| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् । प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥१॥
ययातिः स्व-पुरम् प्राप्य महेन्द्र-पुर-संनिभम् । प्रविश्य अन्तःपुरम् तत्र देवयानीम् न्यवेशयत् ॥१॥
yayātiḥ sva-puram prāpya mahendra-pura-saṃnibham . praviśya antaḥpuram tatra devayānīm nyaveśayat ..1..
देवयान्याश्चानुमते तां सुतां वृषपर्वणः । अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥२॥
देवयान्याः च अनुमते ताम् सुताम् वृषपर्वणः । अशोक-वनिका-अभ्याशे गृहम् कृत्वा न्यवेशयत् ॥२॥
devayānyāḥ ca anumate tām sutām vṛṣaparvaṇaḥ . aśoka-vanikā-abhyāśe gṛham kṛtvā nyaveśayat ..2..
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् । वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥३॥
वृताम् दासी-सहस्रेण शर्मिष्ठाम् आसुरायणीम् । वासोभिः अन्न-पानैः च संविभज्य सु सत्कृताम् ॥३॥
vṛtām dāsī-sahasreṇa śarmiṣṭhām āsurāyaṇīm . vāsobhiḥ anna-pānaiḥ ca saṃvibhajya su satkṛtām ..3..
देवयान्या तु सहितः स नृपो नहुषात्मजः । विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥४॥
देवयान्या तु सहितः स नृपः नहुषात्मजः । विजहार बहून् अब्दान् देव-वत् मुदितः भृशम् ॥४॥
devayānyā tu sahitaḥ sa nṛpaḥ nahuṣātmajaḥ . vijahāra bahūn abdān deva-vat muditaḥ bhṛśam ..4..
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना । लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥५॥
ऋतु-काले तु सम्प्राप्ते देवयानी वर-अङ्गना । लेभे गर्भम् प्रथमतस् कुमारम् च व्यजायत ॥५॥
ṛtu-kāle tu samprāpte devayānī vara-aṅganā . lebhe garbham prathamatas kumāram ca vyajāyata ..5..
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥६॥
गते वर्ष-सहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनम् प्राप्ताः ऋतुम् सा च अन्वचिन्तयत् ॥६॥
gate varṣa-sahasre tu śarmiṣṭhā vārṣaparvaṇī . dadarśa yauvanam prāptāḥ ṛtum sā ca anvacintayat ..6..
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः । किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥७॥
ऋतु-कालः च सम्प्राप्तः न च मे अस्ति पतिः वृतः । किम् प्राप्तम् किम् नु कर्तव्यम् किम् वा कृत्वा कृतम् भवेत् ॥७॥
ṛtu-kālaḥ ca samprāptaḥ na ca me asti patiḥ vṛtaḥ . kim prāptam kim nu kartavyam kim vā kṛtvā kṛtam bhavet ..7..
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना । यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥८॥
देवयानी प्रजाता असौ वृथा अहम् प्राप्त-यौवना । यथा तया वृतः भर्ता तथा एव अहम् वृणोमि तम् ॥८॥
devayānī prajātā asau vṛthā aham prāpta-yauvanā . yathā tayā vṛtaḥ bhartā tathā eva aham vṛṇomi tam ..8..
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः । अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ॥९॥
राज्ञा पुत्र-फलम् देयम् इति मे निश्चिता मतिः । अपि इदानीम् स धर्म-आत्मा इयात् मे दर्शनम् रहः ॥९॥
rājñā putra-phalam deyam iti me niścitā matiḥ . api idānīm sa dharma-ātmā iyāt me darśanam rahaḥ ..9..
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥१०॥
अथ निष्क्रम्य राजा असौ तस्मिन् काले यदृच्छया । अशोक-वनिका-अभ्याशे शर्मिष्ठाम् प्राप्य विष्ठितः ॥१०॥
atha niṣkramya rājā asau tasmin kāle yadṛcchayā . aśoka-vanikā-abhyāśe śarmiṣṭhām prāpya viṣṭhitaḥ ..10..
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी । प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥११॥
तम् एकम् रहिते दृष्ट्वा शर्मिष्ठा चारु-हासिनी । प्रत्युद्गम्य अञ्जलिम् कृत्वा राजानम् वाक्यम् अब्रवीत् ॥११॥
tam ekam rahite dṛṣṭvā śarmiṣṭhā cāru-hāsinī . pratyudgamya añjalim kṛtvā rājānam vākyam abravīt ..11..
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा । तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥१२॥
सोमस्य इन्द्रस्य विष्णोः वा यमस्य वरुणस्य वा । तव वा नाहुष कुले कः स्त्रियम् स्प्रष्टुम् अर्हति ॥१२॥
somasya indrasya viṣṇoḥ vā yamasya varuṇasya vā . tava vā nāhuṣa kule kaḥ striyam spraṣṭum arhati ..12..
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥१३॥
रूप-अभिजन-शीलैः हि त्वम् राजन् वेत्थ माम् सदा । सा त्वाम् याचे प्रसाद्या अहम् ऋतुम् देहि नराधिप ॥१३॥
rūpa-abhijana-śīlaiḥ hi tvam rājan vettha mām sadā . sā tvām yāce prasādyā aham ṛtum dehi narādhipa ..13..
ययातिरुवाच॥
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥१४॥
वेद्मि त्वाम् शील-सम्पन्नाम् दैत्य-कन्याम् अनिन्दिताम् । रूपे च ते न पश्यामि सूच्यग्रम् अपि निन्दितम् ॥१४॥
vedmi tvām śīla-sampannām daitya-kanyām aninditām . rūpe ca te na paśyāmi sūcyagram api ninditam ..14..
अब्रवीदुशना काव्यो देवयानीं यदावहम् । नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥
अब्रवीत् उशनाः काव्यः देवयानीम् यदा अवहम् । न इयम् आह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥
abravīt uśanāḥ kāvyaḥ devayānīm yadā avaham . na iyam āhvayitavyā te śayane vārṣaparvaṇī ..15..
शर्मिष्ठोवाच॥
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ॥१६॥
न नर्म-युक्तम् वचनम् हिनस्ति; न स्त्रीषु राजन् न विवाह-काले । प्राण-अत्यये सर्व-धन-अपहारे; पञ्च अनृतानि आहुः अ पातकानि ॥१६॥
na narma-yuktam vacanam hinasti; na strīṣu rājan na vivāha-kāle . prāṇa-atyaye sarva-dhana-apahāre; pañca anṛtāni āhuḥ a pātakāni ..16..
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र । एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ॥१७॥
पृष्टम् तु साक्ष्ये प्रवदन्तम् अन्यथा; वदन्ति मिथ्या उपहितम् नरेन्द्र । एक-अर्थ-तायाम् तु समाहितायाम्; मिथ्या वदन्तम् अनृतम् हिनस्ति ॥१७॥
pṛṣṭam tu sākṣye pravadantam anyathā; vadanti mithyā upahitam narendra . eka-artha-tāyām tu samāhitāyām; mithyā vadantam anṛtam hinasti ..17..
ययातिरुवाच॥
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥१८॥
राजा प्रमाणम् भूतानाम् स नश्येत मृषा वदन् । अर्थ-कृच्छ्रम् अपि प्राप्य न मिथ्या कर्तुम् उत्सहे ॥१८॥
rājā pramāṇam bhūtānām sa naśyeta mṛṣā vadan . artha-kṛcchram api prāpya na mithyā kartum utsahe ..18..
शर्मिष्ठोवाच॥
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः । समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥१९॥
समौ एतौ मतौ राजन् पतिः सख्याः च यः पतिः । समम् विवाहम् इति आहुः सख्याः मे असि पतिः वृतः ॥१९॥
samau etau matau rājan patiḥ sakhyāḥ ca yaḥ patiḥ . samam vivāham iti āhuḥ sakhyāḥ me asi patiḥ vṛtaḥ ..19..
ययातिरुवाच॥
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् । त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥२०॥
दातव्यम् याचमानेभ्यः इति मे व्रतम् आहितम् । त्वम् च याचसि माम् कामम् ब्रूहि किम् करवाणि ते ॥२०॥
dātavyam yācamānebhyaḥ iti me vratam āhitam . tvam ca yācasi mām kāmam brūhi kim karavāṇi te ..20..
शर्मिष्ठोवाच॥
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय । त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥२१॥
अधर्मात् त्राहि माम् राजन् धर्मम् च प्रतिपादय । त्वत्तः अपत्यवती लोके चरेयम् धर्मम् उत्तमम् ॥२१॥
adharmāt trāhi mām rājan dharmam ca pratipādaya . tvattaḥ apatyavatī loke careyam dharmam uttamam ..21..
त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥२२॥
त्रयः एव अधनाः राजन् भार्या दासः तथा सुतः । यत् ते समधिगच्छन्ति यस्य ते तस्य तत् धनम् ॥२२॥
trayaḥ eva adhanāḥ rājan bhāryā dāsaḥ tathā sutaḥ . yat te samadhigacchanti yasya te tasya tat dhanam ..22..
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥२३॥
देवयान्याः भुजिष्या अस्मि वश्या च तव भार्गवी । सा च अहम् च त्वया राजन् भरणीये भजस्व माम् ॥२३॥
devayānyāḥ bhujiṣyā asmi vaśyā ca tava bhārgavī . sā ca aham ca tvayā rājan bharaṇīye bhajasva mām ..23..
वैशम्पायन उवाच॥
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् । पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥२४॥
एवम् उक्तः तु राजा स तथ्यम् इति एव जज्ञिवान् । पूजयामास शर्मिष्ठाम् धर्मम् च प्रत्यपादयत् ॥२४॥
evam uktaḥ tu rājā sa tathyam iti eva jajñivān . pūjayāmāsa śarmiṣṭhām dharmam ca pratyapādayat ..24..
समागम्य च शर्मिष्ठां यथाकाममवाप्य च । अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥२५॥
समागम्य च शर्मिष्ठाम् यथाकामम् अवाप्य च । अन्योन्यम् अभिसम्पूज्य जग्मतुः तौ यथागतम् ॥२५॥
samāgamya ca śarmiṣṭhām yathākāmam avāpya ca . anyonyam abhisampūjya jagmatuḥ tau yathāgatam ..25..
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी । लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥२६॥
तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारु-हासिनी । लेभे गर्भम् प्रथमतस् तस्मात् नृपति-सत्तमात् ॥२६॥
tasmin samāgame subhrūḥ śarmiṣṭhā cāru-hāsinī . lebhe garbham prathamatas tasmāt nṛpati-sattamāt ..26..
प्रजज्ञे च ततः काले राजन्राजीवलोचना । कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥२७॥ 1.82.27
प्रजज्ञे च ततस् काले राजन् राजीव-लोचना । कुमारम् देव-गर्भ-आभम् राजीव-निभ-लोचनम् ॥२७॥ १।८२।२७
prajajñe ca tatas kāle rājan rājīva-locanā . kumāram deva-garbha-ābham rājīva-nibha-locanam ..27.. 1.82.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In