| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् । यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥१॥
भगवन् श्रोतुम् इच्छामि पूरोः वंश-करान् नृपान् । यद्-वीर्याः यादृशाः च एव यावन्तः यद्-पराक्रमाः ॥१॥
bhagavan śrotum icchāmi pūroḥ vaṃśa-karān nṛpān . yad-vīryāḥ yādṛśāḥ ca eva yāvantaḥ yad-parākramāḥ ..1..
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः । प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥२॥
न हि अस्मिन् शील-हीनः वा निर्वीर्यः वा नराधिपः । प्रजा-विरहितः वा अपि भूत-पूर्वः कदाचन ॥२॥
na hi asmin śīla-hīnaḥ vā nirvīryaḥ vā narādhipaḥ . prajā-virahitaḥ vā api bhūta-pūrvaḥ kadācana ..2..
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् । चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥३॥
तेषाम् प्रथित-वृत्तानाम् राज्ञाम् विज्ञान-शालिनाम् । चरितम् श्रोतुम् इच्छामि विस्तरेण तपोधन ॥३॥
teṣām prathita-vṛttānām rājñām vijñāna-śālinām . caritam śrotum icchāmi vistareṇa tapodhana ..3..
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥४॥
हन्त ते कथयिष्यामि यत् माम् त्वम् परिपृच्छसि । पूरोः वंश-धरान् वीरान् शक्र-प्रतिम-तेजसः ॥४॥
hanta te kathayiṣyāmi yat mām tvam paripṛcchasi . pūroḥ vaṃśa-dharān vīrān śakra-pratima-tejasaḥ ..4..
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः । पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥५॥
प्रवीर-ईश्वर-रौद्राश्वाः त्रयः पुत्राः महा-रथाः । पूरोः पौष्ट्याम् अजायन्त प्रवीरः तत्र वंश-कृत् ॥५॥
pravīra-īśvara-raudrāśvāḥ trayaḥ putrāḥ mahā-rathāḥ . pūroḥ pauṣṭyām ajāyanta pravīraḥ tatra vaṃśa-kṛt ..5..
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः । पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥६॥
मनस्युः अभवत् तस्मात् शूरः श्येनी-सुतः प्रभुः । पृथिव्याः चतुर्-अन्तायाः गोप्ता राजीव-लोचनः ॥६॥
manasyuḥ abhavat tasmāt śūraḥ śyenī-sutaḥ prabhuḥ . pṛthivyāḥ catur-antāyāḥ goptā rājīva-locanaḥ ..6..
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः । मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥७॥
सुभ्रूः संहननः वाग्मी सौवीरी-तनयाः त्रयः । मनस्योः अभवन् पुत्राः शूराः सर्वे महा-रथाः ॥७॥
subhrūḥ saṃhananaḥ vāgmī sauvīrī-tanayāḥ trayaḥ . manasyoḥ abhavan putrāḥ śūrāḥ sarve mahā-rathāḥ ..7..
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः । यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ॥८॥ ( सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥८॥ )
रौद्राश्वस्य महा-इष्वासाः दश अप्सरसि सूनवः । यज्वानः जज्ञिरे शूराः प्रजावन्तः बहु-श्रुताः ॥८॥ ( सर्वे सर्व-अस्त्र-विद्वांसः सर्वे धर्म-परायणाः ॥८॥ )
raudrāśvasya mahā-iṣvāsāḥ daśa apsarasi sūnavaḥ . yajvānaḥ jajñire śūrāḥ prajāvantaḥ bahu-śrutāḥ ..8.. ( sarve sarva-astra-vidvāṃsaḥ sarve dharma-parāyaṇāḥ ..8.. )
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् । स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥९॥
ऋचेपुः अथ कक्षेपुः कृकणेपुः च वीर्यवान् । स्थण्डिलेपुः वनेपुः च स्थलेपुः च महा-रथः ॥९॥
ṛcepuḥ atha kakṣepuḥ kṛkaṇepuḥ ca vīryavān . sthaṇḍilepuḥ vanepuḥ ca sthalepuḥ ca mahā-rathaḥ ..9..
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः । धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ॥१०॥ ( अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥१०॥ )
तेजेपुः बलवान् धीमान् सत्येपुः च इन्द्र-विक्रमः । धर्मेपुः संनतेपुः च दशमः देव-विक्रमः ॥१०॥ ( अनाधृष्टि-सुताः तात राजसूय-अश्वमेधिनः ॥१०॥ )
tejepuḥ balavān dhīmān satyepuḥ ca indra-vikramaḥ . dharmepuḥ saṃnatepuḥ ca daśamaḥ deva-vikramaḥ ..10.. ( anādhṛṣṭi-sutāḥ tāta rājasūya-aśvamedhinaḥ ..10.. )
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् । मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ॥११॥ ( तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥११॥ )
मतिनारः ततस् राजा विद्वान् च ऋचेपुतः अभवत् । मतिनार-सुताः राजन् चत्वारः अमित-विक्रमाः ॥११॥ ( तंसुः महान् अतिरथः द्रुह्युः च अप्रतिम-द्युतिः ॥११॥ )
matināraḥ tatas rājā vidvān ca ṛceputaḥ abhavat . matināra-sutāḥ rājan catvāraḥ amita-vikramāḥ ..11.. ( taṃsuḥ mahān atirathaḥ druhyuḥ ca apratima-dyutiḥ ..11.. )
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् । आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥१२॥
तेषाम् तंसुः महा-वीर्यः पौरवम् वंशम् उद्वहन् । आजहार यशः दीप्तम् जिगाय च वसुन्धराम् ॥१२॥
teṣām taṃsuḥ mahā-vīryaḥ pauravam vaṃśam udvahan . ājahāra yaśaḥ dīptam jigāya ca vasundharām ..12..
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् । सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥१३॥
इलिनम् तु सुतम् तंसुः जनयामास वीर्यवान् । सः अपि कृत्स्नाम् इमाम् भूमिम् विजिग्ये जयताम् वरः ॥१३॥
ilinam tu sutam taṃsuḥ janayāmāsa vīryavān . saḥ api kṛtsnām imām bhūmim vijigye jayatām varaḥ ..13..
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः । इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥१४॥
रथन्तर्याम् सुतान् पञ्च पञ्च-भूत-उपमान् ततस् । इलिनः जनयामास दुःषन्त-प्रभृतीन् नृप ॥१४॥
rathantaryām sutān pañca pañca-bhūta-upamān tatas . ilinaḥ janayāmāsa duḥṣanta-prabhṛtīn nṛpa ..14..
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च । तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥१५॥
दुःषन्तम् शूर-भीमौ च प्रपूर्वम् वसुम् एव च । तेषाम् ज्येष्ठः अभवत् राजा दुःषन्तः जनमेजय ॥१५॥
duḥṣantam śūra-bhīmau ca prapūrvam vasum eva ca . teṣām jyeṣṭhaḥ abhavat rājā duḥṣantaḥ janamejaya ..15..
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः । तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥१६॥
दुःषन्तात् भरतः जज्ञे विद्वान् शाकुन्तलः नृपः । तस्मात् भरत-वंशस्य विप्रतस्थे महत् यशः ॥१६॥
duḥṣantāt bharataḥ jajñe vidvān śākuntalaḥ nṛpaḥ . tasmāt bharata-vaṃśasya vipratasthe mahat yaśaḥ ..16..
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥१७॥
भरतः तिसृषु स्त्रीषु नव पुत्रान् अजीजनत् । न अभ्यनन्दन्त तान् राजा न अनुरूपाः मम इति उत ॥१७॥
bharataḥ tisṛṣu strīṣu nava putrān ajījanat . na abhyanandanta tān rājā na anurūpāḥ mama iti uta ..17..
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा । लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥१८॥
ततस् महद्भिः क्रतुभिः ईजानः भरतः तदा । लेभे पुत्रम् भरद्वाजात् भुमन्युम् नाम भारत ॥१८॥
tatas mahadbhiḥ kratubhiḥ ījānaḥ bharataḥ tadā . lebhe putram bharadvājāt bhumanyum nāma bhārata ..18..
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः । भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥१९॥
ततस् पुत्रिणम् आत्मानम् ज्ञात्वा पौरव-नन्दनः । भुमन्युम् भरत-श्रेष्ठ यौवराज्ये अभ्यषेचयत् ॥१९॥
tatas putriṇam ātmānam jñātvā paurava-nandanaḥ . bhumanyum bharata-śreṣṭha yauvarājye abhyaṣecayat ..19..
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् । ततः स वितथो नाम भुमन्योरभवत्सुतः ॥२०॥
ततस् तस्य महीन्द्रस्य वितथः पुत्रकः अभवत् । ततस् स वितथः नाम भुमन्योः अभवत् सुतः ॥२०॥
tatas tasya mahīndrasya vitathaḥ putrakaḥ abhavat . tatas sa vitathaḥ nāma bhumanyoḥ abhavat sutaḥ ..20..
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा । पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥२१॥
सुहोत्रः च सुहोता च सुहविः सुयजुः तथा । पुष्करिण्याम् ऋचीकस्य भुमन्योः अभवन् सुताः ॥२१॥
suhotraḥ ca suhotā ca suhaviḥ suyajuḥ tathā . puṣkariṇyām ṛcīkasya bhumanyoḥ abhavan sutāḥ ..21..
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् । राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥२२॥
तेषाम् ज्येष्ठः सुहोत्रः तु राज्यम् आप महीक्षिताम् । राजसूय-अश्वमेध-आद्यैः सः अयजत् बहुभिः सवैः ॥२२॥
teṣām jyeṣṭhaḥ suhotraḥ tu rājyam āpa mahīkṣitām . rājasūya-aśvamedha-ādyaiḥ saḥ ayajat bahubhiḥ savaiḥ ..22..
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् । पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥२३॥
सुहोत्रः पृथिवीम् सर्वाम् बुभुजे सागराम्बराम् । पूर्णाम् हस्ति-गवाश्वस्य बहु-रत्न-समाकुलाम् ॥२३॥
suhotraḥ pṛthivīm sarvām bubhuje sāgarāmbarām . pūrṇām hasti-gavāśvasya bahu-ratna-samākulām ..23..
ममज्जेव मही तस्य भूरिभारावपीडिता । हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ॥२४॥
ममज्ज इव मही तस्य भूरि-भार-अवपीडिता । हस्ति-अश्व-रथ-सम्पूर्णा मनुष्य-कलिला भृशम् ॥२४॥
mamajja iva mahī tasya bhūri-bhāra-avapīḍitā . hasti-aśva-ratha-sampūrṇā manuṣya-kalilā bhṛśam ..24..
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः । चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ॥२५॥ ( प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥२५॥ )
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः । चैत्य-यूप-अङ्किता च आसीत् भूमिः शत-सहस्रशस् ॥२५॥ ( प्रवृद्ध-जन-सस्या च सहदेवा व्यरोचत ॥२५॥ )
suhotre rājani tadā dharmataḥ śāsati prajāḥ . caitya-yūpa-aṅkitā ca āsīt bhūmiḥ śata-sahasraśas ..25.. ( pravṛddha-jana-sasyā ca sahadevā vyarocata ..25.. )
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः । अजमीढं सुमीढं च पुरुमीढं च भारत ॥२६॥
ऐक्ष्वाकी जनयामास सुहोत्रात् पृथिवीपतेः । अजमीढम् सुमीढम् च पुरुमीढम् च भारत ॥२६॥
aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ . ajamīḍham sumīḍham ca purumīḍham ca bhārata ..26..
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः । षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥२७॥
अजमीढः वरः तेषाम् तस्मिन् वंशः प्रतिष्ठितः । षट् पुत्रान् सः अपि अजनयत् तिसृषु स्त्रीषु भारत ॥२७॥
ajamīḍhaḥ varaḥ teṣām tasmin vaṃśaḥ pratiṣṭhitaḥ . ṣaṭ putrān saḥ api ajanayat tisṛṣu strīṣu bhārata ..27..
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ । केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥२८॥
ऋक्षम् धूमिनी अथो नीली दुःषन्त-परमेष्ठिनौ । केशिनी अजनयत् जह्नुम् उभौ च जन-रूपिणौ ॥२८॥
ṛkṣam dhūminī atho nīlī duḥṣanta-parameṣṭhinau . keśinī ajanayat jahnum ubhau ca jana-rūpiṇau ..28..
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः । अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥२९॥
तथा इमे सर्व-पाञ्चालाः दुःषन्त-परमेष्ठिनोः । अन्वयाः कुशिकाः राजन् जह्नोः अमित-तेजसः ॥२९॥
tathā ime sarva-pāñcālāḥ duḥṣanta-parameṣṭhinoḥ . anvayāḥ kuśikāḥ rājan jahnoḥ amita-tejasaḥ ..29..
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥३०॥
जन-रूपिणयोः ज्येष्ठम् ऋक्षम् आहुः जनाधिपम् । ऋक्षात् संवरणः जज्ञे राजन् वंश-करः तव ॥३०॥
jana-rūpiṇayoḥ jyeṣṭham ṛkṣam āhuḥ janādhipam . ṛkṣāt saṃvaraṇaḥ jajñe rājan vaṃśa-karaḥ tava ..30..
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् । सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥३१॥
आर्क्षे संवरणे राजन् प्रशासति वसुन्धराम् । सङ्क्षयः सु महान् आसीत् प्रजानाम् इति शुश्रुमः ॥३१॥
ārkṣe saṃvaraṇe rājan praśāsati vasundharām . saṅkṣayaḥ su mahān āsīt prajānām iti śuśrumaḥ ..31..
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा । क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥३२॥ ( अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥३२॥ )
व्यशीर्यत ततस् राष्ट्रम् क्षयैः नानाविधैः तथा । क्षुध्-मृत्युभ्याम् अनावृष्ट्या व्याधिभिः च समाहतम् ॥३२॥ ( अभ्यघ्नन् भारतान् च एव सपत्नानाम् बलानि च ॥३२॥ )
vyaśīryata tatas rāṣṭram kṣayaiḥ nānāvidhaiḥ tathā . kṣudh-mṛtyubhyām anāvṛṣṭyā vyādhibhiḥ ca samāhatam ..32.. ( abhyaghnan bhāratān ca eva sapatnānām balāni ca ..32.. )
चालयन्वसुधां चैव बलेन चतुरङ्गिणा । अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ॥३३॥ ( अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥३३॥ )
चालयन् वसुधाम् च एव बलेन चतुरङ्गिणा । अभ्ययात् तम् च पाञ्चाल्यः विजित्य तरसा महीम् ॥३३॥ ( अक्षौहिणीभिः दशभिः सः एनम् समरे अजयत् ॥३३॥ )
cālayan vasudhām ca eva balena caturaṅgiṇā . abhyayāt tam ca pāñcālyaḥ vijitya tarasā mahīm ..33.. ( akṣauhiṇībhiḥ daśabhiḥ saḥ enam samare ajayat ..33.. )
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । राजा संवरणस्तस्मात्पलायत महाभयात् ॥३४॥
ततस् स दारः स अमात्यः स पुत्रः स सुहृद्-जनः । राजा संवरणः तस्मात् पलायत महा-भयात् ॥३४॥
tatas sa dāraḥ sa amātyaḥ sa putraḥ sa suhṛd-janaḥ . rājā saṃvaraṇaḥ tasmāt palāyata mahā-bhayāt ..34..
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा । नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥३५॥ ( तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥३५॥ )
सिन्धोः नदस्य महतः निकुञ्जे न्यवसत् तदा । नदी-विषय-पर्यन्ते पर्वतस्य समीपतस् ॥३५॥ ( तत्र अवसन् बहून् कालान् भारताः दुर्गम-आश्रिताः ॥३५॥ )
sindhoḥ nadasya mahataḥ nikuñje nyavasat tadā . nadī-viṣaya-paryante parvatasya samīpatas ..35.. ( tatra avasan bahūn kālān bhāratāḥ durgama-āśritāḥ ..35.. )
तेषां निवसतां तत्र सहस्रं परिवत्सरान् । अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥३६॥
तेषाम् निवसताम् तत्र सहस्रम् परिवत्सरान् । अथ अभ्यगच्छत् भरतान् वसिष्ठः भगवान् ऋषिः ॥३६॥
teṣām nivasatām tatra sahasram parivatsarān . atha abhyagacchat bharatān vasiṣṭhaḥ bhagavān ṛṣiḥ ..36..
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च । अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ॥३७॥ ( निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥३७॥ )
तम् आगतम् प्रयत्नेन प्रत्युद्गम्य अभिवाद्य च । अर्घ्यम् अभ्याहरन् तस्मै ते सर्वे भारताः तदा ॥३७॥ ( निवेद्य सर्वम् ऋषये सत्कारेण सुवर्चसे ॥३७॥ )
tam āgatam prayatnena pratyudgamya abhivādya ca . arghyam abhyāharan tasmai te sarve bhāratāḥ tadā ..37.. ( nivedya sarvam ṛṣaye satkāreṇa suvarcase ..37.. )
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा । पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ॥३८॥ ( ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥३८॥ )
तम् समाम् अष्टमीम् उष्टम् राजा वव्रे स्वयम् तदा । पुरोहितः भवान् नः अस्तु राज्याय प्रयतामहे ॥३८॥ ( ओम् इति एवम् वसिष्ठः अपि भारतान् प्रत्यपद्यत ॥३८॥ )
tam samām aṣṭamīm uṣṭam rājā vavre svayam tadā . purohitaḥ bhavān naḥ astu rājyāya prayatāmahe ..38.. ( om iti evam vasiṣṭhaḥ api bhāratān pratyapadyata ..38.. )
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् । विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥३९॥
अथ अभ्यषिञ्चत् साम्राज्ये सर्व-क्षत्रस्य पौरवम् । विषाण-भूतम् सर्वस्याम् पृथिव्याम् इति नः श्रुतम् ॥३९॥
atha abhyaṣiñcat sāmrājye sarva-kṣatrasya pauravam . viṣāṇa-bhūtam sarvasyām pṛthivyām iti naḥ śrutam ..39..
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् । पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥४०॥
भरत-अध्युषितम् पूर्वम् सः अध्यतिष्ठत् पुर-उत्तमम् । पुनर् बलि-भृतः च एव चक्रे सर्व-महीक्षितः ॥४०॥
bharata-adhyuṣitam pūrvam saḥ adhyatiṣṭhat pura-uttamam . punar bali-bhṛtaḥ ca eva cakre sarva-mahīkṣitaḥ ..40..
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः । आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥४१॥
ततस् स पृथिवीम् प्राप्य पुनर् ईजे महा-बलः । आजमीढः महा-यज्ञैः बहुभिः भूरि-दक्षिणैः ॥४१॥
tatas sa pṛthivīm prāpya punar īje mahā-balaḥ . ājamīḍhaḥ mahā-yajñaiḥ bahubhiḥ bhūri-dakṣiṇaiḥ ..41..
ततः संवरणात्सौरी सुषुवे तपती कुरुम् । राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥४२॥
ततस् संवरणात् सौरी सुषुवे तपती कुरुम् । राज-त्वे तम् प्रजाः सर्वाः धर्म-ज्ञः इति वव्रिरे ॥४२॥
tatas saṃvaraṇāt saurī suṣuve tapatī kurum . rāja-tve tam prajāḥ sarvāḥ dharma-jñaḥ iti vavrire ..42..
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् । कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥४३॥
तस्य नाम्ना अभिविख्यातम् पृथिव्याम् कुरुजाङ्गलम् । कुरुक्षेत्रम् स तपसा पुण्यम् चक्रे महा-तपाः ॥४३॥
tasya nāmnā abhivikhyātam pṛthivyām kurujāṅgalam . kurukṣetram sa tapasā puṇyam cakre mahā-tapāḥ ..43..
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् । जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ॥४४॥ ( पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥४४॥ )
अश्ववन्तम् अभिष्वन्तम् तथा चित्ररथम् मुनिम् । जनमेजयम् च विख्यातम् पुत्रान् च अस्य अनुशुश्रुमः ॥४४॥ ( पञ्च एतान् वाहिनी पुत्रान् व्यजायत मनस्विनी ॥४४॥ )
aśvavantam abhiṣvantam tathā citraratham munim . janamejayam ca vikhyātam putrān ca asya anuśuśrumaḥ ..44.. ( pañca etān vāhinī putrān vyajāyata manasvinī ..44.. )
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् । अभिराजो विराजश्च शल्मलश्च महाबलः ॥४५॥
अभिष्वतः परिक्षित् तु शबलाश्वः च वीर्यवान् । अभिराजः विराजः च शल्मलः च महा-बलः ॥४५॥
abhiṣvataḥ parikṣit tu śabalāśvaḥ ca vīryavān . abhirājaḥ virājaḥ ca śalmalaḥ ca mahā-balaḥ ..45..
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥४६॥
उच्चैःश्रवाः भद्रकारः जितारिः च अष्टमः स्मृतः । एतेषाम् अन्ववाये तु ख्याताः ते कर्म-जैः गुणैः ॥४६॥
uccaiḥśravāḥ bhadrakāraḥ jitāriḥ ca aṣṭamaḥ smṛtaḥ . eteṣām anvavāye tu khyātāḥ te karma-jaiḥ guṇaiḥ ..46..
जनमेजयादयः सप्त तथैवान्ये महाबलाः । परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥४७॥
जनमेजय-आदयः सप्त तथा एव अन्ये महा-बलाः । परिक्षितः अभवन् पुत्राः सर्वे धर्म-अर्थ-कोविदाः ॥४७॥
janamejaya-ādayaḥ sapta tathā eva anye mahā-balāḥ . parikṣitaḥ abhavan putrāḥ sarve dharma-artha-kovidāḥ ..47..
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् । इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥४८॥
कक्षसेन-उग्रसेनौ च चित्रसेनः च वीर्यवान् । इन्द्रसेनः सुषेणः च भीमसेनः च नामतः ॥४८॥
kakṣasena-ugrasenau ca citrasenaḥ ca vīryavān . indrasenaḥ suṣeṇaḥ ca bhīmasenaḥ ca nāmataḥ ..48..
जनमेजयस्य तनया भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥४९॥
जनमेजयस्य तनयाः भुवि ख्याताः महा-बलाः । धृतराष्ट्रः प्रथम-जः पाण्डुः वाह्लीकः एव च ॥४९॥
janamejayasya tanayāḥ bhuvi khyātāḥ mahā-balāḥ . dhṛtarāṣṭraḥ prathama-jaḥ pāṇḍuḥ vāhlīkaḥ eva ca ..49..
निषधश्च महातेजास्तथा जाम्बूनदो बली । कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ॥५०॥ ( सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥५०॥ )
निषधः च महातेजाः तथा जाम्बूनदः बली । कुण्डोदरः पदातिः च वसातिः च अष्टमः स्मृतः ॥५०॥ ( सर्वे धर्म-अर्थ-कुशलाः सर्वे भूत-हिते रताः ॥५०॥ )
niṣadhaḥ ca mahātejāḥ tathā jāmbūnadaḥ balī . kuṇḍodaraḥ padātiḥ ca vasātiḥ ca aṣṭamaḥ smṛtaḥ ..50.. ( sarve dharma-artha-kuśalāḥ sarve bhūta-hite ratāḥ ..50.. )
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ॥५१॥ ( हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥५१॥ )
धृतराष्ट्रः अथ राजा आसीत् तस्य पुत्रः अथ कुण्डिकः । हस्ती वितर्कः क्राथः च कुण्डलः च अपि पञ्चमः ॥५१॥ ( हविःश्रवाः तथा इन्द्राभः सुमन्युः च अपराजितः ॥५१॥ )
dhṛtarāṣṭraḥ atha rājā āsīt tasya putraḥ atha kuṇḍikaḥ . hastī vitarkaḥ krāthaḥ ca kuṇḍalaḥ ca api pañcamaḥ ..51.. ( haviḥśravāḥ tathā indrābhaḥ sumanyuḥ ca aparājitaḥ ..51.. )
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥५२॥
प्रतीपस्य त्रयः पुत्राः जज्ञिरे भरत-ऋषभ । देवापिः शन्तनुः च एव वाह्लीकः च महा-रथः ॥५२॥
pratīpasya trayaḥ putrāḥ jajñire bharata-ṛṣabha . devāpiḥ śantanuḥ ca eva vāhlīkaḥ ca mahā-rathaḥ ..52..
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया । शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥५३॥
देवापिः तु प्रवव्राज तेषाम् धर्म-परीप्सया । शन्तनुः च महीम् लेभे बाह्लीकः च महा-रथः ॥५३॥
devāpiḥ tu pravavrāja teṣām dharma-parīpsayā . śantanuḥ ca mahīm lebhe bāhlīkaḥ ca mahā-rathaḥ ..53..
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः । देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥५४॥
भरतस्य अन्वये जाताः सत्त्ववन्तः महा-रथाः । देव-ऋषि-कल्पाः नृपते बहवः राज-सत्तमाः ॥५४॥
bharatasya anvaye jātāḥ sattvavantaḥ mahā-rathāḥ . deva-ṛṣi-kalpāḥ nṛpate bahavaḥ rāja-sattamāḥ ..54..
एवंविधाश्चाप्यपरे देवकल्पा महारथाः । जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥५५॥ 1.94.64
एवंविधाः च अपि अपरे देव-कल्पाः महा-रथाः । जाताः मनोः अन्ववाये ऐल-वंश-विवर्धनाः ॥५५॥ १।९४।६४
evaṃvidhāḥ ca api apare deva-kalpāḥ mahā-rathāḥ . jātāḥ manoḥ anvavāye aila-vaṃśa-vivardhanāḥ ..55.. 1.94.64

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In