| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः । महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥१॥
इक्ष्वाकु-वंश-प्रभवः राजा आसीत् पृथिवीपतिः । महाभिषः इति ख्यातः सत्य-वाच् सत्य-विक्रमः ॥१॥
ikṣvāku-vaṃśa-prabhavaḥ rājā āsīt pṛthivīpatiḥ . mahābhiṣaḥ iti khyātaḥ satya-vāc satya-vikramaḥ ..1..
सोऽश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥२॥
सः अश्वमेध-सहस्रेण वाजपेय-शतेन च । तोषयामास देव-इन्द्रम् स्वर्गम् लेभे ततस् प्रभुः ॥२॥
saḥ aśvamedha-sahasreṇa vājapeya-śatena ca . toṣayāmāsa deva-indram svargam lebhe tatas prabhuḥ ..2..
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः । तत्र राजर्षयो आसन्स च राजा महाभिषः ॥३॥
ततस् कदाचिद् ब्रह्माणम् उपासाम् चक्रिरे सुराः । तत्र राजर्षयः आसन् स च राजा महाभिषः ॥३॥
tatas kadācid brahmāṇam upāsām cakrire surāḥ . tatra rājarṣayaḥ āsan sa ca rājā mahābhiṣaḥ ..3..
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥४॥
अथ गङ्गा सरित् श्रेष्ठा समुपायात् पितामहम् । तस्याः वासः समुद्धूतम् मारुतेन शशि-प्रभम् ॥४॥
atha gaṅgā sarit śreṣṭhā samupāyāt pitāmaham . tasyāḥ vāsaḥ samuddhūtam mārutena śaśi-prabham ..4..
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा । महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥५॥
ततस् अभवन् सुर-गणाः सहसा अवाङ्मुखाः तदा । महाभिषः तु राजर्षिः अशङ्कः दृष्टवान् नदीम् ॥५॥
tatas abhavan sura-gaṇāḥ sahasā avāṅmukhāḥ tadā . mahābhiṣaḥ tu rājarṣiḥ aśaṅkaḥ dṛṣṭavān nadīm ..5..
अपध्यातो भगवता ब्रह्मणा स महाभिषः । उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥६॥
अपध्यातः भगवता ब्रह्मणा स महाभिषः । उक्तः च जातः मर्त्येषु पुनर् लोकान् अवाप्स्यसि ॥६॥
apadhyātaḥ bhagavatā brahmaṇā sa mahābhiṣaḥ . uktaḥ ca jātaḥ martyeṣu punar lokān avāpsyasi ..6..
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् । प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥७॥
स चिन्तयित्वा नृपतिः नृपान् सर्वान् तपोधनान् । प्रतीपम् रोचयामास पितरम् भूरि-वर्चसम् ॥७॥
sa cintayitvā nṛpatiḥ nṛpān sarvān tapodhanān . pratīpam rocayāmāsa pitaram bhūri-varcasam ..7..
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् । तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥८॥
महाभिषम् तु तम् दृष्ट्वा नदी धैर्यात् च्युतम् नृपम् । तम् एव मनसा अध्यायम् उपावर्तत् सरिद्वरा ॥८॥
mahābhiṣam tu tam dṛṣṭvā nadī dhairyāt cyutam nṛpam . tam eva manasā adhyāyam upāvartat saridvarā ..8..
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः । ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥९॥
सा तु विध्वस्त-वपुषः कश्मल-अभिहत-ओजसः । ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः ॥९॥
sā tu vidhvasta-vapuṣaḥ kaśmala-abhihata-ojasaḥ . dadarśa pathi gacchantī vasūn devān divaukasaḥ ..9..
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा । किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥१०॥
तथारूपान् च तान् दृष्ट्वा पप्रच्छ सरिताम् वरा । किम् इदम् नष्ट-रूपाः स्थ कच्चित् क्षेमम् दिवौकसाम् ॥१०॥
tathārūpān ca tān dṛṣṭvā papraccha saritām varā . kim idam naṣṭa-rūpāḥ stha kaccit kṣemam divaukasām ..10..
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि । अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥११॥
ताम् ऊचुः वसवः देवाः शप्ताः स्मः वै महानदि । अल्पे अपराधे संरम्भात् वसिष्ठेन महात्मना ॥११॥
tām ūcuḥ vasavaḥ devāḥ śaptāḥ smaḥ vai mahānadi . alpe aparādhe saṃrambhāt vasiṣṭhena mahātmanā ..11..
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् । सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥१२॥
विमूढाः हि वयम् सर्वे प्रच्छन्नम् ऋषि-सत्तमम् । सन्ध्याम् वसिष्ठम् आसीनम् तम् अत्यभिसृताः पुरा ॥१२॥
vimūḍhāḥ hi vayam sarve pracchannam ṛṣi-sattamam . sandhyām vasiṣṭham āsīnam tam atyabhisṛtāḥ purā ..12..
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह । न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥१३॥
तेन कोपात् वयम् शप्ताः योनौ सम्भवत इति ह । न शक्यम् अन्यथा कर्तुम् यत् उक्तम् ब्रह्म-वादिना ॥१३॥
tena kopāt vayam śaptāḥ yonau sambhavata iti ha . na śakyam anyathā kartum yat uktam brahma-vādinā ..13..
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि । न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥१४॥
त्वम् तस्मात् मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि । न मानुषीणाम् जठरम् प्रविशेम अशुभम् वयम् ॥१४॥
tvam tasmāt mānuṣī bhūtvā sūṣva putrān vasūn bhuvi . na mānuṣīṇām jaṭharam praviśema aśubham vayam ..14..
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् । मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥१५॥
इति उक्ता तान् वसून् गङ्गा तथा इति उक्त्वा अब्रवीत् इदम् । मर्त्येषु पुरुष-श्रेष्ठः कः वः कर्ता भविष्यति ॥१५॥
iti uktā tān vasūn gaṅgā tathā iti uktvā abravīt idam . martyeṣu puruṣa-śreṣṭhaḥ kaḥ vaḥ kartā bhaviṣyati ..15..
वसव ऊचुः॥
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥१६॥
प्रतीपस्य सुतः राजा शन्तनुः नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥१६॥
pratīpasya sutaḥ rājā śantanuḥ nāma dhārmikaḥ . bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati ..16..
गङ्गोवाच॥
ममाप्येवं मतं देवा यथावदत मानघाः । प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥१७॥
मम अपि एवम् मतम् देवाः यथा अवदत मा अनघाः । प्रियम् तस्य करिष्यामि युष्माकम् च एतत् ईप्शितम् ॥१७॥
mama api evam matam devāḥ yathā avadata mā anaghāḥ . priyam tasya kariṣyāmi yuṣmākam ca etat īpśitam ..17..
वसव ऊचुः॥
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥१८॥
जातान् कुमारान् स्वान् अप्सु प्रक्षेप्तुम् वै त्वम् अर्हसि । यथा नचिर-कालम् नः निष्कृतिः स्यात् त्रिलोक-गे ॥१८॥
jātān kumārān svān apsu prakṣeptum vai tvam arhasi . yathā nacira-kālam naḥ niṣkṛtiḥ syāt triloka-ge ..18..
गङ्गोवाच॥
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ॥१९॥
एवम् एतत् करिष्यामि पुत्रः तस्य विधीयताम् । न अस्य मोघः सङ्गमः स्यात् पुत्र-हेतोः मया सह ॥१९॥
evam etat kariṣyāmi putraḥ tasya vidhīyatām . na asya moghaḥ saṅgamaḥ syāt putra-hetoḥ mayā saha ..19..
वसव ऊचुः॥
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥२०॥
तुरीयार्धम् प्रदास्यामः वीर्यस्य एकैकशस् वयम् । तेन वीर्येण पुत्रः ते भविता तस्य च ईप्सितः ॥२०॥
turīyārdham pradāsyāmaḥ vīryasya ekaikaśas vayam . tena vīryeṇa putraḥ te bhavitā tasya ca īpsitaḥ ..20..
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः । तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥२१॥
न सम्पत्स्यति मर्त्येषु पुनर् तस्य तु सन्ततिः । तस्मात् अपुत्रः पुत्रः ते भविष्यति स वीर्यवान् ॥२१॥
na sampatsyati martyeṣu punar tasya tu santatiḥ . tasmāt aputraḥ putraḥ te bhaviṣyati sa vīryavān ..21..
वैशम्पायन उवाच॥
एवं ते समयं कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ॥२२॥1.96.23
एवम् ते समयम् कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्ट-मनसः यथासङ्कल्पम् अञ्जसा ॥२२॥१।९६।२३
evam te samayam kṛtvā gaṅgayā vasavaḥ saha . jagmuḥ prahṛṣṭa-manasaḥ yathāsaṅkalpam añjasā ..22..1.96.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In