| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम । वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥१॥
अथ दीर्घस्य कालस्य देवयानी नृप-उत्तम । वनम् तत् एव निर्याता क्रीडा-अर्थम् वरवर्णिनी ॥१॥
atha dīrghasya kālasya devayānī nṛpa-uttama . vanam tat eva niryātā krīḍā-artham varavarṇinī ..1..
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥२॥ ( ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥२॥ )
तेन दासी-सहस्रेण सार्धम् शर्मिष्ठया तदा । तम् एव देशम् सम्प्राप्ता यथाकामम् चचार सा ॥२॥ ( ताभिः सखीभिः सहिता सर्वाभिः मुदिता भृशम् ॥२॥ )
tena dāsī-sahasreṇa sārdham śarmiṣṭhayā tadā . tam eva deśam samprāptā yathākāmam cacāra sā ..2.. ( tābhiḥ sakhībhiḥ sahitā sarvābhiḥ muditā bhṛśam ..2.. )
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् । खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥३॥
क्रीडन्त्यः अभिरताः सर्वाः पिबन्त्यः मधुमाधवीम् । खादन्त्यः विविधान् भक्ष्यान् विदशन्त्यः फलानि च ॥३॥
krīḍantyaḥ abhiratāḥ sarvāḥ pibantyaḥ madhumādhavīm . khādantyaḥ vividhān bhakṣyān vidaśantyaḥ phalāni ca ..3..
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया । तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥४॥
पुनर् च नाहुषः राजा मृग-लिप्सुः यदृच्छया । तम् एव देशम् सम्प्राप्तः जल-अर्थी श्रम-कर्शितः ॥४॥
punar ca nāhuṣaḥ rājā mṛga-lipsuḥ yadṛcchayā . tam eva deśam samprāptaḥ jala-arthī śrama-karśitaḥ ..4..
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः । पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥५॥
ददृशे देवयानीम् च शर्मिष्ठाम् ताः च योषितः । पिबन्तीः ललमानाः च दिव्य-आभरण-भूषिताः ॥५॥
dadṛśe devayānīm ca śarmiṣṭhām tāḥ ca yoṣitaḥ . pibantīḥ lalamānāḥ ca divya-ābharaṇa-bhūṣitāḥ ..5..
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् । रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ॥६॥ ( शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥६॥ )
उपविष्टाम् च ददृशे देवयानीम् शुचि-स्मिताम् । रूपेण अप्रतिमाम् तासाम् स्त्रीणाम् मध्ये वर-अङ्गनाम् ॥६॥ ( शर्मिष्ठया सेव्यमानाम् पाद-संवाहन-आदिभिः ॥६॥ )
upaviṣṭām ca dadṛśe devayānīm śuci-smitām . rūpeṇa apratimām tāsām strīṇām madhye vara-aṅganām ..6.. ( śarmiṣṭhayā sevyamānām pāda-saṃvāhana-ādibhiḥ ..6.. )
ययातिरुवाच॥
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥७॥
द्वाभ्याम् कन्या-सहस्राभ्याम् द्वे कन्ये परिवारिते । गोत्रे च नामनी च एव द्वयोः पृच्छामि वाम् अहम् ॥७॥
dvābhyām kanyā-sahasrābhyām dve kanye parivārite . gotre ca nāmanī ca eva dvayoḥ pṛcchāmi vām aham ..7..
देवयान्युवाच॥
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥८॥
आख्यास्यामि अहम् आदत्स्व वचनम् मे नराधिप । शुक्रः नाम असुर-गुरुः सुताम् जानीहि तस्य माम् ॥८॥
ākhyāsyāmi aham ādatsva vacanam me narādhipa . śukraḥ nāma asura-guruḥ sutām jānīhi tasya mām ..8..
इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥९॥
इयम् च मे सखी दासी यत्र अहम् तत्र गामिनी । दुहिता दानव-इन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥९॥
iyam ca me sakhī dāsī yatra aham tatra gāminī . duhitā dānava-indrasya śarmiṣṭhā vṛṣaparvaṇaḥ ..9..
ययातिरुवाच॥
कथं नु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥१०॥
कथम् नु ते सखी दासी कन्या इयम् वरवर्णिनी । असुर-इन्द्र-सुता सुभ्रु परम् कौतूहलम् हि मे ॥१०॥
katham nu te sakhī dāsī kanyā iyam varavarṇinī . asura-indra-sutā subhru param kautūhalam hi me ..10..
देवयान्युवाच॥
सर्व एव नरव्याघ्र विधानमनुवर्तते । विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥११॥
सर्वः एव नर-व्याघ्र विधानम् अनुवर्तते । विधान-विहितम् मत्वा मा विचित्राः कथाः कृथाः ॥११॥
sarvaḥ eva nara-vyāghra vidhānam anuvartate . vidhāna-vihitam matvā mā vicitrāḥ kathāḥ kṛthāḥ ..11..
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥१२॥
राज-वत् रूप-वेषौ ते ब्राह्मीम् वाचम् बिभर्षि च । किंनामा त्वम् कुतस् च असि कस्य पुत्रः च शंस मे ॥१२॥
rāja-vat rūpa-veṣau te brāhmīm vācam bibharṣi ca . kiṃnāmā tvam kutas ca asi kasya putraḥ ca śaṃsa me ..12..
ययातिरुवाच॥
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥१३॥
ब्रह्मचर्येण कृत्स्नः मे वेदः श्रुतिपथम् गतः । राजा अहम् राज-पुत्रः च ययातिः इति विश्रुतः ॥१३॥
brahmacaryeṇa kṛtsnaḥ me vedaḥ śrutipatham gataḥ . rājā aham rāja-putraḥ ca yayātiḥ iti viśrutaḥ ..13..
देवयान्युवाच॥
केनास्यर्थेन नृपते इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ॥१४॥
केन असि अर्थेन नृपते इमम् देशम् उपागतः । जिघृक्षुः वारिजम् किञ्चिद् अथ वा मृग-लिप्सया ॥१४॥
kena asi arthena nṛpate imam deśam upāgataḥ . jighṛkṣuḥ vārijam kiñcid atha vā mṛga-lipsayā ..14..
ययातिरुवाच॥
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः । बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥१५॥
मृग-लिप्सुः अहम् भद्रे पानीय-अर्थम् उपागतः । बहु च अपि अनुयुक्तः अस्मि तत् मा अनुज्ञातुम् अर्हसि ॥१५॥
mṛga-lipsuḥ aham bhadre pānīya-artham upāgataḥ . bahu ca api anuyuktaḥ asmi tat mā anujñātum arhasi ..15..
देवयान्युवाच॥
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥१६॥
द्वाभ्याम् कन्या-सहस्राभ्याम् दास्या शर्मिष्ठया सह । त्वद्-अधीना अस्मि भद्रम् ते सखा भर्ता च मे भव ॥१६॥
dvābhyām kanyā-sahasrābhyām dāsyā śarmiṣṭhayā saha . tvad-adhīnā asmi bhadram te sakhā bhartā ca me bhava ..16..
ययातिरुवाच॥
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि । अविवाह्या हि राजानो देवयानि पितुस्तव ॥१७॥
विद्धि औशनसि भद्रम् ते न त्वाम् अर्हः अस्मि भामिनि । अ विवाह्याः हि राजानः देवयानि पितुः तव ॥१७॥
viddhi auśanasi bhadram te na tvām arhaḥ asmi bhāmini . a vivāhyāḥ hi rājānaḥ devayāni pituḥ tava ..17..
देवयान्युवाच॥
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥१८॥
संसृष्टम् ब्रह्मणा क्षत्रम् क्षत्रम् च ब्रह्म-संहितम् । ऋषिः च ऋषि-पुत्रः च नाहुष अङ्ग वहस्व माम् ॥१८॥
saṃsṛṣṭam brahmaṇā kṣatram kṣatram ca brahma-saṃhitam . ṛṣiḥ ca ṛṣi-putraḥ ca nāhuṣa aṅga vahasva mām ..18..
ययातिरुवाच॥
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने । पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ॥१९॥
एक-देह-उद्भवाः वर्णाः चत्वारः अपि वर-अङ्गने । पृथक् धर्माः पृथक् षौचाः तेषाम् तु ब्राह्मणः वरः ॥१९॥
eka-deha-udbhavāḥ varṇāḥ catvāraḥ api vara-aṅgane . pṛthak dharmāḥ pṛthak ṣaucāḥ teṣām tu brāhmaṇaḥ varaḥ ..19..
देवयान्युवाच॥
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा । तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥२०॥
पाणिधर्मः नाहुष अयम् न पुम्भिः सेवितः पुरा । तम् मे त्वम् अग्रहीः अग्रे वृणोमि त्वाम् अहम् ततस् ॥२०॥
pāṇidharmaḥ nāhuṣa ayam na pumbhiḥ sevitaḥ purā . tam me tvam agrahīḥ agre vṛṇomi tvām aham tatas ..20..
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥२१॥
कथम् नु मे मनस्विन्याः पाणिम् अन्यः पुमान् स्पृशेत् । गृहीतम् ऋषि-पुत्रेण स्वयम् वा अपि ऋषिणा त्वया ॥२१॥
katham nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet . gṛhītam ṛṣi-putreṇa svayam vā api ṛṣiṇā tvayā ..21..
ययातिरुवाच॥
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥२२॥
क्रुद्धात् आशीविषात् सर्पात् ज्वलनात् सर्वतोमुखात् । दुराधर्षतरः विप्रः पुरुषेण विजानता ॥२२॥
kruddhāt āśīviṣāt sarpāt jvalanāt sarvatomukhāt . durādharṣataraḥ vipraḥ puruṣeṇa vijānatā ..22..
देवयान्युवाच॥
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥२३॥
कथम् आशीविषात् सर्पात् ज्वलनात् सर्वतोमुखात् । दुराधर्षतरः विप्रः इति आत्थ पुरुष-ऋषभ ॥२३॥
katham āśīviṣāt sarpāt jvalanāt sarvatomukhāt . durādharṣataraḥ vipraḥ iti āttha puruṣa-ṛṣabha ..23..
ययातिरुवाच॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥२४॥
एकम् आशीविषः हन्ति शस्त्रेण एकः च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराणि अपि हि कोपितः ॥२४॥
ekam āśīviṣaḥ hanti śastreṇa ekaḥ ca vadhyate . hanti vipraḥ sarāṣṭrāṇi purāṇi api hi kopitaḥ ..24..
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥२५॥
दुराधर्षतरः विप्रः तस्मात् भीरु मतः मम । अतस् अदत्ताम् च पित्रा त्वाम् भद्रे न विवहामि अहम् ॥२५॥
durādharṣataraḥ vipraḥ tasmāt bhīru mataḥ mama . atas adattām ca pitrā tvām bhadre na vivahāmi aham ..25..
देवयान्युवाच॥
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥२६॥
दत्ताम् वहस्व पित्रा माम् त्वम् हि राजन् वृतः मया । अ याचतः भयम् ना अस्ति दत्ताम् च प्रतिगृह्णतः ॥२६॥
dattām vahasva pitrā mām tvam hi rājan vṛtaḥ mayā . a yācataḥ bhayam nā asti dattām ca pratigṛhṇataḥ ..26..
वैशम्पायन उवाच॥
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः । श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥२७॥
त्वरितम् देवयान्या अथ प्रेषितम् पितुः आत्मनः । श्रुत्वा एव च स राजानम् दर्शयामास भार्गवः ॥२७॥
tvaritam devayānyā atha preṣitam pituḥ ātmanaḥ . śrutvā eva ca sa rājānam darśayāmāsa bhārgavaḥ ..27..
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः । ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥२८॥
दृष्ट्वा एव च आगतम् शुक्रम् ययातिः पृथिवीपतिः । ववन्दे ब्राह्मणम् काव्यम् प्राञ्जलिः प्रणतः स्थितः ॥२८॥
dṛṣṭvā eva ca āgatam śukram yayātiḥ pṛthivīpatiḥ . vavande brāhmaṇam kāvyam prāñjaliḥ praṇataḥ sthitaḥ ..28..
देवयान्युवाच॥
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् । नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥२९॥
राजा अयम् नाहुषः तात दुर्गे मे पाणिम् अग्रहीत् । नमः ते देहि माम् अस्मै न अन्यम् लोके पतिम् वृणे ॥२९॥
rājā ayam nāhuṣaḥ tāta durge me pāṇim agrahīt . namaḥ te dehi mām asmai na anyam loke patim vṛṇe ..29..
शुक्र उवाच॥
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥३०॥
वृतः अनया पतिः वीर सुतया त्वम् मम इष्टया । गृहाण इमाम् मया दत्ताम् महिषीम् नहुषात्मज ॥३०॥
vṛtaḥ anayā patiḥ vīra sutayā tvam mama iṣṭayā . gṛhāṇa imām mayā dattām mahiṣīm nahuṣātmaja ..30..
ययातिरुवाच॥
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव । वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥३१॥
अधर्मः न स्पृशेत् एवम् महान् माम् इह भार्गव । वर्ण-सङ्कर-जः ब्रह्मन् इति त्वाम् प्रवृणोमि अहम् ॥३१॥
adharmaḥ na spṛśet evam mahān mām iha bhārgava . varṇa-saṅkara-jaḥ brahman iti tvām pravṛṇomi aham ..31..
शुक्र उवाच॥
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् । अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥३२॥
अधर्मात् त्वाम् विमुञ्चामि वरयस्व यथा ईप्षितम् । अस्मिन् विवाहे मा ग्लासीः अहम् पापम् नुदामि ते ॥३२॥
adharmāt tvām vimuñcāmi varayasva yathā īpṣitam . asmin vivāhe mā glāsīḥ aham pāpam nudāmi te ..32..
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् । अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ॥३३॥
वहस्व भार्याम् धर्मेण देवयानीम् सुमध्यमाम् । अनया सह सम्प्रीतिम् अतुलाम् समवाप्स्यसि ॥३३॥
vahasva bhāryām dharmeṇa devayānīm sumadhyamām . anayā saha samprītim atulām samavāpsyasi ..33..
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥३४॥
इयम् च अपि कुमारी ते शर्मिष्ठा वार्षपर्वणी । सम्पूज्या सततम् राजन् मा च एनाम् शयने ह्वयेः ॥३४॥
iyam ca api kumārī te śarmiṣṭhā vārṣaparvaṇī . sampūjyā satatam rājan mā ca enām śayane hvayeḥ ..34..
वैशम्पायन उवाच॥
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥३५॥ 1.81.36 – 38
एवम् उक्तः ययातिः तु शुक्रम् कृत्वा प्रदक्षिणम् । जगाम स्व-पुरम् हृष्टः अनुज्ञातः महात्मना ॥३५॥ १।८१।३६
evam uktaḥ yayātiḥ tu śukram kṛtvā pradakṣiṇam . jagāma sva-puram hṛṣṭaḥ anujñātaḥ mahātmanā ..35.. 1.81.36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In