| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वसुमना उवाच॥
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र । यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥१॥
पृच्छामि त्वाम् वसुमनाः रौशदश्वि; र्यदि अस्ति लोकः दिवि मह्यम् नरेन्द्र । यदि अन्तरिक्षे प्रथितः महात्म; त्वाम् तस्य धर्मस्य मन्ये ॥१॥
pṛcchāmi tvām vasumanāḥ rauśadaśvi; ryadi asti lokaḥ divi mahyam narendra . yadi antarikṣe prathitaḥ mahātma; tvām tasya dharmasya manye ..1..
ययातिरुवाच॥
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च । लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ॥२॥
यत् अन्तरिक्षम् पृथिवी दिशः च; यत् तेजसा तपते भानुमान् च । लोकाः तावन्तः दिवि संस्थिताः वै; ते न अन्तवन्तः प्रतिपालयन्ति ॥२॥
yat antarikṣam pṛthivī diśaḥ ca; yat tejasā tapate bhānumān ca . lokāḥ tāvantaḥ divi saṃsthitāḥ vai; te na antavantaḥ pratipālayanti ..2..
वसुमना उवाच॥
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु । क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥३॥
तान् ते ददामि पत मा प्रपातम्; ये मे लोकाः तव ते वै भवन्तु । क्रीणीष्व एनान् तृणकेन अपि राज; न् प्रतिग्रहः ते यदि सम्यक् प्रदुष्टः ॥३॥
tān te dadāmi pata mā prapātam; ye me lokāḥ tava te vai bhavantu . krīṇīṣva enān tṛṇakena api rāja; n pratigrahaḥ te yadi samyak praduṣṭaḥ ..3..
ययातिरुवाच॥
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः । कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ॥४॥
न मिथ्या अहम् विक्रयम् वै स्मरामि; वृथा गृहीतम् शिशुकात् शङ्कमानः । कुर्याम् न च एव अ कृत-पूर्वम् अन्यै; र्विवित्समानः किमु तत्र साधु ॥४॥
na mithyā aham vikrayam vai smarāmi; vṛthā gṛhītam śiśukāt śaṅkamānaḥ . kuryām na ca eva a kṛta-pūrvam anyai; rvivitsamānaḥ kimu tatra sādhu ..4..
वसुमना उवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते । अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ॥५॥
तान् त्वम् लोकान् प्रतिपद्यस्व राज; न् मया दत्तान् यदि न इष्टः क्रयः ते । अहम् न तान् वै प्रतिगन्ता नरेन्द्र; सर्वे लोकाः तव ते वै भवन्तु ॥५॥
tān tvam lokān pratipadyasva rāja; n mayā dattān yadi na iṣṭaḥ krayaḥ te . aham na tān vai pratigantā narendra; sarve lokāḥ tava te vai bhavantu ..5..
शिबिरुवाच॥
पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात । यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥६॥
पृच्छामि त्वाम् शिबिः औशीनरः अहम्; मम अपि लोकाः यदि सन्ति इह तात । यदि अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ॥६॥
pṛcchāmi tvām śibiḥ auśīnaraḥ aham; mama api lokāḥ yadi santi iha tāta . yadi antarikṣe yadi vā divi śritāḥ; kṣetrajñam tvām tasya dharmasya manye ..6..
ययातिरुवाच॥
न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र । तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
न त्वम् वाचा हृदयेन अपि विद्व; न् परीप्समानान् न अवमंस्थाः नरेन्द्र । तेन अनन्ताः दिवि लोकाः श्रिताः ते; विद्युत्-रूपाः स्वनवन्तः महान्तः ॥७॥
na tvam vācā hṛdayena api vidva; n parīpsamānān na avamaṃsthāḥ narendra . tena anantāḥ divi lokāḥ śritāḥ te; vidyut-rūpāḥ svanavantaḥ mahāntaḥ ..7..
शिबिरुवाच॥
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते । न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ॥८॥
तान् त्वम् लोकान् प्रतिपद्यस्व राज; न् मया दत्तान् यदि न इष्टः क्रयः ते । न च अहम् तान् प्रतिपत्स्ये इह दत्त्वा; यत्र गत्वा त्वम् उपास्से ह लोकान् ॥८॥
tān tvam lokān pratipadyasva rāja; n mayā dattān yadi na iṣṭaḥ krayaḥ te . na ca aham tān pratipatsye iha dattvā; yatra gatvā tvam upāsse ha lokān ..8..
ययातिरुवाच॥
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ॥९॥
यथा त्वम् इन्द्र-प्रतिम-प्रभाव; स्ते च अपि अनन्ताः नरदेव लोकाः । तथा अद्य लोके न रमे अन्य-दत्ते; तस्मात् शिबे न अभिनन्दामि दायम् ॥९॥
yathā tvam indra-pratima-prabhāva; ste ca api anantāḥ naradeva lokāḥ . tathā adya loke na rame anya-datte; tasmāt śibe na abhinandāmi dāyam ..9..
अष्टक उवाच॥
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि । सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥१०॥
न चेद् एकैकशस् राजन् लोकान् नः प्रतिनन्दसि । सर्वे प्रदाय भवते गन्तारः नरकम् वयम् ॥१०॥
na ced ekaikaśas rājan lokān naḥ pratinandasi . sarve pradāya bhavate gantāraḥ narakam vayam ..10..
ययातिरुवाच॥
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः । अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ॥११॥
यद्-अर्हाय ददध्वम् तत् सन्तः सत्य-आनृशंस्यतः । अहम् तु न अभिधृष्णोमि यत् कृतम् न मया पुरा ॥११॥
yad-arhāya dadadhvam tat santaḥ satya-ānṛśaṃsyataḥ . aham tu na abhidhṛṣṇomi yat kṛtam na mayā purā ..11..
अष्टक उवाच॥
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१२॥
कस्य एते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैस् सन्तः प्रकाशन्ते ज्वलन्तः अग्नि-शिखाः इव ॥१२॥
kasya ete pratidṛśyante rathāḥ pañca hiraṇmayāḥ . uccais santaḥ prakāśante jvalantaḥ agni-śikhāḥ iva ..12..
ययातिरुवाच॥
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१३॥
युष्मान् एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः । उच्चैस् सन्तः प्रकाशन्ते ज्वलन्तः अग्नि-शिखाः इव ॥१३॥
yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ . uccais santaḥ prakāśante jvalantaḥ agni-śikhāḥ iva ..13..
अष्टक उवाच॥
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥१४॥
आतिष्ठस्व रथम् राजन् विक्रमस्व विहायसा । वयम् अपि अनुयास्यामः यदा कालः भविष्यति ॥१४॥
ātiṣṭhasva ratham rājan vikramasva vihāyasā . vayam api anuyāsyāmaḥ yadā kālaḥ bhaviṣyati ..14..
ययातिरुवाच॥
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् । एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥१५॥
सर्वैः इदानीम् गन्तव्यम् सह स्वर्ग-जितः वयम् । एष नः विरजाः पन्थाः दृश्यते देव-सद्मनः ॥१५॥
sarvaiḥ idānīm gantavyam saha svarga-jitaḥ vayam . eṣa naḥ virajāḥ panthāḥ dṛśyate deva-sadmanaḥ ..15..
वैशम्पायन उवाच॥
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः । आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥१६॥
ते अधिरुह्य रथान् सर्वे प्रयाताः नृप-सत्तमाः । आक्रमन्तः दिवम् भाभिः धर्मेण आवृत्य रोदसी ॥१६॥
te adhiruhya rathān sarve prayātāḥ nṛpa-sattamāḥ . ākramantaḥ divam bhābhiḥ dharmeṇa āvṛtya rodasī ..16..
अष्टक उवाच॥
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा । कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ॥१७॥
अहम् मन्ये पूर्वम् एकः अस्मि गन्ता; सखा च इन्द्रः सर्वथा मे महात्मा । कस्मात् एवम्; मेकः अत्यगात् सर्व-वेगेन वाहान् ॥१७॥
aham manye pūrvam ekaḥ asmi gantā; sakhā ca indraḥ sarvathā me mahātmā . kasmāt evam; mekaḥ atyagāt sarva-vegena vāhān ..17..
ययातिरुवाच॥
अददाद्देवयानाय यावद्वित्तमविन्दत । उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ॥१८॥
अददात् देव-यानाय यावत् वित्तम् अविन्दत । उशीनरस्य पुत्रः अयम् तस्मात् श्रेष्ठः हि नः शिबिः ॥१८॥
adadāt deva-yānāya yāvat vittam avindata . uśīnarasya putraḥ ayam tasmāt śreṣṭhaḥ hi naḥ śibiḥ ..18..
दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा । राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ॥१९॥ ( एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ॥१९॥ )
दानम् तपः सत्यम् अथ अपि; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा । राजन् एतानि अप्रतिमस्य राज्ञः; शिबेः स्थितानि अनृशंसस्य बुद्ध्या ॥१९॥ ( एवंवृत्तः ह्री-निषेधः च यस्मै; त् तस्मात् शिबिः अत्यगात् वै रथेन ॥१९॥ )
dānam tapaḥ satyam atha api; hrīḥ śrīḥ kṣamā saumya tathā titikṣā . rājan etāni apratimasya rājñaḥ; śibeḥ sthitāni anṛśaṃsasya buddhyā ..19.. ( evaṃvṛttaḥ hrī-niṣedhaḥ ca yasmai; t tasmāt śibiḥ atyagāt vai rathena ..19.. )
वैशम्पायन उवाच॥
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् । पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ॥२०॥ ( कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥२०॥ )
अथ अष्टकः पुनर् एव अन्वपृच्छ; न् मातामहम् कौतुकात् इन्द्र-कल्पम् । पृच्छामि त्वाम् नृपते ब्रूहि सत्यम्; कुतः च कस्य असि सुतः च कस्य ॥२०॥ ( कृतम् त्वया यत् हि न तस्य कर्ता; लोके त्वत् अन्यः क्षत्रियः ब्राह्मणः वा ॥२०॥ )
atha aṣṭakaḥ punar eva anvapṛccha; n mātāmaham kautukāt indra-kalpam . pṛcchāmi tvām nṛpate brūhi satyam; kutaḥ ca kasya asi sutaḥ ca kasya ..20.. ( kṛtam tvayā yat hi na tasya kartā; loke tvat anyaḥ kṣatriyaḥ brāhmaṇaḥ vā ..20.. )
ययातिरुवाच॥
ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् । गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ॥२१॥
ययातिः अस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमः तु इह आसम् । गुह्यम् अर्थम् मामकेभ्यः ब्रवीमि; मातामहः अहम् भवताम् प्रकाशः ॥२१॥
yayātiḥ asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumaḥ tu iha āsam . guhyam artham māmakebhyaḥ bravīmi; mātāmahaḥ aham bhavatām prakāśaḥ ..21..
सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः । मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ॥२२॥
सर्वाम् इमाम् पृथिवीम् निर्जिगाय; प्रस्थे बद्ध्वा हि अददम् ब्राह्मणेभ्यः । मेध्यान् अश्वान् एक-शफान् सुरूपाम्; स्तदा देवाः पुण्य-भाजः भवन्ति ॥२२॥
sarvām imām pṛthivīm nirjigāya; prasthe baddhvā hi adadam brāhmaṇebhyaḥ . medhyān aśvān eka-śaphān surūpām; stadā devāḥ puṇya-bhājaḥ bhavanti ..22..
अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य । गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ॥२३॥
अदाम् अहम् पृथिवीम् ब्राह्मणेभ्यः; पूर्णाम् इमाम् अखिलाम् वाहनस्य । गोभिः सुवर्णेन धनैः च मुख्यैः; शतम् अर्बुदानि ॥२३॥
adām aham pṛthivīm brāhmaṇebhyaḥ; pūrṇām imām akhilām vāhanasya . gobhiḥ suvarṇena dhanaiḥ ca mukhyaiḥ; śatam arbudāni ..23..
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ॥२४॥ ( सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ॥२४॥ )
सत्येन मे द्यौः च वसुन्धरा च; तथा एव अग्निः ज्वलते मानुषेषु । न मे वृथा व्याहृतम् एव वाक्यम्; सत्यम् हि सन्तः प्रतिपूजयन्ति ॥२४॥ ( सर्वे च देवाः मुनयः च लोकाः; सत्येन पूज्याः इति मे मनोगतम् ॥२४॥ )
satyena me dyauḥ ca vasundharā ca; tathā eva agniḥ jvalate mānuṣeṣu . na me vṛthā vyāhṛtam eva vākyam; satyam hi santaḥ pratipūjayanti ..24.. ( sarve ca devāḥ munayaḥ ca lokāḥ; satyena pūjyāḥ iti me manogatam ..24.. )
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् । अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ॥२५॥
यः नः स्वर्ग-जितः सर्व-अन्यथावृत्तम् निवेदयेत् । अनसूयुः द्विज-अग्रेभ्यः स लभेत् नः सलोकताम् ॥२५॥
yaḥ naḥ svarga-jitaḥ sarva-anyathāvṛttam nivedayet . anasūyuḥ dvija-agrebhyaḥ sa labhet naḥ salokatām ..25..
वैशम्पायन उवाच॥
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः । त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥२६॥ 1.93.28
एवम् राजा स महात्मा हि अतीव; स्वैः दौहित्रैः तारितः अमित्र-साहः । त्यक्त्वा महीम् परम-उदार-कर्मा; स्वर्गम् गतः कर्मभिः व्याप्य पृथ्वीम् ॥२६॥ १।९३।२८
evam rājā sa mahātmā hi atīva; svaiḥ dauhitraiḥ tāritaḥ amitra-sāhaḥ . tyaktvā mahīm parama-udāra-karmā; svargam gataḥ karmabhiḥ vyāpya pṛthvīm ..26.. 1.93.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In