| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥१॥
हते चित्राङ्गदे भीष्मः बाले भ्रातरि च अनघ । पालयामास तत् राज्यम् सत्यवत्याः मते स्थितः ॥१॥
hate citrāṅgade bhīṣmaḥ bāle bhrātari ca anagha . pālayāmāsa tat rājyam satyavatyāḥ mate sthitaḥ ..1..
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥२॥
सम्प्राप्त-यौवनम् पश्यन् भ्रातरम् धीमताम् वरम् । भीष्मः विचित्रवीर्यस्य विवाहाय अकरोत् मतिम् ॥२॥
samprāpta-yauvanam paśyan bhrātaram dhīmatām varam . bhīṣmaḥ vicitravīryasya vivāhāya akarot matim ..2..
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥३॥
अथ काशि-पतेः भीष्मः कन्याः तिस्रः अप्सरः-समाः । शुश्राव सहिताः राजन् वृण्वतीः वै स्वयम् वरम् ॥३॥
atha kāśi-pateḥ bhīṣmaḥ kanyāḥ tisraḥ apsaraḥ-samāḥ . śuśrāva sahitāḥ rājan vṛṇvatīḥ vai svayam varam ..3..
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥४॥
ततस् स रथिनाम् श्रेष्ठः रथेन एकेन वर्म-भृत् । जगाम अनुमते मातुः पुरीम् वाराणसीम् प्रति ॥४॥
tatas sa rathinām śreṣṭhaḥ rathena ekena varma-bhṛt . jagāma anumate mātuḥ purīm vārāṇasīm prati ..4..
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥५॥
तत्र राज्ञः समुदितान् सर्वतस् समुपागतान् । ददर्श कन्याः ताः च एव भीष्मः शन्तनु-नन्दनः ॥५॥
tatra rājñaḥ samuditān sarvatas samupāgatān . dadarśa kanyāḥ tāḥ ca eva bhīṣmaḥ śantanu-nandanaḥ ..5..
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥६॥
कीर्त्यमानेषु राज्ञाम् तु नामसु अथ सहस्रशस् । भीष्मः स्वयम् तदा राजन् वरयामास ताः प्रभुः ॥६॥
kīrtyamāneṣu rājñām tu nāmasu atha sahasraśas . bhīṣmaḥ svayam tadā rājan varayāmāsa tāḥ prabhuḥ ..6..
उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥७॥
उवाच च महीपालान् राजन् जलद-निःस्वनः । रथम् आरोप्य ताः कन्याः भीष्मः प्रहरताम् वरः ॥७॥
uvāca ca mahīpālān rājan jalada-niḥsvanaḥ . ratham āropya tāḥ kanyāḥ bhīṣmaḥ praharatām varaḥ ..7..
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥८॥
आहूय दानम् कन्यानाम् गुणवद्भ्यः स्मृतम् बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनानि अपि ॥८॥
āhūya dānam kanyānām guṇavadbhyaḥ smṛtam budhaiḥ . alaṅkṛtya yathāśakti pradāya ca dhanāni api ..8..
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥९॥
प्रयच्छन्ति अपरे कन्याम् मिथुनेन गवाम् अपि । वित्तेन कथितेन अन्ये बलेन अन्ये अनुमान्य च ॥९॥
prayacchanti apare kanyām mithunena gavām api . vittena kathitena anye balena anye anumānya ca ..9..
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥१०॥
प्रमत्ताम् उपयान्ति अन्ये स्वयम् अन्ये च विन्दते । अष्टमम् तम् अथो वित्त विवाहम् कविभिः स्मृतम् ॥१०॥
pramattām upayānti anye svayam anye ca vindate . aṣṭamam tam atho vitta vivāham kavibhiḥ smṛtam ..10..
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥११॥
स्वयंवरम् तु राजन्याः प्रशंसन्ति उपयान्ति च । प्रमथ्य तु हृताम् आहुः ज्यायसीम् धर्म-वादिनः ॥११॥
svayaṃvaram tu rājanyāḥ praśaṃsanti upayānti ca . pramathya tu hṛtām āhuḥ jyāyasīm dharma-vādinaḥ ..11..
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा ॥१२॥
ताः इमाः पृथिवी-पालाः जिहीर्षामि बलात् इतस् । ते यतध्वम् परम् शक्त्या विजयाय इतराय वा ॥१२॥
tāḥ imāḥ pṛthivī-pālāḥ jihīrṣāmi balāt itas . te yatadhvam param śaktyā vijayāya itarāya vā ..12..
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ॥१३॥ ( आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥१३॥ )
एवम् उक्त्वा महीपालान् काशि-राजम् च वीर्यवान् । सर्वाः कन्याः स कौरव्यः रथम् आरोपयत् स्वकम् ॥१३॥ ( आमन्त्र्य च स तान् प्रायात् शीघ्रम् कन्याः प्रगृह्य ताः ॥१३॥ )
evam uktvā mahīpālān kāśi-rājam ca vīryavān . sarvāḥ kanyāḥ sa kauravyaḥ ratham āropayat svakam ..13.. ( āmantrya ca sa tān prāyāt śīghram kanyāḥ pragṛhya tāḥ ..13.. )
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥१४॥
ततस् ते पार्थिवाः सर्वे समुत्पेतुः अमर्षिताः । संस्पृशन्तः स्वकान् बाहून् दशन्तः दशनच्छदान् ॥१४॥
tatas te pārthivāḥ sarve samutpetuḥ amarṣitāḥ . saṃspṛśantaḥ svakān bāhūn daśantaḥ daśanacchadān ..14..
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥१५॥
तेषाम् आभरणानि आशु त्वरितानाम् विमुञ्चताम् । आमुञ्चताम् च वर्माणि सम्भ्रमः सु महान् अभूत् ॥१५॥
teṣām ābharaṇāni āśu tvaritānām vimuñcatām . āmuñcatām ca varmāṇi sambhramaḥ su mahān abhūt ..15..
ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥१६॥
ताराणाम् इव सम्पातः बभूव जनमेजय । भूषणानाम् च शुभ्राणाम् कवचानाम् च सर्वशस् ॥१६॥
tārāṇām iva sampātaḥ babhūva janamejaya . bhūṣaṇānām ca śubhrāṇām kavacānām ca sarvaśas ..16..
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥१७॥
स वर्मभिः भूषणैः ते द्राक् भ्राजद्भिः इतस् ततस् । स क्रोध-अमर्ष-जिह्म-भ्रू-स कषाय-दृशः तथा ॥१७॥
sa varmabhiḥ bhūṣaṇaiḥ te drāk bhrājadbhiḥ itas tatas . sa krodha-amarṣa-jihma-bhrū-sa kaṣāya-dṛśaḥ tathā ..17..
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥१८॥ ( प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥१८॥ )
सूत-उपकॢप्तान् रुचिरान् सत्-अश्व-उद्यत-धूर्गतान् । रथान् आस्थाय ते वीराः सर्व-प्रहरण-अन्विताः ॥१८॥ ( प्रयान्तम् एकम् कौरव्यम् अनुसस्रुः उदायुधाः ॥१८॥ )
sūta-upakḷptān rucirān sat-aśva-udyata-dhūrgatān . rathān āsthāya te vīrāḥ sarva-praharaṇa-anvitāḥ ..18.. ( prayāntam ekam kauravyam anusasruḥ udāyudhāḥ ..18.. )
ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥१९॥
ततस् समभवत् युद्धम् तेषाम् तस्य च भारत । एकस्य च बहूनाम् च तुमुलम् लोम-हर्षणम् ॥१९॥
tatas samabhavat yuddham teṣām tasya ca bhārata . ekasya ca bahūnām ca tumulam loma-harṣaṇam ..19..
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥२०॥
ते तु इषून् दश-साहस्रान् तस्मै युगपद् आक्षिपन् । अप्राप्तान् च एव तान् आशु भीष्मः सर्वान् तत् आच्छिनत् ॥२०॥
te tu iṣūn daśa-sāhasrān tasmai yugapad ākṣipan . aprāptān ca eva tān āśu bhīṣmaḥ sarvān tat ācchinat ..20..
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥२१॥
ततस् ते पार्थिवाः सर्वे सर्वतस् परिवारयन् । ववर्षुः शर-वर्षेण वर्षेण इव अद्रिम् अम्बुदाः ॥२१॥
tatas te pārthivāḥ sarve sarvatas parivārayan . vavarṣuḥ śara-varṣeṇa varṣeṇa iva adrim ambudāḥ ..21..
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥२२॥
स तत् बाण-मयम् वर्षम् शरैः आवार्य सर्वतस् । ततस् सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिः त्रिभिः ॥२२॥
sa tat bāṇa-mayam varṣam śaraiḥ āvārya sarvatas . tatas sarvān mahīpālān pratyavidhyat tribhiḥ tribhiḥ ..22..
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥२३॥
तस्य अति पुरुषान् अन्यान् लाघवम् रथ-चारिणः । रक्षणम् च आत्मनः सङ्ख्ये शत्रवः अपि अभ्यपूजयन् ॥२३॥
tasya ati puruṣān anyān lāghavam ratha-cāriṇaḥ . rakṣaṇam ca ātmanaḥ saṅkhye śatravaḥ api abhyapūjayan ..23..
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥२४॥
तान् विनिर्जित्य तु रणे सर्व-शस्त्र-विशारदः । कन्याभिः सहितः प्रायात् भारतः भारतान् प्रति ॥२४॥
tān vinirjitya tu raṇe sarva-śastra-viśāradaḥ . kanyābhiḥ sahitaḥ prāyāt bhārataḥ bhāratān prati ..24..
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥२५॥
ततस् तम् पृष्ठतस् राजन् शाल्व-राजः महा-रथः । अभ्याहनत् अमेय-आत्मा भीष्मम् शान्तनवम् रणे ॥२५॥
tatas tam pṛṣṭhatas rājan śālva-rājaḥ mahā-rathaḥ . abhyāhanat ameya-ātmā bhīṣmam śāntanavam raṇe ..25..
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥२६॥
वारणम् जघने निघ्नन् दन्ताभ्याम् अपरः यथा । वाशिताम् अनुसम्प्राप्तः यूथपः बलिनाम् वरः ॥२६॥
vāraṇam jaghane nighnan dantābhyām aparaḥ yathā . vāśitām anusamprāptaḥ yūthapaḥ balinām varaḥ ..26..
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥२७॥
स्त्री-काम तिष्ठ तिष्ठ इति भीष्मम् आह स पार्थिवः । शाल्व-राजः महा-बाहुः अमर्षेण अभिचोदितः ॥२७॥
strī-kāma tiṣṭha tiṣṭha iti bhīṣmam āha sa pārthivaḥ . śālva-rājaḥ mahā-bāhuḥ amarṣeṇa abhicoditaḥ ..27..
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥२८॥
ततस् स पुरुष-व्याघ्रः भीष्मः पर-बल-अर्दनः । तद्-वाक्य-आकुलितः क्रोधात् विधूमः अग्निः इव ज्वलन् ॥२८॥
tatas sa puruṣa-vyāghraḥ bhīṣmaḥ para-bala-ardanaḥ . tad-vākya-ākulitaḥ krodhāt vidhūmaḥ agniḥ iva jvalan ..28..
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥२९॥
क्षत्र-धर्मम् समास्थाय व्यपेत-भय-सम्भ्रमः । निवर्तयामास रथम् शाल्वम् प्रति महा-रथः ॥२९॥
kṣatra-dharmam samāsthāya vyapeta-bhaya-sambhramaḥ . nivartayāmāsa ratham śālvam prati mahā-rathaḥ ..29..
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥३०॥
निवर्तमानम् तम् दृष्ट्वा राजानः सर्वे एव ते । प्रेक्षकाः समपद्यन्त भीष्म-शाल्व-समागमे ॥३०॥
nivartamānam tam dṛṣṭvā rājānaḥ sarve eva te . prekṣakāḥ samapadyanta bhīṣma-śālva-samāgame ..30..
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥३१॥
तौ वृषौ इव नर्दन्तौ बलिनौ वाशिता-अन्तरे । अन्योन्यम् अभिवर्तेताम् बल-विक्रम-शालिनौ ॥३१॥
tau vṛṣau iva nardantau balinau vāśitā-antare . anyonyam abhivartetām bala-vikrama-śālinau ..31..
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥३२॥
ततस् भीष्मम् शान्तनवम् शरैः शत-सहस्रशस् । शाल्व-राजः नर-श्रेष्ठः समवाकिरत् आशुगैः ॥३२॥
tatas bhīṣmam śāntanavam śaraiḥ śata-sahasraśas . śālva-rājaḥ nara-śreṣṭhaḥ samavākirat āśugaiḥ ..32..
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥३३॥
पूर्वम् अभ्यर्दितम् दृष्ट्वा भीष्मम् शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साधु इति च अब्रुवन् ॥३३॥
pūrvam abhyarditam dṛṣṭvā bhīṣmam śālvena te nṛpāḥ . vismitāḥ samapadyanta sādhu sādhu iti ca abruvan ..33..
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥३४॥
लाघवम् तस्य ते दृष्ट्वा संयुगे सर्व-पार्थिवाः । अपूजयन्त संहृष्टाः वाग्भिः शाल्वम् नराधिपाः ॥३४॥
lāghavam tasya te dṛṣṭvā saṃyuge sarva-pārthivāḥ . apūjayanta saṃhṛṣṭāḥ vāgbhiḥ śālvam narādhipāḥ ..34..
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥३५॥
क्षत्रियाणाम् तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शांतनवः भीष्मः तिष्ठ तिष्ठ इति अभाषत ॥३५॥
kṣatriyāṇām tadā vācaḥ śrutvā parapurañjayaḥ . kruddhaḥ śāṃtanavaḥ bhīṣmaḥ tiṣṭha tiṣṭha iti abhāṣata ..35..
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥३६॥
सारथिम् च अब्रवीत् क्रुद्धः याहि यत्र एष पार्थिवः । यावत् एनम् निहन्मि अद्य भुजङ्गम् इव पक्षिराज् ॥३६॥
sārathim ca abravīt kruddhaḥ yāhi yatra eṣa pārthivaḥ . yāvat enam nihanmi adya bhujaṅgam iva pakṣirāj ..36..
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥३७॥
ततस् अस्त्रम् वारुणम् सम्यक् योजयामास कौरवः । तेन अश्वान् चतुरः अमृद्नात् शाल्व-राज्ञः नराधिप ॥३७॥
tatas astram vāruṇam samyak yojayāmāsa kauravaḥ . tena aśvān caturaḥ amṛdnāt śālva-rājñaḥ narādhipa ..37..
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ॥३८॥ (अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥३८॥)
अस्त्रैः अस्त्राणि संवार्य शाल्व-राज्ञः स कौरवः । भीष्मः नृपति-शार्दूल न्यवधीत् तस्य सारथिम् ॥३८॥ (अस्त्रेण च अपि अथ एकेन न्यवधीत् तुरग-उत्तमान् ॥३८॥)
astraiḥ astrāṇi saṃvārya śālva-rājñaḥ sa kauravaḥ . bhīṣmaḥ nṛpati-śārdūla nyavadhīt tasya sārathim ..38.. (astreṇa ca api atha ekena nyavadhīt turaga-uttamān ..38..)
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ॥३९॥ ( ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥३९॥ )
कन्या-हेतोः नर-श्रेष्ठ भीष्मः शांतनवः तदा । जित्वा विसर्जयामास जीवन्तम् नृप-सत्तमम् ॥३९॥ ( ततस् शाल्वः स्व-नगरम् प्रययौ भरत-ऋषभ ॥३९॥ )
kanyā-hetoḥ nara-śreṣṭha bhīṣmaḥ śāṃtanavaḥ tadā . jitvā visarjayāmāsa jīvantam nṛpa-sattamam ..39.. ( tatas śālvaḥ sva-nagaram prayayau bharata-ṛṣabha ..39.. )
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥४०॥
राजानः ये च तत्र आसन् स्वयंवर-दिदृक्षवः । स्वानि एव ते अपि राष्ट्राणि जग्मुः परपुरञ्जय ॥४०॥
rājānaḥ ye ca tatra āsan svayaṃvara-didṛkṣavaḥ . svāni eva te api rāṣṭrāṇi jagmuḥ parapurañjaya ..40..
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥४१॥
एवम् विजित्य ताः कन्याः भीष्मः प्रहरताम् वरः । प्रययौ हास्तिनपुरम् यत्र राजा स कौरवः ॥४१॥
evam vijitya tāḥ kanyāḥ bhīṣmaḥ praharatām varaḥ . prayayau hāstinapuram yatra rājā sa kauravaḥ ..41..
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥४२॥
सः अचिरेण एव कालेन अत्यक्रामत् नराधिप । वनानि सरितः च एव शैलान् च विविध-द्रुमान् ॥४२॥
saḥ acireṇa eva kālena atyakrāmat narādhipa . vanāni saritaḥ ca eva śailān ca vividha-drumān ..42..
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥४३॥
अक्षतः क्षपयित्वा अरीन् सङ्ख्ये असङ्ख्येय-विक्रमः । आनयामास काश्यस्य सुताः सागरगा-सुतः ॥४३॥
akṣataḥ kṣapayitvā arīn saṅkhye asaṅkhyeya-vikramaḥ . ānayāmāsa kāśyasya sutāḥ sāgaragā-sutaḥ ..43..
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥४४॥
स्नुषाः इव स धर्म-आत्मा भगिन्यः इव च अनुजाः । यथा दुहितरः च एव प्रतिगृह्य ययौ कुरून् ॥४४॥
snuṣāḥ iva sa dharma-ātmā bhaginyaḥ iva ca anujāḥ . yathā duhitaraḥ ca eva pratigṛhya yayau kurūn ..44..
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥४५॥
ताः सर्वाः गुण-सम्पन्नाः भ्राता भ्रात्रे यवीयसे । भीष्मः विचित्रवीर्याय प्रददौ विक्रम-आहृताः ॥४५॥
tāḥ sarvāḥ guṇa-sampannāḥ bhrātā bhrātre yavīyase . bhīṣmaḥ vicitravīryāya pradadau vikrama-āhṛtāḥ ..45..
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥४६॥ ( सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥४६॥ )
सताम् धर्मेण धर्म-ज्ञः कृत्वा कर्म अतिमानुषम् । भ्रातुः विचित्रवीर्यस्य विवाहाय उपचक्रमे ॥४६॥ ( सत्यवत्या सह मिथस् कृत्वा निश्चयम् आत्मवान् ॥४६॥ )
satām dharmeṇa dharma-jñaḥ kṛtvā karma atimānuṣam . bhrātuḥ vicitravīryasya vivāhāya upacakrame ..46.. ( satyavatyā saha mithas kṛtvā niścayam ātmavān ..46.. )
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥४७॥
विवाहम् कारयिष्यन्तम् भीष्मम् काशि-पतेः सुता । ज्येष्ठा तासाम् इदम् वाक्यम् अब्रवीत् ह सती तदा ॥४७॥
vivāham kārayiṣyantam bhīṣmam kāśi-pateḥ sutā . jyeṣṭhā tāsām idam vākyam abravīt ha satī tadā ..47..
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥४८॥
मया सौभ-पतिः पूर्वम् मनसा अभिवृतः पतिः । तेन च अस्मि वृता पूर्वम् एष कामः च मे पितुः ॥४८॥
mayā saubha-patiḥ pūrvam manasā abhivṛtaḥ patiḥ . tena ca asmi vṛtā pūrvam eṣa kāmaḥ ca me pituḥ ..48..
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥४९॥
मया वरयितव्यः अभूत् शाल्वः तस्मिन् स्वयंवरे । एतत् विज्ञाय धर्म-ज्ञ ततस् त्वम् धर्मम् आचर ॥४९॥
mayā varayitavyaḥ abhūt śālvaḥ tasmin svayaṃvare . etat vijñāya dharma-jña tatas tvam dharmam ācara ..49..
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥५०॥
एवम् उक्तः तया भीष्मः कन्यया विप्र-संसदि । चिन्ताम् अभ्यगमत् वीरः युक्ताम् तस्य एव कर्मणः ॥५०॥
evam uktaḥ tayā bhīṣmaḥ kanyayā vipra-saṃsadi . cintām abhyagamat vīraḥ yuktām tasya eva karmaṇaḥ ..50..
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥५१॥
स विनिश्चित्य धर्म-ज्ञः ब्राह्मणैः वेदपारगैः । अनुजज्ञे तदा ज्येष्टाम् अम्बाम् काशि-पतेः सुताम् ॥५१॥
sa viniścitya dharma-jñaḥ brāhmaṇaiḥ vedapāragaiḥ . anujajñe tadā jyeṣṭām ambām kāśi-pateḥ sutām ..51..
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥५२॥
अम्बिका-अम्बालिके भार्ये प्रादात् भ्रात्रे यवीयसे । भीष्मः विचित्रवीर्याय विधि-दृष्टेन कर्मणा ॥५२॥
ambikā-ambālike bhārye prādāt bhrātre yavīyase . bhīṣmaḥ vicitravīryāya vidhi-dṛṣṭena karmaṇā ..52..
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥५३॥
तयोः पाणिम् गृहीत्वा स रूप-यौवन-दर्पितः । विचित्रवीर्यः धर्म-आत्मा काम-आत्मा समपद्यत ॥५३॥
tayoḥ pāṇim gṛhītvā sa rūpa-yauvana-darpitaḥ . vicitravīryaḥ dharma-ātmā kāma-ātmā samapadyata ..53..
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥५४॥
ते च अपि बृहती श्यामे नील-कुञ्चित-मूर्धजे । रक्त-तुङ्ग-नख-उपेते पीन-श्रोणि-पयोधरे ॥५४॥
te ca api bṛhatī śyāme nīla-kuñcita-mūrdhaje . rakta-tuṅga-nakha-upete pīna-śroṇi-payodhare ..54..
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥५५॥
आत्मनः प्रतिरूपः असौ लब्धः पतिः इति स्थिते । विचित्रवीर्यम् कल्याणम् पूजयामासतुः तु ते ॥५५॥
ātmanaḥ pratirūpaḥ asau labdhaḥ patiḥ iti sthite . vicitravīryam kalyāṇam pūjayāmāsatuḥ tu te ..55..
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥५६॥
स च अश्वि-रूप-सदृशः देव-सत्त्व-पराक्रमः । सर्वासाम् एव नारीणाम् चित्त-प्रमथनः अभवत् ॥५६॥
sa ca aśvi-rūpa-sadṛśaḥ deva-sattva-parākramaḥ . sarvāsām eva nārīṇām citta-pramathanaḥ abhavat ..56..
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥५७॥
ताभ्याम् सह समाः सप्त विहरन् पृथिवीपतिः । विचित्रवीर्यः तरुणः यक्ष्माणम् समपद्यत ॥५७॥
tābhyām saha samāḥ sapta viharan pṛthivīpatiḥ . vicitravīryaḥ taruṇaḥ yakṣmāṇam samapadyata ..57..
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥५८॥
सुहृदाम् यतमानानाम् आप्तैः सह चिकित्सकैः । जगाम अस्तम् इव आदित्यः कौरव्यः यम-सादनम् ॥५८॥
suhṛdām yatamānānām āptaiḥ saha cikitsakaiḥ . jagāma astam iva ādityaḥ kauravyaḥ yama-sādanam ..58..
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ॥५९॥ ( ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥५९॥ 1.102.73 )
प्रेतकार्याणि सर्वाणि तस्य सम्यक् अकारयत् । राज्ञः विचित्रवीर्यस्य सत्यवत्याः मते स्थितः ॥५९॥ ( ऋत्विग्भिः सहितः भीष्मः सर्वैः च कुरु-पुङ्गवैः ॥५९॥ १।१०२।७३ )
pretakāryāṇi sarvāṇi tasya samyak akārayat . rājñaḥ vicitravīryasya satyavatyāḥ mate sthitaḥ ..59.. ( ṛtvigbhiḥ sahitaḥ bhīṣmaḥ sarvaiḥ ca kuru-puṅgavaiḥ ..59.. 1.102.73 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In