| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः । तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥१॥
ततस् विवाहे निर्वृत्ते स राजा शन्तनुः नृपः । ताम् कन्याम् रूप-सम्पन्नाम् स्व-गृहे संन्यवेशयत् ॥१॥
tatas vivāhe nirvṛtte sa rājā śantanuḥ nṛpaḥ . tām kanyām rūpa-sampannām sva-gṛhe saṃnyaveśayat ..1..
ततः शान्तनवो धीमान्सत्यवत्यामजायत । वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥२॥
ततस् शांतनवः धीमान् सत्यवत्याम् अजायत । वीरः चित्राङ्गदः नाम वीर्येण मनु-जानति ॥२॥
tatas śāṃtanavaḥ dhīmān satyavatyām ajāyata . vīraḥ citrāṅgadaḥ nāma vīryeṇa manu-jānati ..2..
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः । विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥३॥
अथ अपरम् महा-इष्वासम् सत्यवत्याम् पुनर् प्रभुः । विचित्रवीर्यम् राजानम् जनयामास वीर्यवान् ॥३॥
atha aparam mahā-iṣvāsam satyavatyām punar prabhuḥ . vicitravīryam rājānam janayāmāsa vīryavān ..3..
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ । स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥४॥
अप्राप्तवति तस्मिन् च यौवनम् भरत-ऋषभ । स राजा शन्तनुः धीमान् कालधर्मम् उपेयिवान् ॥४॥
aprāptavati tasmin ca yauvanam bharata-ṛṣabha . sa rājā śantanuḥ dhīmān kāladharmam upeyivān ..4..
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् । स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥५॥
स्वर्गते शन्तनौ भीष्मः चित्राङ्गदम् अरिंदमम् । स्थापयामास वै राज्ये सत्यवत्याः मते स्थितः ॥५॥
svargate śantanau bhīṣmaḥ citrāṅgadam ariṃdamam . sthāpayāmāsa vai rājye satyavatyāḥ mate sthitaḥ ..5..
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् । मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥६॥
स तु चित्राङ्गदः शौर्यात् सर्वान् चिक्षेप पार्थिवान् । मनुष्यम् न हि मेने स कञ्चिद् सदृशम् आत्मनः ॥६॥
sa tu citrāṅgadaḥ śauryāt sarvān cikṣepa pārthivān . manuṣyam na hi mene sa kañcid sadṛśam ātmanaḥ ..6..
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा । गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥७॥ ( तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥७॥ )
तम् क्षिपन्तम् सुरान् च एव मनुष्यान् असुरान् तथा । गन्धर्व-राजः बलवान् तुल्य-नामा अभ्ययात् तदा ॥७॥ ( तेन अस्य सु महत् युद्धम् कुरुक्षेत्रे बभूव ह ॥७॥ )
tam kṣipantam surān ca eva manuṣyān asurān tathā . gandharva-rājaḥ balavān tulya-nāmā abhyayāt tadā ..7.. ( tena asya su mahat yuddham kurukṣetre babhūva ha ..7.. )
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः । नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥८॥
तयोः बलवतोः तत्र गन्धर्व-कुरु-मुख्ययोः । नद्याः तीरे हिरण्वत्याः समाः तिस्रः अभवत् रणः ॥८॥
tayoḥ balavatoḥ tatra gandharva-kuru-mukhyayoḥ . nadyāḥ tīre hiraṇvatyāḥ samāḥ tisraḥ abhavat raṇaḥ ..8..
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले । मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥९॥
तस्मिन् विमर्दे तुमुले शस्त्र-वृष्टि-समाकुले । माया-अधिकः अवधीत् वीरम् गन्धर्वः कुरु-सत्तमम् ॥९॥
tasmin vimarde tumule śastra-vṛṣṭi-samākule . māyā-adhikaḥ avadhīt vīram gandharvaḥ kuru-sattamam ..9..
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् । अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥१०॥
चित्राङ्गदम् कुरु-श्रेष्ठम् विचित्र-शर-कार्मुकम् । अन्ताय कृत्वा गन्धर्वः दिवम् आचक्रमे ततस् ॥१०॥
citrāṅgadam kuru-śreṣṭham vicitra-śara-kārmukam . antāya kṛtvā gandharvaḥ divam ācakrame tatas ..10..
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि । भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥११॥
तस्मिन् नृपति-शार्दूले निहते भूरि-वर्चसि । भीष्मः शान्तनवः राजन् प्रेतकार्याणि अकारयत् ॥११॥
tasmin nṛpati-śārdūle nihate bhūri-varcasi . bhīṣmaḥ śāntanavaḥ rājan pretakāryāṇi akārayat ..11..
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् । कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥१२॥
विचित्रवीर्यम् च तदा बालम् अप्राप्त-यौवनम् । कुरु-राज्ये महा-बाहुः अभ्यषिञ्चत् अनन्तरम् ॥१२॥
vicitravīryam ca tadā bālam aprāpta-yauvanam . kuru-rājye mahā-bāhuḥ abhyaṣiñcat anantaram ..12..
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः । अन्वशासन्महाराज पितृपैतामहं पदम् ॥१३॥
विचित्रवीर्यः तु तदा भीष्मस्य वचने स्थितः । अन्वशासन् महा-राज पितृपैतामहम् पदम् ॥१३॥
vicitravīryaḥ tu tadā bhīṣmasya vacane sthitaḥ . anvaśāsan mahā-rāja pitṛpaitāmaham padam ..13..
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः । पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥१४॥ 1.101.14
स धर्म-शास्त्र-कुशलः भीष्मम् शान्तनवम् नृपः । पूजयामास धर्मेण स च एनम् प्रत्यपालयत् ॥१४॥ १।१०१।१४
sa dharma-śāstra-kuśalaḥ bhīṣmam śāntanavam nṛpaḥ . pūjayāmāsa dharmeṇa sa ca enam pratyapālayat ..14.. 1.101.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In