| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् । उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥
श्रुतः त्वत्तः मया विप्र पूर्वेषाम् सम्भवः महान् । उदाराः च अपि वंशे अस्मिन् राजानः मे परिश्रुताः ॥१॥
śrutaḥ tvattaḥ mayā vipra pūrveṣām sambhavaḥ mahān . udārāḥ ca api vaṃśe asmin rājānaḥ me pariśrutāḥ ..1..
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति । प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥
किम् तु लघु-अर्थ-संयुक्तम् प्रिय-आख्यानम् न माम् अति । प्रीणाति अतस् भवान् भूयस् विस्तरेण ब्रवीतु मे ॥२॥
kim tu laghu-artha-saṃyuktam priya-ākhyānam na mām ati . prīṇāti atas bhavān bhūyas vistareṇa bravītu me ..2..
एतामेव कथां दिव्यामा प्रजापतितो मनोः । तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥
एताम् एव कथाम् दिव्याम् आ प्रजापतितः मनोः । तेषाम् आजननम् पुण्यम् कस्य न प्रीतिम् आवहेत् ॥३॥
etām eva kathām divyām ā prajāpatitaḥ manoḥ . teṣām ājananam puṇyam kasya na prītim āvahet ..3..
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् । विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥
सद्धर्म-गुण-माहात्म्यैः अभिवर्धितम् उत्तमम् । विष्टभ्य लोकान् त्रीन् एषाम् यशः स्फीतम् अवस्थितम् ॥४॥
saddharma-guṇa-māhātmyaiḥ abhivardhitam uttamam . viṣṭabhya lokān trīn eṣām yaśaḥ sphītam avasthitam ..4..
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् । न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥
गुण-प्रभाव-वीर्य-ओजः-सत्त्व-उत्साहवताम् अहम् । न तृप्यामि कथाम् शृण्वन् अमृत-आस्वाद-संमिताम् ॥५॥
guṇa-prabhāva-vīrya-ojaḥ-sattva-utsāhavatām aham . na tṛpyāmi kathām śṛṇvan amṛta-āsvāda-saṃmitām ..5..
वैशम्पायन उवाच॥
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥
शृणु राजन् पुरा सम्यक् मया द्वैपायनात् श्रुतम् । प्रोच्यमानम् इदम् कृत्स्नम् स्व-वंश-जननम् शुभम् ॥६॥
śṛṇu rājan purā samyak mayā dvaipāyanāt śrutam . procyamānam idam kṛtsnam sva-vaṃśa-jananam śubham ..6..
दक्षस्यादितिः । अदितेर्विवस्वान् । विवस्वतो मनुः । मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः । ००७ । ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति । ००८ ।
दक्षस्य अदितिः । अदितेः विवस्वान् । विवस्वतः मनुः । मनोः इला । इलायाः पुरूरवाः । पुरूरवसः आयुः । आयुषः नहुषः । नहुषस्य ययातिः । ००७ । ययातेः द्वे भार्ये बभूवतुः । उशनसः दुहिता देवयानी वृषपर्वणः च दुहिता शर्मिष्ठा नाम । अत्र अनुवंशः भवति । ००८ ।
dakṣasya aditiḥ . aditeḥ vivasvān . vivasvataḥ manuḥ . manoḥ ilā . ilāyāḥ purūravāḥ . purūravasaḥ āyuḥ . āyuṣaḥ nahuṣaḥ . nahuṣasya yayātiḥ . 007 . yayāteḥ dve bhārye babhūvatuḥ . uśanasaḥ duhitā devayānī vṛṣaparvaṇaḥ ca duhitā śarmiṣṭhā nāma . atra anuvaṃśaḥ bhavati . 008 .
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥
यदुम् च तुर्वसुम् च एव देवयानी व्यजायत । द्रुह्युम् च अनुम् च पूरुम् च शर्मिष्ठा वार्षपर्वणी ॥९॥
yadum ca turvasum ca eva devayānī vyajāyata . druhyum ca anum ca pūrum ca śarmiṣṭhā vārṣaparvaṇī ..9..
तत्र यदोर्यादवाः । पूरोः पौरवाः । ०१० ।
तत्र यदोः यादवाः । पूरोः पौरवाः । ०१० ।
tatra yadoḥ yādavāḥ . pūroḥ pauravāḥ . 010 .
यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश । ०११ ।
यः त्रीन् अश्वमेधान् आजहार । विश्वजिता च इष्ट्वा वनम् प्रविवेश । ०११ ।
yaḥ trīn aśvamedhān ājahāra . viśvajitā ca iṣṭvā vanam praviveśa . 011 .
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् । ०१२ ।
जनमेजयः खलु अनन्ताम् नाम उपयेमे माधवीम् । तस्याम् अस्य जज्ञे प्राचिन्वान् । यः प्राचीम् दिशम् जिगाय यावत् सूर्य-उदयात् । ततस् तस्य प्राचिन्व-त्वम् । ०१२ ।
janamejayaḥ khalu anantām nāma upayeme mādhavīm . tasyām asya jajñe prācinvān . yaḥ prācīm diśam jigāya yāvat sūrya-udayāt . tatas tasya prācinva-tvam . 012 .
प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः । ०१३ ।
प्राचिन्वान् खलु अश्मकीम् उपयेमे । तस्याम् अस्य जज्ञे संयातिः । ०१३ ।
prācinvān khalu aśmakīm upayeme . tasyām asya jajñe saṃyātiḥ . 013 .
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहम्पातिः । ०१४ ।
संयातिः खलु दृषद्वतः दुहितरम् वराङ्गीम् नाम उपयेमे । तस्याम् अस्य जज्ञे अहम्पातिः । ०१४ ।
saṃyātiḥ khalu dṛṣadvataḥ duhitaram varāṅgīm nāma upayeme . tasyām asya jajñe ahampātiḥ . 014 .
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः । ०१५ ।
अहम्पातिः तु खलु कृतवीर्य-दुहितरम् उपयेमे भानुमतीम् नाम । तस्याम् अस्य जज्ञे सार्वभौमः । ०१५ ।
ahampātiḥ tu khalu kṛtavīrya-duhitaram upayeme bhānumatīm nāma . tasyām asya jajñe sārvabhaumaḥ . 015 .
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः । ०१६ ।
सार्वभौमः खलु जित्वा आजहार कैकेयीम् सुनन्दाम् नाम । तस्याम् अस्य जज्ञे जयत्सेनः । ०१६ ।
sārvabhaumaḥ khalu jitvā ājahāra kaikeyīm sunandām nāma . tasyām asya jajñe jayatsenaḥ . 016 .
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः । ०१७ ।
जयत्सेनः खलु वैदर्भीम् उपयेमे सुषुवाम् नाम । तस्याम् अस्य जज्ञे अराचीनः । ०१७ ।
jayatsenaḥ khalu vaidarbhīm upayeme suṣuvām nāma . tasyām asya jajñe arācīnaḥ . 017 .
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः । ०१८ ।
अराचीनः अपि वैदर्भीम् एव अपराम् उपयेमे मर्यादाम् नाम । तस्याम् अस्य जज्ञे महाभौमः । ०१८ ।
arācīnaḥ api vaidarbhīm eva aparām upayeme maryādām nāma . tasyām asya jajñe mahābhaumaḥ . 018 .
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् । ०१९ ।
महाभौमः खलु प्रासेनजितीम् उपयेमे सुयज्ञाम् नाम । तस्याम् अस्य जज्ञे अयुत-नायी । यः पुरुष-मेधानाम् अयुतम् आनयत् । तत् अस्य अयुत-नायि-त्वम् । ०१९ ।
mahābhaumaḥ khalu prāsenajitīm upayeme suyajñām nāma . tasyām asya jajñe ayuta-nāyī . yaḥ puruṣa-medhānām ayutam ānayat . tat asya ayuta-nāyi-tvam . 019 .
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः । ०२० ।
अयुत-नायी खलु पृथुश्रवसः दुहितरम् उपयेमे भासाम् नाम । तस्याम् अस्य जज्ञे अक्रोधनः । ०२० ।
ayuta-nāyī khalu pṛthuśravasaḥ duhitaram upayeme bhāsām nāma . tasyām asya jajñe akrodhanaḥ . 020 .
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः । ०२१ ।
अक्रोधनः खलु कालिङ्गीम् करण्डुम् नाम उपयेमे । तस्याम् अस्य जज्ञे देवातिथिः । ०२१ ।
akrodhanaḥ khalu kāliṅgīm karaṇḍum nāma upayeme . tasyām asya jajñe devātithiḥ . 021 .
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः । ०२२ ।
देवातिथिः खलु वैदेहीम् उपयेमे मर्यादाम् नाम । तस्याम् अस्य जज्ञे ऋचः । ०२२ ।
devātithiḥ khalu vaidehīm upayeme maryādām nāma . tasyām asya jajñe ṛcaḥ . 022 .
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् । ०२३ ।
ऋचः खलु आङ्गेयीम् उपयेमे सुदेवाम् नाम । तस्याम् पुत्रम् अजनयत् ऋक्षम् । ०२३ ।
ṛcaḥ khalu āṅgeyīm upayeme sudevām nāma . tasyām putram ajanayat ṛkṣam . 023 .
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास । ०२४ ।
ऋक्षः खलु तक्षक-दुहितरम् उपयेमे ज्वालाम् नाम । तस्याम् पुत्रम् मतिनारम् नाम उत्पादयामास । ०२४ ।
ṛkṣaḥ khalu takṣaka-duhitaram upayeme jvālām nāma . tasyām putram matināram nāma utpādayāmāsa . 024 .
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम । ०२६ ।
निवृत्ते च सत्रे सरस्वती अभिगम्य तम् भर्तारम् वरयामास । तस्याम् पुत्रम् अजनयत् तंसुम् नाम । ०२६ ।
nivṛtte ca satre sarasvatī abhigamya tam bhartāram varayāmāsa . tasyām putram ajanayat taṃsum nāma . 026 .
अत्रानुवंशो भवति । ०२७ ।
अत्र अनुवंशः भवति । ०२७ ।
atra anuvaṃśaḥ bhavati . 027 .
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥२८॥
तंसुम् सरस्वती पुत्रम् मतिनारात् अजीजनत् । इलिनम् जनयामास कालिन्द्याम् तंसुर-आत्मजम् ॥२८॥
taṃsum sarasvatī putram matinārāt ajījanat . ilinam janayāmāsa kālindyām taṃsura-ātmajam ..28..
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् । ०२९ ।
इलिनः तु रथन्तर्याम् दुःषन्त-आद्यान् पञ्च पुत्रान् अजनयत् । ०२९ ।
ilinaḥ tu rathantaryām duḥṣanta-ādyān pañca putrān ajanayat . 029 .
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः । तत्र श्लोकौ भवतः । ०३० ।
दुःषन्तः खलु विश्वामित्र-दुहितरम् शकुन्तलाम् नाम उपयेमे । तस्याम् अस्य जज्ञे भरतः । तत्र श्लोकौ भवतः । ०३० ।
duḥṣantaḥ khalu viśvāmitra-duhitaram śakuntalām nāma upayeme . tasyām asya jajñe bharataḥ . tatra ślokau bhavataḥ . 030 .
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥३१॥
माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः । भरस्व पुत्रम् दुःषन्त मा अवमंस्थाः शकुन्तलाम् ॥३१॥
mātā bhastrā pituḥ putraḥ yena jātaḥ saḥ eva saḥ . bharasva putram duḥṣanta mā avamaṃsthāḥ śakuntalām ..31..
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३२॥
रेतः-धाः पुत्रः उन्नयति नरदेव यम-क्षयात् । त्वम् च अस्य धाता गर्भस्य सत्यम् आह शकुन्तला ॥३२॥
retaḥ-dhāḥ putraḥ unnayati naradeva yama-kṣayāt . tvam ca asya dhātā garbhasya satyam āha śakuntalā ..32..
ततोऽस्य भरतत्वम् । ०३३ ।
ततस् अस्य भरत-त्वम् । ०३३ ।
tatas asya bharata-tvam . 033 .
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः । ०३४ ।
भरतः खलु काशेयीम् उपयेमे सार्वसेनीम् सुनन्दाम् नाम । तस्याम् अस्य जज्ञे भुमन्युः । ०३४ ।
bharataḥ khalu kāśeyīm upayeme sārvasenīm sunandām nāma . tasyām asya jajñe bhumanyuḥ . 034 .
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम । तस्यामस्य जज्ञे सुहोत्रः । ०३५ ।
भुमन्युः खलु दाशार्हीम् उपयेमे जयाम् नाम । तस्याम् अस्य जज्ञे सुहोत्रः । ०३५ ।
bhumanyuḥ khalu dāśārhīm upayeme jayām nāma . tasyām asya jajñe suhotraḥ . 035 .
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे हस्ती । य इदं हास्तिनपुरं मापयामास । एतदस्य हास्तिनपुरत्वम् । ०३६ ।
सुहोत्रः खलु इक्ष्वाकु-कन्याम् उपयेमे सुवर्णाम् नाम । तस्याम् अस्य जज्ञे हस्ती । यः इदम् हास्तिनपुरम् मापयामास । एतत् अस्य हास्तिनपुर-त्वम् । ०३६ ।
suhotraḥ khalu ikṣvāku-kanyām upayeme suvarṇām nāma . tasyām asya jajñe hastī . yaḥ idam hāstinapuram māpayāmāsa . etat asya hāstinapura-tvam . 036 .
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम । तस्यामस्य जज्ञे विकुण्ठनः । ०३७ ।
हस्ती खलु त्रैगर्तीम् उपयेमे यशोधराम् नाम । तस्याम् अस्य जज्ञे विकुण्ठनः । ०३७ ।
hastī khalu traigartīm upayeme yaśodharām nāma . tasyām asya jajñe vikuṇṭhanaḥ . 037 .
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम । तस्यामस्य जज्ञेऽजमीढः । ०३८ ।
विकुण्ठनः खलु दाशार्हीम् उपयेमे सुदेवाम् नाम । तस्याम् अस्य जज्ञे अजमीढः । ०३८ ।
vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevām nāma . tasyām asya jajñe ajamīḍhaḥ . 038 .
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति । पृथक्पृथग्वंशकरा नृपतयः । तत्र वंशकरः संवरणः । ०३९ ।
अजमीढस्य चतुर्विंशम् पुत्र-शतम् बभूव कैकेय्याम् नागायाम् गान्धार्याम् विमलायाम् ऋक्षायाम् च इति । पृथक् पृथक् वंश-कराः नृपतयः । तत्र वंश-करः संवरणः । ०३९ ।
ajamīḍhasya caturviṃśam putra-śatam babhūva kaikeyyām nāgāyām gāndhāryām vimalāyām ṛkṣāyām ca iti . pṛthak pṛthak vaṃśa-karāḥ nṛpatayaḥ . tatra vaṃśa-karaḥ saṃvaraṇaḥ . 039 .
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः । ०४० ।
संवरणः खलु वैवस्वतीम् तपतीम् नाम उपयेमे । तस्याम् अस्य जज्ञे कुरुः । ०४० ।
saṃvaraṇaḥ khalu vaivasvatīm tapatīm nāma upayeme . tasyām asya jajñe kuruḥ . 040 .
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विडूरथः । ०४१ ।
कुरुः खलु दाशार्हीम् उपयेमे शुभाङ्गीम् नाम । तस्याम् अस्य जज्ञे विदूरथः । ०४१ ।
kuruḥ khalu dāśārhīm upayeme śubhāṅgīm nāma . tasyām asya jajñe vidūrathaḥ . 041 .
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम । तस्यामस्य जज्ञेऽरुग्वान्नाम । ०४२ ।
विडूरथः तु मागधीम् उपयेमे सम्प्रियाम् नाम । तस्याम् अस्य जज्ञे अरुग्वान् नाम । ०४२ ।
viḍūrathaḥ tu māgadhīm upayeme sampriyām nāma . tasyām asya jajñe arugvān nāma . 042 .
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् । ०४३ ।
अरुग्वान् खलु मागधीम् उपयेमे अमृताम् नाम । तस्याम् अस्य जज्ञे परिक्षित् । ०४३ ।
arugvān khalu māgadhīm upayeme amṛtām nāma . tasyām asya jajñe parikṣit . 043 .
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम । तस्यामस्य जज्ञे भीमसेनः । ०४४ ।
परिक्षित् खलु बाहुदाम् उपयेमे सुयशाम् नाम । तस्याम् अस्य जज्ञे भीमसेनः । ०४४ ।
parikṣit khalu bāhudām upayeme suyaśām nāma . tasyām asya jajñe bhīmasenaḥ . 044 .
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे पर्यश्रवाः ।
भीमसेनः खलु कैकेयीम् उपयेमे सुकुमारीम् नाम । तस्याम् अस्य जज्ञे पर्यश्रवाः ।
bhīmasenaḥ khalu kaikeyīm upayeme sukumārīm nāma . tasyām asya jajñe paryaśravāḥ .
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । ०४६ ।
प्रतीपः खलु शैब्याम् उपयेमे सुनन्दाम् नाम । तस्याम् पुत्रान् उत्पादयामास देवापिम् शन्तनुम् बाह्लीकम् च इति । ०४६ ।
pratīpaḥ khalu śaibyām upayeme sunandām nāma . tasyām putrān utpādayāmāsa devāpim śantanum bāhlīkam ca iti . 046 .
देवापिः खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् । अत्रानुवंशो भवति । ०४७ ।
देवापिः खलु बालः एव अरण्यम् प्रविवेश । शन्तनुः तु महीपालः अभवत् । अत्र अनुवंशः भवति । ०४७ ।
devāpiḥ khalu bālaḥ eva araṇyam praviveśa . śantanuḥ tu mahīpālaḥ abhavat . atra anuvaṃśaḥ bhavati . 047 .
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥४८॥
यम् यम् कराभ्याम् स्पृशति जीर्णम् स सुखम् अश्नुते । पुनर्युवा च भवति तस्मात् तम् शन्तनुम् विदुः ॥४८॥
yam yam karābhyām spṛśati jīrṇam sa sukham aśnute . punaryuvā ca bhavati tasmāt tam śantanum viduḥ ..48..
तदस्य शन्तनुत्वम् । ०४९ ।
तत् अस्य शन्तनु-त्वम् । ०४९ ।
tat asya śantanu-tvam . 049 .
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे । तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति । ०५० ।
शन्तनुः खलु गङ्गाम् भागीरथीम् उपयेमे । तस्याम् अस्य जज्ञे देवव्रतः । यम् आहुः भीष्मः इति । ०५० ।
śantanuḥ khalu gaṅgām bhāgīrathīm upayeme . tasyām asya jajñe devavrataḥ . yam āhuḥ bhīṣmaḥ iti . 050 .
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् । यामाहुर्गन्धकालीति । ०५१ ।
भीष्मः खलु पितुः प्रिय-चिकीर्षया सत्यवतीम् उदवहत् मातरम् । याम् आहुः गन्धकाली इति । ०५१ ।
bhīṣmaḥ khalu pituḥ priya-cikīrṣayā satyavatīm udavahat mātaram . yām āhuḥ gandhakālī iti . 051 .
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः । चित्राङ्गदो विचित्रवीर्यश्च । ०५२ ।
तस्याम् कानीनः गर्भः पराशरात् द्वैपायनः । तस्याम् एव शन्तनोः द्वौ पुत्रौ बभूवतुः । चित्राङ्गदः विचित्रवीर्यः च । ०५२ ।
tasyām kānīnaḥ garbhaḥ parāśarāt dvaipāyanaḥ . tasyām eva śantanoḥ dvau putrau babhūvatuḥ . citrāṅgadaḥ vicitravīryaḥ ca . 052 .
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः । विचित्रवीर्यस्तु राजा समभवत् । ०५३ ।
तयोः अप्राप्त-यौवनः एव चित्राङ्गदः गन्धर्वेण हतः । विचित्रवीर्यः तु राजा समभवत् । ०५३ ।
tayoḥ aprāpta-yauvanaḥ eva citrāṅgadaḥ gandharveṇa hataḥ . vicitravīryaḥ tu rājā samabhavat . 053 .
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । ०५४ । विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । ०५५ ।
विचित्रवीर्यः खलु कौसल्या-आत्मजे अम्बिका-अम्बालिके काशि-राज-दुहितरौ उपयेमे । ०५४ । विचित्रवीर्यः तु अनपत्यः एव विदेह-त्वम् प्राप्तः । ०५५ ।
vicitravīryaḥ khalu kausalyā-ātmaje ambikā-ambālike kāśi-rāja-duhitarau upayeme . 054 . vicitravīryaḥ tu anapatyaḥ eva videha-tvam prāptaḥ . 055 .
ततः सत्यवती चिन्तयामास । दौःषन्तो वंश उच्छिद्यते इति । ०५६ ।
ततस् सत्यवती चिन्तयामास । दौःषन्तः वंशः उच्छिद्यते इति । ०५६ ।
tatas satyavatī cintayāmāsa . dauḥṣantaḥ vaṃśaḥ ucchidyate iti . 056 .
सा द्वैपायनमृषिं चिन्तयामास । ०५७ । स तस्याः पुरतः स्थितः किं करवाणीति । ०५८ ।
सा द्वैपायनम् ऋषिम् चिन्तयामास । ०५७ । स तस्याः पुरतस् स्थितः किम् करवाणि इति । ०५८ ।
sā dvaipāyanam ṛṣim cintayāmāsa . 057 . sa tasyāḥ puratas sthitaḥ kim karavāṇi iti . 058 .
सा तमुवाच । भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः । साध्वपत्यं तस्योत्पादयेति । ०५९ ।
सा तम् उवाच । भ्राता तव अनपत्यः एव स्वर्यातः विचित्र-वीर्यः । साधु अपत्यम् तस्य उत्पादय इति । ०५९ ।
sā tam uvāca . bhrātā tava anapatyaḥ eva svaryātaḥ vicitra-vīryaḥ . sādhu apatyam tasya utpādaya iti . 059 .
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । ०६० ।
स परम् इति उक्त्वा त्रीन् पुत्रान् उत्पादयामास धृतराष्ट्रम् पाण्डुम् विदुरम् च इति । ०६० ।
sa param iti uktvā trīn putrān utpādayāmāsa dhṛtarāṣṭram pāṇḍum viduram ca iti . 060 .
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । ०६१ ।
तत्र धृतराष्ट्रस्य राज्ञः पुत्र-शतम् बभूव गान्धार्याम् वर-दानात् द्वैपायनस्य । ०६१ ।
tatra dhṛtarāṣṭrasya rājñaḥ putra-śatam babhūva gāndhāryām vara-dānāt dvaipāyanasya . 061 .
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । ०६२ ।
तेषाम् धृतराष्ट्रस्य पुत्राणाम् चत्वारः प्रधानाः बभूवुः दुर्योधनः दुःशासनः विकर्णः चित्रसेनः इति । ०६२ ।
teṣām dhṛtarāṣṭrasya putrāṇām catvāraḥ pradhānāḥ babhūvuḥ duryodhanaḥ duḥśāsanaḥ vikarṇaḥ citrasenaḥ iti . 062 .
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने । ०६३ ।
पाण्डोः तु द्वे भार्ये बभूवतुः कुन्ती माद्री च इति उभे स्त्री-रत्ने । ०६३ ।
pāṇḍoḥ tu dve bhārye babhūvatuḥ kuntī mādrī ca iti ubhe strī-ratne . 063 .
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् । तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । ०६४ ।
अथ पाण्डुः मृगयाम् चरन् मैथुन-गतम् ऋषिम् अपश्यत् मृग्याम् वर्तमानम् । तथा एव आप्लुतम् अन् आसादित-काम-रसम् अतृप्तम् बाणेन अभिजघान । ०६४ ।
atha pāṇḍuḥ mṛgayām caran maithuna-gatam ṛṣim apaśyat mṛgyām vartamānam . tathā eva āplutam an āsādita-kāma-rasam atṛptam bāṇena abhijaghāna . 064 .
स बाणविद्ध उवाच पाण्डुम् । चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । ०६५ । स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । ०६६ ।
स बाण-विद्धः उवाच पाण्डुम् । चरता धर्मम् इमम् येन त्वया अभिज्ञेन काम-रसस्य अहम् अनवाप्त-काम-रसः अभिहतः तस्मात् त्वम् अपि एताम् अवस्थाम् आसाद्य अनवाप्त-काम-रसः पञ्चत्वम् आप्स्यसि क्षिप्रम् एव इति । ०६५ । स विवर्ण-रूपः पाण्डुः शापम् परिहरमाणः न उपासर्पत भार्ये । ०६६ ।
sa bāṇa-viddhaḥ uvāca pāṇḍum . caratā dharmam imam yena tvayā abhijñena kāma-rasasya aham anavāpta-kāma-rasaḥ abhihataḥ tasmāt tvam api etām avasthām āsādya anavāpta-kāma-rasaḥ pañcatvam āpsyasi kṣipram eva iti . 065 . sa vivarṇa-rūpaḥ pāṇḍuḥ śāpam pariharamāṇaḥ na upāsarpata bhārye . 066 .
वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोका सन्तीति । ०६७ ।
वाक्यम् च उवाच । स्व-चापल्यात् इदम् प्राप्तवान् अहम् । शृणोमि च न अनपत्यस्य लोकाः सन्ति इति । ०६७ ।
vākyam ca uvāca . sva-cāpalyāt idam prāptavān aham . śṛṇomi ca na anapatyasya lokāḥ santi iti . 067 .
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । ०६८ ।
सा त्वम् मद्-अर्थे पुत्रान् उत्पादय इति कुन्तीम् उवाच । ०६८ ।
sā tvam mad-arthe putrān utpādaya iti kuntīm uvāca . 068 .
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । ०६९ ।
सा तत्र पुत्रान् उत्पादयामास धर्मात् युधिष्ठिरम् मारुतात् भीमसेनम् शक्रात् अर्जुनम् इति । ०६९ ।
sā tatra putrān utpādayāmāsa dharmāt yudhiṣṭhiram mārutāt bhīmasenam śakrāt arjunam iti . 069 .
स तां हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्न्यनपत्या । साध्वस्यामपत्यमुत्पाद्यतामिति । ०७० ।
स ताम् हृष्ट-रूपः पाण्डुः उवाच । इयम् ते सपत्नी अनपत्या । साधु अस्याम् अपत्यम् उत्पाद्यताम् इति । ०७० ।
sa tām hṛṣṭa-rūpaḥ pāṇḍuḥ uvāca . iyam te sapatnī anapatyā . sādhu asyām apatyam utpādyatām iti . 070 .
स एवमस्त्वित्युक्तः कुन्त्या । ०७१ ।
सः एवम् अस्तु इति उक्तः कुन्त्या । ०७१ ।
saḥ evam astu iti uktaḥ kuntyā . 071 .
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । ०७२ ।
ततस् माद्र्याम् अश्विभ्याम् नकुल-सहदेवौ उत्पादितौ । ०७२ ।
tatas mādryām aśvibhyām nakula-sahadevau utpāditau . 072 .
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । ०७३ ।
माद्रीम् खलु अलङ्कृताम् दृष्ट्वा पाण्डुः भावम् चक्रे । ०७३ ।
mādrīm khalu alaṅkṛtām dṛṣṭvā pāṇḍuḥ bhāvam cakre . 073 .
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । ०७४ ।
स ताम् स्पृष्ट्वा एव विदेह-त्वम् प्राप्तः । ०७४ ।
sa tām spṛṣṭvā eva videha-tvam prāptaḥ . 074 .
तत्रैनं चितास्थं माद्री समन्वारुरोह । ०७५ ।
तत्र एनम् चिता-स्थम् माद्री समन्वारुरोह । ०७५ ।
tatra enam citā-stham mādrī samanvāruroha . 075 .
उवाच कुन्तीम् । यमयोरार्ययाप्रमत्तया भवितव्यमिति । ०७६ ।
उवाच कुन्तीम् । यमयोः आर्यया अप्रमत्तया भवितव्यम् इति । ०७६ ।
uvāca kuntīm . yamayoḥ āryayā apramattayā bhavitavyam iti . 076 .
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः । ०७७ ।
ततस् ते पञ्च पाण्डवाः कुन्त्या सहिताः हास्तिनपुरम् आनीय तापसैः भीष्मस्य विदुरस्य च निवेदिताः । ०७७ ।
tatas te pañca pāṇḍavāḥ kuntyā sahitāḥ hāstinapuram ānīya tāpasaiḥ bhīṣmasya vidurasya ca niveditāḥ . 077 .
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन । ०७८ ।
तत्र अपि जतु-गृहे दग्धुम् समारब्धाः न शकिताः विदुर-मन्त्रितेन । ०७८ ।
tatra api jatu-gṛhe dagdhum samārabdhāḥ na śakitāḥ vidura-mantritena . 078 .
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः । ०७९ ।
ततस् च हिडिम्बम् अन्तरा हत्वा एकचक्राम् गताः । ०७९ ।
tatas ca hiḍimbam antarā hatvā ekacakrām gatāḥ . 079 .
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः । ०८० ।
तस्याम् अपि एकचक्रायाम् बकम् नाम राक्षसम् हत्वा पाञ्चाल-नगरम् अभिगताः । ०८० ।
tasyām api ekacakrāyām bakam nāma rākṣasam hatvā pāñcāla-nagaram abhigatāḥ . 080 .
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः । ०८१ ।
तस्मात् द्रौपदीम् भार्याम् अविन्दन् स्व-विषयम् च आजग्मुः कुशलिनः । ०८१ ।
tasmāt draupadīm bhāryām avindan sva-viṣayam ca ājagmuḥ kuśalinaḥ . 081 .
पुत्रांश्चोत्पादयामासुः । प्रतिविन्ध्यं युधिष्ठिरः । सुतसोमं वृकोदरः । श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतकर्माणं सहदेव इति । ०८२ ।
पुत्रान् च उत्पादयामासुः । प्रतिविन्ध्यम् युधिष्ठिरः । सुतसोमम् वृकोदरः । श्रुतकीर्तिम् अर्जुनः । शतानीकम् नकुलः । श्रुतकर्माणम् सहदेवः इति । ०८२ ।
putrān ca utpādayāmāsuḥ . prativindhyam yudhiṣṭhiraḥ . sutasomam vṛkodaraḥ . śrutakīrtim arjunaḥ . śatānīkam nakulaḥ . śrutakarmāṇam sahadevaḥ iti . 082 .
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे । तस्यां पुत्रं जनयामास यौधेयं नाम । ०८३ ।
युधिष्ठिरः तु गोवासनस्य शैब्यस्य देविकाम् नाम कन्याम् स्वयंवरे लेभे । तस्याम् पुत्रम् जनयामास यौधेयम् नाम । ०८३ ।
yudhiṣṭhiraḥ tu govāsanasya śaibyasya devikām nāma kanyām svayaṃvare lebhe . tasyām putram janayāmāsa yaudheyam nāma . 083 .
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् । तस्यां पुत्रं सर्वगं नामोत्पादयामास । ०८४ ।
भीमसेनः अपि काश्याम् बलधराम् नाम उपयेमे वीर्य-शुल्काम् । तस्याम् पुत्रम् सर्वगम् नाम उत्पादयामास । ०८४ ।
bhīmasenaḥ api kāśyām baladharām nāma upayeme vīrya-śulkām . tasyām putram sarvagam nāma utpādayāmāsa . 084 .
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् । तस्यां पुत्रमभिमन्युं नाम जनयामास । ०८५ ।
अर्जुनः खलु द्वारवतीम् गत्वा भगिनीम् वासुदेवस्य सुभद्राम् नाम भार्याम् उदवहत् । तस्याम् पुत्रम् अभिमन्युम् नाम जनयामास । ०८५ ।
arjunaḥ khalu dvāravatīm gatvā bhaginīm vāsudevasya subhadrām nāma bhāryām udavahat . tasyām putram abhimanyum nāma janayāmāsa . 085 .
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् । तस्यां पुत्रं निरमित्रं नामाजनयत् । ०८६ ।
नकुलः तु चैद्याम् करेणुवतीम् नाम भार्याम् उदवहत् । तस्याम् पुत्रम् निरमित्रम् नाम अजनयत् । ०८६ ।
nakulaḥ tu caidyām kareṇuvatīm nāma bhāryām udavahat . tasyām putram niramitram nāma ajanayat . 086 .
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे । तस्यां पुत्रमजनयत्सुहोत्रं नाम । ०८७ ।
सहदेवः अपि माद्रीम् एव स्वयंवरे विजयाम् नाम उपयेमे । तस्याम् पुत्रम् अजनयत् सुहोत्रम् नाम । ०८७ ।
sahadevaḥ api mādrīm eva svayaṃvare vijayām nāma upayeme . tasyām putram ajanayat suhotram nāma . 087 .
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास । ०८८ ।
भीमसेनः तु पूर्वम् एव हिडिम्बायाम् राक्षस्याम् घटोत्कचम् नाम पुत्रम् जनयामास । ०८८ ।
bhīmasenaḥ tu pūrvam eva hiḍimbāyām rākṣasyām ghaṭotkacam nāma putram janayāmāsa . 088 .
इत्येते एकादश पाण्डवानां पुत्राः । ०८९ ।
इति एते एकादश पाण्डवानाम् पुत्राः । ०८९ ।
iti ete ekādaśa pāṇḍavānām putrāḥ . 089 .
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे । तस्यामस्य परासुर्गर्भोऽजायत । ०९० ।
विराटस्य दुहितरम् उत्तराम् नाम अभिमन्युः उपयेमे । तस्याम् अस्य परासुः गर्भः अजायत । ०९० ।
virāṭasya duhitaram uttarām nāma abhimanyuḥ upayeme . tasyām asya parāsuḥ garbhaḥ ajāyata . 090 .
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । ०९१ ।
तम् उत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकम् गर्भम् अहम् एनम् जीवयिष्यामि इति । ०९१ ।
tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya . ṣāṇmāsikam garbham aham enam jīvayiṣyāmi iti . 091 .
सञ्जीवयित्वा चैनमुवाच । परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । ०९२ ।
सञ्जीवयित्वा च एनम् उवाच । परिक्षीणे कुले जातः भवतु अयम् परिक्षित् नाम इति । ०९२ ।
sañjīvayitvā ca enam uvāca . parikṣīṇe kule jātaḥ bhavatu ayam parikṣit nāma iti . 092 .
परिक्षित्तु खलु माद्रवतीं नामोपयेमे । तस्यामस्य जनमेजयः । ०९३ ।
परिक्षित् तु खलु माद्रवतीम् नाम उपयेमे । तस्याम् अस्य जनमेजयः । ०९३ ।
parikṣit tu khalu mādravatīm nāma upayeme . tasyām asya janamejayaḥ . 093 .
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च । ०९४ ।
जनमेजयात् तु वपुष्टमायाम् द्वौ पुत्रौ शतानीकः शङ्कुः च । ०९४ ।
janamejayāt tu vapuṣṭamāyām dvau putrau śatānīkaḥ śaṅkuḥ ca . 094 .
शतानीकस्तु खलु वैदेहीमुपयेमे । तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः । ०९५ ।
शतानीकः तु खलु वैदेहीम् उपयेमे । तस्याम् अस्य जज्ञे पुत्रः अश्वमेधदत्तः । ०९५ ।
śatānīkaḥ tu khalu vaidehīm upayeme . tasyām asya jajñe putraḥ aśvamedhadattaḥ . 095 .
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥९६॥ 1.95.87
इति एष पूरोः वंशः तु पाण्डवानाम् च कीर्तितः । पूरोः वंशम् इमम् श्रुत्वा सर्व-पापैः प्रमुच्यते ॥९६॥ १।९५।८७
iti eṣa pūroḥ vaṃśaḥ tu pāṇḍavānām ca kīrtitaḥ . pūroḥ vaṃśam imam śrutvā sarva-pāpaiḥ pramucyate ..96.. 1.95.87

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In