| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
ततस् काव्यः भृगु-श्रेष्ठः समन्युः उपगम्य ह । वृषपर्वाणम् आसीनम् इति उवाच अ विचारयन् ॥१॥
tatas kāvyaḥ bhṛgu-śreṣṭhaḥ samanyuḥ upagamya ha . vṛṣaparvāṇam āsīnam iti uvāca a vicārayan ..1..
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ॥२॥ ( फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥२॥ )
न अधर्मः चरितः राजन् सद्यस् फलति गौः इव । पुत्रेषु वा नप्तृषु वा न चेद् आत्मनि पश्यति ॥२॥ ( फलति एव ध्रुवम् पापम् गुरु-भुक्तम् इव उदरे ॥२॥ )
na adharmaḥ caritaḥ rājan sadyas phalati gauḥ iva . putreṣu vā naptṛṣu vā na ced ātmani paśyati ..2.. ( phalati eva dhruvam pāpam guru-bhuktam iva udare ..2.. )
यदघातयथा विप्रं कचमाङ्गिरसं तदा । अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥३॥
यत् अघातयथाः विप्रम् कचम् आङ्गिरसम् तदा । अपाप-शीलम् धर्म-ज्ञम् शुश्रूषुम् मद्-गृहे रतम् ॥३॥
yat aghātayathāḥ vipram kacam āṅgirasam tadā . apāpa-śīlam dharma-jñam śuśrūṣum mad-gṛhe ratam ..3..
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम । वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ॥४॥ ( स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥४॥ )
वधात् अनर्हतः तस्य वधात् च दुहितुः मम । वृषपर्वन् निबोध इदम् त्यक्ष्यामि त्वाम् स बान्धवम् ॥४॥ ( स्थातुम् त्वद्-विषये राजन् न शक्ष्यामि त्वया सह ॥४॥ )
vadhāt anarhataḥ tasya vadhāt ca duhituḥ mama . vṛṣaparvan nibodha idam tyakṣyāmi tvām sa bāndhavam ..4.. ( sthātum tvad-viṣaye rājan na śakṣyāmi tvayā saha ..4.. )
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् । यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥५॥
अहो माम् अभिजानासि दैत्य मिथ्या प्रलापिनम् । यथा इमम् आत्मनः दोषम् न नियच्छसि उपेक्षसे ॥५॥
aho mām abhijānāsi daitya mithyā pralāpinam . yathā imam ātmanaḥ doṣam na niyacchasi upekṣase ..5..
वृषपर्वोवाच॥
नाधर्मं न मृषावादं त्वयि जानामि भार्गव । त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥६॥
न अधर्मम् न मृषावादम् त्वयि जानामि भार्गव । त्वयि धर्मः च सत्यम् च तत् प्रसीदतु नः भवान् ॥६॥
na adharmam na mṛṣāvādam tvayi jānāmi bhārgava . tvayi dharmaḥ ca satyam ca tat prasīdatu naḥ bhavān ..6..
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव । समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ॥७॥
यदि अस्मान् अपहाय त्वम् इतस् गच्छसि भार्गव । समुद्रम् सम्प्रवेक्ष्यामः न अन्यत् अस्ति परायणम् ॥७॥
yadi asmān apahāya tvam itas gacchasi bhārgava . samudram sampravekṣyāmaḥ na anyat asti parāyaṇam ..7..
शुक्र उवाच॥
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः । दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥८॥
समुद्रम् प्रविशध्वम् वा दिशः वा द्रवत असुराः । दुहितुः ना अप्रियम् सोढुम् शक्तः अहम् दयिता हि मे ॥८॥
samudram praviśadhvam vā diśaḥ vā dravata asurāḥ . duhituḥ nā apriyam soḍhum śaktaḥ aham dayitā hi me ..8..
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् । योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥९॥
प्रसाद्यताम् देवयानी जीवितम् हि अत्र मे स्थितम् । योगक्षेम-करः ते अहम् इन्द्रस्य इव बृहस्पतिः ॥९॥
prasādyatām devayānī jīvitam hi atra me sthitam . yogakṣema-karaḥ te aham indrasya iva bṛhaspatiḥ ..9..
वृषपर्वोवाच॥
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव । भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥१०॥
यत् किञ्चिद् असुर-इन्द्राणाम् विद्यते वसु भार्गव । भुवि हस्ति-गवाश्वम् वा तस्य त्वम् मम च ईश्वरः ॥१०॥
yat kiñcid asura-indrāṇām vidyate vasu bhārgava . bhuvi hasti-gavāśvam vā tasya tvam mama ca īśvaraḥ ..10..
शुक्र उवाच॥
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥११॥
यत् किञ्चिद् अस्ति द्रविणम् दैत्य-इन्द्राणाम् महा-असुर । तस्य ईश्वरः अस्मि यदि ते देवयानी प्रसाद्यताम् ॥११॥
yat kiñcid asti draviṇam daitya-indrāṇām mahā-asura . tasya īśvaraḥ asmi yadi te devayānī prasādyatām ..11..
देवयान्युवाच॥
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥१२॥
यदि त्वम् ईश्वरः तात राज्ञः वित्तस्य भार्गव । न अभिजानामि तत् ते अहम् राजा तु वदतु स्वयम् ॥१२॥
yadi tvam īśvaraḥ tāta rājñaḥ vittasya bhārgava . na abhijānāmi tat te aham rājā tu vadatu svayam ..12..
वृषपर्वोवाच॥
यं काममभिकामासि देवयानि शुचिस्मिते । तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ॥१३॥
यम् कामम् अभिकामा असि देवयानि शुचि-स्मिते । तत् ते अहम् सम्प्रदास्यामि यदि चेद् अपि दुर्लभम् ॥१३॥
yam kāmam abhikāmā asi devayāni śuci-smite . tat te aham sampradāsyāmi yadi ced api durlabham ..13..
देवयान्युवाच॥
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥१४॥
दासीम् कन्या-सहस्रेण शर्मिष्ठाम् अभिकामये । अनु माम् तत्र गच्छेत् सा यत्र दास्यति मे पिता ॥१४॥
dāsīm kanyā-sahasreṇa śarmiṣṭhām abhikāmaye . anu mām tatra gacchet sā yatra dāsyati me pitā ..14..
वृषपर्वोवाच॥
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय । यं च कामयते कामं देवयानी करोतु तम् ॥१५॥
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठाम् शीघ्रम् आनय । यम् च कामयते कामम् देवयानी करोतु तम् ॥१५॥
uttiṣṭha he saṅgrahītri śarmiṣṭhām śīghram ānaya . yam ca kāmayate kāmam devayānī karotu tam ..15..
वैशम्पायन उवाच॥
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥१६॥
ततस् धात्री तत्र गत्वा शर्मिष्ठाम् वाक्यम् अब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनाम् सुखम् आवह ॥१६॥
tatas dhātrī tatra gatvā śarmiṣṭhām vākyam abravīt . uttiṣṭha bhadre śarmiṣṭhe jñātīnām sukham āvaha ..16..
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः । सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥१७॥
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः । सा यम् कामयते कामम् स कार्यः अद्य त्वया अनघे ॥१७॥
tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ . sā yam kāmayate kāmam sa kāryaḥ adya tvayā anaghe ..17..
शर्मिष्ठोवाच॥
सा यं कामयते कामं करवाण्यहमद्य तम् । मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥१८॥
सा यम् कामयते कामम् करवाणि अहम् अद्य तम् । मा तु एव अपगमत् शुक्रः देवयानी च मद्-कृते ॥१८॥
sā yam kāmayate kāmam karavāṇi aham adya tam . mā tu eva apagamat śukraḥ devayānī ca mad-kṛte ..18..
वैशम्पायन उवाच॥
ततः कन्यासहस्रेण वृता शिबिकया तदा । पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥१९॥
ततस् कन्या-सहस्रेण वृता शिबिकया तदा । पितुः नियोगात् त्वरिता निश्चक्राम पुर-उत्तमात् ॥१९॥
tatas kanyā-sahasreṇa vṛtā śibikayā tadā . pituḥ niyogāt tvaritā niścakrāma pura-uttamāt ..19..
शर्मिष्ठोवाच॥
अहं कन्यासहस्रेण दासी ते परिचारिका । अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२०॥
अहम् कन्या-सहस्रेण दासी ते परिचारिका । अनु त्वाम् तत्र यास्यामि यत्र दास्यति ते पिता ॥२०॥
aham kanyā-sahasreṇa dāsī te paricārikā . anu tvām tatra yāsyāmi yatra dāsyati te pitā ..20..
देवयान्युवाच॥
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥२१॥
स्तुवतः दुहिता ते अहम् बन्दिनः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथम् दासी भविष्यसि ॥२१॥
stuvataḥ duhitā te aham bandinaḥ pratigṛhṇataḥ . stūyamānasya duhitā katham dāsī bhaviṣyasi ..21..
शर्मिष्ठोवाच॥
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् । अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥२२॥
येन केनचिद् आर्तानाम् ज्ञातीनाम् सुखम् आवहेत् । अतस् त्वाम् अनुयास्यामि यत्र दास्यति ते पिता ॥२२॥
yena kenacid ārtānām jñātīnām sukham āvahet . atas tvām anuyāsyāmi yatra dāsyati te pitā ..22..
वैशम्पायन उवाच॥
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥२३॥
प्रतिश्रुते दास-भावे दुहित्रा वृषपर्वणः । देवयानी नृप-श्रेष्ठ पितरम् वाक्यम् अब्रवीत् ॥२३॥
pratiśrute dāsa-bhāve duhitrā vṛṣaparvaṇaḥ . devayānī nṛpa-śreṣṭha pitaram vākyam abravīt ..23..
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम । अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥२४॥
प्रविशामि पुरम् तात तुष्टा अस्मि द्विजसत्तम । अमोघम् तव विज्ञानम् अस्ति विद्या-बलम् च ते ॥२४॥
praviśāmi puram tāta tuṣṭā asmi dvijasattama . amogham tava vijñānam asti vidyā-balam ca te ..24..
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः । प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥२५॥ 1.80.27
एवम् उक्तः दुहित्रा स द्विजश्रेष्ठः महा-यशाः । प्रविवेश पुरम् हृष्टः पूजितः सर्व-दानवैः ॥२५॥ १।८०।२७
evam uktaḥ duhitrā sa dvijaśreṣṭhaḥ mahā-yaśāḥ . praviveśa puram hṛṣṭaḥ pūjitaḥ sarva-dānavaiḥ ..25.. 1.80.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In