| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥१॥
जराम् प्राप्य ययातिः तु स्व-पुरम् प्राप्य च एव ह । पुत्रम् ज्येष्ठम् वरिष्ठम् च यदुम् इति अब्रवीत् वचः ॥१॥
jarām prāpya yayātiḥ tu sva-puram prāpya ca eva ha . putram jyeṣṭham variṣṭham ca yadum iti abravīt vacaḥ ..1..
जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२॥
जरा वली च माम् तात पलितानि च पर्यगुः । काव्यस्य उशनसः शापात् न च तृप्तः अस्मि यौवने ॥२॥
jarā valī ca mām tāta palitāni ca paryaguḥ . kāvyasya uśanasaḥ śāpāt na ca tṛptaḥ asmi yauvane ..2..
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥३॥
त्वम् यदो प्रतिपद्यस्व पाप्मानम् जरया सह । यौवनेन त्वदीयेन चरेयम् विषयान् अहम् ॥३॥
tvam yado pratipadyasva pāpmānam jarayā saha . yauvanena tvadīyena careyam viṣayān aham ..3..
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥४॥
पूर्णे वर्ष-सहस्रे तु पुनर् ते यौवनम् तु अहम् । दत्त्वा स्वम् प्रतिपत्स्यामि पाप्मानम् जरया सह ॥४॥
pūrṇe varṣa-sahasre tu punar te yauvanam tu aham . dattvā svam pratipatsyāmi pāpmānam jarayā saha ..4..
यदुरुवाच॥
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः । वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥५॥
सित-श्मश्रु-शिराः दीनः जरया शिथिलीकृतः । वली-सन्तत-गात्रः च दुर्दर्शः दुर्बलः कृशः ॥५॥
sita-śmaśru-śirāḥ dīnaḥ jarayā śithilīkṛtaḥ . valī-santata-gātraḥ ca durdarśaḥ durbalaḥ kṛśaḥ ..5..
अशक्तः कार्यकरणे परिभूतः स यौवनैः । सहोपजीविभिश्चैव तां जरां नाभिकामये ॥६॥
अशक्तः कार्य-करणे परिभूतः स यौवनैः । सह उपजीविभिः च एव ताम् जराम् न अभिकामये ॥६॥
aśaktaḥ kārya-karaṇe paribhūtaḥ sa yauvanaiḥ . saha upajīvibhiḥ ca eva tām jarām na abhikāmaye ..6..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ॥७॥
यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि । तस्मात् अराज्य-भाज् तात प्रजा ते वै भविष्यति ॥७॥
yat tvam me hṛdayāt jātaḥ vayaḥ svam na prayacchasi . tasmāt arājya-bhāj tāta prajā te vai bhaviṣyati ..7..
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥८॥
तुर्वसो प्रतिपद्यस्व पाप्मानम् जरया सह । यौवनेन चरेयम् वै विषयान् तव पुत्रक ॥८॥
turvaso pratipadyasva pāpmānam jarayā saha . yauvanena careyam vai viṣayān tava putraka ..8..
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥९॥
पूर्णे वर्ष-सहस्रे तु पुनर् दास्यामि यौवनम् । स्वम् च एव प्रतिपत्स्यामि पाप्मानम् जरया सह ॥९॥
pūrṇe varṣa-sahasre tu punar dāsyāmi yauvanam . svam ca eva pratipatsyāmi pāpmānam jarayā saha ..9..
तुर्वसुरुवाच॥
न कामये जरां तात कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥१०॥
न कामये जराम् तात काम-भोग-प्रणाशिनीम् । बल-रूप-अन्त-करणीम् बुद्धि-प्राण-विनाशिनीम् ॥१०॥
na kāmaye jarām tāta kāma-bhoga-praṇāśinīm . bala-rūpa-anta-karaṇīm buddhi-prāṇa-vināśinīm ..10..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥११॥
यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि । तस्मात् प्रजा समुच्छेदम् तुर्वसो तव यास्यति ॥११॥
yat tvam me hṛdayāt jātaḥ vayaḥ svam na prayacchasi . tasmāt prajā samucchedam turvaso tava yāsyati ..11..
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च । पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥१२॥
सङ्कीर्ण-आचार-धर्मेषु प्रतिलोम-चरेषु च । पिशित-आशिषु च अन्त्येषु मूढ राजा भविष्यसि ॥१२॥
saṅkīrṇa-ācāra-dharmeṣu pratiloma-careṣu ca . piśita-āśiṣu ca antyeṣu mūḍha rājā bhaviṣyasi ..12..
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च । पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥१३॥
गुरु-दार-प्रसक्तेषु तिर्यग्योनि-गतेषु च । पशु-धर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥१३॥
guru-dāra-prasakteṣu tiryagyoni-gateṣu ca . paśu-dharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi ..13..
वैशम्पायन उवाच॥
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥१४॥
एवम् स तुर्वसुम् शप्त्वा ययातिः सुतम् आत्मनः । शर्मिष्ठायाः सुतम् द्रुह्युम् इदम् वचनम् अब्रवीत् ॥१४॥
evam sa turvasum śaptvā yayātiḥ sutam ātmanaḥ . śarmiṣṭhāyāḥ sutam druhyum idam vacanam abravīt ..14..
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥१५॥
द्रुह्यो त्वम् प्रतिपद्यस्व वर्ण-रूप-विनाशिनीम् । जराम् वर्ष-सहस्रम् मे यौवनम् स्वम् ददस्व च ॥१५॥
druhyo tvam pratipadyasva varṇa-rūpa-vināśinīm . jarām varṣa-sahasram me yauvanam svam dadasva ca ..15..
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥१६॥
पूर्णे वर्ष-सहस्रे तु प्रतिदास्यामि यौवनम् । स्वम् च आदास्यामि भूयस् अहम् पाप्मानम् जरया सह ॥१६॥
pūrṇe varṣa-sahasre tu pratidāsyāmi yauvanam . svam ca ādāsyāmi bhūyas aham pāpmānam jarayā saha ..16..
द्रुह्युरुवाच॥
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥१७॥
न गजम् न रथम् न अश्वम् जीर्णः भुङ्क्ते न च स्त्रियम् । वाच्-भङ्गः च अस्य भवति तत् जराम् न अभिकामये ॥१७॥
na gajam na ratham na aśvam jīrṇaḥ bhuṅkte na ca striyam . vāc-bhaṅgaḥ ca asya bhavati tat jarām na abhikāmaye ..17..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥१८॥
यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि । तस्मात् द्रुह्यो प्रियः कामः न ते सम्पत्स्यते क्वचिद् ॥१८॥
yat tvam me hṛdayāt jātaḥ vayaḥ svam na prayacchasi . tasmāt druhyo priyaḥ kāmaḥ na te sampatsyate kvacid ..18..
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति । अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥१९॥
उडुप-प्लव-सन्तारः यत्र नित्यम् भविष्यति । अ राजा भोज-शब्दम् त्वम् तत्र अवाप्स्यसि स अन्वयः ॥१९॥
uḍupa-plava-santāraḥ yatra nityam bhaviṣyati . a rājā bhoja-śabdam tvam tatra avāpsyasi sa anvayaḥ ..19..
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥२०॥
अनो त्वम् प्रतिपद्यस्व पाप्मानम् जरया सह । एकम् वर्ष-सहस्रम् तु चरेयम् यौवनेन ते ॥२०॥
ano tvam pratipadyasva pāpmānam jarayā saha . ekam varṣa-sahasram tu careyam yauvanena te ..20..
अनुरुवाच॥
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा । न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥२१॥
जीर्णः शिशु-वत् आदत्ते अकाले अन्नम् अशुचिः यथा । न जुहोति च काले अग्निम् ताम् जराम् न अभिकामये ॥२१॥
jīrṇaḥ śiśu-vat ādatte akāle annam aśuciḥ yathā . na juhoti ca kāle agnim tām jarām na abhikāmaye ..21..
ययातिरुवाच॥
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥२२॥
यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि । जरा-दोषः त्वया उक्तः अयम् तस्मात् त्वम् प्रतिपत्स्यसे ॥२२॥
yat tvam me hṛdayāt jātaḥ vayaḥ svam na prayacchasi . jarā-doṣaḥ tvayā uktaḥ ayam tasmāt tvam pratipatsyase ..22..
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव । अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥२३॥
प्रजाः च यौवन-प्राप्ताः विनशिष्यन्ति अनो तव । अग्नि-प्रस्कन्दन-परः त्वम् च अपि एवम् भविष्यसि ॥२३॥
prajāḥ ca yauvana-prāptāḥ vinaśiṣyanti ano tava . agni-praskandana-paraḥ tvam ca api evam bhaviṣyasi ..23..
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥२४॥ ( काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥२४॥ )
पूरो त्वम् मे प्रियः पुत्रः त्वम् वरीयान् भविष्यसि । जरा वली च मे तात पलितानि च पर्यगुः ॥२४॥ ( काव्यस्य उशनसः शापात् न च तृप्तः अस्मि यौवने ॥२४॥ )
pūro tvam me priyaḥ putraḥ tvam varīyān bhaviṣyasi . jarā valī ca me tāta palitāni ca paryaguḥ ..24.. ( kāvyasya uśanasaḥ śāpāt na ca tṛptaḥ asmi yauvane ..24.. )
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । कञ्चित्कालं चरेयं वै विषयान्वयसा तव ॥२५॥
पूरो त्वम् प्रतिपद्यस्व पाप्मानम् जरया सह । कञ्चिद् कालम् चरेयम् वै विषयान् वयसा तव ॥२५॥
pūro tvam pratipadyasva pāpmānam jarayā saha . kañcid kālam careyam vai viṣayān vayasā tava ..25..
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥२६॥
पूर्णे वर्ष-सहस्रे तु प्रतिदास्यामि यौवनम् । स्वम् च एव प्रतिपत्स्यामि पाप्मानम् जरया सह ॥२६॥
pūrṇe varṣa-sahasre tu pratidāsyāmi yauvanam . svam ca eva pratipatsyāmi pāpmānam jarayā saha ..26..
वैशम्पायन उवाच॥
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥२७॥
एवम् उक्तः प्रत्युवाच पूरुः पितरम् अञ्जसा । यथा आत्थ माम् महा-राज तत् करिष्यामि ते वचः ॥२७॥
evam uktaḥ pratyuvāca pūruḥ pitaram añjasā . yathā āttha mām mahā-rāja tat kariṣyāmi te vacaḥ ..27..
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥२८॥
प्रतिपत्स्यामि ते राजन् पाप्मानम् जरया सह । गृहाण यौवनम् मत्तः चर कामान् यथा ईप्सितान् ॥२८॥
pratipatsyāmi te rājan pāpmānam jarayā saha . gṛhāṇa yauvanam mattaḥ cara kāmān yathā īpsitān ..28..
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥२९॥
जरया अहम् प्रतिच्छन्नः वयः-रूप-धरः तव । यौवनम् भवते दत्त्वा चरिष्यामि यथा आत्थ माम् ॥२९॥
jarayā aham praticchannaḥ vayaḥ-rūpa-dharaḥ tava . yauvanam bhavate dattvā cariṣyāmi yathā āttha mām ..29..
ययातिरुवाच॥
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥३०॥1.84.33
पूरो प्रीतः अस्मि ते वत्स प्रीतः च इदम् ददामि ते । सर्व-काम-समृद्धा ते प्रजा राज्ये भविष्यति ॥३०॥१।८४।३३
pūro prītaḥ asmi te vatsa prītaḥ ca idam dadāmi te . sarva-kāma-samṛddhā te prajā rājye bhaviṣyati ..30..1.84.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In