| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

रुरुरुवाच॥
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह । तत्र मे समयो घोर आत्मनोरग वै कृतः ॥१॥
मम प्राण-समा भार्या दष्टा आसीत् भुजगेन ह । तत्र मे समयः घोरः आत्मना उरग वै कृतः ॥१॥
mama prāṇa-samā bhāryā daṣṭā āsīt bhujagena ha . tatra me samayaḥ ghoraḥ ātmanā uraga vai kṛtaḥ ..1..
हन्यां सदैव भुजगं यं यं पश्येयमित्युत । ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥२॥
हन्याम् सदा एव भुजगम् यम् यम् पश्येयम् इति उत । ततस् अहम् त्वाम् जिघांसामि जीवितेन विमोक्ष्यसे ॥२॥
hanyām sadā eva bhujagam yam yam paśyeyam iti uta . tatas aham tvām jighāṃsāmi jīvitena vimokṣyase ..2..
डुण्डुभ उवाच॥
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् । डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥३॥
अन्ये ते भुजगाः विप्र ये दशन्ति इह मानवान् । डुण्डुभान् अहि-गन्धेन न त्वम् हिंसितुम् अर्हसि ॥३॥
anye te bhujagāḥ vipra ye daśanti iha mānavān . ḍuṇḍubhān ahi-gandhena na tvam hiṃsitum arhasi ..3..
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् । डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥४॥
एक-अनर्थान् पृथक् अर्थान् एक-दुःखान् पृथक् सुखान् । डुण्डुभान् धर्म-विद् भूत्वा न त्वम् हिंसितुम् अर्हसि ॥४॥
eka-anarthān pṛthak arthān eka-duḥkhān pṛthak sukhān . ḍuṇḍubhān dharma-vid bhūtvā na tvam hiṃsitum arhasi ..4..
सूत उवाच॥
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा । नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥५॥
इति श्रुत्वा वचः तस्य भुजगस्य रुरुः तदा । न अवधीत् भय-संविग्नः ऋषिम् मत्वा अथ डुण्डुभम् ॥५॥
iti śrutvā vacaḥ tasya bhujagasya ruruḥ tadā . na avadhīt bhaya-saṃvignaḥ ṛṣim matvā atha ḍuṇḍubham ..5..
उवाच चैनं भगवान्रुरुः संशमयन्निव । कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥६॥
उवाच च एनम् भगवान् रुरुः संशमयन् इव । कामया भुजग ब्रूहि कः असि इमाम् विक्रियाम् गतः ॥६॥
uvāca ca enam bhagavān ruruḥ saṃśamayan iva . kāmayā bhujaga brūhi kaḥ asi imām vikriyām gataḥ ..6..
डुण्डुभ उवाच॥
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् । सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥७॥
अहम् पुरा रुरो नाम्ना ऋषिः आसम् सहस्रपाद् । सः अहम् शापेन विप्रस्य भुजग-त्वम् उपागतः ॥७॥
aham purā ruro nāmnā ṛṣiḥ āsam sahasrapād . saḥ aham śāpena viprasya bhujaga-tvam upāgataḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In