| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शन्तनुरुवाच॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् । यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
आपवः नाम कः नु एष वसूनाम् किम् च दुष्कृतम् । यस्य अभिशापात् ते सर्वे मानुषीम् तनुम् आगताः ॥१॥
āpavaḥ nāma kaḥ nu eṣa vasūnām kim ca duṣkṛtam . yasya abhiśāpāt te sarve mānuṣīm tanum āgatāḥ ..1..
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् । यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
अनेन च कुमारेण गङ्गा-दत्तेन किम् कृतम् । यस्य च एव कृतेन अयम् मानुषेषु निवत्स्यति ॥२॥
anena ca kumāreṇa gaṅgā-dattena kim kṛtam . yasya ca eva kṛtena ayam mānuṣeṣu nivatsyati ..2..
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् । मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
ईशानाः सर्व-लोकस्य वसवः ते च वै कथम् । मानुषेषु उदपद्यन्त तत् मम आचक्ष्व जाह्नवि ॥३॥
īśānāḥ sarva-lokasya vasavaḥ te ca vai katham . mānuṣeṣu udapadyanta tat mama ācakṣva jāhnavi ..3..
वैशम्पायन उवाच॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् । भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥४॥
सा एवम् उक्ता ततस् गङ्गा राजानम् इदम् अब्रवीत् । भर्तारम् जाह्नवी देवी शन्तनुम् पुरुष-ऋषभम् ॥४॥
sā evam uktā tatas gaṅgā rājānam idam abravīt . bhartāram jāhnavī devī śantanum puruṣa-ṛṣabham ..4..
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम । वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
यम् लेभे वरुणः पुत्रम् पुरा भरत-सत्तम । वसिष्ठः नाम स मुनिः ख्यातः आपवः इति उत ॥५॥
yam lebhe varuṇaḥ putram purā bharata-sattama . vasiṣṭhaḥ nāma sa muniḥ khyātaḥ āpavaḥ iti uta ..5..
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् । मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
तस्य आश्रम-पदम् पुण्यम् मृग-पक्षि-गण-अन्वितम् । मेरोः पार्श्वे नग-इन्द्रस्य सर्व-ऋतु-कुसुम-आवृतम् ॥६॥
tasya āśrama-padam puṇyam mṛga-pakṣi-gaṇa-anvitam . meroḥ pārśve naga-indrasya sarva-ṛtu-kusuma-āvṛtam ..6..
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
स वारुणिः तपः तेपे तस्मिन् भरत-सत्तम । वने पुण्य-कृताम् श्रेष्ठः स्वादु-मूल-फल-उदके ॥७॥
sa vāruṇiḥ tapaḥ tepe tasmin bharata-sattama . vane puṇya-kṛtām śreṣṭhaḥ svādu-mūla-phala-udake ..7..
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता । गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
दक्षस्य दुहिता या तु । गाम् प्रजाता तु सा देवी कश्यपात् भरत-ऋषभ ॥८॥
dakṣasya duhitā yā tu . gām prajātā tu sā devī kaśyapāt bharata-ṛṣabha ..8..
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् । तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
अनुग्रह-अर्थम् जगतः सर्व-कामदुघाम् वराम् । ताम् लेभे गाम् तु धर्म-आत्मा होमधेनुम् स वारुणिः ॥९॥
anugraha-artham jagataḥ sarva-kāmadughām varām . tām lebhe gām tu dharma-ātmā homadhenum sa vāruṇiḥ ..9..
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते । चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
सा तस्मिन् तापस-अरण्ये वसन्ती मुनि-सेविते । चचार रम्ये धर्म्ये च गौः अपेत-भया तदा ॥१०॥
sā tasmin tāpasa-araṇye vasantī muni-sevite . cacāra ramye dharmye ca gauḥ apeta-bhayā tadā ..10..
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ । पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
अथ तत् वनम् आजग्मुः कदाचिद् भरत-ऋषभ । पृथु-आद्याः वसवः सर्वे देव-देवर्षि-सेवितम् ॥११॥
atha tat vanam ājagmuḥ kadācid bharata-ṛṣabha . pṛthu-ādyāḥ vasavaḥ sarve deva-devarṣi-sevitam ..11..
ते सदारा वनं तच्च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
ते स दाराः वनम् तत् च व्यचरन्त समन्ततः । रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
te sa dārāḥ vanam tat ca vyacaranta samantataḥ . remire ramaṇīyeṣu parvateṣu vaneṣu ca ..12..
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम । सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥१३॥ ( या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥ )
तत्र एकस्य तु भार्या वै वसोः वासव-विक्रम । सा चरन्ती वने तस्मिन् गाम् ददर्श सुमध्यमा ॥१३॥ ( या सा वसिष्ठस्य मुनेः सर्व-कामदुह् उत्तमा ॥१३॥ )
tatra ekasya tu bhāryā vai vasoḥ vāsava-vikrama . sā carantī vane tasmin gām dadarśa sumadhyamā ..13.. ( yā sā vasiṣṭhasya muneḥ sarva-kāmaduh uttamā ..13.. )
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा । दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
सा विस्मय-समाविष्टा शील-द्रविण-सम्पदा । दिवे वै दर्शयामास ताम् गाम् गो-वृषभ-ईक्षण ॥१४॥
sā vismaya-samāviṣṭā śīla-draviṇa-sampadā . dive vai darśayāmāsa tām gām go-vṛṣabha-īkṣaṇa ..14..
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् । उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
स्वापीनाम् च सुदोग्ध्रीम् च सुवालधि-मुखाम् शुभाम् । उपपन्नाम् गुणैः सर्वैः शीलेन अनुत्तमेन च ॥१५॥
svāpīnām ca sudogdhrīm ca suvāladhi-mukhām śubhām . upapannām guṇaiḥ sarvaiḥ śīlena anuttamena ca ..15..
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी । दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
एवङ्गुण-समायुक्ताम् वसवे वसु-नन्दिनी । दर्शयामास राज-इन्द्र पुरा पौरव-नन्दन ॥१६॥
evaṅguṇa-samāyuktām vasave vasu-nandinī . darśayāmāsa rāja-indra purā paurava-nandana ..16..
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम । उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
द्यौः तदा ताम् तु दृष्ट्वा एव गाम् गज-इन्द्र-इन्द्र-विक्रम । उवाच राजन् ताम् देवीम् तस्याः रूप-गुणान् वदन् ॥१७॥
dyauḥ tadā tām tu dṛṣṭvā eva gām gaja-indra-indra-vikrama . uvāca rājan tām devīm tasyāḥ rūpa-guṇān vadan ..17..
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे । ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
एषा गौः उत्तमा देवि वारुणेः असित-ईक्षणे । ऋषेः तस्य वरारोहे यस्य इदम् वनम् उत्तमम् ॥१८॥
eṣā gauḥ uttamā devi vāruṇeḥ asita-īkṣaṇe . ṛṣeḥ tasya varārohe yasya idam vanam uttamam ..18..
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे । दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
अस्याः क्षीरम् पिबेत् मर्त्यः स्वादु यः वै सुमध्यमे । दश वर्ष-सहस्राणि स जीवेत् स्थिर-यौवनः ॥१९॥
asyāḥ kṣīram pibet martyaḥ svādu yaḥ vai sumadhyame . daśa varṣa-sahasrāṇi sa jīvet sthira-yauvanaḥ ..19..
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा । तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
एतत् श्रुत्वा तु सा देवी नृप-उत्तम सुमध्यमा । तम् उवाच अनवद्य-अङ्गी भर्तारम् दीप्त-तेजसम् ॥२०॥
etat śrutvā tu sā devī nṛpa-uttama sumadhyamā . tam uvāca anavadya-aṅgī bhartāram dīpta-tejasam ..20..
अस्ति मे मानुषे लोके नरदेवात्मजा सखी । नाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
अस्ति मे मानुषे लोके नर-देव-आत्मजा सखी । नाम्ना जिनवती नाम रूप-यौवन-शालिनी ॥२१॥
asti me mānuṣe loke nara-deva-ātmajā sakhī . nāmnā jinavatī nāma rūpa-yauvana-śālinī ..21..
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥२२॥
उशीनरस्य राजर्षेः सत्य-सन्धस्य धीमतः । दुहिता प्रथिता लोके मानुषे रूप-सम्पदा ॥२२॥
uśīnarasya rājarṣeḥ satya-sandhasya dhīmataḥ . duhitā prathitā loke mānuṣe rūpa-sampadā ..22..
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् । आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
तस्याः हेतोः महाभाग स वत्साम् गाम् मम ईप्सिताम् । आनयस्व अमर-श्रेष्ठ त्वरितम् पुण्य-वर्धन ॥२३॥
tasyāḥ hetoḥ mahābhāga sa vatsām gām mama īpsitām . ānayasva amara-śreṣṭha tvaritam puṇya-vardhana ..23..
यावदस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
यावत् अस्याः पयः पीत्वा सा सखी मम मानद । मानुषेषु भवतु एका जरा-रोग-विवर्जिता ॥२४॥
yāvat asyāḥ payaḥ pītvā sā sakhī mama mānada . mānuṣeṣu bhavatu ekā jarā-roga-vivarjitā ..24..
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित । प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥२५॥
एतत् मम महाभाग कर्तुम् अर्हसि अनिन्दित । प्रियम् प्रियतरम् हि अस्मात् न अस्ति मे अन्यत् कथञ्चन ॥२५॥
etat mama mahābhāga kartum arhasi anindita . priyam priyataram hi asmāt na asti me anyat kathañcana ..25..
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया । पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
एतत् श्रुत्वा वचः तस्याः देव्याः प्रिय-चिकीर्षया । पृथु-आद्यैः भ्रातृभिः सार्धम् द्यौः तदा ताम् जहार गाम् ॥२६॥
etat śrutvā vacaḥ tasyāḥ devyāḥ priya-cikīrṣayā . pṛthu-ādyaiḥ bhrātṛbhiḥ sārdham dyauḥ tadā tām jahāra gām ..26..
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप । ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ॥२७॥ ( हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥ )
तया कमल-पत्र-अक्ष्या नियुक्तः द्यौः तदा नृप । ऋषेः तस्य तपः तीव्रम् न शशाक निरीक्षितुम् ॥२७॥ ( हृता गौः सा तदा तेन प्रपातः तु न तर्कितः ॥२७॥ )
tayā kamala-patra-akṣyā niyuktaḥ dyauḥ tadā nṛpa . ṛṣeḥ tasya tapaḥ tīvram na śaśāka nirīkṣitum ..27.. ( hṛtā gauḥ sā tadā tena prapātaḥ tu na tarkitaḥ ..27.. )
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः । न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
अथ आश्रम-पदम् प्राप्तः फलानि आदाय वारुणिः । न च अपश्यत गाम् तत्र स वत्साम् कानन-उत्तमे ॥२८॥
atha āśrama-padam prāptaḥ phalāni ādāya vāruṇiḥ . na ca apaśyata gām tatra sa vatsām kānana-uttame ..28..
ततः स मृगयामास वने तस्मिंस्तपोधनः । नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
ततस् स मृगयामास वने तस्मिन् तपोधनः । न अध्यगच्छत् च मृगयन् ताम् गाम् मुनिः उदार-धीः ॥२९॥
tatas sa mṛgayāmāsa vane tasmin tapodhanaḥ . na adhyagacchat ca mṛgayan tām gām muniḥ udāra-dhīḥ ..29..
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
ज्ञात्वा तथा अपनीताम् ताम् वसुभिः दिव्य-दर्शनः । ययौ क्रोध-वशम् सद्यस् शशाप च वसून् तदा ॥३०॥
jñātvā tathā apanītām tām vasubhiḥ divya-darśanaḥ . yayau krodha-vaśam sadyas śaśāpa ca vasūn tadā ..30..
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् । तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
यस्मात् मे वसवः जह्रुः गाम् वै दोग्ध्रीम् सुवालधिम् । तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
yasmāt me vasavaḥ jahruḥ gām vai dogdhrīm suvāladhim . tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ ..31..
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः । वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥३२॥
एवम् शशाप भगवान् वसून् तान् मुनि-सत्तमः । वशम् कोपस्य सम्प्राप्तः आपवः भरत-ऋषभ ॥३२॥
evam śaśāpa bhagavān vasūn tān muni-sattamaḥ . vaśam kopasya samprāptaḥ āpavaḥ bharata-ṛṣabha ..32..
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे । एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ॥३३॥ ( महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥ )
शप्त्वा च तान् महाभागः तपसि एव मनः दधे । एवम् स शप्तवान् राजन् वसून् अष्टौ तपोधनः ॥३३॥ ( महा-प्रभावः ब्रह्मर्षिः देवान् रोष-समन्वितः ॥३३॥ )
śaptvā ca tān mahābhāgaḥ tapasi eva manaḥ dadhe . evam sa śaptavān rājan vasūn aṣṭau tapodhanaḥ ..33.. ( mahā-prabhāvaḥ brahmarṣiḥ devān roṣa-samanvitaḥ ..33.. )
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
अथ आश्रम-पदम् प्राप्य तम् स्म भूयस् महात्मनः । शप्ताः स्मः इति जानन्तः ऋषिम् तम् उपचक्रमुः ॥३४॥
atha āśrama-padam prāpya tam sma bhūyas mahātmanaḥ . śaptāḥ smaḥ iti jānantaḥ ṛṣim tam upacakramuḥ ..34..
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ । न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ॥३५॥ ( आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥ )
प्रसादयन्तः तम् ऋषिम् वसवः पार्थिव-ऋषभ । न लेभिरे च तस्मात् ते प्रसादम् ऋषि-सत्तमात् ॥३५॥ ( आपवात् पुरुष-व्याघ्र सर्व-धर्म-विशारदात् ॥३५॥ )
prasādayantaḥ tam ṛṣim vasavaḥ pārthiva-ṛṣabha . na lebhire ca tasmāt te prasādam ṛṣi-sattamāt ..35.. ( āpavāt puruṣa-vyāghra sarva-dharma-viśāradāt ..35.. )
उवाच च स धर्मात्मा सप्त यूयं धरादयः । अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
उवाच च स धर्म-आत्मा सप्त यूयम् धर-आदयः । अनु संवत्सरात् शाप-मोक्षम् वै समवाप्स्यथ ॥३६॥
uvāca ca sa dharma-ātmā sapta yūyam dhara-ādayaḥ . anu saṃvatsarāt śāpa-mokṣam vai samavāpsyatha ..36..
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति । द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
अयम् तु यत्कृते यूयम् मया शप्ताः स वत्स्यति । द्यौः तदा मानुषे लोके दीर्घ-कालम् स्व-कर्मणा ॥३७॥
ayam tu yatkṛte yūyam mayā śaptāḥ sa vatsyati . dyauḥ tadā mānuṣe loke dīrgha-kālam sva-karmaṇā ..37..
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
न अनृतम् तत् चिकीर्षामि युष्मान् क्रुद्धः यत् अब्रुवम् । न च अपि एष मानुषेषु महा-मनाः ॥३८॥
na anṛtam tat cikīrṣāmi yuṣmān kruddhaḥ yat abruvam . na ca api eṣa mānuṣeṣu mahā-manāḥ ..38..
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः । पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥३९॥ ( एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥ )
भविष्यति च धर्म-आत्मा सर्व-शास्त्र-विशारदः । पितुः प्रिय-हिते युक्तः स्त्री-भोगान् वर्जयिष्यति ॥३९॥ ( एवम् उक्त्वा वसून् सर्वान् जगाम भगवान् ऋषिः ॥३९॥ )
bhaviṣyati ca dharma-ātmā sarva-śāstra-viśāradaḥ . pituḥ priya-hite yuktaḥ strī-bhogān varjayiṣyati ..39.. ( evam uktvā vasūn sarvān jagāma bhagavān ṛṣiḥ ..39.. )
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा । अयाचन्त च मां राजन्वरं स च मया कृतः ॥४०॥ ( जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥ )
ततस् माम् उपजग्मुः ते समस्ताः वसवः तदा । अयाचन्त च माम् राजन् वरम् स च मया कृतः ॥४०॥ ( जातान् जातान् प्रक्षिप अस्मान् स्वयम् गङ्गे त्वम् अम्भसि ॥४०॥ )
tatas mām upajagmuḥ te samastāḥ vasavaḥ tadā . ayācanta ca mām rājan varam sa ca mayā kṛtaḥ ..40.. ( jātān jātān prakṣipa asmān svayam gaṅge tvam ambhasi ..40.. )
एवं तेषामहं सम्यक्षप्तानां राजसत्तम । मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
एवम् तेषाम् अहम् सम्यक् षप्तानाम् राज-सत्तम । मोक्ष-अर्थम् मानुषात् लोकात् यथावत् कृतवती अहम् ॥४१॥
evam teṣām aham samyak ṣaptānām rāja-sattama . mokṣa-artham mānuṣāt lokāt yathāvat kṛtavatī aham ..41..
अयं शापादृषेस्तस्य एक एव नृपोत्तम । द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
अयम् शापात् ऋषेः तस्य एकः एव नृप-उत्तम । द्यौः राजन् मानुषे लोके चिरम् वत्स्यति भारत ॥४२॥
ayam śāpāt ṛṣeḥ tasya ekaḥ eva nṛpa-uttama . dyauḥ rājan mānuṣe loke ciram vatsyati bhārata ..42..
एतदाख्याय सा देवी तत्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
एतत् आख्याय सा देवी तत्र एवा अन्तरधीयत । आदाय च कुमारम् तम् जगाम अथ यथा ईप्सितम् ॥४३॥
etat ākhyāya sā devī tatra evā antaradhīyata . ādāya ca kumāram tam jagāma atha yathā īpsitam ..43..
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ॥४४॥
स तु देवव्रतः नाम गाङ्गेयः इति च अभवत् । द्वि-नामा शन्तनोः पुत्रः शन्तनोः अधिकः गुणैः ॥४४॥
sa tu devavrataḥ nāma gāṅgeyaḥ iti ca abhavat . dvi-nāmā śantanoḥ putraḥ śantanoḥ adhikaḥ guṇaiḥ ..44..
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः । तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ॥४५॥
शन्तनुः च अपि शोक-आर्तः जगाम स्व-पुरम् ततस् । तस्य अहम् कीर्तयिष्यामि शन्तनोः अमितान् गुणान् ॥४५॥
śantanuḥ ca api śoka-ārtaḥ jagāma sva-puram tatas . tasya aham kīrtayiṣyāmi śantanoḥ amitān guṇān ..45..
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः । यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥1.99.49
महाभाग्यम् च नृपतेः भारतस्य यशस्विनः । यस्य इतिहासः द्युतिमान् महाभारतम् उच्यते ॥४६॥१।९९।४९
mahābhāgyam ca nṛpateḥ bhāratasya yaśasvinaḥ . yasya itihāsaḥ dyutimān mahābhāratam ucyate ..46..1.99.49

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In