न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः । तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ॥१०॥
PADACHEDA
न च अपि त्वाम् धृष्णुमः प्रष्टुम् अग्रे; न च त्वम् अस्मान् पृच्छसि ये वयम् स्मः । तत् त्वाम् पृच्छामः स्पृहणीय-रूपम्; कस्य त्वम् वा किंनिमित्तम् त्वम् आगाः ॥१०॥
TRANSLITERATION
na ca api tvām dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayam smaḥ . tat tvām pṛcchāmaḥ spṛhaṇīya-rūpam; kasya tvam vā kiṃnimittam tvam āgāḥ ..10..