| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

उत्तरयायातम् । वैशम्पायन उवाच॥
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥१॥
एवम् स नाहुषः राजा ययातिः पुत्रम् ईप्सितम् । राज्ये अभिषिच्य मुदितः वानप्रस्थः अभवत् मुनिः ॥१॥
evam sa nāhuṣaḥ rājā yayātiḥ putram īpsitam . rājye abhiṣicya muditaḥ vānaprasthaḥ abhavat muniḥ ..1..
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥२॥
उषित्वा च वने वासम् ब्राह्मणैः सह संश्रितः । फल-मूल-अशनः दान्तः यथा स्वर्गम् इतस् गतः ॥२॥
uṣitvā ca vane vāsam brāhmaṇaiḥ saha saṃśritaḥ . phala-mūla-aśanaḥ dāntaḥ yathā svargam itas gataḥ ..2..
स गतः सुरवासं तं निवसन्मुदितः सुखम् । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥३॥
स गतः सुर-वासम् तम् निवसन् मुदितः सुखम् । कालस्य न अतिमहतः पुनर् शक्रेण पातितः ॥३॥
sa gataḥ sura-vāsam tam nivasan muditaḥ sukham . kālasya na atimahataḥ punar śakreṇa pātitaḥ ..3..
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥४॥
निपतन् प्रच्युतः स्वर्गात् अप्राप्तः मेदिनी-तलम् । स्थितः आसीत् अन्तरिक्षे स तदा इति श्रुतम् मया ॥४॥
nipatan pracyutaḥ svargāt aprāptaḥ medinī-talam . sthitaḥ āsīt antarikṣe sa tadā iti śrutam mayā ..4..
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ॥५॥ ( प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥ )
ततस् एव पुनर् च अपि गतः स्वर्गम् इति श्रुतिः । राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् ॥५॥ ( प्रतर्दनेन शिबिना समेत्य किल संसदि ॥५॥ )
tatas eva punar ca api gataḥ svargam iti śrutiḥ . rājñā vasumatā sārdham aṣṭakena ca vīryavān ..5.. ( pratardanena śibinā sametya kila saṃsadi ..5.. )
जनमेजय उवाच॥
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ॥६॥ ( कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥६॥ )
कर्मणा केन स दिवम् पुनर् प्राप्तः महीपतिः । सर्वम् एतत् अशेषेण श्रोतुम् इच्छामि तत्त्वतः ॥६॥ ( कथ्यमानम् त्वया विप्र विप्र-ऋषि-गण-संनिधौ ॥६॥ )
karmaṇā kena sa divam punar prāptaḥ mahīpatiḥ . sarvam etat aśeṣeṇa śrotum icchāmi tattvataḥ ..6.. ( kathyamānam tvayā vipra vipra-ṛṣi-gaṇa-saṃnidhau ..6.. )
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥७॥
देव-राज-समः हि आसीत् ययातिः पृथिवीपतिः । वर्धनः कुरु-वंशस्य विभावसु-सम-द्युतिः ॥७॥
deva-rāja-samaḥ hi āsīt yayātiḥ pṛthivīpatiḥ . vardhanaḥ kuru-vaṃśasya vibhāvasu-sama-dyutiḥ ..7..
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥८॥
तस्य विस्तीर्ण-यशसः सत्य-कीर्तेः महात्मनः । चरितम् श्रोतुम् इच्छामि दिवि च इह च सर्वशस् ॥८॥
tasya vistīrṇa-yaśasaḥ satya-kīrteḥ mahātmanaḥ . caritam śrotum icchāmi divi ca iha ca sarvaśas ..8..
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥९॥
हन्त ते कथयिष्यामि ययातेः उत्तराम् कथाम् । दिवि च इह च पुण्य-अर्थाम् सर्व-पाप-प्रणाशिनीम् ॥९॥
hanta te kathayiṣyāmi yayāteḥ uttarām kathām . divi ca iha ca puṇya-arthām sarva-pāpa-praṇāśinīm ..9..
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥१०॥
ययातिः नाहुषः राजा पूरुम् पुत्रम् कनीयसम् । राज्ये अभिषिच्य मुदितः प्रवव्राज वनम् तदा ॥१०॥
yayātiḥ nāhuṣaḥ rājā pūrum putram kanīyasam . rājye abhiṣicya muditaḥ pravavrāja vanam tadā ..10..
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् । फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥११॥
अन्तेषु स विनिक्षिप्य पुत्रान् यदु-पुरोगमान् । फल-मूल-अशनः राजा वने संन्यवसत् चिरम् ॥११॥
anteṣu sa vinikṣipya putrān yadu-purogamān . phala-mūla-aśanaḥ rājā vane saṃnyavasat ciram ..11..
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः । अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ॥१२॥
संशित-आत्मा जित-क्रोधः तर्पयन् पितृ-देवताः । अग्नीन् च विधिवत् जुह्वन् वानप्रस्थ-विधानतः ॥१२॥
saṃśita-ātmā jita-krodhaḥ tarpayan pitṛ-devatāḥ . agnīn ca vidhivat juhvan vānaprastha-vidhānataḥ ..12..
अतिथीन्पूजयामास वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥१३॥
अतिथीन् पूजयामास वन्येन हविषा विभुः । शिल-उञ्छ-वृत्तिम् आस्थाय शेषान्न-कृत-भोजनः ॥१३॥
atithīn pūjayāmāsa vanyena haviṣā vibhuḥ . śila-uñcha-vṛttim āsthāya śeṣānna-kṛta-bhojanaḥ ..13..
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः । अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ॥१४॥
पूर्णम् वर्ष-सहस्रम् सः एवंवृत्तिः अभूत् नृपः । अब्भक्षः शरदः त्रिंशत् आसीत् नियत-वाच्-मनाः ॥१४॥
pūrṇam varṣa-sahasram saḥ evaṃvṛttiḥ abhūt nṛpaḥ . abbhakṣaḥ śaradaḥ triṃśat āsīt niyata-vāc-manāḥ ..14..
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ॥१५॥
ततस् च वायुभक्षः अभूत् संवत्सरम् अतन्द्रितः । पञ्चाग्नि-मध्ये च तपः तेपे संवत्सरम् नृपः ॥१५॥
tatas ca vāyubhakṣaḥ abhūt saṃvatsaram atandritaḥ . pañcāgni-madhye ca tapaḥ tepe saṃvatsaram nṛpaḥ ..15..
एकपादस्थितश्चासीत्षण्मासाननिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥१६॥1.86.17
एक-पाद-स्थितः च आसीत् षष्-मासान् अनिल-अशनः । पुण्य-कीर्तिः ततस् स्वर्गम् जगाम आवृत्य रोदसी ॥१६॥१।८६।१७
eka-pāda-sthitaḥ ca āsīt ṣaṣ-māsān anila-aśanaḥ . puṇya-kīrtiḥ tatas svargam jagāma āvṛtya rodasī ..16..1.86.17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In