| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता । चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥१॥
श्रुत्वा कुमारम् जातम् तु देवयानी शुचि-स्मिता । चिन्तयामास दुःख-आर्ता शर्मिष्ठाम् प्रति भारत ॥१॥
śrutvā kumāram jātam tu devayānī śuci-smitā . cintayāmāsa duḥkha-ārtā śarmiṣṭhām prati bhārata ..1..
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् । किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥२॥
अभिगम्य च शर्मिष्ठाम् देवयानी अब्रवीत् इदम् । किम् इदम् वृजिनम् सुभ्रु कृतम् ते काम-लुब्धया ॥२॥
abhigamya ca śarmiṣṭhām devayānī abravīt idam . kim idam vṛjinam subhru kṛtam te kāma-lubdhayā ..2..
शर्मिष्ठोवाच॥
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः । स मया वरदः कामं याचितो धर्मसंहितम् ॥३॥
ऋषिः अभ्यागतः कश्चिद् धर्म-आत्मा वेदपारगः । स मया वर-दः कामम् याचितः धर्म-संहितम् ॥३॥
ṛṣiḥ abhyāgataḥ kaścid dharma-ātmā vedapāragaḥ . sa mayā vara-daḥ kāmam yācitaḥ dharma-saṃhitam ..3..
नाहमन्यायतः काममाचरामि शुचिस्मिते । तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥४॥
न अहम् अन्यायतः कामम् आचरामि शुचि-स्मिते । तस्मात् ऋषेः मम अपत्यम् इति सत्यम् ब्रवीमि ते ॥४॥
na aham anyāyataḥ kāmam ācarāmi śuci-smite . tasmāt ṛṣeḥ mama apatyam iti satyam bravīmi te ..4..
देवयान्युवाच॥
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः । गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥५॥
शोभनम् भीरु सत्यम् चेद् अथ स ज्ञायते द्विजः । गोत्र-नाम-अभिजनतः वेत्तुम् इच्छामि तम् द्विजम् ॥५॥
śobhanam bhīru satyam ced atha sa jñāyate dvijaḥ . gotra-nāma-abhijanataḥ vettum icchāmi tam dvijam ..5..
शर्मिष्ठोवाच॥
ओजसा तेजसा चैव दीप्यमानं रविं यथा । तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥६॥
ओजसा तेजसा च एव दीप्यमानम् रविम् यथा । तम् दृष्ट्वा मम सम्प्रष्टुम् शक्तिः न आसीत् शुचि-स्मिते ॥६॥
ojasā tejasā ca eva dīpyamānam ravim yathā . tam dṛṣṭvā mama sampraṣṭum śaktiḥ na āsīt śuci-smite ..6..
देवयान्युवाच॥
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥७॥
यदि एतत् एवम् शर्मिष्ठे न मन्युः विद्यते मम । अपत्यम् यदि ते लब्धम् ज्येष्ठात् श्रेष्ठात् च वै द्विजात् ॥७॥
yadi etat evam śarmiṣṭhe na manyuḥ vidyate mama . apatyam yadi te labdham jyeṣṭhāt śreṣṭhāt ca vai dvijāt ..7..
वैशम्पायन उवाच॥
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः । जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥८॥
अन्योन्यम् एवम् उक्त्वा च सम्प्रहस्य च ते मिथस् । जगाम भार्गवी वेश्म तथ्यम् इति एव जज्ञुषी ॥८॥
anyonyam evam uktvā ca samprahasya ca te mithas . jagāma bhārgavī veśma tathyam iti eva jajñuṣī ..8..
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः । यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥९॥
ययातिः देवयान्याम् तु पुत्रौ अजनयत् नृपः । यदुम् च तुर्वसुम् च एव शक्र-विष्णू इव अपरौ ॥९॥
yayātiḥ devayānyām tu putrau ajanayat nṛpaḥ . yadum ca turvasum ca eva śakra-viṣṇū iva aparau ..9..
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥१०॥
तस्मात् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्युम् च अनुम् च पूरुम् च त्रीन् कुमारान् अजीजनत् ॥१०॥
tasmāt eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī . druhyum ca anum ca pūrum ca trīn kumārān ajījanat ..10..
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता । ययातिसहिता राजन्निर्जगाम महावनम् ॥११॥
ततस् काले तु कस्मिंश्चिद् देवयानी शुचि-स्मिता । ययाति-सहिताः राजन् निर्जगाम महा-वनम् ॥११॥
tatas kāle tu kasmiṃścid devayānī śuci-smitā . yayāti-sahitāḥ rājan nirjagāma mahā-vanam ..11..
ददर्श च तदा तत्र कुमारान्देवरूपिणः । क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥१२॥
ददर्श च तदा तत्र कुमारान् देव-रूपिणः । क्रीडमानान् सु विश्रब्धान् विस्मिता च इदम् अब्रवीत् ॥१२॥
dadarśa ca tadā tatra kumārān deva-rūpiṇaḥ . krīḍamānān su viśrabdhān vismitā ca idam abravīt ..12..
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः । वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥१३॥
कस्य एते दारकाः राजन् देव-पुत्र-उपमाः शुभाः । वर्चसा रूपतः च एव सदृशाः मे मताः तव ॥१३॥
kasya ete dārakāḥ rājan deva-putra-upamāḥ śubhāḥ . varcasā rūpataḥ ca eva sadṛśāḥ me matāḥ tava ..13..
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत । किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ॥१४॥ ( विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥१४॥ )
एवम् पृष्ट्वा तु राजानम् कुमारान् पर्यपृच्छत । किंनामधेय-गोत्रः वः पुत्रकाः ब्राह्मणः पिता ॥१४॥ ( विब्रूत मे यथातथ्यम् श्रोतुम् इच्छामि तम् हि अहम् ॥१४॥ )
evam pṛṣṭvā tu rājānam kumārān paryapṛcchata . kiṃnāmadheya-gotraḥ vaḥ putrakāḥ brāhmaṇaḥ pitā ..14.. ( vibrūta me yathātathyam śrotum icchāmi tam hi aham ..14.. )
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् । शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥१५॥
ते अदर्शयन् प्रदेशिन्या तम् एव नृप-सत्तमम् । शर्मिष्ठाम् मातरम् च एव तस्य आचख्युः च दारकाः ॥१५॥
te adarśayan pradeśinyā tam eva nṛpa-sattamam . śarmiṣṭhām mātaram ca eva tasya ācakhyuḥ ca dārakāḥ ..15..
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति । बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥१७॥
दृष्ट्वा तु तेषाम् बालानाम् प्रणयम् पार्थिवम् प्रति । बुद्ध्वा च तत्त्वतः देवी शर्मिष्ठाम् इदम् अब्रवीत् ॥१७॥
dṛṣṭvā tu teṣām bālānām praṇayam pārthivam prati . buddhvā ca tattvataḥ devī śarmiṣṭhām idam abravīt ..17..
मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥१८॥
मद्-अधीना सती कस्मात् अकार्षीः विप्रियम् मम । तम् एव आसुर-धर्मम् त्वम् आस्थिता न बिभेषि किम् ॥१८॥
mad-adhīnā satī kasmāt akārṣīḥ vipriyam mama . tam eva āsura-dharmam tvam āsthitā na bibheṣi kim ..18..
शर्मिष्ठोवाच॥
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥१९॥
यत् उक्तम् ऋषिः इति एव तत् सत्यम् चारु-हासिनि । न्यायतः धर्मतः च एव चरन्ती न बिभेमि ते ॥१९॥
yat uktam ṛṣiḥ iti eva tat satyam cāru-hāsini . nyāyataḥ dharmataḥ ca eva carantī na bibhemi te ..19..
यदा त्वया वृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥२०॥
यदा त्वया वृतः राजा वृतः एव तदा मया । सखी-भर्ता हि धर्मेण भर्ता भवति शोभने ॥२०॥
yadā tvayā vṛtaḥ rājā vṛtaḥ eva tadā mayā . sakhī-bhartā hi dharmeṇa bhartā bhavati śobhane ..20..
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी । त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥२१॥
पूज्या असि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी । त्वत्तः अपि मे पूज्यतमः राजर्षिः किम् न वेत्थ तत् ॥२१॥
pūjyā asi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī . tvattaḥ api me pūjyatamaḥ rājarṣiḥ kim na vettha tat ..21..
वैशम्पायन उवाच॥
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥२२॥
श्रुत्वा तस्याः ततस् वाक्यम् देवयानी अब्रवीत् इदम् । राजन् न अद्य इह वत्स्यामि विप्रियम् मे कृतम् त्वया ॥२२॥
śrutvā tasyāḥ tatas vākyam devayānī abravīt idam . rājan na adya iha vatsyāmi vipriyam me kṛtam tvayā ..22..
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥२३॥
सहसा उत्पतिताम् श्यामाम् दृष्ट्वा ताम् स अश्रु-लोचनाम् । त्वरितम् सकाशम् काव्यस्य प्रस्थिताम् व्यथितः तदा ॥२३॥
sahasā utpatitām śyāmām dṛṣṭvā tām sa aśru-locanām . tvaritam sakāśam kāvyasya prasthitām vyathitaḥ tadā ..23..
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः । न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥२४॥
अनुवव्राज सम्भ्रान्तः पृष्ठतस् सान्त्वयन् नृपः । न्यवर्तत न च एव स्म क्रोध-संरक्त-लोचना ॥२४॥
anuvavrāja sambhrāntaḥ pṛṣṭhatas sāntvayan nṛpaḥ . nyavartata na ca eva sma krodha-saṃrakta-locanā ..24..
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना । अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥२५॥
अ विब्रुवन्ती किञ्चिद् तु राजानम् चारु-लोचना । अचिरात् इव सम्प्राप्ता काव्यस्य उशनसः अन्तिकम् ॥२५॥
a vibruvantī kiñcid tu rājānam cāru-locanā . acirāt iva samprāptā kāvyasya uśanasaḥ antikam ..25..
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥२६॥
सा तु दृष्ट्वा एव पितरम् अभिवाद्य अग्रतस् स्थिता । अनन्तरम् ययातिः तु पूजयामास भार्गवम् ॥२६॥
sā tu dṛṣṭvā eva pitaram abhivādya agratas sthitā . anantaram yayātiḥ tu pūjayāmāsa bhārgavam ..26..
देवयान्युवाच॥
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥२७॥
अधर्मेण जितः धर्मः प्रवृत्तम् अधरोत्तरम् । शर्मिष्ठया अतिवृत्ता अस्मि दुहित्रा वृषपर्वणः ॥२७॥
adharmeṇa jitaḥ dharmaḥ pravṛttam adharottaram . śarmiṣṭhayā ativṛttā asmi duhitrā vṛṣaparvaṇaḥ ..27..
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥२८॥
त्रयः अस्याम् जनिताः पुत्राः राज्ञा अनेन ययातिना । दुर्भगायाः मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥२८॥
trayaḥ asyām janitāḥ putrāḥ rājñā anena yayātinā . durbhagāyāḥ mama dvau tu putrau tāta bravīmi te ..28..
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥२९॥
धर्म-ज्ञः इति विख्यातः एष राजा भृगूद्वह । अतिक्रान्तः च मर्यादाम् काव्य एतत् कथयामि ते ॥२९॥
dharma-jñaḥ iti vikhyātaḥ eṣa rājā bhṛgūdvaha . atikrāntaḥ ca maryādām kāvya etat kathayāmi te ..29..
शुक्र उवाच॥
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् । तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥३०॥
धर्म-ज्ञः सन् महा-राज यः अधर्मम् अकृथाः प्रियम् । तस्मात् जरा त्वाम् अचिरात् धर्षयिष्यति दुर्जया ॥३०॥
dharma-jñaḥ san mahā-rāja yaḥ adharmam akṛthāḥ priyam . tasmāt jarā tvām acirāt dharṣayiṣyati durjayā ..30..
ययातिरुवाच॥
ऋतुं वै याचमानाया भगवन्नान्यचेतसा । दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥३१॥
ऋतुम् वै याचमानायाः भगवत् न अन्य-चेतसा । दुहितुः दानव-इन्द्रस्य धर्म्यम् एतत् कृतम् मया ॥३१॥
ṛtum vai yācamānāyāḥ bhagavat na anya-cetasā . duhituḥ dānava-indrasya dharmyam etat kṛtam mayā ..31..
ऋतुं वै याचमानाया न ददाति पुमान्वृतः । भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥३२॥
ऋतुम् वै याचमानायाः न ददाति पुमान् वृतः । भ्रूण-हा इति उच्यते ब्रह्मन् सः इह ब्रह्म-वादिभिः ॥३२॥
ṛtum vai yācamānāyāḥ na dadāti pumān vṛtaḥ . bhrūṇa-hā iti ucyate brahman saḥ iha brahma-vādibhiḥ ..32..
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥३३॥
अभिकामाम् स्त्रियम् यः तु गम्याम् रहसि याचितः । न उपैति स च धर्मेषु भ्रूण-हा इति उच्यते बुधैः ॥३३॥
abhikāmām striyam yaḥ tu gamyām rahasi yācitaḥ . na upaiti sa ca dharmeṣu bhrūṇa-hā iti ucyate budhaiḥ ..33..
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥३४॥
इति एतानि समीक्ष्य अहम् कारणानि भृगूद्वह । अधर्म-भय-संविग्नः शर्मिष्ठाम् उपजग्मिवान् ॥३४॥
iti etāni samīkṣya aham kāraṇāni bhṛgūdvaha . adharma-bhaya-saṃvignaḥ śarmiṣṭhām upajagmivān ..34..
शुक्र उवाच॥
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव । मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥३५॥
ननु अहम् प्रत्यवेक्ष्यः ते मद्-अधीनः असि पार्थिव । मिथ्या आचारस्य धर्मेषु चौर्यम् भवति नाहुष ॥३५॥
nanu aham pratyavekṣyaḥ te mad-adhīnaḥ asi pārthiva . mithyā ācārasya dharmeṣu cauryam bhavati nāhuṣa ..35..
वैशम्पायन उवाच॥
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा । पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥३६॥
क्रुद्धेन उशनसा शप्तः ययातिः नाहुषः तदा । पूर्वम् वयः परित्यज्य जराम् सद्यस् अन्वपद्यत ॥३६॥
kruddhena uśanasā śaptaḥ yayātiḥ nāhuṣaḥ tadā . pūrvam vayaḥ parityajya jarām sadyas anvapadyata ..36..
ययातिरुवाच॥
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥३७॥
अतृप्तः यौवनस्य अहम् देवयान्याम् भृगूद्वह । प्रसादम् कुरु मे ब्रह्मन् जरा इयम् मा विशेत माम् ॥३७॥
atṛptaḥ yauvanasya aham devayānyām bhṛgūdvaha . prasādam kuru me brahman jarā iyam mā viśeta mām ..37..
शुक्र उवाच॥
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप । जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥३८॥
न अहम् मृषा ब्रवीमि एतत् जराम् प्राप्तः असि भूमिप । जराम् तु एताम् त्वम् अन्यस्मै सङ्क्रामय यदि इच्छसि ॥३८॥
na aham mṛṣā bravīmi etat jarām prāptaḥ asi bhūmipa . jarām tu etām tvam anyasmai saṅkrāmaya yadi icchasi ..38..
ययातिरुवाच॥
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा । यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥३९॥
राज्य-भाज् स भवेत् ब्रह्मन् पुण्य-भाज् कीर्ति-भाज् तथा । यः मे दद्यात् वयः पुत्रः तत् भवान् अनुमन्यताम् ॥३९॥
rājya-bhāj sa bhavet brahman puṇya-bhāj kīrti-bhāj tathā . yaḥ me dadyāt vayaḥ putraḥ tat bhavān anumanyatām ..39..
शुक्र उवाच॥
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय भावेन न च पापमवाप्स्यसि ॥४०॥
सङ्क्रामयिष्यसि जराम् यथेष्टम् नहुषात्मज । माम् अनुध्याय भावेन न च पापम् अवाप्स्यसि ॥४०॥
saṅkrāmayiṣyasi jarām yatheṣṭam nahuṣātmaja . mām anudhyāya bhāvena na ca pāpam avāpsyasi ..40..
वयो दास्यति ते पुत्रो यः स राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥४१॥ 1.83.42
वयः दास्यति ते पुत्रः यः स राजा भविष्यति । आयुष्मान् कीर्तिमान् च एव बहु-अपत्यः तथा एव च ॥४१॥ १।८३।४२
vayaḥ dāsyati te putraḥ yaḥ sa rājā bhaviṣyati . āyuṣmān kīrtimān ca eva bahu-apatyaḥ tathā eva ca ..41.. 1.83.42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In