| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अष्टक उवाच॥
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् । किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ॥१॥
यदा अवसः नन्दने कामरूपी; संवत्सराणाम् अयुतम् शतानाम् । किम् कारणम् कार्तयुग-प्रधान; हित्वा तत् त्वम् वसुधाम् अन्वपद्यः ॥१॥
yadā avasaḥ nandane kāmarūpī; saṃvatsarāṇām ayutam śatānām . kim kāraṇam kārtayuga-pradhāna; hitvā tat tvam vasudhām anvapadyaḥ ..1..
ययातिरुवाच॥
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि । तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥२॥
ज्ञातिः सुहृद् स्व-जनः यः यथा इह; क्षीणे वित्ते त्यज्यते मानवैः हि । तथा तत्र क्षीण-पुण्यम् मनुष्यम्; त्यजन्ति सद्यस् स ईश्वराः देव-सङ्घाः ॥२॥
jñātiḥ suhṛd sva-janaḥ yaḥ yathā iha; kṣīṇe vitte tyajyate mānavaiḥ hi . tathā tatra kṣīṇa-puṇyam manuṣyam; tyajanti sadyas sa īśvarāḥ deva-saṅghāḥ ..2..
अष्टक उवाच॥
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् । किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥३॥
कथम् तस्मिन् क्षीण-पुण्याः भवन्ति; संमुह्यते मे अत्र मनः अतिमात्रम् । किंविशिष्टाः कस्य धाम उपयान्ति; तत् वै ब्रूहि क्षेत्रवित् त्वम् मतः मे ॥३॥
katham tasmin kṣīṇa-puṇyāḥ bhavanti; saṃmuhyate me atra manaḥ atimātram . kiṃviśiṣṭāḥ kasya dhāma upayānti; tat vai brūhi kṣetravit tvam mataḥ me ..3..
ययातिरुवाच॥
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥४॥
इमम् भौमम् नरकम् ते पतन्ति; लालप्यमानाः नरदेव सर्वे । ते कङ्क-गोमायु-बल-अशन-अर्थम्; क्षीणाः विवृद्धिम् बहुधा व्रजन्ति ॥४॥
imam bhaumam narakam te patanti; lālapyamānāḥ naradeva sarve . te kaṅka-gomāyu-bala-aśana-artham; kṣīṇāḥ vivṛddhim bahudhā vrajanti ..4..
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म । आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ॥५॥
तस्मात् एतत् वर्जनीयम् नरेण; दुष्टम् लोके गर्हणीयम् च कर्म । आख्यातम् ते पार्थिव सर्वम् एत; वद किम् ते वदामि ॥५॥
tasmāt etat varjanīyam nareṇa; duṣṭam loke garhaṇīyam ca karma . ākhyātam te pārthiva sarvam eta; vada kim te vadāmi ..5..
अष्टक उवाच॥
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः । कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ॥६॥
यदा तु तान् वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः । कथम् भवन्ति कथम् आभवन्ति; न भौमम् अन्यम् नरकम् शृणोमि ॥६॥
yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṅgāḥ . katham bhavanti katham ābhavanti; na bhaumam anyam narakam śṛṇomi ..6..
ययातिरुवाच॥
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति । इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ॥७॥
ऊर्ध्वम् देहात् कर्मणः जृम्भमाणा; द्वि-अक्तम् पृथिव्याम् अनुसञ्चरन्ति । इमम् भौमम् नरकम् ते पतन्ति; न अवेक्षन्ते वर्ष-पूगान् अनेकान् ॥७॥
ūrdhvam dehāt karmaṇaḥ jṛmbhamāṇā; dvi-aktam pṛthivyām anusañcaranti . imam bhaumam narakam te patanti; na avekṣante varṣa-pūgān anekān ..7..
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि । तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥८॥
षष्टिम् सहस्राणि पतन्ति व्योम्नि; तथा अशीतिम् परिवत्सराणि । तान् वै तुदन्ति प्रपततः प्रपातम्; भीमाः भौमाः राक्षसाः तीक्ष्ण-दंष्ट्राः ॥८॥
ṣaṣṭim sahasrāṇi patanti vyomni; tathā aśītim parivatsarāṇi . tān vai tudanti prapatataḥ prapātam; bhīmāḥ bhaumāḥ rākṣasāḥ tīkṣṇa-daṃṣṭrāḥ ..8..
अष्टक उवाच॥
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ॥९॥
यद्-एनसः ते पततः तुदन्ति; भीमाः भौमाः राक्षसाः तीक्ष्ण-दंष्ट्राः । कथम् भवन्ति कथम् आभवन्ति; कथम्भूताः गर्भ-भूताः भवन्ति ॥९॥
yad-enasaḥ te patataḥ tudanti; bhīmāḥ bhaumāḥ rākṣasāḥ tīkṣṇa-daṃṣṭrāḥ . katham bhavanti katham ābhavanti; kathambhūtāḥ garbha-bhūtāḥ bhavanti ..9..
ययातिरुवाच॥
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् । स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥१०॥
अस्रम् रेतः पुष्प-फल-अनुपृक्त; मन्वेति तत् वै पुरुषेण सृष्टम् । स वै तस्याः रजः आपद्यते वै; स गर्भ-भूतः समुपैति तत्र ॥१०॥
asram retaḥ puṣpa-phala-anupṛkta; manveti tat vai puruṣeṇa sṛṣṭam . sa vai tasyāḥ rajaḥ āpadyate vai; sa garbha-bhūtaḥ samupaiti tatra ..10..
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् । चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ॥११॥
वनस्पतीन् च ओषधीः च आविशन्ति; अपः वायुम् पृथिवीम् च अन्तरिक्षम् । चतुष्पदम् द्विपदम् च अपि सर्व-; मा एवम्भूताः गर्भ-भूताः भवन्ति ॥११॥
vanaspatīn ca oṣadhīḥ ca āviśanti; apaḥ vāyum pṛthivīm ca antarikṣam . catuṣpadam dvipadam ca api sarva-; mā evambhūtāḥ garbha-bhūtāḥ bhavanti ..11..
अष्टक उवाच॥
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति । आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ॥१२॥
अन्यत् वपुः विदधाति इह गर्भ; उत अहो स्विद् स्वेन कामेन याति । आपद्यमानः नर-योनिम् एता; मा आचक्ष्व मे संशयात् प्रब्रवीमि ॥१२॥
anyat vapuḥ vidadhāti iha garbha; uta aho svid svena kāmena yāti . āpadyamānaḥ nara-yonim etā; mā ācakṣva me saṃśayāt prabravīmi ..12..
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् । एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥१३॥
शरीर-देह-आदि-समुच्छ्रयम् च; चक्षुः-श्रोत्रे लभते केन सञ्ज्ञाम् । एतत् तत् त्वम् सर्वम् आचक्ष्व पृष्टः; क्षेत्रज्ञम् त्वाम् तात मन्याम सर्वे ॥१३॥
śarīra-deha-ādi-samucchrayam ca; cakṣuḥ-śrotre labhate kena sañjñām . etat tat tvam sarvam ācakṣva pṛṣṭaḥ; kṣetrajñam tvām tāta manyāma sarve ..13..
ययातिरुवाच॥
वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम् । स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ॥१४॥
वायुः समुत्कर्षति गर्भ-योनि; मृतौ रेतः पुष्प-रस-अनुपृक्तम् । स तत्र तन्मात्र-कृत-अधिकारः; क्रमेण संवर्धयति इह गर्भम् ॥१४॥
vāyuḥ samutkarṣati garbha-yoni; mṛtau retaḥ puṣpa-rasa-anupṛktam . sa tatra tanmātra-kṛta-adhikāraḥ; krameṇa saṃvardhayati iha garbham ..14..
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः । स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥१५॥
स जायमानः विगृहीत-गात्रः; षष्-ज्ञान-निष्ठा-आयतनः मनुष्यः । स श्रोत्राभ्याम् वेदयति इह शब्दम्; सर्वम् रूपम् पश्यति चक्षुषा च ॥१५॥
sa jāyamānaḥ vigṛhīta-gātraḥ; ṣaṣ-jñāna-niṣṭhā-āyatanaḥ manuṣyaḥ . sa śrotrābhyām vedayati iha śabdam; sarvam rūpam paśyati cakṣuṣā ca ..15..
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् । इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ॥१६॥
घ्राणेन गन्धम् जिह्वया अथो रसम् च; त्वचा स्पर्शम् मनसा वेद भावम् । इति अष्टक इह उपचितिम् च विद्धि; महात्मनः प्राणभृतः शरीरे ॥१६॥
ghrāṇena gandham jihvayā atho rasam ca; tvacā sparśam manasā veda bhāvam . iti aṣṭaka iha upacitim ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre ..16..
अष्टक उवाच॥
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा । अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ॥१७॥
यः संस्थितः पुरुषः दह्यते वा; निखन्यते वा अपि निघृष्यते वा । अभाव-भूतः स विनाशम् एत्य; केन आत्मानम् चेतयते पुरस्तात् ॥१७॥
yaḥ saṃsthitaḥ puruṣaḥ dahyate vā; nikhanyate vā api nighṛṣyate vā . abhāva-bhūtaḥ sa vināśam etya; kena ātmānam cetayate purastāt ..17..
ययातिरुवाच॥
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च । अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥१८॥
हित्वा सः असून् सुप्त-वत् निष्टनित्वा; पुरोधाय सुकृतम् दुष्कृतम् च । अन्याम् योनिम् पवन-अग्र-अनुसारी; हित्वा देहम् भजते राज-सिंह ॥१८॥
hitvā saḥ asūn supta-vat niṣṭanitvā; purodhāya sukṛtam duṣkṛtam ca . anyām yonim pavana-agra-anusārī; hitvā deham bhajate rāja-siṃha ..18..
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति । कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥१९॥
पुण्याम् योनिम् पुण्य-कृतः व्रजन्ति; पापाम् योनिम् पाप-कृतः व्रजन्ति । कीटाः पतङ्गाः च भवन्ति पापा; न मे विवक्षा अस्ति महा-अनुभाव ॥१९॥
puṇyām yonim puṇya-kṛtaḥ vrajanti; pāpām yonim pāpa-kṛtaḥ vrajanti . kīṭāḥ pataṅgāḥ ca bhavanti pāpā; na me vivakṣā asti mahā-anubhāva ..19..
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति । आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ॥२०॥
चतुष्पदाः द्विपदाः षष्-पदाः च; तथाभूताः गर्भ-भूताः भवन्ति । आख्यातम् एतत् निखिलेन सर्वम्; भूयस् तु किम् पृच्छसि राज-सिंह ॥२०॥
catuṣpadāḥ dvipadāḥ ṣaṣ-padāḥ ca; tathābhūtāḥ garbha-bhūtāḥ bhavanti . ākhyātam etat nikhilena sarvam; bhūyas tu kim pṛcchasi rāja-siṃha ..20..
अष्टक उवाच॥
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा । तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥२१॥
किम् स्विद् कृत्वा लभते तात लोका; न् मर्त्यः श्रेष्ठान् तपसा विद्यया वा । तत् मे पृष्टः शंस सर्वम् यथाव; च् शुभान् लोकान् येन गच्छेत् क्रमेण ॥२१॥
kim svid kṛtvā labhate tāta lokā; n martyaḥ śreṣṭhān tapasā vidyayā vā . tat me pṛṣṭaḥ śaṃsa sarvam yathāva; c śubhān lokān yena gacchet krameṇa ..21..
ययातिरुवाच॥
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा । नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥२२॥
तपः च दानम् च शमः दमः च; ह्रीः आर्जवम् सर्व-भूत-अनुकम्पा । नश्यन्ति मानेन तमः-अभिभूताः; पुंसः सदा एवा इति वदन्ति सन्तः ॥२२॥
tapaḥ ca dānam ca śamaḥ damaḥ ca; hrīḥ ārjavam sarva-bhūta-anukampā . naśyanti mānena tamaḥ-abhibhūtāḥ; puṃsaḥ sadā evā iti vadanti santaḥ ..22..
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् । तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ॥२३॥
अधीयानः पण्डितम् मन्यमानः; यः विद्यया हन्ति यशः परेषाम् । तस्य अन्तवन्तः च भवन्ति लोका; न च अस्य तत् ब्रह्म फलम् ददाति ॥२३॥
adhīyānaḥ paṇḍitam manyamānaḥ; yaḥ vidyayā hanti yaśaḥ pareṣām . tasya antavantaḥ ca bhavanti lokā; na ca asya tat brahma phalam dadāti ..23..
चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ॥२४॥
चत्वारि कर्माणि अभयङ्कराणि; भयम् प्रयच्छन्ति अयथाकृतानि । मान-अग्निहोत्रम् उत मान-मौनम्; मानेन अधीतम् उत मान-यज्ञः ॥२४॥
catvāri karmāṇi abhayaṅkarāṇi; bhayam prayacchanti ayathākṛtāni . māna-agnihotram uta māna-maunam; mānena adhītam uta māna-yajñaḥ ..24..
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् । सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ॥२५॥
न मान्यमानः मुदम् आददीत; न सन्तापम् प्राप्नुयात् च अवमानात् । सन्तः सतः पूजयन्ति इह लोके; न असाधवः साधु-बुद्धिम् लभन्ते ॥२५॥
na mānyamānaḥ mudam ādadīta; na santāpam prāpnuyāt ca avamānāt . santaḥ sataḥ pūjayanti iha loke; na asādhavaḥ sādhu-buddhim labhante ..25..
इति दद्यादिति यजेदित्यधीयीत मे व्रतम् । इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥२६॥
इति दद्यात् इति यजेत् इति अधीयीत मे व्रतम् । इति अस्मिन् अभयानि आहुः तानि वर्ज्यानि नित्यशस् ॥२६॥
iti dadyāt iti yajet iti adhīyīta me vratam . iti asmin abhayāni āhuḥ tāni varjyāni nityaśas ..26..
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् । तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥२७॥ 1.90.27
येन आश्रयम् वेदयन्ते पुराणम्; मनीषिणः मानस-मान-भक्तम् । तत् निःश्रेयः तैजसम् रूपम् एत्य; पराम् शान्तिम् प्राप्नुयुः प्रेत्य च इह ॥२७॥ १।९०।२७
yena āśrayam vedayante purāṇam; manīṣiṇaḥ mānasa-māna-bhaktam . tat niḥśreyaḥ taijasam rūpam etya; parām śāntim prāpnuyuḥ pretya ca iha ..27.. 1.90.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In