| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥१॥
पौरवेण अथ वयसा ययातिः नहुष-आत्मजः । प्रीति-युक्तः नृप-श्रेष्ठः चचार विषयान् प्रियान् ॥१॥
pauraveṇa atha vayasā yayātiḥ nahuṣa-ātmajaḥ . prīti-yuktaḥ nṛpa-śreṣṭhaḥ cacāra viṣayān priyān ..1..
यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥२॥
यथाकामम् यथा उत्साहम् यथा कालम् यथासुखम् । धर्म-अविरुद्धान् राज-इन्द्रः यथा अर्हति सः एव हि ॥२॥
yathākāmam yathā utsāham yathā kālam yathāsukham . dharma-aviruddhān rāja-indraḥ yathā arhati saḥ eva hi ..2..
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि । दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥३॥
देवान् अतर्पयत् यज्ञैः श्राद्धैः तद्वत् पितृन् अपि । दीनान् अनुग्रहैः इष्टैः कामैः च द्विजसत्तमान् ॥३॥
devān atarpayat yajñaiḥ śrāddhaiḥ tadvat pitṛn api . dīnān anugrahaiḥ iṣṭaiḥ kāmaiḥ ca dvijasattamān ..3..
अतिथीनन्नपानैश्च विशश्च परिपालनैः । आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥४॥
अतिथीन् अन्न-पानैः च विशः च परिपालनैः । आनृशंस्येन शूद्रान् च दस्यून् संनिग्रहेण च ॥४॥
atithīn anna-pānaiḥ ca viśaḥ ca paripālanaiḥ . ānṛśaṃsyena śūdrān ca dasyūn saṃnigraheṇa ca ..4..
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥५॥
धर्मेण च प्रजाः सर्वाः यथावत् अनुरञ्जयन् । ययातिः पालयामास साक्षात् इन्द्रः इव अपरः ॥५॥
dharmeṇa ca prajāḥ sarvāḥ yathāvat anurañjayan . yayātiḥ pālayāmāsa sākṣāt indraḥ iva aparaḥ ..5..
स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥६॥
स राजा सिंह-विक्रान्तः युवा विषय-गोचरः । अविरोधेन धर्मस्य चचार सुखम् उत्तमम् ॥६॥
sa rājā siṃha-vikrāntaḥ yuvā viṣaya-gocaraḥ . avirodhena dharmasya cacāra sukham uttamam ..6..
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥७॥
स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नः च पार्थिवः । कालम् वर्ष-सहस्र-अन्तम् सस्मार मनुज-अधिपः ॥७॥
sa samprāpya śubhān kāmān tṛptaḥ khinnaḥ ca pārthivaḥ . kālam varṣa-sahasra-antam sasmāra manuja-adhipaḥ ..7..
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् । पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥८॥
परिसङ्ख्याय काल-ज्ञः कलाः काष्ठाः च वीर्यवान् । पूर्णम् मत्वा ततस् कालम् पूरुम् पुत्रम् उवाच ह ॥८॥
parisaṅkhyāya kāla-jñaḥ kalāḥ kāṣṭhāḥ ca vīryavān . pūrṇam matvā tatas kālam pūrum putram uvāca ha ..8..
यथाकामं यथोत्साहं यथाकालमरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥९॥
यथाकामम् यथा उत्साहम् यथाकालम् अरिंदम । सेविताः विषयाः पुत्र यौवनेन मया तव ॥९॥
yathākāmam yathā utsāham yathākālam ariṃdama . sevitāḥ viṣayāḥ putra yauvanena mayā tava ..9..
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥१०॥
पूरो प्रीतः अस्मि भद्रम् ते गृहाण इदम् स्व-यौवनम् । राज्यम् च एव गृहाण इदम् त्वम् हि मे प्रिय-कृत्-सुतः ॥१०॥
pūro prītaḥ asmi bhadram te gṛhāṇa idam sva-yauvanam . rājyam ca eva gṛhāṇa idam tvam hi me priya-kṛt-sutaḥ ..10..
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥११॥
प्रतिपेदे जराम् राजा ययातिः नाहुषः तदा । यौवनम् प्रतिपेदे च पूरुः स्वम् पुनर् आत्मनः ॥११॥
pratipede jarām rājā yayātiḥ nāhuṣaḥ tadā . yauvanam pratipede ca pūruḥ svam punar ātmanaḥ ..11..
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥१२॥
अभिषेक्तु-कामम् नृपतिम् पूरुम् पुत्रम् कनीयसम् । ब्राह्मण-प्रमुखाः वर्णाः इदम् वचनम् अब्रुवन् ॥१२॥
abhiṣektu-kāmam nṛpatim pūrum putram kanīyasam . brāhmaṇa-pramukhāḥ varṇāḥ idam vacanam abruvan ..12..
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥१३॥
कथम् शुक्रस्य नप्तारम् देवयान्याः सुतम् प्रभो । ज्येष्ठम् यदुम् अतिक्रम्य राज्यम् पूरोः प्रदास्यसि ॥१३॥
katham śukrasya naptāram devayānyāḥ sutam prabho . jyeṣṭham yadum atikramya rājyam pūroḥ pradāsyasi ..13..
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः । शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥१४॥
यदुः ज्येष्ठः तव सुतः जातः तम् अनु तुर्वसुः । शर्मिष्ठायाः सुतः द्रुह्युः ततस् अनुः पूरुः एव च ॥१४॥
yaduḥ jyeṣṭhaḥ tava sutaḥ jātaḥ tam anu turvasuḥ . śarmiṣṭhāyāḥ sutaḥ druhyuḥ tatas anuḥ pūruḥ eva ca ..14..
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥१५॥
कथम् ज्येष्ठान् अतिक्रम्य कनीयान् राज्यम् अर्हति । एतत् सम्बोधयामः त्वाम् धर्मम् त्वम् अनुपालय ॥१५॥
katham jyeṣṭhān atikramya kanīyān rājyam arhati . etat sambodhayāmaḥ tvām dharmam tvam anupālaya ..15..
ययातिरुवाच॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥१६॥
ब्राह्मण-प्रमुखाः वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठम् प्रति यथा राज्यम् न देयम् मे कथञ्चन ॥१६॥
brāhmaṇa-pramukhāḥ varṇāḥ sarve śṛṇvantu me vacaḥ . jyeṣṭham prati yathā rājyam na deyam me kathañcana ..16..
मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥१७॥
मम ज्येष्ठेन यदुना नियोगः न अनुपालितः । प्रतिकूलः पितुः यः च न स पुत्रः सताम् मतः ॥१७॥
mama jyeṣṭhena yadunā niyogaḥ na anupālitaḥ . pratikūlaḥ pituḥ yaḥ ca na sa putraḥ satām mataḥ ..17..
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥१८॥
माता-पित्रोः वचन-कृत् हितः पथ्यः च यः सुतः । स पुत्रः पुत्र-वत् यः च वर्तते पितृ-मातृषु ॥१८॥
mātā-pitroḥ vacana-kṛt hitaḥ pathyaḥ ca yaḥ sutaḥ . sa putraḥ putra-vat yaḥ ca vartate pitṛ-mātṛṣu ..18..
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च । द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥१९॥
यदुना अहम् अवज्ञातः तथा तुर्वसुना अपि च । द्रुह्युना च अनुना च एव मयि अवज्ञा कृता भृशम् ॥१९॥
yadunā aham avajñātaḥ tathā turvasunā api ca . druhyunā ca anunā ca eva mayi avajñā kṛtā bhṛśam ..19..
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥२०॥ ( मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥२०॥ )
पूरुणा मे कृतम् वाक्यम् मानितः च विशेषतः । कनीयान् मम दायादः जरा येन धृता मम ॥२०॥ ( मम कामः स च कृतः पूरुणा पुत्र-रूपिणा ॥२०॥ )
pūruṇā me kṛtam vākyam mānitaḥ ca viśeṣataḥ . kanīyān mama dāyādaḥ jarā yena dhṛtā mama ..20.. ( mama kāmaḥ sa ca kṛtaḥ pūruṇā putra-rūpiṇā ..20.. )
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् । पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ॥२१॥ ( भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥२१॥ )
शुक्रेण च वरः दत्तः काव्येन उशनसा स्वयम् । पुत्रः यः त्वा अनुवर्तेत स राजा पृथिवीपतिः ॥२१॥ ( भवतः अनुनयामि एवम् पूरुः राज्ये अभिषिच्यताम् ॥२१॥ )
śukreṇa ca varaḥ dattaḥ kāvyena uśanasā svayam . putraḥ yaḥ tvā anuvarteta sa rājā pṛthivīpatiḥ ..21.. ( bhavataḥ anunayāmi evam pūruḥ rājye abhiṣicyatām ..21.. )
प्रकृतय ऊचुः॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥२२॥
यः पुत्रः गुण-सम्पन्नः माता-पित्रोः हितः सदा । सर्वम् अर्हति कल्याणम् कनीयान् अपि स प्रभो ॥२२॥
yaḥ putraḥ guṇa-sampannaḥ mātā-pitroḥ hitaḥ sadā . sarvam arhati kalyāṇam kanīyān api sa prabho ..22..
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥२३॥
अर्हः पूरुः इदम् राज्यम् यः सुतः प्रिय-कृत् तव । वर-दानेन शुक्रस्य न शक्यम् वक्तुम् उत्तरम् ॥२३॥
arhaḥ pūruḥ idam rājyam yaḥ sutaḥ priya-kṛt tava . vara-dānena śukrasya na śakyam vaktum uttaram ..23..
वैशम्पायन उवाच॥
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा । अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥२४॥
पौर-जानपदैः तुष्टैः इति उक्तः नाहुषः तदा । अभ्यषिञ्चत् ततस् पूरुम् राज्ये स्वे सुतम् आत्मजम् ॥२४॥
paura-jānapadaiḥ tuṣṭaiḥ iti uktaḥ nāhuṣaḥ tadā . abhyaṣiñcat tatas pūrum rājye sve sutam ātmajam ..24..
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥२५॥
दत्त्वा च पूरवे राज्यम् वन-वासाय दीक्षितः । पुरात् स निर्ययौ राजा ब्राह्मणैः तापसैः सह ॥२५॥
dattvā ca pūrave rājyam vana-vāsāya dīkṣitaḥ . purāt sa niryayau rājā brāhmaṇaiḥ tāpasaiḥ saha ..25..
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः । द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥२६॥
यदोः तु यादवाः जाताः तुर्वसोः यवनाः सुताः । द्रुह्योः अपि सुताः भोजाः अनोः तु म्लेच्छ-जातयः ॥२६॥
yadoḥ tu yādavāḥ jātāḥ turvasoḥ yavanāḥ sutāḥ . druhyoḥ api sutāḥ bhojāḥ anoḥ tu mleccha-jātayaḥ ..26..
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव । इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥२७॥ 1.85.35
पूरोः तु पौरवः वंशः यत्र जातः असि पार्थिव । इदम् वर्ष-सहस्राय राज्यम् कारयितुम् वशी ॥२७॥ १।८५।३५
pūroḥ tu pauravaḥ vaṃśaḥ yatra jātaḥ asi pārthiva . idam varṣa-sahasrāya rājyam kārayitum vaśī ..27.. 1.85.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In