| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ययातिरुवाच॥
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् । प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ॥१॥
अहम् ययातिः नहुषस्य पुत्रः; पूरोः पिता सर्व-भूत-अवमानात् । प्रभ्रंशितः सुर-सिद्ध-ऋषि-लोका; प्रपतामि अल्प-पुण्यः ॥१॥
aham yayātiḥ nahuṣasya putraḥ; pūroḥ pitā sarva-bhūta-avamānāt . prabhraṃśitaḥ sura-siddha-ṛṣi-lokā; prapatāmi alpa-puṇyaḥ ..1..
अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे । यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ॥२॥
अहम् हि पूर्वः वयसा; स्तेन-अभिवादम् भवताम् न प्रयुञ्जे । यः विद्यया तपसा जन्मना वा; वृद्धः स पूज्यः भवति द्विजानाम् ॥२॥
aham hi pūrvaḥ vayasā; stena-abhivādam bhavatām na prayuñje . yaḥ vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyaḥ bhavati dvijānām ..2..
अष्टक उवाच॥
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् । यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ॥३॥
अवादीः चेद् वयसा यः स वृद्ध; इति राजन् न अभ्यवदः कथञ्चिद् । यः वै विद्वान् वयसा सन् स्म वृद्धः; सः एव पूज्यः भवति द्विजानाम् ॥३॥
avādīḥ ced vayasā yaḥ sa vṛddha; iti rājan na abhyavadaḥ kathañcid . yaḥ vai vidvān vayasā san sma vṛddhaḥ; saḥ eva pūjyaḥ bhavati dvijānām ..3..
ययातिरुवाच॥
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् । सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ॥४॥
प्रतिकूलम् कर्मणाम् पापम् आहुः; स् तत् वर्तते अ प्रवणे पाप-लोक्यम् । सन्तः असताम् न अनुवर्तन्ति; आत्मा एषाम् अनुकूल-वादी ॥४॥
pratikūlam karmaṇām pāpam āhuḥ; s tat vartate a pravaṇe pāpa-lokyam . santaḥ asatām na anuvartanti; ātmā eṣām anukūla-vādī ..4..
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि । एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ॥५॥
अभूत् धनम् मे विपुलम् महत् वै; विचेष्टमानः न अधिगन्ता तत् अस्मि । एवम् प्रधार्य आत्म-हिते निविष्टः; यः वर्तते स विजानाति जीवन् ॥५॥
abhūt dhanam me vipulam mahat vai; viceṣṭamānaḥ na adhigantā tat asmi . evam pradhārya ātma-hite niviṣṭaḥ; yaḥ vartate sa vijānāti jīvan ..5..
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥६॥
नानाभावाः बहवः जीव-लोके; दैव-अधीनाः नष्ट-चेष्टा-अधिकाराः । तत् तत् प्राप्य न विहन्येत धीरो; दिष्टम् बलीयः इति मत्वा आत्म-बुद्ध्या ॥६॥
nānābhāvāḥ bahavaḥ jīva-loke; daiva-adhīnāḥ naṣṭa-ceṣṭā-adhikārāḥ . tat tat prāpya na vihanyeta dhīro; diṣṭam balīyaḥ iti matvā ātma-buddhyā ..6..
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥७॥
सुखम् हि जन्तुः यदि वा अपि दुःखम्; दैव-अधीनम् विन्दति न आत्म-शक्त्या । तस्मात् दिष्टम् बलवत् मन्यमानः; न सञ्ज्वरेत् ना अपि हृष्येत् कदाचिद् ॥७॥
sukham hi jantuḥ yadi vā api duḥkham; daiva-adhīnam vindati na ātma-śaktyā . tasmāt diṣṭam balavat manyamānaḥ; na sañjvaret nā api hṛṣyet kadācid ..7..
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः । दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ॥८॥
दुःखे न तप्येत् न सुखेन हृष्ये; त्समेन वर्तेत सदा एव धीरः । दिष्टम् बलीयः इति मन्यमानः; न सञ्ज्वरेत् ना अपि हृष्येत् कदाचिद् ॥८॥
duḥkhe na tapyet na sukhena hṛṣye; tsamena varteta sadā eva dhīraḥ . diṣṭam balīyaḥ iti manyamānaḥ; na sañjvaret nā api hṛṣyet kadācid ..8..
भये न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् । धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ॥९॥
भये न मुह्यामि अष्टक अहम्; त्-सन्तापः मे मानसः ना अस्ति कश्चिद् । धाता यथा माम् विदधाति लोके; ध्रुवम् तथा अहम् भविता इति मत्वा ॥९॥
bhaye na muhyāmi aṣṭaka aham; t-santāpaḥ me mānasaḥ nā asti kaścid . dhātā yathā mām vidadhāti loke; dhruvam tathā aham bhavitā iti matvā ..9..
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः । तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥१०॥
संस्वेद-जाः अण्ड-जाः उद्भिदाः च; सरीसृपाः कृमयः अथ अप्सु मत्स्याः । तथा अश्मानः तृण-काष्ठम् च सर्वम्; दिष्ट-क्षये स्वाम् प्रकृतिम् भजन्ते ॥१०॥
saṃsveda-jāḥ aṇḍa-jāḥ udbhidāḥ ca; sarīsṛpāḥ kṛmayaḥ atha apsu matsyāḥ . tathā aśmānaḥ tṛṇa-kāṣṭham ca sarvam; diṣṭa-kṣaye svām prakṛtim bhajante ..10..
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् । किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥११॥
अनित्य-ताम् सुख-दुःखस्य बुद्ध्वा; कस्मात् सन्तापम् अष्टक अहम् भजेयम् । किम् कुर्याम् वै किम् च कृत्वा न तप्ये; तस्मात् सन्तापम् वर्जयामि अप्रमत्तः ॥११॥
anitya-tām sukha-duḥkhasya buddhvā; kasmāt santāpam aṣṭaka aham bhajeyam . kim kuryām vai kim ca kṛtvā na tapye; tasmāt santāpam varjayāmi apramattaḥ ..11..
अष्टक उवाच॥
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च । तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥१२॥
ये ये लोकाः पार्थिव-इन्द्र-प्रधाना; स् त्वया भुक्ताः यम् च कालम् यथा च । तत् मे राजन् ब्रूहि सर्वम् यथाव; त् क्षेत्रज्ञ-वत् भाषसे त्वम् हि धर्मान् ॥१२॥
ye ye lokāḥ pārthiva-indra-pradhānā; s tvayā bhuktāḥ yam ca kālam yathā ca . tat me rājan brūhi sarvam yathāva; t kṣetrajña-vat bhāṣase tvam hi dharmān ..12..
ययातिरुवाच॥
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१३॥
राजा अहम् आसम् इह सार्वभौम; स्ततः लोकान् महतः अजयम् वै । तत्र अवसम् वर्ष-सहस्र-मात्रम्; ततस् लोकम् परम् अस्मि अभ्युपेतः ॥१३॥
rājā aham āsam iha sārvabhauma; stataḥ lokān mahataḥ ajayam vai . tatra avasam varṣa-sahasra-mātram; tatas lokam param asmi abhyupetaḥ ..13..
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् । अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१४॥
ततस् पुरीम् पुरुहूतस्य रम्याम्; सहस्र-द्वाराम् शत-योजन-आयताम् । अध्यावसम् वर्ष-सहस्र-मात्रम्; ततस् लोकम् परम् अस्मि अभ्युपेतः ॥१४॥
tatas purīm puruhūtasya ramyām; sahasra-dvārām śata-yojana-āyatām . adhyāvasam varṣa-sahasra-mātram; tatas lokam param asmi abhyupetaḥ ..14..
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् । तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ॥१५॥
ततस् दिव्यम् अजरम् प्राप्य लोकम्; प्रजापतेः लोक-पतेः दुरापम् । तत्र अवसम् वर्ष-सहस्र-मात्रम्; ततस् लोकम् परम् अस्मि अभ्युपेतः ॥१५॥
tatas divyam ajaram prāpya lokam; prajāpateḥ loka-pateḥ durāpam . tatra avasam varṣa-sahasra-mātram; tatas lokam param asmi abhyupetaḥ ..15..
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् । सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥१६॥
देवस्य देवस्य निवेशने च; विजित्य लोकान् अवसम् यथेष्टम् । सम्पूज्यमानः त्रिदशैः समस्तैः; स् तुल्य-प्रभाव-द्युतिः ईश्वराणाम् ॥१६॥
devasya devasya niveśane ca; vijitya lokān avasam yatheṣṭam . sampūjyamānaḥ tridaśaiḥ samastaiḥ; s tulya-prabhāva-dyutiḥ īśvarāṇām ..16..
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥१७॥
तथा अवसम् नन्दने कामरूपी; संवत्सराणाम् अयुतम् शतानाम् । सह अप्सरोभिः विहरन् पुण्य-गन्धा; न् पश्यन् नगान् पुष्पितान् चारु-रूपान् ॥१७॥
tathā avasam nandane kāmarūpī; saṃvatsarāṇām ayutam śatānām . saha apsarobhiḥ viharan puṇya-gandhā; n paśyan nagān puṣpitān cāru-rūpān ..17..
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् । दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥१८॥
तत्रस्थम् माम् देव-सुखेषु सक्तम्; काले अतीते महति ततस् अतिमात्रम् । दूतः देवानाम् अब्रवीत् उग्र-रूपो; ध्वंस-इति उच्चैस् त्रिस् प्लुतेन स्वरेण ॥१८॥
tatrastham mām deva-sukheṣu saktam; kāle atīte mahati tatas atimātram . dūtaḥ devānām abravīt ugra-rūpo; dhvaṃsa-iti uccais tris plutena svareṇa ..18..
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः । वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ॥१९॥
एतावत् मे विदितम् राज-सिंह; ततस् भ्रष्टः अहम् नन्दनात् क्षीण-पुण्यः । वाचः अश्रौषम् च अन्तरिक्षे सुराणा; मनु-क्रोशात् शोचताम् मानवेन्द्र ॥१९॥
etāvat me viditam rāja-siṃha; tatas bhraṣṭaḥ aham nandanāt kṣīṇa-puṇyaḥ . vācaḥ aśrauṣam ca antarikṣe surāṇā; manu-krośāt śocatām mānavendra ..19..
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ॥२०॥
अहो कष्टम् क्षीण-पुण्यः ययातिः; पतति असौ पुण्य-कृत् पुण्य-कीर्तिः । तान् अब्रुवम् पतमानः ततस् अहम्; सताम् मध्ये निपतेयम् कथम् नु ॥२०॥
aho kaṣṭam kṣīṇa-puṇyaḥ yayātiḥ; patati asau puṇya-kṛt puṇya-kīrtiḥ . tān abruvam patamānaḥ tatas aham; satām madhye nipateyam katham nu ..20..
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि । हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥२१॥ 1.89.23
तैः आख्याता भवताम् यज्ञ-भूमिः; समीक्ष्य च एनाम् त्वरितम् उपागतः अस्मि । हविः-गन्धम् देशिकम् यज्ञ-भूमे; र्धूम-अपाङ्गम् प्रतिगृह्य प्रतीतः ॥२१॥ १।८९।२३
taiḥ ākhyātā bhavatām yajña-bhūmiḥ; samīkṣya ca enām tvaritam upāgataḥ asmi . haviḥ-gandham deśikam yajña-bhūme; rdhūma-apāṅgam pratigṛhya pratītaḥ ..21.. 1.89.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In