| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ॥१॥
चरन् गृहस्थः कथम् एति देवा; भिक्षुः कथम् आचार्य-कर्मा । वानप्रस्थः सत्-पथे संनिविष्टः; बहूनि अस्मिन् सम्प्रति वेदयन्ति ॥१॥
caran gṛhasthaḥ katham eti devā; bhikṣuḥ katham ācārya-karmā . vānaprasthaḥ sat-pathe saṃniviṣṭaḥ; bahūni asmin samprati vedayanti ..1..
ययातिरुवाच॥
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥२॥
आहूताध्यायी गुरु-कर्मसु अचोद्यः; पूर्व-उत्थायी चरमम् च उपशायी । मृदुः दान्तः धृतिमान् अप्रमत्तः; स्वाध्याय-शीलः सिध्यति ब्रह्मचारी ॥२॥
āhūtādhyāyī guru-karmasu acodyaḥ; pūrva-utthāyī caramam ca upaśāyī . mṛduḥ dāntaḥ dhṛtimān apramattaḥ; svādhyāya-śīlaḥ sidhyati brahmacārī ..2..
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ॥३॥
धर्म-आगतम् प्राप्य धनम् यजेत; दद्यात् सदा एव अतिथीन् भोजयेत् च । अन् आददानः च परैः अ दत्तम्; सा एषा गृहस्थ-उपनिषद् पुराणी ॥३॥
dharma-āgatam prāpya dhanam yajeta; dadyāt sadā eva atithīn bhojayet ca . an ādadānaḥ ca paraiḥ a dattam; sā eṣā gṛhastha-upaniṣad purāṇī ..3..
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ॥४॥
स्व-वीर्य-जीवी; दाता परेभ्यः न पर-उपतापी । तादृश् मुनिः सिद्धिम् उपैति मुख्याम्; वसन् अरण्ये नियत-आहार-चेष्टः ॥४॥
sva-vīrya-jīvī; dātā parebhyaḥ na para-upatāpī . tādṛś muniḥ siddhim upaiti mukhyām; vasan araṇye niyata-āhāra-ceṣṭaḥ ..4..
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ॥५॥
अ शिल्प-जीवी न गृहः च नित्यम्; जित-इन्द्रियः सर्वतस् विप्रमुक्तः । अन् ओक-सारी लघुः अल्प-चार; स भिक्षुः ॥५॥
a śilpa-jīvī na gṛhaḥ ca nityam; jita-indriyaḥ sarvatas vipramuktaḥ . an oka-sārī laghuḥ alpa-cāra; sa bhikṣuḥ ..5..
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च । तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ॥६॥
रात्र्या यया च अभिजिताः च लोका; भवन्ति कामाः विजिताः सुखाः च । ताम् एव रात्रिम् प्रयतेत विद्वा; न अरण्य-संस्थः भवितुम् यत-आत्मा ॥६॥
rātryā yayā ca abhijitāḥ ca lokā; bhavanti kāmāḥ vijitāḥ sukhāḥ ca . tām eva rātrim prayateta vidvā; na araṇya-saṃsthaḥ bhavitum yata-ātmā ..6..
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् । अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ॥७॥
दश एव पूर्वान् दश च अपरान् तु; ज्ञातीन् सह आत्मानम् अथ एकविंशम् । अरण्य-वासी सुकृते दधाति; विमुच्य अरण्ये स्व-शरीर-धातून् ॥७॥
daśa eva pūrvān daśa ca aparān tu; jñātīn saha ātmānam atha ekaviṃśam . araṇya-vāsī sukṛte dadhāti; vimucya araṇye sva-śarīra-dhātūn ..7..
अष्टक उवाच॥
कति स्विदेव मुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥८॥
कति स्विद् एव मुनयः मौनानि कति च अपि उत । भवन्ति इति तत् आचक्ष्व श्रोतुम् इच्छामहे वयम् ॥८॥
kati svid eva munayaḥ maunāni kati ca api uta . bhavanti iti tat ācakṣva śrotum icchāmahe vayam ..8..
ययातिरुवाच॥
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥९॥
अरण्ये वसतः यस्य ग्रामः भवति पृष्ठतस् । ग्रामे वा वसतः अरण्यम् स मुनिः स्यात् जनाधिप ॥९॥
araṇye vasataḥ yasya grāmaḥ bhavati pṛṣṭhatas . grāme vā vasataḥ araṇyam sa muniḥ syāt janādhipa ..9..
अष्टक उवाच॥
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥१०॥
कथम् स्विद् वसतः अरण्ये ग्रामः भवति पृष्ठतस् । ग्रामे वा वसतः अरण्यम् कथम् भवति पृष्ठतस् ॥१०॥
katham svid vasataḥ araṇye grāmaḥ bhavati pṛṣṭhatas . grāme vā vasataḥ araṇyam katham bhavati pṛṣṭhatas ..10..
ययातिरुवाच॥
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥११॥
न ग्राम्यम् उपयुञ्जीत यः आरण्यः मुनिः भवेत् । तथा अस्य वसतः अरण्ये ग्रामः भवति पृष्ठतस् ॥११॥
na grāmyam upayuñjīta yaḥ āraṇyaḥ muniḥ bhavet . tathā asya vasataḥ araṇye grāmaḥ bhavati pṛṣṭhatas ..11..
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥१२॥
अन् अग्निः अनिकेतः च अ गोत्र-चरणः मुनिः । कौपीन-आच्छादनम् यावत् तावत् इच्छेत् च चीवरम् ॥१२॥
an agniḥ aniketaḥ ca a gotra-caraṇaḥ muniḥ . kaupīna-ācchādanam yāvat tāvat icchet ca cīvaram ..12..
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् । तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥१३॥
यावत् प्राण-अभिसन्धानम् तावत् इच्छेत् च भोजनम् । तथा अस्य वसतः ग्रामे अरण्यम् भवति पृष्ठतस् ॥१३॥
yāvat prāṇa-abhisandhānam tāvat icchet ca bhojanam . tathā asya vasataḥ grāme araṇyam bhavati pṛṣṭhatas ..13..
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥१४॥
यः तु कामान् परित्यज्य त्यक्त-कर्मा जित-इन्द्रियः । आतिष्ठेत मुनिः मौनम् स लोके सिद्धिम् आप्नुयात् ॥१४॥
yaḥ tu kāmān parityajya tyakta-karmā jita-indriyaḥ . ātiṣṭheta muniḥ maunam sa loke siddhim āpnuyāt ..14..
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥१५॥
धौत-दन्तम् कृत्त-नखम् सदा स्नातम् अलङ्कृतम् । असितम् सित-कर्म-स्थम् कः तम् न अर्चितुम् अर्हति ॥१५॥
dhauta-dantam kṛtta-nakham sadā snātam alaṅkṛtam . asitam sita-karma-stham kaḥ tam na arcitum arhati ..15..
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ॥१६॥
तपसा कर्शितः क्षामः क्षीण-मांस-अस्थि-शोणितः । यदा भवति निर्द्वन्द्वः मुनिः मौनम् समास्थितः ॥१६॥
tapasā karśitaḥ kṣāmaḥ kṣīṇa-māṃsa-asthi-śoṇitaḥ . yadā bhavati nirdvandvaḥ muniḥ maunam samāsthitaḥ ..16..
अथ लोकमिमं जित्वा लोकं विजयते परम् ॥१६॥
आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥१७॥1.91.18
आस्येन तु यदा आहारम् गो-वत् मृगयते मुनिः । अथ अस्य लोकः पूर्वः यः सः अमृत-त्वाय कल्पते ॥१७॥१।९१।१८
āsyena tu yadā āhāram go-vat mṛgayate muniḥ . atha asya lokaḥ pūrvaḥ yaḥ saḥ amṛta-tvāya kalpate ..17..1.91.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In