| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥१॥
ततस् सत्यवती दीना कृपणा पुत्र-गृद्धिनी । पुत्रस्य कृत्वा कार्याणि स्नुषाभ्याम् सह भारत ॥१॥
tatas satyavatī dīnā kṛpaṇā putra-gṛddhinī . putrasya kṛtvā kāryāṇi snuṣābhyām saha bhārata ..1..
धर्मं च पितृवंशं च मातृवंशं च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥२॥
धर्मम् च पितृ-वंशम् च मातृ-वंशम् च मानिनी । प्रसमीक्ष्य महाभागा गाङ्गेयम् वाक्यम् अब्रवीत् ॥२॥
dharmam ca pitṛ-vaṃśam ca mātṛ-vaṃśam ca māninī . prasamīkṣya mahābhāgā gāṅgeyam vākyam abravīt ..2..
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ॥३॥
शन्तनोः धर्म-नित्यस्य कौरव्यस्य यशस्विनः । त्वयि पिण्डः च कीर्तिः च सन्तानम् च प्रतिष्ठितम् ॥३॥
śantanoḥ dharma-nityasya kauravyasya yaśasvinaḥ . tvayi piṇḍaḥ ca kīrtiḥ ca santānam ca pratiṣṭhitam ..3..
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् । यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥४॥
यथा कर्म शुभम् कृत्वा स्वर्ग-उपगमनम् ध्रुवम् । यथा च आयुः ध्रुवम् सत्ये त्वयि धर्मः तथा ध्रुवः ॥४॥
yathā karma śubham kṛtvā svarga-upagamanam dhruvam . yathā ca āyuḥ dhruvam satye tvayi dharmaḥ tathā dhruvaḥ ..4..
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च । विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥५॥
वेत्थ धर्मान् च धर्म-ज्ञ समासेन इतरेण च । विविधाः त्वम् श्रुतीः वेत्थ वेत्थ वेदान् च सर्वशस् ॥५॥
vettha dharmān ca dharma-jña samāsena itareṇa ca . vividhāḥ tvam śrutīḥ vettha vettha vedān ca sarvaśas ..5..
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये । प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥६॥
व्यवस्थानम् च ते धर्मे कुल-आचारम् च लक्षये । प्रतिपत्तिम् च कृच्छ्रेषु शुक्र-आङ्गिरसयोः इव ॥६॥
vyavasthānam ca te dharme kula-ācāram ca lakṣaye . pratipattim ca kṛcchreṣu śukra-āṅgirasayoḥ iva ..6..
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर । कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥७॥
तस्मात् सु भृशम् आश्वस्य त्वयि धर्म-भृताम् वर । कार्ये त्वाम् विनियोक्ष्यामि तत् श्रुत्वा कर्तुम् अर्हसि ॥७॥
tasmāt su bhṛśam āśvasya tvayi dharma-bhṛtām vara . kārye tvām viniyokṣyāmi tat śrutvā kartum arhasi ..7..
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते । बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥८॥
मम पुत्रः तव भ्राता वीर्यवान् सु प्रियः च ते । बालः एव गतः स्वर्गम् अपुत्रः पुरुष-ऋषभ ॥८॥
mama putraḥ tava bhrātā vīryavān su priyaḥ ca te . bālaḥ eva gataḥ svargam aputraḥ puruṣa-ṛṣabha ..8..
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे । रूपयौवनसम्पन्ने पुत्रकामे च भारत ॥९॥
इमे महिष्यौ भ्रातुः ते काशि-राज-सुते शुभे । रूप-यौवन-सम्पन्ने पुत्र-कामे च भारत ॥९॥
ime mahiṣyau bhrātuḥ te kāśi-rāja-sute śubhe . rūpa-yauvana-sampanne putra-kāme ca bhārata ..9..
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः । मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ॥१०॥
तयोः उत्पादय अपत्यम् सन्तानाय कुलस्य नः । मद्-नियोगात् महाभाग धर्मम् कर्तुम् इह अर्हसि ॥१०॥
tayoḥ utpādaya apatyam santānāya kulasya naḥ . mad-niyogāt mahābhāga dharmam kartum iha arhasi ..10..
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च । दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥११॥
राज्ये च एव अभिषिच्यस्व भारतान् अनुशाधि च । दारान् च कुरु धर्मेण मा निमज्जीः पितामहान् ॥११॥
rājye ca eva abhiṣicyasva bhāratān anuśādhi ca . dārān ca kuru dharmeṇa mā nimajjīḥ pitāmahān ..11..
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः । प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥१२॥
तथा उच्यमानः मात्रा च सुहृद्भिः च परन्तपः । प्रत्युवाच स धर्म-आत्मा धर्म्यम् एव उत्तरम् वचः ॥१२॥
tathā ucyamānaḥ mātrā ca suhṛdbhiḥ ca parantapaḥ . pratyuvāca sa dharma-ātmā dharmyam eva uttaram vacaḥ ..12..
असंशयं परो धर्मस्त्वया मातरुदाहृतः । त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥१३॥
असंशयम् परः धर्मः त्वया मातर् उदाहृतः । त्वम् अपत्यम् प्रति च मे प्रतिज्ञाम् वेत्थ वै पराम् ॥१३॥
asaṃśayam paraḥ dharmaḥ tvayā mātar udāhṛtaḥ . tvam apatyam prati ca me pratijñām vettha vai parām ..13..
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे । स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥१४॥
जानासि च यथावृत्तम् शुल्क-हेतोः त्वद्-अन्तरे । स सत्यवति सत्यम् ते प्रतिजानामि अहम् पुनर् ॥१४॥
jānāsi ca yathāvṛttam śulka-hetoḥ tvad-antare . sa satyavati satyam te pratijānāmi aham punar ..14..
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः । यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ॥१५॥
परित्यजेयम् त्रैलोक्यम् राज्यम् देवेषु वा पुनर् । यत् वा अपि अधिकम् एताभ्याम् न तु सत्यम् कथञ्चन ॥१५॥
parityajeyam trailokyam rājyam deveṣu vā punar . yat vā api adhikam etābhyām na tu satyam kathañcana ..15..
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः । ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥१६॥
त्यजेत् च पृथिवी गन्धम् आपः च रसम् आत्मनः । ज्योतिः तथा त्यजेत् रूपम् वायुः स्पर्श-गुणम् त्यजेत् ॥१६॥
tyajet ca pṛthivī gandham āpaḥ ca rasam ātmanaḥ . jyotiḥ tathā tyajet rūpam vāyuḥ sparśa-guṇam tyajet ..16..
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् । त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥१७॥
प्रभाम् समुत्सृजेत् अर्कः धूमकेतुः तथा उष्णताम् । त्यजेत् शब्दम् तथा आकाशः सोमः शीत-अंशु-ताम् त्यजेत् ॥१७॥
prabhām samutsṛjet arkaḥ dhūmaketuḥ tathā uṣṇatām . tyajet śabdam tathā ākāśaḥ somaḥ śīta-aṃśu-tām tyajet ..17..
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् । न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ॥१८॥
विक्रमम् वृत्रहा जह्यात् धर्मम् जह्यात् च धर्मराज् । न तु अहम् सत्यम् उत्स्रष्टुम् व्यवसेयम् कथञ्चन ॥१८॥
vikramam vṛtrahā jahyāt dharmam jahyāt ca dharmarāj . na tu aham satyam utsraṣṭum vyavaseyam kathañcana ..18..
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥१९॥
एवम् उक्ता तु पुत्रेण भूरि-द्रविण-तेजसा । माता सत्यवती भीष्मम् उवाच तद्-अनन्तरम् ॥१९॥
evam uktā tu putreṇa bhūri-draviṇa-tejasā . mātā satyavatī bhīṣmam uvāca tad-anantaram ..19..
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम । इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ॥२०॥
जानामि ते स्थितिम् सत्ये पराम् सत्य-पराक्रम । इच्छन् सृजेथाः त्रीन् लोकान् अन्यान् त्वम् स्वेन तेजसा ॥२०॥
jānāmi te sthitim satye parām satya-parākrama . icchan sṛjethāḥ trīn lokān anyān tvam svena tejasā ..20..
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः । आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥२१॥
जानामि च एव सत्यम् तत् मद्-अर्थम् यत् अभाषथाः । आपद्-धर्मम् अवेक्षस्व वह पैतामहीम् धुरम् ॥२१॥
jānāmi ca eva satyam tat mad-artham yat abhāṣathāḥ . āpad-dharmam avekṣasva vaha paitāmahīm dhuram ..21..
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् । सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ॥२२॥
यथा ते कुल-तन्तुः च धर्मः च न पराभवेत् । सुहृदः च प्रहृष्येरन् तथा कुरु परन्तप ॥२२॥
yathā te kula-tantuḥ ca dharmaḥ ca na parābhavet . suhṛdaḥ ca prahṛṣyeran tathā kuru parantapa ..22..
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् । धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥२३॥
लालप्यमानाम् ताम् एवम् कृपणाम् पुत्र-गृद्धिनीम् । धर्मात् अपेतम् ब्रुवतीम् भीष्मः भूयस् अब्रवीत् इदम् ॥२३॥
lālapyamānām tām evam kṛpaṇām putra-gṛddhinīm . dharmāt apetam bruvatīm bhīṣmaḥ bhūyas abravīt idam ..23..
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः । सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥२४॥
राज्ञि धर्मान् अवेक्षस्व मा नः सर्वान् व्यनीनशः । सत्यात् च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥२४॥
rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ . satyāt cyutiḥ kṣatriyasya na dharmeṣu praśasyate ..24..
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि । तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥२५॥
शन्तनोः अपि सन्तानम् यथा स्यात् अक्षयम् भुवि । तत् ते धर्मम् प्रवक्ष्यामि क्षात्रम् राज्ञि सनातनम् ॥२५॥
śantanoḥ api santānam yathā syāt akṣayam bhuvi . tat te dharmam pravakṣyāmi kṣātram rājñi sanātanam ..25..
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥२६॥1.103.26
श्रुत्वा तम् प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः । आपद्-धर्म-अर्थ-कुशलैः लोकतन्त्रम् अवेक्ष्य च ॥२६॥१।१०३।२६
śrutvā tam pratipadyethāḥ prājñaiḥ saha purohitaiḥ . āpad-dharma-artha-kuśalaiḥ lokatantram avekṣya ca ..26..1.103.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In