| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् । उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥
śrutastvatto mayā vipra pūrveṣāṃ sambhavo mahān . udārāścāpi vaṃśe'sminrājāno me pariśrutāḥ ..1..
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति । प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥
kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na māmati . prīṇātyato bhavānbhūyo vistareṇa bravītu me ..2..
एतामेव कथां दिव्यामा प्रजापतितो मनोः । तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥
etāmeva kathāṃ divyāmā prajāpatito manoḥ . teṣāmājananaṃ puṇyaṃ kasya na prītimāvahet ..3..
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् । विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥
saddharmaguṇamāhātmyairabhivardhitamuttamam . viṣṭabhya lokāṃstrīneṣāṃ yaśaḥ sphītamavasthitam ..4..
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् । न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥
guṇaprabhāvavīryaujaḥsattvotsāhavatāmaham . na tṛpyāmi kathāṃ śṛṇvannamṛtāsvādasaṃmitām ..5..
वैशम्पायन उवाच॥
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥
śṛṇu rājanpurā samyaṅmayā dvaipāyanācchrutam . procyamānamidaṃ kṛtsnaṃ svavaṃśajananaṃ śubham ..6..
दक्षस्यादितिः । अदितेर्विवस्वान् । विवस्वतो मनुः । मनोरिला । इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः । ००७ । ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति । ००८ ।
dakṣasyāditiḥ . aditervivasvān . vivasvato manuḥ . manorilā . ilāyāḥ purūravāḥ . purūravasa āyuḥ . āyuṣo nahuṣaḥ . nahuṣasya yayātiḥ . 007 . yayāterdve bhārye babhūvatuḥ . uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma . atrānuvaṃśo bhavati . 008 .
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥
yaduṃ ca turvasuṃ caiva devayānī vyajāyata . druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī ..9..
तत्र यदोर्यादवाः । पूरोः पौरवाः । ०१० ।
tatra yadoryādavāḥ . pūroḥ pauravāḥ . 010 .
यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश । ०११ ।
yastrīnaśvamedhānājahāra . viśvajitā ceṣṭvā vanaṃ praviveśa . 011 .
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् । ०१२ ।
janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm . tasyāmasya jajñe prācinvān . yaḥ prācīṃ diśaṃ jigāya yāvatsūryodayāt . tatastasya prācinvatvam . 012 .
प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः । ०१३ ।
prācinvānkhalvaśmakīmupayeme . tasyāmasya jajñe saṃyātiḥ . 013 .
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहम्पातिः । ०१४ ।
saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme . tasyāmasya jajñe ahampātiḥ . 014 .
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः । ०१५ ।
ahampātistu khalu kṛtavīryaduhitaramupayeme bhānumatīṃ nāma . tasyāmasya jajñe sārvabhaumaḥ . 015 .
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः । ०१६ ।
sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma . tasyāmasya jajñe jayatsenaḥ . 016 .
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः । ०१७ ।
jayatsenaḥ khalu vaidarbhīmupayeme suṣuvāṃ nāma . tasyāmasya jajñe arācīnaḥ . 017 .
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः । ०१८ ।
arācīno'pi vaidarbhīmevāparāmupayeme maryādāṃ nāma . tasyāmasya jajñe mahābhaumaḥ . 018 .
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् । ०१९ ।
mahābhaumaḥ khalu prāsenajitīmupayeme suyajñāṃ nāma . tasyāmasya jajñe ayutanāyī . yaḥ puruṣamedhānāmayutamānayat . tadasyāyutanāyitvam . 019 .
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः । ०२० ।
ayutanāyī khalu pṛthuśravaso duhitaramupayeme bhāsāṃ nāma . tasyāmasya jajñe akrodhanaḥ . 020 .
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः । ०२१ ।
akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme . tasyāmasya jajñe devātithiḥ . 021 .
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः । ०२२ ।
devātithiḥ khalu vaidehīmupayeme maryādāṃ nāma . tasyāmasya jajñe ṛcaḥ . 022 .
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् । ०२३ ।
ṛcaḥ khalvāṅgeyīmupayeme sudevāṃ nāma . tasyāṃ putramajanayadṛkṣam . 023 .
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास । ०२४ ।
ṛkṣaḥ khalu takṣakaduhitaramupayeme jvālāṃ nāma . tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa . 024 .
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम । ०२६ ।
nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa . tasyāṃ putramajanayattaṃsuṃ nāma . 026 .
अत्रानुवंशो भवति । ०२७ ।
atrānuvaṃśo bhavati . 027 .
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥२८॥
taṃsuṃ sarasvatī putraṃ matinārādajījanat . ilinaṃ janayāmāsa kālindyāṃ taṃsurātmajam ..28..
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् । ०२९ ।
ilinastu rathantaryāṃ duḥṣantādyānpañca putrānajanayat . 029 .
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः । तत्र श्लोकौ भवतः । ०३० ।
duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme . tasyāmasya jajñe bharataḥ . tatra ślokau bhavataḥ . 030 .
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥३१॥
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ . bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām ..31..
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३२॥
retodhāḥ putra unnayati naradeva yamakṣayāt . tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā ..32..
ततोऽस्य भरतत्वम् । ०३३ ।
tato'sya bharatatvam . 033 .
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः । ०३४ ।
bharataḥ khalu kāśeyīmupayeme sārvasenīṃ sunandāṃ nāma . tasyāmasya jajñe bhumanyuḥ . 034 .
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम । तस्यामस्य जज्ञे सुहोत्रः । ०३५ ।
bhumanyuḥ khalu dāśārhīmupayeme jayāṃ nāma . tasyāmasya jajñe suhotraḥ . 035 .
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे हस्ती । य इदं हास्तिनपुरं मापयामास । एतदस्य हास्तिनपुरत्वम् । ०३६ ।
suhotraḥ khalvikṣvākukanyāmupayeme suvarṇāṃ nāma . tasyāmasya jajñe hastī . ya idaṃ hāstinapuraṃ māpayāmāsa . etadasya hāstinapuratvam . 036 .
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम । तस्यामस्य जज्ञे विकुण्ठनः । ०३७ ।
hastī khalu traigartīmupayeme yaśodharāṃ nāma . tasyāmasya jajñe vikuṇṭhanaḥ . 037 .
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम । तस्यामस्य जज्ञेऽजमीढः । ०३८ ।
vikuṇṭhanaḥ khalu dāśārhīmupayeme sudevāṃ nāma . tasyāmasya jajñe'jamīḍhaḥ . 038 .
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति । पृथक्पृथग्वंशकरा नृपतयः । तत्र वंशकरः संवरणः । ०३९ ।
ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyāmṛkṣāyāṃ ceti . pṛthakpṛthagvaṃśakarā nṛpatayaḥ . tatra vaṃśakaraḥ saṃvaraṇaḥ . 039 .
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः । ०४० ।
saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme . tasyāmasya jajñe kuruḥ . 040 .
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विडूरथः । ०४१ ।
kuruḥ khalu dāśārhīmupayeme śubhāṅgīṃ nāma . tasyāmasya jajñe viḍūrathaḥ . 041 .
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम । तस्यामस्य जज्ञेऽरुग्वान्नाम । ०४२ ।
viḍūrathastu māgadhīmupayeme sampriyāṃ nāma . tasyāmasya jajñe'rugvānnāma . 042 .
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् । ०४३ ।
arugvānkhalu māgadhīmupayeme'mṛtāṃ nāma . tasyāmasya jajñe parikṣit . 043 .
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम । तस्यामस्य जज्ञे भीमसेनः । ०४४ ।
parikṣitkhalu bāhudāmupayeme suyaśāṃ nāma . tasyāmasya jajñe bhīmasenaḥ . 044 .
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे पर्यश्रवाः ।
bhīmasenaḥ khalu kaikeyīmupayeme sukumārīṃ nāma . tasyāmasya jajñe paryaśravāḥ .
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । ०४६ ।
pratīpaḥ khalu śaibyāmupayeme sunandāṃ nāma . tasyāṃ putrānutpādayāmāsa devāpiṃ śantanuṃ bāhlīkaṃ ceti . 046 .
देवापिः खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् । अत्रानुवंशो भवति । ०४७ ।
devāpiḥ khalu bāla evāraṇyaṃ praviveśa . śantanustu mahīpālo'bhavat . atrānuvaṃśo bhavati . 047 .
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥४८॥
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukhamaśnute . punaryuvā ca bhavati tasmāttaṃ śantanuṃ viduḥ ..48..
तदस्य शन्तनुत्वम् । ०४९ ।
tadasya śantanutvam . 049 .
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे । तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति । ०५० ।
śantanuḥ khalu gaṅgāṃ bhāgīrathīmupayeme . tasyāmasya jajñe devavrataḥ . yamāhurbhīṣma iti . 050 .
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् । यामाहुर्गन्धकालीति । ०५१ ।
bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīmudavahanmātaram . yāmāhurgandhakālīti . 051 .
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः । चित्राङ्गदो विचित्रवीर्यश्च । ०५२ ।
tasyāṃ kānīno garbhaḥ parāśarāddvaipāyanaḥ . tasyāmeva śantanordvau putrau babhūvatuḥ . citrāṅgado vicitravīryaśca . 052 .
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः । विचित्रवीर्यस्तु राजा समभवत् । ०५३ ।
tayoraprāptayauvana eva citrāṅgado gandharveṇa hataḥ . vicitravīryastu rājā samabhavat . 053 .
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । ०५४ । विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । ०५५ ।
vicitravīryaḥ khalu kausalyātmaje'mbikāmbālike kāśirājaduhitarāvupayeme . 054 . vicitravīryastvanapatya eva videhatvaṃ prāptaḥ . 055 .
ततः सत्यवती चिन्तयामास । दौःषन्तो वंश उच्छिद्यते इति । ०५६ ।
tataḥ satyavatī cintayāmāsa . dauḥṣanto vaṃśa ucchidyate iti . 056 .
सा द्वैपायनमृषिं चिन्तयामास । ०५७ । स तस्याः पुरतः स्थितः किं करवाणीति । ०५८ ।
sā dvaipāyanamṛṣiṃ cintayāmāsa . 057 . sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti . 058 .
सा तमुवाच । भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः । साध्वपत्यं तस्योत्पादयेति । ०५९ ।
sā tamuvāca . bhrātā tavānapatya eva svaryāto vicitravīryaḥ . sādhvapatyaṃ tasyotpādayeti . 059 .
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । ०६० ।
sa paramityuktvā trīnputrānutpādayāmāsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti . 060 .
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । ०६१ ।
tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānāddvaipāyanasya . 061 .
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । ०६२ ।
teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvurduryodhano duḥśāsano vikarṇaścitrasena iti . 062 .
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने । ०६३ ।
pāṇḍostu dve bhārye babhūvatuḥ kuntī mādrī cetyubhe strīratne . 063 .
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् । तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । ०६४ ।
atha pāṇḍurmṛgayāṃ caranmaithunagatamṛṣimapaśyanmṛgyāṃ vartamānam . tathaivāplutamanāsāditakāmarasamatṛptaṃ bāṇenābhijaghāna . 064 .
स बाणविद्ध उवाच पाण्डुम् । चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । ०६५ । स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । ०६६ ।
sa bāṇaviddha uvāca pāṇḍum . caratā dharmamimaṃ yena tvayābhijñena kāmarasasyāhamanavāptakāmaraso'bhihatastasmāttvamapyetāmavasthāmāsādyānavāptakāmarasaḥ pañcatvamāpsyasi kṣiprameveti . 065 . sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye . 066 .
वाक्यं चोवाच । स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोका सन्तीति । ०६७ ।
vākyaṃ covāca . svacāpalyādidaṃ prāptavānaham . śṛṇomi ca nānapatyasya lokā santīti . 067 .
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । ०६८ ।
sā tvaṃ madarthe putrānutpādayeti kuntīmuvāca . 068 .
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । ०६९ ।
sā tatra putrānutpādayāmāsa dharmādyudhiṣṭhiraṃ mārutādbhīmasenaṃ śakrādarjunamiti . 069 .
स तां हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्न्यनपत्या । साध्वस्यामपत्यमुत्पाद्यतामिति । ०७० ।
sa tāṃ hṛṣṭarūpaḥ pāṇḍuruvāca . iyaṃ te sapatnyanapatyā . sādhvasyāmapatyamutpādyatāmiti . 070 .
स एवमस्त्वित्युक्तः कुन्त्या । ०७१ ।
sa evamastvityuktaḥ kuntyā . 071 .
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । ०७२ ।
tato mādryāmaśvibhyāṃ nakulasahadevāvutpāditau . 072 .
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । ०७३ ।
mādrīṃ khalvalaṅkṛtāṃ dṛṣṭvā pāṇḍurbhāvaṃ cakre . 073 .
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । ०७४ ।
sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ . 074 .
तत्रैनं चितास्थं माद्री समन्वारुरोह । ०७५ ।
tatrainaṃ citāsthaṃ mādrī samanvāruroha . 075 .
उवाच कुन्तीम् । यमयोरार्ययाप्रमत्तया भवितव्यमिति । ०७६ ।
uvāca kuntīm . yamayorāryayāpramattayā bhavitavyamiti . 076 .
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः । ०७७ ।
tataste pañca pāṇḍavāḥ kuntyā sahitā hāstinapuramānīya tāpasairbhīṣmasya vidurasya ca niveditāḥ . 077 .
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन । ०७८ ।
tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena . 078 .
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः । ०७९ ।
tataśca hiḍimbamantarā hatvā ekacakrāṃ gatāḥ . 079 .
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः । ०८० ।
tasyāmapyekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaramabhigatāḥ . 080 .
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः । ०८१ ।
tasmāddraupadīṃ bhāryāmavindansvaviṣayaṃ cājagmuḥ kuśalinaḥ . 081 .
पुत्रांश्चोत्पादयामासुः । प्रतिविन्ध्यं युधिष्ठिरः । सुतसोमं वृकोदरः । श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतकर्माणं सहदेव इति । ०८२ ।
putrāṃścotpādayāmāsuḥ . prativindhyaṃ yudhiṣṭhiraḥ . sutasomaṃ vṛkodaraḥ . śrutakīrtimarjunaḥ . śatānīkaṃ nakulaḥ . śrutakarmāṇaṃ sahadeva iti . 082 .
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे । तस्यां पुत्रं जनयामास यौधेयं नाम । ०८३ ।
yudhiṣṭhirastu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe . tasyāṃ putraṃ janayāmāsa yaudheyaṃ nāma . 083 .
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् । तस्यां पुत्रं सर्वगं नामोत्पादयामास । ०८४ ।
bhīmaseno'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām . tasyāṃ putraṃ sarvagaṃ nāmotpādayāmāsa . 084 .
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् । तस्यां पुत्रमभिमन्युं नाम जनयामास । ०८५ ।
arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryāmudavahat . tasyāṃ putramabhimanyuṃ nāma janayāmāsa . 085 .
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् । तस्यां पुत्रं निरमित्रं नामाजनयत् । ०८६ ।
nakulastu caidyāṃ kareṇuvatīṃ nāma bhāryāmudavahat . tasyāṃ putraṃ niramitraṃ nāmājanayat . 086 .
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे । तस्यां पुत्रमजनयत्सुहोत्रं नाम । ०८७ ।
sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmopayeme . tasyāṃ putramajanayatsuhotraṃ nāma . 087 .
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास । ०८८ ।
bhīmasenastu pūrvameva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayāmāsa . 088 .
इत्येते एकादश पाण्डवानां पुत्राः । ०८९ ।
ityete ekādaśa pāṇḍavānāṃ putrāḥ . 089 .
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे । तस्यामस्य परासुर्गर्भोऽजायत । ०९० ।
virāṭasya duhitaramuttarāṃ nāmābhimanyurupayeme . tasyāmasya parāsurgarbho'jāyata . 090 .
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । ०९१ ।
tamutsaṅgena pratijagrāha pṛthā niyogātpuruṣottamasya vāsudevasya . ṣāṇmāsikaṃ garbhamahamenaṃ jīvayiṣyāmīti . 091 .
सञ्जीवयित्वा चैनमुवाच । परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । ०९२ ।
sañjīvayitvā cainamuvāca . parikṣīṇe kule jāto bhavatvayaṃ parikṣinnāmeti . 092 .
परिक्षित्तु खलु माद्रवतीं नामोपयेमे । तस्यामस्य जनमेजयः । ०९३ ।
parikṣittu khalu mādravatīṃ nāmopayeme . tasyāmasya janamejayaḥ . 093 .
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च । ०९४ ।
janamejayāttu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuśca . 094 .
शतानीकस्तु खलु वैदेहीमुपयेमे । तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः । ०९५ ।
śatānīkastu khalu vaidehīmupayeme . tasyāmasya jajñe putro'śvamedhadattaḥ . 095 .
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥९६॥ 1.95.87
ityeṣa pūrorvaṃśastu pāṇḍavānāṃ ca kīrtitaḥ . pūrorvaṃśamimaṃ śrutvā sarvapāpaiḥ pramucyate ..96.. 1.95.87

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In