| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥१॥
तेषु तत्र उपविष्टेषु ब्राह्मणेषु समन्ततः । रुरुः चुक्रोश गहनम् वनम् गत्वा सु दुःखितः ॥१॥
teṣu tatra upaviṣṭeṣu brāhmaṇeṣu samantataḥ . ruruḥ cukrośa gahanam vanam gatvā su duḥkhitaḥ ..1..
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥२॥
शोकेन अभिहतः सः अथ विलपन् करुणम् बहु । अब्रवीत् वचनम् शोचन् प्रियाम् चिन्त्य प्रमद्वराम् ॥२॥
śokena abhihataḥ saḥ atha vilapan karuṇam bahu . abravīt vacanam śocan priyām cintya pramadvarām ..2..
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥३॥
शेते सा भुवि तन्वङ्गी मम शोक-विवर्धिनी । बान्धवानाम् च सर्वेषाम् किम् नु दुःखम् अतस् परम् ॥३॥
śete sā bhuvi tanvaṅgī mama śoka-vivardhinī . bāndhavānām ca sarveṣām kim nu duḥkham atas param ..3..
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥४॥
यदि दत्तम् तपः तप्तम् गुरवः वा मया यदि । सम्यक् आराधिताः तेन सञ्जीवतु मम प्रिया ॥४॥
yadi dattam tapaḥ taptam guravaḥ vā mayā yadi . samyak ārādhitāḥ tena sañjīvatu mama priyā ..4..
यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः । प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥५॥
यथा जन्म-प्रभृति वै यत-आत्मा अहम् धृत-व्रतः । प्रमद्वरा तथा अद्य एव समुत्तिष्ठतु भामिनी ॥५॥
yathā janma-prabhṛti vai yata-ātmā aham dhṛta-vrataḥ . pramadvarā tathā adya eva samuttiṣṭhatu bhāminī ..5..
देवदूत उवाच॥
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा । न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥६॥
अभिधत्से ह यत् वाचा रुरो दुःखेन तत् मृषा । न तु मर्त्यस्य धर्म-आत्मन् आयुः अस्ति गत-आयुषः ॥६॥
abhidhatse ha yat vācā ruro duḥkhena tat mṛṣā . na tu martyasya dharma-ātman āyuḥ asti gata-āyuṣaḥ ..6..
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥७॥
गत-आयुः एषा कृपणा गन्धर्व-अप्सरसोः सुता । तस्मात् शोके मनः तात मा कृथाः त्वम् कथञ्चन ॥७॥
gata-āyuḥ eṣā kṛpaṇā gandharva-apsarasoḥ sutā . tasmāt śoke manaḥ tāta mā kṛthāḥ tvam kathañcana ..7..
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ॥८॥
उपायः च अत्र विहितः पूर्वम् देवैः महात्मभिः । तम् यदि इच्छसि कर्तुम् त्वम् प्राप्स्यसि इमाम् प्रमद्वराम् ॥८॥
upāyaḥ ca atra vihitaḥ pūrvam devaiḥ mahātmabhiḥ . tam yadi icchasi kartum tvam prāpsyasi imām pramadvarām ..8..
रुरुरुवाच॥
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर । करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥९॥
कः उपायः कृतः देवैः ब्रूहि तत्त्वेन खेचर । करिष्ये तम् तथा श्रुत्वा त्रातुम् अर्हति माम् भवान् ॥९॥
kaḥ upāyaḥ kṛtaḥ devaiḥ brūhi tattvena khecara . kariṣye tam tathā śrutvā trātum arhati mām bhavān ..9..
देवदूत उवाच॥
आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन । एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१०॥
आयुषः अर्धम् प्रयच्छस्व कन्यायै भृगु-नन्दन । एवम् उत्थास्यति रुरो तव भार्या प्रमद्वरा ॥१०॥
āyuṣaḥ ardham prayacchasva kanyāyai bhṛgu-nandana . evam utthāsyati ruro tava bhāryā pramadvarā ..10..
रुरुरुवाच॥
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥११॥
आयुषः अर्धम् प्रयच्छामि कन्यायै खेचर-उत्तम । शृङ्गार-रूप-आभरणा उत्तिष्ठतु मम प्रिया ॥११॥
āyuṣaḥ ardham prayacchāmi kanyāyai khecara-uttama . śṛṅgāra-rūpa-ābharaṇā uttiṣṭhatu mama priyā ..11..
सूत उवाच॥
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥१२॥
ततस् गन्धर्व-राजः च देव-दूतः च सत्तमौ । धर्मराजम् उपेत्य इदम् वचनम् प्रत्यभाषताम् ॥१२॥
tatas gandharva-rājaḥ ca deva-dūtaḥ ca sattamau . dharmarājam upetya idam vacanam pratyabhāṣatām ..12..
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥१३॥
धर्मराज-आयुषः अर्धेन रुरोः भार्या प्रमद्वरा । समुत्तिष्ठतु कल्याणी मृता एव यदि मन्यसे ॥१३॥
dharmarāja-āyuṣaḥ ardhena ruroḥ bhāryā pramadvarā . samuttiṣṭhatu kalyāṇī mṛtā eva yadi manyase ..13..
धर्मराज उवाच॥
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥१४॥
प्रमद्वरा रुरोः भार्या देव-दूत यदि इच्छसि । उत्तिष्ठतु आयुषः अर्धेन रुरोः एव समन्विता ॥१४॥
pramadvarā ruroḥ bhāryā deva-dūta yadi icchasi . uttiṣṭhatu āyuṣaḥ ardhena ruroḥ eva samanvitā ..14..
सूत उवाच॥
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥१५॥
एवम् उक्ते ततस् कन्या सा उदतिष्ठत् प्रमद्वरा । रुरोः तस्य आयुषः अर्धेन सुप्ता इव वरवर्णिनी ॥१५॥
evam ukte tatas kanyā sā udatiṣṭhat pramadvarā . ruroḥ tasya āyuṣaḥ ardhena suptā iva varavarṇinī ..15..
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥१६॥
एतत् दृष्टम् भविष्ये हि रुरोः उत्तम-तेजसः । आयुषः अतिप्रवृद्धस्य भार्या-अर्थे अर्धम् ह्रसतु इति ॥१६॥
etat dṛṣṭam bhaviṣye hi ruroḥ uttama-tejasaḥ . āyuṣaḥ atipravṛddhasya bhāryā-arthe ardham hrasatu iti ..16..
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । विवाहं तौ च रेमाते परस्परहितैषिणौ ॥१७॥
ततस् इष्टे अहनि तयोः पितरौ चक्रतुः मुदा । विवाहम् तौ च रेमाते परस्पर-हित-एषिणौ ॥१७॥
tatas iṣṭe ahani tayoḥ pitarau cakratuḥ mudā . vivāham tau ca remāte paraspara-hita-eṣiṇau ..17..
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् । व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥१८॥
स लब्ध्वा दुर्लभाम् भार्याम् पद्म-किञ्जल्क-सप्रभाम् । व्रतम् चक्रे विनाशाय जिह्मगानाम् धृत-व्रतः ॥१८॥
sa labdhvā durlabhām bhāryām padma-kiñjalka-saprabhām . vratam cakre vināśāya jihmagānām dhṛta-vrataḥ ..18..
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥१९॥
स दृष्ट्वा जिह्मगान् सर्वान् तीव्र-कोप-समन्वितः । अभिहन्ति यथासन्नम् गृह्य प्रहरणम् सदा ॥१९॥
sa dṛṣṭvā jihmagān sarvān tīvra-kopa-samanvitaḥ . abhihanti yathāsannam gṛhya praharaṇam sadā ..19..
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥२०॥
स कदाचिद् वनम् विप्रः रुरुः अभ्यागमत् महत् । शयानम् तत्र च अपश्यत् डुण्डुभम् वयसा अन्वितम् ॥२०॥
sa kadācid vanam vipraḥ ruruḥ abhyāgamat mahat . śayānam tatra ca apaśyat ḍuṇḍubham vayasā anvitam ..20..
तत उद्यम्य दण्डं स कालदण्डोपमं तदा । अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥२१॥
ततस् उद्यम्य दण्डम् स काल-दण्ड-उपमम् तदा । अभ्यघ्नत् रुषितः विप्रः तम् उवाच अथ डुण्डुभः ॥२१॥
tatas udyamya daṇḍam sa kāla-daṇḍa-upamam tadā . abhyaghnat ruṣitaḥ vipraḥ tam uvāca atha ḍuṇḍubhaḥ ..21..
नापराध्यामि ते किञ्चिदहमद्य तपोधन । संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ॥२२॥1.9.23
न अपराध्यामि ते किञ्चिद् अहम् अद्य तपोधन । संरम्भात् तत् किमर्थम् माम् अभिहंसि रुषा अन्वितः ॥२२॥१।९।२३
na aparādhyāmi te kiñcid aham adya tapodhana . saṃrambhāt tat kimartham mām abhihaṃsi ruṣā anvitaḥ ..22..1.9.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In