| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः । धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥१॥
सः एवम् शन्तनुः धीमान् देव-राज-ऋषि-सत्कृतः । धर्म-आत्मा सर्व-लोकेषु सत्य-वाच् इति विश्रुतः ॥१॥
saḥ evam śantanuḥ dhīmān deva-rāja-ṛṣi-satkṛtaḥ . dharma-ātmā sarva-lokeṣu satya-vāc iti viśrutaḥ ..1..
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् । नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥२॥
दमः दानम् क्षमा बुद्धिः ह्रीः धृतिः तेजः उत्तमम् । नित्यानि आसन् महा-सत्त्वे शन्तनौ पुरुष-ऋषभे ॥२॥
damaḥ dānam kṣamā buddhiḥ hrīḥ dhṛtiḥ tejaḥ uttamam . nityāni āsan mahā-sattve śantanau puruṣa-ṛṣabhe ..2..
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः । आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥३॥
एवम् स गुण-सम्पन्नः धर्म-अर्थ-कुशलः नृपः । आसीत् भरत-वंशस्य गोप्ता साधु-जनस्य च ॥३॥
evam sa guṇa-sampannaḥ dharma-artha-kuśalaḥ nṛpaḥ . āsīt bharata-vaṃśasya goptā sādhu-janasya ca ..3..
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः । धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥४॥
। धर्मः एव परः कामात् अर्थात् च इति व्यवस्थितः ॥४॥
. dharmaḥ eva paraḥ kāmāt arthāt ca iti vyavasthitaḥ ..4..
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ । न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥५॥
एतानि आसन् महा-सत्त्वे शन्तनौ भरत-ऋषभ । न च अस्य सदृशः कश्चिद् क्षत्रियः धर्मतः अभवत् ॥५॥
etāni āsan mahā-sattve śantanau bharata-ṛṣabha . na ca asya sadṛśaḥ kaścid kṣatriyaḥ dharmataḥ abhavat ..5..
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् । तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥६॥
वर्तमानम् हि धर्मे स्वे सर्व-धर्म-विदाम् वरम् । तम् महीपाः महीपालम् राज-राज्ये अभ्यषेचयन् ॥६॥
vartamānam hi dharme sve sarva-dharma-vidām varam . tam mahīpāḥ mahīpālam rāja-rājye abhyaṣecayan ..6..
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः । प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥७॥
वीत-शोक-भय-आबाधाः सुख-स्वप्न-विबोधनाः । प्रति भारत-गोप्तारम् समपद्यन्त भूमिपाः ॥७॥
vīta-śoka-bhaya-ābādhāḥ sukha-svapna-vibodhanāḥ . prati bhārata-goptāram samapadyanta bhūmipāḥ ..7..
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा । नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥८॥
शन्तनु-प्रमुखैः गुप्ते लोके नृपतिभिः तदा । नियमात् सर्व-वर्णानाम् ब्रह्म उत्तरम् अवर्तत ॥८॥
śantanu-pramukhaiḥ gupte loke nṛpatibhiḥ tadā . niyamāt sarva-varṇānām brahma uttaram avartata ..8..
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः । ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥९॥
ब्रह्म पर्यचरत् क्षत्रम् विशः क्षत्रम् अनुव्रताः । ब्रह्म-क्षत्र-अनुरक्ताः च शूद्राः पर्यचरन् विशः ॥९॥
brahma paryacarat kṣatram viśaḥ kṣatram anuvratāḥ . brahma-kṣatra-anuraktāḥ ca śūdrāḥ paryacaran viśaḥ ..9..
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने । वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥१०॥
स हास्तिनपुरे रम्ये कुरूणाम् पुटभेदने । वसन् सागर-पर्यन्ताम् अन्वशात् वै वसुन्धराम् ॥१०॥
sa hāstinapure ramye kurūṇām puṭabhedane . vasan sāgara-paryantām anvaśāt vai vasundharām ..10..
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः । दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥११॥
स देव-राज-सदृशः धर्म-ज्ञः सत्य-वाच्-ऋजुः । दान-धर्म-तपः-योगात् श्रिया परमया युतः ॥११॥
sa deva-rāja-sadṛśaḥ dharma-jñaḥ satya-vāc-ṛjuḥ . dāna-dharma-tapaḥ-yogāt śriyā paramayā yutaḥ ..11..
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः । तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥१२॥ ( अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥१२॥ )
अराग-द्वेष-संयुक्तः सोम-वत् प्रिय-दर्शनः । तेजसा सूर्य-सङ्काशः वायु-वेग-समः जवे ॥१२॥ ( अन्तक-प्रतिमः कोपे क्षमया पृथिवी-समः ॥१२॥ )
arāga-dveṣa-saṃyuktaḥ soma-vat priya-darśanaḥ . tejasā sūrya-saṅkāśaḥ vāyu-vega-samaḥ jave ..12.. ( antaka-pratimaḥ kope kṣamayā pṛthivī-samaḥ ..12.. )
वधः पशुवराहाणां तथैव मृगपक्षिणाम् । शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥१३॥
वधः पशु-वराहाणाम् तथा एव मृग-पक्षिणाम् । शन्तनौ पृथिवीपाले ना अवर्तत वृथा नृप ॥१३॥
vadhaḥ paśu-varāhāṇām tathā eva mṛga-pakṣiṇām . śantanau pṛthivīpāle nā avartata vṛthā nṛpa ..13..
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् । समं शशास भूतानि कामरागविवर्जितः ॥१४॥
धर्म-ब्रह्म-उत्तरे राज्ये शन्तनुः विनय-आत्मवान् । समम् शशास भूतानि काम-राग-विवर्जितः ॥१४॥
dharma-brahma-uttare rājye śantanuḥ vinaya-ātmavān . samam śaśāsa bhūtāni kāma-rāga-vivarjitaḥ ..14..
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः । न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥१५॥
देव-ऋषि-पितृ-यज्ञ-अर्थम् आरभ्यन्त तदा क्रियाः । न च अधर्मेण केषाञ्चिद् प्राणिनाम् अभवत् वधः ॥१५॥
deva-ṛṣi-pitṛ-yajña-artham ārabhyanta tadā kriyāḥ . na ca adharmeṇa keṣāñcid prāṇinām abhavat vadhaḥ ..15..
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् । स एव राजा भूतानां सर्वेषामभवत्पिता ॥१६॥
असुखानाम् अनाथानाम् तिर्यग्योनिषु वर्तताम् । सः एव राजा भूतानाम् सर्वेषाम् अभवत् पिता ॥१६॥
asukhānām anāthānām tiryagyoniṣu vartatām . saḥ eva rājā bhūtānām sarveṣām abhavat pitā ..16..
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति । श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥१७॥
तस्मिन् कुरु-पति-श्रेष्ठे राज-राज-ईश्वरे सति । श्रिता वाच् अभवत् सत्यम् दान-धर्म-आश्रितम् मनः ॥१७॥
tasmin kuru-pati-śreṣṭhe rāja-rāja-īśvare sati . śritā vāc abhavat satyam dāna-dharma-āśritam manaḥ ..17..
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः । रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥१८॥
स समाः षोडश अष्टौ च चतस्रः अष्टौ तथा अपराः । रतिम् अ प्राप्नुवन् स्त्रीषु बभूव वन-गोचरः ॥१८॥
sa samāḥ ṣoḍaśa aṣṭau ca catasraḥ aṣṭau tathā aparāḥ . ratim a prāpnuvan strīṣu babhūva vana-gocaraḥ ..18..
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः । गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥१९॥
तथारूपः तथा चारः तथा वृत्तः तथा श्रुतः । गाङ्गेयः तस्य पुत्रः अभूत् नाम्ना देवव्रतः वसुः ॥१९॥
tathārūpaḥ tathā cāraḥ tathā vṛttaḥ tathā śrutaḥ . gāṅgeyaḥ tasya putraḥ abhūt nāmnā devavrataḥ vasuḥ ..19..
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च । महाबलो महासत्त्वो महावीर्यो महारथः ॥२०॥
सर्व-अस्त्रेषु स निष्णातः पार्थिवेषु इतरेषु च । ॥२०॥
sarva-astreṣu sa niṣṇātaḥ pārthiveṣu itareṣu ca . ..20..
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥२१॥
स कदाचिद् मृगम् विद्ध्वा गङ्गाम् अनुसरन् नदीम् । भागीरथीम् अल्प-जलाम् शन्तनुः दृष्टवान् नृपः ॥२१॥
sa kadācid mṛgam viddhvā gaṅgām anusaran nadīm . bhāgīrathīm alpa-jalām śantanuḥ dṛṣṭavān nṛpaḥ ..21..
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः । स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥२२॥
ताम् दृष्ट्वा चिन्तयामास शन्तनुः पुरुष-ऋषभः । स्यन्दते किम् नु इयम् न अद्य सरित् श्रेष्ठा यथा पुरा ॥२२॥
tām dṛṣṭvā cintayāmāsa śantanuḥ puruṣa-ṛṣabhaḥ . syandate kim nu iyam na adya sarit śreṣṭhā yathā purā ..22..
ततो निमित्तमन्विच्छन्ददर्श स महामनाः । कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥२३॥
ततस् निमित्तम् अन्विच्छन् ददर्श स महामनाः । कुमारम् रूप-सम्पन्नम् बृहन्तम् चारु-दर्शनम् ॥२३॥
tatas nimittam anvicchan dadarśa sa mahāmanāḥ . kumāram rūpa-sampannam bṛhantam cāru-darśanam ..23..
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् । कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥२४॥
दिव्यम् अस्त्रम् विकुर्वाणम् यथा देवम् पुरंदरम् । कृत्स्नाम् गङ्गाम् समावृत्य शरैः तीक्ष्णैः अवस्थितम् ॥२४॥
divyam astram vikurvāṇam yathā devam puraṃdaram . kṛtsnām gaṅgām samāvṛtya śaraiḥ tīkṣṇaiḥ avasthitam ..24..
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके । अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥२५॥
ताम् शरैः आवृताम् दृष्ट्वा नदीम् गङ्गाम् तद्-अन्तिके । अभवत् विस्मितः राजा कर्म दृष्ट्वा अति मानुषम् ॥२५॥
tām śaraiḥ āvṛtām dṛṣṭvā nadīm gaṅgām tad-antike . abhavat vismitaḥ rājā karma dṛṣṭvā ati mānuṣam ..25..
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा । नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥२६॥
जात-मात्रम् पुरा दृष्टम् तम् पुत्रम् शन्तनुः तदा । न उपलेभे स्मृतिम् धीमान् अभिज्ञातुम् तम् आत्मजम् ॥२६॥
jāta-mātram purā dṛṣṭam tam putram śantanuḥ tadā . na upalebhe smṛtim dhīmān abhijñātum tam ātmajam ..26..
स तु तं पितरं दृष्ट्वा मोहयामास मायया । संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥२७॥
स तु तम् पितरम् दृष्ट्वा मोहयामास मायया । संमोह्य तु ततस् क्षिप्रम् तत्र एव अन्तरधीयत ॥२७॥
sa tu tam pitaram dṛṣṭvā mohayāmāsa māyayā . saṃmohya tu tatas kṣipram tatra eva antaradhīyata ..27..
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः । शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥२८॥
तत् अद्भुतम् तदा दृष्ट्वा तत्र राजा स शन्तनुः । शङ्कमानः सुतम् गङ्गाम् अब्रवीत् दर्शय इति ह ॥२८॥
tat adbhutam tadā dṛṣṭvā tatra rājā sa śantanuḥ . śaṅkamānaḥ sutam gaṅgām abravīt darśaya iti ha ..28..
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् । गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ॥२९॥
दर्शयामास तम् गङ्गा बिभ्रती रूपम् उत्तमम् । गृहीत्वा दक्षिणे पाणौ तम् कुमारम् अलङ्कृतम् ॥२९॥
darśayāmāsa tam gaṅgā bibhratī rūpam uttamam . gṛhītvā dakṣiṇe pāṇau tam kumāram alaṅkṛtam ..29..
अलङ्कृतामाभरणैररजोम्बरधारिणीम् । दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ॥३०॥
अलङ्कृताम् आभरणैः अरज-उम्बर-धारिणीम् । दृष्ट-पूर्वाम् अपि सतीम् न अभ्यजानात् स शन्तनुः ॥३०॥
alaṅkṛtām ābharaṇaiḥ araja-umbara-dhāriṇīm . dṛṣṭa-pūrvām api satīm na abhyajānāt sa śantanuḥ ..30..
गङ्गोवाच॥
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः । स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥३१॥
यम् पुत्रम् अष्टमम् राजन् त्वम् पुरा मयि अजायिथाः । स ते अयम् पुरुष-व्याघ्र नयस्व एनम् गृह-अन्तिकम् ॥३१॥
yam putram aṣṭamam rājan tvam purā mayi ajāyithāḥ . sa te ayam puruṣa-vyāghra nayasva enam gṛha-antikam ..31..
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् । कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥३२॥
वेदान् अधिजगे साङ्गान् वसिष्ठात् एव वीर्यवान् । कृतास्त्रः परम-इष्वासः देवराज-समः युधि ॥३२॥
vedān adhijage sāṅgān vasiṣṭhāt eva vīryavān . kṛtāstraḥ parama-iṣvāsaḥ devarāja-samaḥ yudhi ..32..
सुराणां संमतो नित्यमसुराणां च भारत । उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥३३॥
सुराणाम् संमतः नित्यम् असुराणाम् च भारत । उशनाः वेद यत् शास्त्र-मयम् तत् वेद सर्वशस् ॥३३॥
surāṇām saṃmataḥ nityam asurāṇām ca bhārata . uśanāḥ veda yat śāstra-mayam tat veda sarvaśas ..33..
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः । यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥३४॥ ( तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥३४॥ )
तथा एव अङ्गिरसः पुत्रः सुर-असुर-नमस्कृतः । यत् वेद शास्त्रम् तत् च अपि कृत्स्नम् अस्मिन् प्रतिष्ठितम् ॥३४॥ ( तव पुत्रे महा-बाहौ स अङ्ग-उपाङ्गम् महात्मनि ॥३४॥ )
tathā eva aṅgirasaḥ putraḥ sura-asura-namaskṛtaḥ . yat veda śāstram tat ca api kṛtsnam asmin pratiṣṭhitam ..34.. ( tava putre mahā-bāhau sa aṅga-upāṅgam mahātmani ..34.. )
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् । यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥३५॥
ऋषिः परैः अनाधृष्यः जामदग्न्यः प्रतापवान् । यत् अस्त्रम् वेद रामः च तत् अपि अस्मिन् प्रतिष्ठितम् ॥३५॥
ṛṣiḥ paraiḥ anādhṛṣyaḥ jāmadagnyaḥ pratāpavān . yat astram veda rāmaḥ ca tat api asmin pratiṣṭhitam ..35..
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् । मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥३६॥
महा-इष्वासम् इमम् राजन् राज-धर्म-अर्थ-कोविदम् । मया दत्तम् निजम् पुत्रम् वीरम् वीर गृहान् नय ॥३६॥
mahā-iṣvāsam imam rājan rāja-dharma-artha-kovidam . mayā dattam nijam putram vīram vīra gṛhān naya ..36..
वैशम्पायन उवाच॥
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः । भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥३७॥
तया एवम् समनुज्ञातः पुत्रम् आदाय शन्तनुः । भ्राजमानम् यथा आदित्यम् आययौ स्व-पुरम् प्रति ॥३७॥
tayā evam samanujñātaḥ putram ādāya śantanuḥ . bhrājamānam yathā ādityam āyayau sva-puram prati ..37..
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् । सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ॥३८॥ ( पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥३८॥ )
पौरवः स्व-पुरम् गत्वा पुरंदर-पुर-उपमम् । सर्व-काम-समृद्ध-अर्थम् मेने आत्मानम् आत्मना ॥३८॥ ( पौरवेषु ततस् पुत्रम् यौवराज्ये अभ्यषेचयत् ॥३८॥ )
pauravaḥ sva-puram gatvā puraṃdara-pura-upamam . sarva-kāma-samṛddha-artham mene ātmānam ātmanā ..38.. ( pauraveṣu tatas putram yauvarājye abhyaṣecayat ..38.. )
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः । राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥३९॥
पौरवान् शन्तनोः पुत्रः पितरम् च महा-यशाः । राष्ट्रम् च रञ्जयामास वृत्तेन भरत-ऋषभ ॥३९॥
pauravān śantanoḥ putraḥ pitaram ca mahā-yaśāḥ . rāṣṭram ca rañjayāmāsa vṛttena bharata-ṛṣabha ..39..
स तथा सह पुत्रेण रममाणो महीपतिः । वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥४०॥
स तथा सह पुत्रेण रममाणः महीपतिः । वर्तयामास वर्षाणि चत्वारि अमित-विक्रमः ॥४०॥
sa tathā saha putreṇa ramamāṇaḥ mahīpatiḥ . vartayāmāsa varṣāṇi catvāri amita-vikramaḥ ..40..
स कदाचिद्वनं यातो यमुनामभितो नदीम् । महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥४१॥
स कदाचिद् वनम् यातः यमुनाम् अभितस् नदीम् । महीपतिः अनिर्देश्यम् आजिघ्रत् गन्धम् उत्तमम् ॥४१॥
sa kadācid vanam yātaḥ yamunām abhitas nadīm . mahīpatiḥ anirdeśyam ājighrat gandham uttamam ..41..
तस्य प्रभवमन्विच्छन्विचचार समन्ततः । स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥४२॥
तस्य प्रभवम् अन्विच्छन् विचचार समन्ततः । स ददर्श तदा कन्याम् दाशानाम् देव-रूपिणीम् ॥४२॥
tasya prabhavam anvicchan vicacāra samantataḥ . sa dadarśa tadā kanyām dāśānām deva-rūpiṇīm ..42..
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् । कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥४३॥
ताम् अपृच्छत् स दृष्ट्वा एव कन्याम् असित-लोचनाम् । कस्य त्वम् असि का च असि किम् च भीरु चिकीर्षसि ॥४३॥
tām apṛcchat sa dṛṣṭvā eva kanyām asita-locanām . kasya tvam asi kā ca asi kim ca bhīru cikīrṣasi ..43..
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् । पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥४४॥
सा ब्रवीत् दाश-कन्या अस्मि धर्म-अर्थम् वाहये तरीम् । पितुः नियोगात् भद्रम् ते दाश-राज्ञः महात्मनः ॥४४॥
sā bravīt dāśa-kanyā asmi dharma-artham vāhaye tarīm . pituḥ niyogāt bhadram te dāśa-rājñaḥ mahātmanaḥ ..44..
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् । समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥४५॥
रूप-माधुर्य-गन्धैः ताम् संयुक्ताम् देव-रूपिणीम् । समीक्ष्य राजा दाशेयीम् कामयामास शन्तनुः ॥४५॥
rūpa-mādhurya-gandhaiḥ tām saṃyuktām deva-rūpiṇīm . samīkṣya rājā dāśeyīm kāmayāmāsa śantanuḥ ..45..
स गत्वा पितरं तस्या वरयामास तां तदा । पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥४६॥
स गत्वा पितरम् तस्याः वरयामास ताम् तदा । पर्यपृच्छत् ततस् तस्याः पितरम् च आत्म-कारणात् ॥४६॥
sa gatvā pitaram tasyāḥ varayāmāsa tām tadā . paryapṛcchat tatas tasyāḥ pitaram ca ātma-kāraṇāt ..46..
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् । जातमात्रैव मे देया वराय वरवर्णिनी ॥४७॥ ( हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥४७॥ )
स च तम् प्रत्युवाच इदम् दाश-राजः महीपतिम् । जात-मात्रा एव मे देया वराय वरवर्णिनी ॥४७॥ ( हृदि कामः तु मे कश्चिद् तम् निबोध जनेश्वर ॥४७॥ )
sa ca tam pratyuvāca idam dāśa-rājaḥ mahīpatim . jāta-mātrā eva me deyā varāya varavarṇinī ..47.. ( hṛdi kāmaḥ tu me kaścid tam nibodha janeśvara ..47.. )
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ । सत्यवागसि सत्येन समयं कुरु मे ततः ॥४८॥
यदि इमाम् धर्मपत्नीम् त्वम् मत्तः प्रार्थयसे अनघ । सत्य-वाच् असि सत्येन समयम् कुरु मे ततस् ॥४८॥
yadi imām dharmapatnīm tvam mattaḥ prārthayase anagha . satya-vāc asi satyena samayam kuru me tatas ..48..
समयेन प्रदद्यां ते कन्यामहमिमां नृप । न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥४९॥
समयेन प्रदद्याम् ते कन्याम् अहम् इमाम् नृप । न हि मे त्वद्-समः कश्चिद् वरः जातु भविष्यति ॥४९॥
samayena pradadyām te kanyām aham imām nṛpa . na hi me tvad-samaḥ kaścid varaḥ jātu bhaviṣyati ..49..
शन्तनुरुवाच॥
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा । दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ॥५०॥
श्रुत्वा तव वरम् दाश व्यवस्येयम् अहम् न वा । दातव्यम् चेद् प्रदास्यामि न तु अदेयम् कथञ्चन ॥५०॥
śrutvā tava varam dāśa vyavasyeyam aham na vā . dātavyam ced pradāsyāmi na tu adeyam kathañcana ..50..
दाश उवाच॥
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः । त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥५१॥
अस्याम् जायेत यः पुत्रः स राजा पृथिवीपतिः । त्वत् ऊर्ध्वम् अभिषेक्तव्यः न अन्यः कश्चन पार्थिव ॥५१॥
asyām jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ . tvat ūrdhvam abhiṣektavyaḥ na anyaḥ kaścana pārthiva ..51..
वैशम्पायन उवाच॥
नाकामयत तं दातुं वरं दाशाय शन्तनुः । शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥५२॥
न अकामयत तम् दातुम् वरम् दाशाय शन्तनुः । शरीरजेन तीव्रेण दह्यमानः अपि भारत ॥५२॥
na akāmayata tam dātum varam dāśāya śantanuḥ . śarīrajena tīvreṇa dahyamānaḥ api bhārata ..52..
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः । प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥५३॥
स चिन्तयन् एव तदा दाश-कन्याम् महीपतिः । प्रत्ययात् हास्तिनपुरम् शोक-उपहत-चेतनः ॥५३॥
sa cintayan eva tadā dāśa-kanyām mahīpatiḥ . pratyayāt hāstinapuram śoka-upahata-cetanaḥ ..53..
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् । पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥५४॥
ततस् कदाचिद् शोचन्तम् शन्तनुम् ध्यानम् आस्थितम् । पुत्रः देवव्रतः अभ्येत्य पितरम् वाक्यम् अब्रवीत् ॥५४॥
tatas kadācid śocantam śantanum dhyānam āsthitam . putraḥ devavrataḥ abhyetya pitaram vākyam abravīt ..54..
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः । तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ॥५५॥ ( ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ॥५५॥ )
सर्वतस् भवतः क्षेमम् विधेयाः सर्व-पार्थिवाः । तत् किमर्थम् इह अभीक्ष्णम् परिशोचसि दुःखितः ॥५५॥ ( ध्यायन् इव च किम् राजन् न अभिभाषसि किञ्चन ॥५५॥ )
sarvatas bhavataḥ kṣemam vidheyāḥ sarva-pārthivāḥ . tat kimartham iha abhīkṣṇam pariśocasi duḥkhitaḥ ..55.. ( dhyāyan iva ca kim rājan na abhibhāṣasi kiñcana ..55.. )
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत । असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥५६॥
एवम् उक्तः स पुत्रेण शन्तनुः प्रत्यभाषत । असंशयम् ध्यान-परम् यथा मा आत्थ तथा अस्मि उत ॥५६॥
evam uktaḥ sa putreṇa śantanuḥ pratyabhāṣata . asaṃśayam dhyāna-param yathā mā āttha tathā asmi uta ..56..
अपत्यं नस्त्वमेवैकः कुले महति भारत । अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥५७॥
अपत्यम् नः त्वम् एव एकः कुले महति भारत । अनित्य-ता च मर्त्यानाम् अतस् शोचामि पुत्रक ॥५७॥
apatyam naḥ tvam eva ekaḥ kule mahati bhārata . anitya-tā ca martyānām atas śocāmi putraka ..57..
कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् । असंशयं त्वमेवैकः शतादपि वरः सुतः ॥५८॥
कथञ्चिद् तव गाङ्गेय विपत्तौ ना अस्ति नः कुलम् । असंशयम् त्वम् एवा एकः शतात् अपि वरः सुतः ॥५८॥
kathañcid tava gāṅgeya vipattau nā asti naḥ kulam . asaṃśayam tvam evā ekaḥ śatāt api varaḥ sutaḥ ..58..
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे । सन्तानस्याविनाशाय कामये भद्रमस्तु ते ॥५९॥ ( अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥५९॥ )
न च अपि अहम् वृथा भूयस् दारान् कर्तुम् इह उत्सहे । सन्तानस्य अ विनाशाय कामये भद्रम् अस्तु ते ॥५९॥ ( अनपत्य-ता एक-पुत्र-त्वम् इति आहुः धर्म-वादिनः ॥५९॥ )
na ca api aham vṛthā bhūyas dārān kartum iha utsahe . santānasya a vināśāya kāmaye bhadram astu te ..59.. ( anapatya-tā eka-putra-tvam iti āhuḥ dharma-vādinaḥ ..59.. )
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः । सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥६०॥
अग्निहोत्रम् त्रयः वेदाः यज्ञाः च सह दक्षिणाः । सर्वाणि एतानि अपत्यस्य कलाम् न अर्हन्ति षोडशीम् ॥६०॥
agnihotram trayaḥ vedāḥ yajñāḥ ca saha dakṣiṇāḥ . sarvāṇi etāni apatyasya kalām na arhanti ṣoḍaśīm ..60..
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि । यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ॥६१॥ ( एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥६१॥ )
एवम् एव मनुष्येषु स्यात् च सर्व-प्रजासु अपि । यत् अपत्यम् महा-प्राज्ञ तत्र मे ना अस्ति संशयः ॥६१॥ ( एषा त्रयी पुराणानाम् उत्तमानाम् च शाश्वती ॥६१॥ )
evam eva manuṣyeṣu syāt ca sarva-prajāsu api . yat apatyam mahā-prājña tatra me nā asti saṃśayaḥ ..61.. ( eṣā trayī purāṇānām uttamānām ca śāśvatī ..61.. )
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत । नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥६२॥
त्वम् च शूरः सदा अमर्षी शस्त्र-नित्यः च भारत । न अन्यत्र शस्त्रात् तस्मात् ते निधनम् विद्यते अनघ ॥६२॥
tvam ca śūraḥ sadā amarṣī śastra-nityaḥ ca bhārata . na anyatra śastrāt tasmāt te nidhanam vidyate anagha ..62..
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् । इति ते कारणं तात दुःखस्योक्तमशेषतः ॥६३॥
सः अस्मि संशयम् आपन्नः त्वयि शान्ते कथम् भवेत् । इति ते कारणम् तात दुःखस्य उक्तम् अशेषतस् ॥६३॥
saḥ asmi saṃśayam āpannaḥ tvayi śānte katham bhavet . iti te kāraṇam tāta duḥkhasya uktam aśeṣatas ..63..
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः । देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥६४॥
ततस् तद्-कारणम् ज्ञात्वा कृत्स्नम् च एवम् अशेषतस् । देवव्रतः महा-बुद्धिः प्रययौ अनुचिन्तयन् ॥६४॥
tatas tad-kāraṇam jñātvā kṛtsnam ca evam aśeṣatas . devavrataḥ mahā-buddhiḥ prayayau anucintayan ..64..
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् । तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥६५॥
अभ्यगच्छत् तदा एव आशु वृद्ध-अमात्यम् पितुः हितम् । तम् अपृच्छत् तदा अभ्येत्य पितुः तद्-शोक-कारणम् ॥६५॥
abhyagacchat tadā eva āśu vṛddha-amātyam pituḥ hitam . tam apṛcchat tadā abhyetya pituḥ tad-śoka-kāraṇam ..65..
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते । वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥६६॥
तस्मै स कुरु-मुख्याय यथावत् परिपृच्छते । वरम् शशंस कन्याम् ताम् उद्दिश्य भरत-ऋषभ ॥६६॥
tasmai sa kuru-mukhyāya yathāvat paripṛcchate . varam śaśaṃsa kanyām tām uddiśya bharata-ṛṣabha ..66..
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा । अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥६७॥
ततस् देवव्रतः वृद्धैः क्षत्रियैः सहितः तदा । अभिगम्य दाश-राजानम् कन्याम् वव्रे पितुः स्वयम् ॥६७॥
tatas devavrataḥ vṛddhaiḥ kṣatriyaiḥ sahitaḥ tadā . abhigamya dāśa-rājānam kanyām vavre pituḥ svayam ..67..
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च । अब्रवीच्चैनमासीनं राजसंसदि भारत ॥६८॥
तम् दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च । अब्रवीत् च एनम् आसीनम् राज-संसदि भारत ॥६८॥
tam dāśaḥ pratijagrāha vidhivat pratipūjya ca . abravīt ca enam āsīnam rāja-saṃsadi bhārata ..68..
त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ । पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥६९॥
त्वम् एव नाथः पर्याप्तः शन्तनोः पुरुष-ऋषभ । पुत्रः पुत्रवताम् श्रेष्ठः किम् नु वक्ष्यामि ते वचः ॥६९॥
tvam eva nāthaḥ paryāptaḥ śantanoḥ puruṣa-ṛṣabha . putraḥ putravatām śreṣṭhaḥ kim nu vakṣyāmi te vacaḥ ..69..
को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् । अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥७०॥
कः हि सम्बन्धकम् श्लाघ्यम् ईप्सितम् यौनम् ईदृशम् । अतिक्रामन् न तप्येत साक्षात् अपि शतक्रतुः ॥७०॥
kaḥ hi sambandhakam ślāghyam īpsitam yaunam īdṛśam . atikrāman na tapyeta sākṣāt api śatakratuḥ ..70..
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः । यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥७१॥
अपत्यम् च एतत् आर्यस्य यः युष्माकम् समः गुणैः । यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी ॥७१॥
apatyam ca etat āryasya yaḥ yuṣmākam samaḥ guṇaiḥ . yasya śukrāt satyavatī prādurbhūtā yaśasvinī ..71..
तेन मे बहुशस्तात पिता ते परिकीर्तितः । अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥७२॥
तेन मे बहुशस् तात पिता ते परिकीर्तितः । अर्हः सत्यवतीम् वोढुम् सर्व-राजसु भारत ॥७२॥
tena me bahuśas tāta pitā te parikīrtitaḥ . arhaḥ satyavatīm voḍhum sarva-rājasu bhārata ..72..
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥७३॥
असितः हि अपि देव-ऋषिः प्रत्याख्यातः पुरा मया । सत्यवत्याः भृशम् हि अर्थी सः आसीत् ऋषि-सत्तमः ॥७३॥
asitaḥ hi api deva-ṛṣiḥ pratyākhyātaḥ purā mayā . satyavatyāḥ bhṛśam hi arthī saḥ āsīt ṛṣi-sattamaḥ ..73..
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ । बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥७४॥
कन्या-पितृ-त्वात् किञ्चिद् तु वक्ष्यामि भरत-ऋषभ । बलवत्-सपत्न-ताम् अत्र दोषम् पश्यामि केवलम् ॥७४॥
kanyā-pitṛ-tvāt kiñcid tu vakṣyāmi bharata-ṛṣabha . balavat-sapatna-tām atra doṣam paśyāmi kevalam ..74..
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा । न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ॥७५॥
यस्य हि त्वम् सपत्नः स्याः गन्धर्वस्य असुरस्य वा । न स जातु सुखम् जीवेत् त्वयि क्रुद्धे परन्तप ॥७५॥
yasya hi tvam sapatnaḥ syāḥ gandharvasya asurasya vā . na sa jātu sukham jīvet tvayi kruddhe parantapa ..75..
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव । एतज्जानीहि भद्रं ते दानादाने परन्तप ॥७६॥
एतावान् अत्र दोषः हि न अन्यः कश्चन पार्थिव । एतत् जानीहि भद्रम् ते दान-आदाने परन्तप ॥७६॥
etāvān atra doṣaḥ hi na anyaḥ kaścana pārthiva . etat jānīhi bhadram te dāna-ādāne parantapa ..76..
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत । शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥७७॥
एवम् उक्तः तु गाङ्गेयः तत् युक्तम् प्रत्यभाषत । शृण्वताम् भूमिपालानाम् पितुः अर्थाय भारत ॥७७॥
evam uktaḥ tu gāṅgeyaḥ tat yuktam pratyabhāṣata . śṛṇvatām bhūmipālānām pituḥ arthāya bhārata ..77..
इदं मे मतमादत्स्व सत्यं सत्यवतां वर । नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ॥७८॥
इदम् मे मतम् आदत्स्व सत्यम् सत्यवताम् वर । न एव जातः न वा अजातः ईदृशम् वक्तुम् उत्सहेत् ॥७८॥
idam me matam ādatsva satyam satyavatām vara . na eva jātaḥ na vā ajātaḥ īdṛśam vaktum utsahet ..78..
एवमेतत्करिष्यामि यथा त्वमनुभाषसे । योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥७९॥
एवम् एतत् करिष्यामि यथा त्वम् अनुभाषसे । यः अस्याम् जनिष्यते पुत्रः स नः राजा भविष्यति ॥७९॥
evam etat kariṣyāmi yathā tvam anubhāṣase . yaḥ asyām janiṣyate putraḥ sa naḥ rājā bhaviṣyati ..79..
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत । चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥८०॥
इति उक्तः पुनर् एव अथ तम् दाशः प्रत्यभाषत । चिकीर्षुः दुष्करम् कर्म राज्य-अर्थे भरत-ऋषभ ॥८०॥
iti uktaḥ punar eva atha tam dāśaḥ pratyabhāṣata . cikīrṣuḥ duṣkaram karma rājya-arthe bharata-ṛṣabha ..80..
त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः । कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥८१॥
त्वम् एव नाथः पर्याप्तः शन्तनोः अमित-द्युतेः । कन्यायाः च एव धर्म-आत्मन् प्रभुः दानाय च ईश्वरः ॥८१॥
tvam eva nāthaḥ paryāptaḥ śantanoḥ amita-dyuteḥ . kanyāyāḥ ca eva dharma-ātman prabhuḥ dānāya ca īśvaraḥ ..81..
इदं तु वचनं सौम्य कार्यं चैव निबोध मे । कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ॥८२॥
इदम् तु वचनम् सौम्य कार्यम् च एव निबोध मे । कौमारिकाणाम् शीलेन वक्ष्यामि अहम् अरिंदम ॥८२॥
idam tu vacanam saumya kāryam ca eva nibodha me . kaumārikāṇām śīlena vakṣyāmi aham ariṃdama ..82..
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण । राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥८३॥
यत् त्वया सत्यवती-अर्थे सत्य-धर्म-परायण । राज-मध्ये प्रतिज्ञातम् अनुरूपम् तव एव तत् ॥८३॥
yat tvayā satyavatī-arthe satya-dharma-parāyaṇa . rāja-madhye pratijñātam anurūpam tava eva tat ..83..
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन । तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥८४॥
ना अन्यथा तत् महा-बाहो संशयः अत्र न कश्चन । तव अपत्यम् भवेत् यत् तु तत्र नः संशयः महान् ॥८४॥
nā anyathā tat mahā-bāho saṃśayaḥ atra na kaścana . tava apatyam bhavet yat tu tatra naḥ saṃśayaḥ mahān ..84..
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः । प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥८५॥
तस्य तत् मतम् आज्ञाय सत्य-धर्म-परायणः । प्रत्यजानात् तदा राजन् पितुः प्रिय-चिकीर्षया ॥८५॥
tasya tat matam ājñāya satya-dharma-parāyaṇaḥ . pratyajānāt tadā rājan pituḥ priya-cikīrṣayā ..85..
देवव्रत उवाच॥
दाशराज निबोधेदं वचनं मे नृपोत्तम । शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥८६॥
दाश-राज निबोध इदम् वचनम् मे नृप-उत्तम । शृण्वताम् भूमिपालानाम् यत् ब्रवीमि पितुः कृते ॥८६॥
dāśa-rāja nibodha idam vacanam me nṛpa-uttama . śṛṇvatām bhūmipālānām yat bravīmi pituḥ kṛte ..86..
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप । अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥८७॥
राज्यम् तावत् पूर्वम् एव मया त्यक्तम् नराधिप । अपत्य-हेतोः अपि च करोमि एष विनिश्चयम् ॥८७॥
rājyam tāvat pūrvam eva mayā tyaktam narādhipa . apatya-hetoḥ api ca karomi eṣa viniścayam ..87..
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥८८॥
अद्य प्रभृति मे दाश ब्रह्मचर्यम् भविष्यति । अपुत्रस्य अपि मे लोकाः भविष्यन्ति अक्षयाः दिवि ॥८८॥
adya prabhṛti me dāśa brahmacaryam bhaviṣyati . aputrasya api me lokāḥ bhaviṣyanti akṣayāḥ divi ..88..
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः । ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥८९॥
तस्य तत् वचनम् श्रुत्वा सम्प्रहृष्ट-तनूरुहः । ददानि इति एव तम् दाशः धर्म-आत्मा प्रत्यभाषत ॥८९॥
tasya tat vacanam śrutvā samprahṛṣṭa-tanūruhaḥ . dadāni iti eva tam dāśaḥ dharma-ātmā pratyabhāṣata ..89..
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा । अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥९०॥
ततस् अन्तरिक्षे अप्सरसः देवाः स ऋषि-गणाः तथा । अभ्यवर्षन्त कुसुमैः भीष्मः अयम् इति च अब्रुवन् ॥९०॥
tatas antarikṣe apsarasaḥ devāḥ sa ṛṣi-gaṇāḥ tathā . abhyavarṣanta kusumaiḥ bhīṣmaḥ ayam iti ca abruvan ..90..
ततः स पितुरर्थाय तामुवाच यशस्विनीम् । अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥९१॥
ततस् स पितुः अर्थाय ताम् उवाच यशस्विनीम् । अधिरोह रथम् मातर् गच्छावः स्व-गृहान् इति ॥९१॥
tatas sa pituḥ arthāya tām uvāca yaśasvinīm . adhiroha ratham mātar gacchāvaḥ sva-gṛhān iti ..91..
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् । आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥९२॥
एवम् उक्त्वा तु भीष्मः ताम् रथम् आरोप्य भामिनीम् । आगम्य हास्तिनपुरम् शन्तनोः संन्यवेदयत् ॥९२॥
evam uktvā tu bhīṣmaḥ tām ratham āropya bhāminīm . āgamya hāstinapuram śantanoḥ saṃnyavedayat ..92..
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः । समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥९३॥
तस्य तत् दुष्करम् कर्म प्रशशंसुः नराधिपाः । समेताः च पृथक् च एव भीष्मः अयम् इति च ब्रुवन् ॥९३॥
tasya tat duṣkaram karma praśaśaṃsuḥ narādhipāḥ . sametāḥ ca pṛthak ca eva bhīṣmaḥ ayam iti ca bruvan ..93..
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः । स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥९४॥1.100.102
तत् दृष्ट्वा दुष्करम् कर्म कृतम् भीष्मेण शन्तनुः । स्वच्छन्द-मरणम् तस्मै ददौ तुष्टः पिता स्वयम् ॥९४॥१।१००।१०२
tat dṛṣṭvā duṣkaram karma kṛtam bhīṣmeṇa śantanuḥ . svacchanda-maraṇam tasmai dadau tuṣṭaḥ pitā svayam ..94..1.100.102

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In