| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥१॥
स्वर् गतः स तु राज-इन्द्रः निवसन् देव-सद्मनि । पूजितः त्रिदशैः साध्यैः मरुद्भिः वसुभिः तथा ॥१॥
svar gataḥ sa tu rāja-indraḥ nivasan deva-sadmani . pūjitaḥ tridaśaiḥ sādhyaiḥ marudbhiḥ vasubhiḥ tathā ..1..
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥२॥
देवलोकात् ब्रह्मलोकम् सञ्चरन् पुण्य-कृत् वशी । अवसत् पृथिवी-पालः दीर्घ-कालम् इति श्रुतिः ॥२॥
devalokāt brahmalokam sañcaran puṇya-kṛt vaśī . avasat pṛthivī-pālaḥ dīrgha-kālam iti śrutiḥ ..2..
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
स कदाचिद् नृप-श्रेष्ठः ययातिः शक्रम् आगमत् । कथा-अन्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥३॥
sa kadācid nṛpa-śreṣṭhaḥ yayātiḥ śakram āgamat . kathā-ante tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ ..3..
शक्र उवाच॥
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ । तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ॥४॥
यदा स पूरुः तव रूपेण राज; ञ्जराम् गृहीत्वा प्रचचार भूमौ । तदा राज्यम् सम्प्रदाय एव तस्मै; त्वया किम् उक्तः कथय इह सत्यम् ॥४॥
yadā sa pūruḥ tava rūpeṇa rāja; ñjarām gṛhītvā pracacāra bhūmau . tadā rājyam sampradāya eva tasmai; tvayā kim uktaḥ kathaya iha satyam ..4..
ययातिरुवाच॥
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥५॥
गङ्गा-यमुनयोः मध्ये कृत्स्नः अयम् विषयः तव । मध्ये पृथिव्याः त्वम् राजा भ्रातरः अन्त्य-अधिपाः तव ॥५॥
gaṅgā-yamunayoḥ madhye kṛtsnaḥ ayam viṣayaḥ tava . madhye pṛthivyāḥ tvam rājā bhrātaraḥ antya-adhipāḥ tava ..5..
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ॥६॥
अक्रोधनः क्रोधनेभ्यः विशिष्ट; तितिक्षुः अतितिक्षोः विशिष्टः । अमानुषेभ्यः मानुषाः च प्रधाना; विद्वान् तथा एव अ विदुषः प्रधानः ॥६॥
akrodhanaḥ krodhanebhyaḥ viśiṣṭa; titikṣuḥ atitikṣoḥ viśiṣṭaḥ . amānuṣebhyaḥ mānuṣāḥ ca pradhānā; vidvān tathā eva a viduṣaḥ pradhānaḥ ..6..
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥७॥
आक्रुश्यमानः न आक्रोशेत् मन्युः एव तितिक्षतः । आक्रोष्टारम् निर्दहति सुकृतम् च अस्य विन्दति ॥७॥
ākruśyamānaḥ na ākrośet manyuḥ eva titikṣataḥ . ākroṣṭāram nirdahati sukṛtam ca asya vindati ..7..
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥८॥
न अरुन्तुदः स्यात् न नृशंस-वादी; न हीनतः परम् अभ्याददीत । यया अस्य वाचा परः उद्विजेत; न ताम् वदेत् रुशतीम् पाप-लोक्याम् ॥८॥
na aruntudaḥ syāt na nṛśaṃsa-vādī; na hīnataḥ param abhyādadīta . yayā asya vācā paraḥ udvijeta; na tām vadet ruśatīm pāpa-lokyām ..8..
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥९॥
अरुन्तुदम् पुरुषम् रूक्ष-वाचम्; वाच्-कण्टकैः वितुदन्तम् मनुष्यान् । विद्यात् अलक्ष्मीकतमम् जनानाम्; मुखे निबद्धाम् निरृतिम् वहन्तम् ॥९॥
aruntudam puruṣam rūkṣa-vācam; vāc-kaṇṭakaiḥ vitudantam manuṣyān . vidyāt alakṣmīkatamam janānām; mukhe nibaddhām nirṛtim vahantam ..9..
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ॥१०॥
सद्भिः पुरस्तात् अभिपूजितः स्या; त्सद्भिः तथा पृष्ठतस् रक्षितः स्यात् । सदा असताम् अतिवादान् तितिक्षे; त्सताम् वृत्तम् च आददीत आर्य-वृत्तः ॥१०॥
sadbhiḥ purastāt abhipūjitaḥ syā; tsadbhiḥ tathā pṛṣṭhatas rakṣitaḥ syāt . sadā asatām ativādān titikṣe; tsatām vṛttam ca ādadīta ārya-vṛttaḥ ..10..
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि । परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥११॥
वाच्-सायकाः वदनात् निष्पतन्ति; यैः आहतः शोचति रात्रि-अहानि । परस्य वा मर्मसु ये पतन्ति; तान् पण्डितः न अवसृजेत् परेषु ॥११॥
vāc-sāyakāḥ vadanāt niṣpatanti; yaiḥ āhataḥ śocati rātri-ahāni . parasya vā marmasu ye patanti; tān paṇḍitaḥ na avasṛjet pareṣu ..11..
न हीदृशं संवननं त्रिषु लोकेषु विद्यते । यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥१२॥
न हि ईदृशम् संवननम् त्रिषु लोकेषु विद्यते । यथा मैत्री च भूतेषु दानम् च मधुरा च वाच् ॥१२॥
na hi īdṛśam saṃvananam triṣu lokeṣu vidyate . yathā maitrī ca bhūteṣu dānam ca madhurā ca vāc ..12..
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥१३॥ 1.87.13
तस्मात् सान्त्वम् सदा वाच्यम् न वाच्यम् परुषम् क्वचिद् । पूज्यान् सम्पूजयेत् दद्यात् न च याचेत् कदाचन ॥१३॥ १।८७।१३
tasmāt sāntvam sadā vācyam na vācyam paruṣam kvacid . pūjyān sampūjayet dadyāt na ca yācet kadācana ..13.. 1.87.13

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In