| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः प्रतीपो राजा स सर्वभूतहिते रतः । निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥१॥
ततस् प्रतीपः राजा स सर्व-भूत-हिते रतः । निषसाद समाः बह्वीः गङ्गा-तीर-गतः जपन् ॥१॥
tatas pratīpaḥ rājā sa sarva-bhūta-hite rataḥ . niṣasāda samāḥ bahvīḥ gaṅgā-tīra-gataḥ japan ..1..
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥२॥
तस्य रूप-गुण-उपेता गङ्गा श्रीः इव रूपिणी । उत्तीर्य सलिलात् तस्मात् लोभनीयतम-आकृतिः ॥२॥
tasya rūpa-guṇa-upetā gaṅgā śrīḥ iva rūpiṇī . uttīrya salilāt tasmāt lobhanīyatama-ākṛtiḥ ..2..
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥३॥
अधीयानस्य राजर्षेः दिव्य-रूपा मनस्विनी । दक्षिणम् शाल-सङ्काशम् ऊरुम् भेजे शुभ-आनना ॥३॥
adhīyānasya rājarṣeḥ divya-rūpā manasvinī . dakṣiṇam śāla-saṅkāśam ūrum bheje śubha-ānanā ..3..
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् । करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥४॥
प्रतीपः तु महीपालः ताम् उवाच मनस्विनीम् । करवाणि किम् ते कल्याणि प्रियम् यत् ते अभिकाङ्क्षितम् ॥४॥
pratīpaḥ tu mahīpālaḥ tām uvāca manasvinīm . karavāṇi kim te kalyāṇi priyam yat te abhikāṅkṣitam ..4..
स्त्र्युवाच॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥५॥
त्वाम् अहम् कामये राजन् कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनाम् हि स्त्रीणाम् सद्भिः विगर्हितः ॥५॥
tvām aham kāmaye rājan kuruśreṣṭha bhajasva mām . tyāgaḥ kāmavatīnām hi strīṇām sadbhiḥ vigarhitaḥ ..5..
प्रतीप उवाच॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि । न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥६॥
न अहम् पर-स्त्रियम् कामात् गच्छेयम् वरवर्णिनि । न च असवर्णाम् कल्याणि धर्म्यम् तत् विद्धि मे व्रतम् ॥६॥
na aham para-striyam kāmāt gaccheyam varavarṇini . na ca asavarṇām kalyāṇi dharmyam tat viddhi me vratam ..6..
स्त्र्युवाच॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥७॥
न अश्रेयसी अस्मि न अगम्या न वक्तव्या च कर्हिचित् । भज माम् भजमानाम् त्वम् राजन् कन्याम् वर-स्त्रियम् ॥७॥
na aśreyasī asmi na agamyā na vaktavyā ca karhicit . bhaja mām bhajamānām tvam rājan kanyām vara-striyam ..7..
प्रतीप उवाच॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् । अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥८॥
मया अतिवृत्तम् एतत् ते यत् माम् चोदयसि प्रियम् । अन्यथा प्रतिपन्नम् माम् नाशयेत् धर्म-विप्लवः ॥८॥
mayā ativṛttam etat te yat mām codayasi priyam . anyathā pratipannam mām nāśayet dharma-viplavaḥ ..8..
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥९॥
प्राप्य दक्षिणम् ऊरुम् मे त्वम् आश्लिष्टा वर-अङ्गने । अपत्यानाम् स्नुषाणाम् च भीरु विद्धि एतत् आसनम् ॥९॥
prāpya dakṣiṇam ūrum me tvam āśliṣṭā vara-aṅgane . apatyānām snuṣāṇām ca bhīru viddhi etat āsanam ..9..
सव्यतः कामिनीभागस्त्वया स च विवर्जितः । तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥१०॥
सव्यतस् कामिनी-भागः त्वया स च विवर्जितः । तस्मात् अहम् न आचरिष्ये त्वयि कामम् वर-अङ्गने ॥१०॥
savyatas kāminī-bhāgaḥ tvayā sa ca vivarjitaḥ . tasmāt aham na ācariṣye tvayi kāmam vara-aṅgane ..10..
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् । स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥११॥
स्नुषा मे भव कल्याणि पुत्र-अर्थे त्वाम् वृणोमि अहम् । स्नुषा-पक्षम् हि वाम-ऊरु त्वम् आगम्य समाश्रिता ॥११॥
snuṣā me bhava kalyāṇi putra-arthe tvām vṛṇomi aham . snuṣā-pakṣam hi vāma-ūru tvam āgamya samāśritā ..11..
स्त्र्युवाच॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥१२॥
एवम् अपि अस्तु धर्म-ज्ञ संयुज्येयम् सुतेन ते । त्वद्-भक्त्या एव भजिष्यामि प्रख्यातम् भारतम् कुलम् ॥१२॥
evam api astu dharma-jña saṃyujyeyam sutena te . tvad-bhaktyā eva bhajiṣyāmi prakhyātam bhāratam kulam ..12..
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥१३॥ ( कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥१३॥ )
पृथिव्याम् पार्थिवाः ये च तेषाम् यूयम् परायणम् । गुणाः न हि मया शक्याः वक्तुम् वर्ष-शतैः अपि ॥१३॥ ( कुलस्य ये वः प्रस्थिताः तत् साधु-त्वम् अनुत्तमम् ॥१३॥ )
pṛthivyām pārthivāḥ ye ca teṣām yūyam parāyaṇam . guṇāḥ na hi mayā śakyāḥ vaktum varṣa-śataiḥ api ..13.. ( kulasya ye vaḥ prasthitāḥ tat sādhu-tvam anuttamam ..13.. )
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो । तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥१४॥
स मे ना अभिजन-ज्ञः स्यात् आचरेयम् च यत् विभो । तत् सर्वम् एव पुत्रः ते न मीमांसेत कर्हिचित् ॥१४॥
sa me nā abhijana-jñaḥ syāt ācareyam ca yat vibho . tat sarvam eva putraḥ te na mīmāṃseta karhicit ..14..
वैशम्पायन उवाच॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् । पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥१५॥
एवम् वसन्ती पुत्रे ते वर्धयिष्यामि अहम् प्रियम् । पुत्रैः पुण्यैः प्रियैः च अपि स्वर्गम् प्राप्स्यति ते सुतः ॥१५॥
evam vasantī putre te vardhayiṣyāmi aham priyam . putraiḥ puṇyaiḥ priyaiḥ ca api svargam prāpsyati te sutaḥ ..15..
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥१६॥
तथा इति उक्त्वा तु सा राजन् तत्र एव अन्तरधीयत । पुत्र-जन्म प्रतीक्षन् तु स राजा तत् अधारयत् ॥१६॥
tathā iti uktvā tu sā rājan tatra eva antaradhīyata . putra-janma pratīkṣan tu sa rājā tat adhārayat ..16..
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः । तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥१७॥
एतस्मिन् एव काले तु प्रतीपः क्षत्रिय-ऋषभः । तपः तेपे सुतस्य अर्थे स भार्यः कुरु-नन्दन ॥१७॥
etasmin eva kāle tu pratīpaḥ kṣatriya-ṛṣabhaḥ . tapaḥ tepe sutasya arthe sa bhāryaḥ kuru-nandana ..17..
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः । शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ॥१८॥
तयोः समभवत् पुत्रः वृद्धयोः स महाभिषः । शान्तस्य जज्ञे सन्तानः तस्मात् आसीत् स शन्तनुः ॥१८॥
tayoḥ samabhavat putraḥ vṛddhayoḥ sa mahābhiṣaḥ . śāntasya jajñe santānaḥ tasmāt āsīt sa śantanuḥ ..18..
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा । पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ॥१९॥
संस्मरन् च अक्षयान् लोकान् विजितान् स्वेन कर्मणा । पुण्य-कर्म-कृत् एव आसीत् शन्तनुः कुरुसत्तम ॥१९॥
saṃsmaran ca akṣayān lokān vijitān svena karmaṇā . puṇya-karma-kṛt eva āsīt śantanuḥ kurusattama ..19..
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् । पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ॥२०॥
प्रतीपः शन्तनुम् पुत्रम् यौवन-स्थम् ततस् अन्वशात् । पुरा माम् स्त्री समभ्यागात् शन्तनो भूतये तव ॥२०॥
pratīpaḥ śantanum putram yauvana-stham tatas anvaśāt . purā mām strī samabhyāgāt śantano bhūtaye tava ..20..
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ॥२१॥ ( सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥२१॥ )
त्वाम् आव्रजेत् यदि रहः सा पुत्र वरवर्णिनी । कामयान-अभिरूप-आढ्या दिव्या स्त्री पुत्र-काम्यया ॥२१॥ ( सा त्वया न अनुयोक्तव्या का असि कस्य असि वा अङ्गने ॥२१॥ )
tvām āvrajet yadi rahaḥ sā putra varavarṇinī . kāmayāna-abhirūpa-āḍhyā divyā strī putra-kāmyayā ..21.. ( sā tvayā na anuyoktavyā kā asi kasya asi vā aṅgane ..21.. )
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ । मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥२२॥
यत् च कुर्यात् न तत् कार्यम् प्रष्टव्या सा त्वया अनघ । मद्-नियोगात् भजन्तीम् ताम् भजेथाः इति उवाच तम् ॥२२॥
yat ca kuryāt na tat kāryam praṣṭavyā sā tvayā anagha . mad-niyogāt bhajantīm tām bhajethāḥ iti uvāca tam ..22..
एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा । स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥२३॥
एवम् संदिश्य तनयम् प्रतीपः शन्तनुम् तदा । स्वे च राज्ये अभिषिच्य एनम् वनम् राजा विवेश ह ॥२३॥
evam saṃdiśya tanayam pratīpaḥ śantanum tadā . sve ca rājye abhiṣicya enam vanam rājā viveśa ha ..23..
स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः । बभूव मृगयाशीलः सततं वनगोचरः ॥२४॥
स राजा शन्तनुः धीमान् ख्यातः पृथ्व्याम् धनुः-धरः । बभूव मृगया-शीलः सततम् वन-गोचरः ॥२४॥
sa rājā śantanuḥ dhīmān khyātaḥ pṛthvyām dhanuḥ-dharaḥ . babhūva mṛgayā-śīlaḥ satatam vana-gocaraḥ ..24..
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥२५॥
स मृगान् महिषान् च एव विनिघ्नन् राज-सत्तमः । गङ्गाम् अनुचचार एकः सिद्ध-चारण-सेविताम् ॥२५॥
sa mṛgān mahiṣān ca eva vinighnan rāja-sattamaḥ . gaṅgām anucacāra ekaḥ siddha-cāraṇa-sevitām ..25..
स कदाचिन्महाराज ददर्श परमस्त्रियम् । जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥२६॥
स कदाचिद् महा-राज ददर्श परम-स्त्रियम् । जाज्वल्यमानाम् वपुषा साक्षात् पद्माम् इव श्रियम् ॥२६॥
sa kadācid mahā-rāja dadarśa parama-striyam . jājvalyamānām vapuṣā sākṣāt padmām iva śriyam ..26..
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् । सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥२७॥
सर्व-अनवद्याम् सुदतीम् दिव्य-आभरण-भूषिताम् । सूक्ष्म-अम्बर-धराम् एकाम् पद्म-उदर-सम-प्रभाम् ॥२७॥
sarva-anavadyām sudatīm divya-ābharaṇa-bhūṣitām . sūkṣma-ambara-dharām ekām padma-udara-sama-prabhām ..27..
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा । पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥२८॥
ताम् दृष्ट्वा हृष्ट-रोमा अभूत् विस्मितः रूप-सम्पदा । पिबन् इव च नेत्राभ्याम् न अतृप्यत नराधिपः ॥२८॥
tām dṛṣṭvā hṛṣṭa-romā abhūt vismitaḥ rūpa-sampadā . piban iva ca netrābhyām na atṛpyata narādhipaḥ ..28..
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥२९॥
सा च दृष्ट्वा एव राजानम् विचरन्तम् महा-द्युतिम् । स्नेहात् आगत-सौहार्दा न अतृप्यत विलासिनी ॥२९॥
sā ca dṛṣṭvā eva rājānam vicarantam mahā-dyutim . snehāt āgata-sauhārdā na atṛpyata vilāsinī ..29..
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥३०॥
ताम् उवाच ततस् राजा सान्त्वयन् श्लक्ष्णया गिरा । देवी वा दानवी वा त्वम् गन्धर्वी यदि वा अप्सराः ॥३०॥
tām uvāca tatas rājā sāntvayan ślakṣṇayā girā . devī vā dānavī vā tvam gandharvī yadi vā apsarāḥ ..30..
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे । या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥३१॥
यक्षी वा पन्नगी वा अपि मानुषी वा सुमध्यमे । या वा त्वम् सुर-गर्भ-आभे भार्या मे भव शोभने ॥३१॥
yakṣī vā pannagī vā api mānuṣī vā sumadhyame . yā vā tvam sura-garbha-ābhe bhāryā me bhava śobhane ..31..
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥३२॥1.98.1
एतत् श्रुत्वा वचः राज्ञः स स्मितम् मृदु वल्गु च । वसूनाम् समयम् स्मृत्वा अभ्यगच्छत् अनिन्दिता ॥३२॥१।९८।१
etat śrutvā vacaḥ rājñaḥ sa smitam mṛdu valgu ca . vasūnām samayam smṛtvā abhyagacchat aninditā ..32..1.98.1
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल महिषी ते वशानुगा ॥३३॥
उवाच च एव राज्ञः सा ह्लादयन्ती मनः गिरा । भविष्यामि महीपाल महिषी ते वश-अनुगा ॥३३॥
uvāca ca eva rājñaḥ sā hlādayantī manaḥ girā . bhaviṣyāmi mahīpāla mahiṣī te vaśa-anugā ..33..
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् । न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥३४॥
यत् तु कुर्याम् अहम् राजन् शुभम् वा यदि वा अशुभम् । न तत् वारयितव्या अस्मि न वक्तव्या तथा अप्रियम् ॥३४॥
yat tu kuryām aham rājan śubham vā yadi vā aśubham . na tat vārayitavyā asmi na vaktavyā tathā apriyam ..34..
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥३५॥
एवम् हि वर्तमाने अहम् त्वयि वत्स्यामि पार्थिव । वारिता विप्रियम् च उक्ता त्यजेयम् त्वाम् असंशयम् ॥३५॥
evam hi vartamāne aham tvayi vatsyāmi pārthiva . vāritā vipriyam ca uktā tyajeyam tvām asaṃśayam ..35..
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥३६॥
तथा इति राज्ञा सा तु उक्ता तदा भरत-सत्तम । प्रहर्षम् अतुलम् लेभे प्राप्य तम् पार्थिव-उत्तमम् ॥३६॥
tathā iti rājñā sā tu uktā tadā bharata-sattama . praharṣam atulam lebhe prāpya tam pārthiva-uttamam ..36..
आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी । न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ॥३७॥
आसाद्य शन्तनुः ताम् च बुभुजे कामतः वशी । न प्रष्टव्या इति मन्वानः न स ताम् किञ्चिद् ऊचिवान् ॥३७॥
āsādya śantanuḥ tām ca bubhuje kāmataḥ vaśī . na praṣṭavyā iti manvānaḥ na sa tām kiñcid ūcivān ..37..
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च । उपचारेण च रहस्तुतोष जगतीपतिः ॥३८॥
स तस्याः शील-वृत्तेन रूप-औदार्य-गुणेन च । उपचारेण च रहः तुतोष जगतीपतिः ॥३८॥
sa tasyāḥ śīla-vṛttena rūpa-audārya-guṇena ca . upacāreṇa ca rahaḥ tutoṣa jagatīpatiḥ ..38..
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥३९॥
दिव्य-रूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषम् विग्रहम् श्रीमत् कृत्वा सा वरवर्णिनी ॥३९॥
divya-rūpā hi sā devī gaṅgā tripathagā nadī . mānuṣam vigraham śrīmat kṛtvā sā varavarṇinī ..39..
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् । शन्तनो राजसिंहस्य देवराजसमद्युतेः ॥४०॥
भाग्य-उपनत-कामस्य भार्या इव उपस्थिता अभवत् । शन्तनोः राज-सिंहस्य देवराज-सम-द्युतेः ॥४०॥
bhāgya-upanata-kāmasya bhāryā iva upasthitā abhavat . śantanoḥ rāja-siṃhasya devarāja-sama-dyuteḥ ..40..
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ॥४१॥
सम्भोग-स्नेह-चातुर्यैः हाव-लास्यैः मनोहरैः । राजानम् रमयामास यथा रेमे तथा एव सः ॥४१॥
sambhoga-sneha-cāturyaiḥ hāva-lāsyaiḥ manoharaiḥ . rājānam ramayāmāsa yathā reme tathā eva saḥ ..41..
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥४२॥
स राजा रति-सक्त-त्वात् उत्तम-स्त्री-गुणैः हृतः । संवत्सरान् ऋतून् मासान् न बुबोध बहून् गतान् ॥४२॥
sa rājā rati-sakta-tvāt uttama-strī-guṇaiḥ hṛtaḥ . saṃvatsarān ṛtūn māsān na bubodha bahūn gatān ..42..
रममाणस्तया सार्धं यथाकामं जनेश्वरः । अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥४३॥
रममाणः तया सार्धम् यथाकामम् जनेश्वरः । अष्टौ अजनयत् पुत्रान् तस्याम् अमर-वर्णिनः ॥४३॥
ramamāṇaḥ tayā sārdham yathākāmam janeśvaraḥ . aṣṭau ajanayat putrān tasyām amara-varṇinaḥ ..43..
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत । प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥४४॥
जातम् जातम् च सा पुत्रम् क्षिपति अम्भसि भारत । प्रीणामि त्वा अहम् इति उक्त्वा गङ्गा-स्रोतसि अमज्जयत् ॥४४॥
jātam jātam ca sā putram kṣipati ambhasi bhārata . prīṇāmi tvā aham iti uktvā gaṅgā-srotasi amajjayat ..44..
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा । न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ॥४५॥
तस्य तत् न प्रियम् राज्ञः शन्तनोः अभवत् तदा । न च ताम् किञ्चन उवाच त्यागात् भीतः महीपतिः ॥४५॥
tasya tat na priyam rājñaḥ śantanoḥ abhavat tadā . na ca tām kiñcana uvāca tyāgāt bhītaḥ mahīpatiḥ ..45..
अथ तामष्टमे पुत्रे जाते प्रहसितामिव । उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥४६॥
अथ ताम् अष्टमे पुत्रे जाते प्रहसिताम् इव । उवाच राजा दुःख-आर्तः परीप्सन् पुत्रम् आत्मनः ॥४६॥
atha tām aṣṭame putre jāte prahasitām iva . uvāca rājā duḥkha-ārtaḥ parīpsan putram ātmanaḥ ..46..
मा वधीः कासि कस्यासि किं हिंससि सुतानिति । पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥४७॥
मा वधीः का असि कस्य असि किम् हिंससि सुतान् इति । पुत्र-घ्नि सु महत् पापम् मा प्रापः तिष्ठ गर्हिते ॥४७॥
mā vadhīḥ kā asi kasya asi kim hiṃsasi sutān iti . putra-ghni su mahat pāpam mā prāpaḥ tiṣṭha garhite ..47..
स्त्र्युवाच॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥४८॥
पुत्र-काम न ते हन्मि पुत्रम् पुत्रवताम् वर । जीर्णः तु मम वासः अयम् यथा स समयः कृतः ॥४८॥
putra-kāma na te hanmi putram putravatām vara . jīrṇaḥ tu mama vāsaḥ ayam yathā sa samayaḥ kṛtaḥ ..48..
अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥४९॥
अहम् गङ्गा जह्नुसुता महा-ऋषि-गण-सेविता । देव-कार्य-अर्थ-सिद्धि-अर्थम् उषिट अहम् त्वया सह ॥४९॥
aham gaṅgā jahnusutā mahā-ṛṣi-gaṇa-sevitā . deva-kārya-artha-siddhi-artham uṣiṭa aham tvayā saha ..49..
अष्टेमे वसवो देवा महाभागा महौजसः । वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥५०॥
अष्ट इमे वसवः देवाः महाभागाः महा-ओजसः । वसिष्ठ-शाप-दोषेण मानुष-त्वम् उपागताः ॥५०॥
aṣṭa ime vasavaḥ devāḥ mahābhāgāḥ mahā-ojasaḥ . vasiṣṭha-śāpa-doṣeṇa mānuṣa-tvam upāgatāḥ ..50..
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥५१॥
तेषाम् जनयिता न अन्यः त्वत् ऋते भुवि विद्यते । मद्विधा मानुषी धात्री न च एव अस्ति इह काचन ॥५१॥
teṣām janayitā na anyaḥ tvat ṛte bhuvi vidyate . madvidhā mānuṣī dhātrī na ca eva asti iha kācana ..51..
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥५२॥
तस्मात् तद्-जननी-हेतोः मानुष-त्वम् उपागता । जनयित्वा वसून् अष्टौ जिताः लोकाः त्वया अक्षयाः ॥५२॥
tasmāt tad-jananī-hetoḥ mānuṣa-tvam upāgatā . janayitvā vasūn aṣṭau jitāḥ lokāḥ tvayā akṣayāḥ ..52..
देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥५३॥
देवानाम् समयः तु एष वसूनाम् संश्रुतः मया । जातम् जातम् मोक्षयिष्ये जन्मतः मानुषात् इति ॥५३॥
devānām samayaḥ tu eṣa vasūnām saṃśrutaḥ mayā . jātam jātam mokṣayiṣye janmataḥ mānuṣāt iti ..53..
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥५४॥
तत् ते शापात् विनिर्मुक्ताः आपवस्य महात्मनः । स्वस्ति ते अस्तु गमिष्यामि पुत्रम् पाहि महा-व्रतम् ॥५४॥
tat te śāpāt vinirmuktāḥ āpavasya mahātmanaḥ . svasti te astu gamiṣyāmi putram pāhi mahā-vratam ..54..
एष पर्यायवासो मे वसूनां संनिधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥५५॥1.98.24
एष पर्याय-वासः मे वसूनाम् संनिधौ कृतः । मद्-प्रसूतम् विजानीहि गङ्गा-दत्तम् इमम् सुतम् ॥५५॥१।९८।२४
eṣa paryāya-vāsaḥ me vasūnām saṃnidhau kṛtaḥ . mad-prasūtam vijānīhi gaṅgā-dattam imam sutam ..55..1.98.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In