वणः । न हि अतस् दुष्करतरम् मन्ये लोकेषु अपि त्रिषु ॥१२॥ ( यः सपत्न-श्रियम् दीप्ताम् हीन-श्रीः पर्युपासते ॥१२॥ १।७९।१३ )
vāc-duruktam mahā-ghoram duhituḥ vṛṣaparvaṇaḥ . na hi atas duṣkarataram manye lokeṣu api triṣu ..12.. ( yaḥ sapatna-śriyam dīptām hīna-śrīḥ paryupāsate ..12.. 1.79.13 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In