| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ॥१॥ ( शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥१॥ )
जामदग्न्येन रामेण पितुः वधम् अ मृष्यता । क्रुद्धेन च महाभागे हैहय-अधिपतिः हतः ॥१॥ ( शतानि दश बाहूनाम् निकृत्तानि अर्जुनस्य वै ॥१॥ )
jāmadagnyena rāmeṇa pituḥ vadham a mṛṣyatā . kruddhena ca mahābhāge haihaya-adhipatiḥ hataḥ ..1.. ( śatāni daśa bāhūnām nikṛttāni arjunasya vai ..1.. )
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥२॥
पुनर् च धनुः आदाय महा-अस्त्राणि प्रमुञ्चता । निर्दग्धम् क्षत्रम् असकृत् रथेन जयता महीम् ॥२॥
punar ca dhanuḥ ādāya mahā-astrāṇi pramuñcatā . nirdagdham kṣatram asakṛt rathena jayatā mahīm ..2..
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥३॥
एवम् उच्चावचैः अस्त्रैः भार्गवेण महात्मना । त्रिःसप्त-कृत्वस् पृथिवी कृता निःक्षत्रिया पुरा ॥३॥
evam uccāvacaiḥ astraiḥ bhārgaveṇa mahātmanā . triḥsapta-kṛtvas pṛthivī kṛtā niḥkṣatriyā purā ..3..
ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥४॥
ततस् सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितानि अपत्यानि ब्राह्मणैः नियत-आत्मभिः ॥४॥
tatas sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ . utpāditāni apatyāni brāhmaṇaiḥ niyata-ātmabhiḥ ..4..
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ॥५॥ ( लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥५॥ )
पाणिग्राहस्य तनयः इति वेदेषु निश्चितम् । धर्मम् मनसि संस्थाप्य ब्राह्मणान् ताः समभ्ययुः ॥५॥ ( लोके अपि आचरितः दृष्टः क्षत्रियाणाम् पुनर्भवः ॥५॥ )
pāṇigrāhasya tanayaḥ iti vedeṣu niścitam . dharmam manasi saṃsthāpya brāhmaṇān tāḥ samabhyayuḥ ..5.. ( loke api ācaritaḥ dṛṣṭaḥ kṣatriyāṇām punarbhavaḥ ..5.. )
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥६॥
अथ उतथ्यः इति ख्यातः आसीत् हीमान् ऋषिः पुरा । ममता नाम तस्य आसीत् भार्या परम-संमता ॥६॥
atha utathyaḥ iti khyātaḥ āsīt hīmān ṛṣiḥ purā . mamatā nāma tasya āsīt bhāryā parama-saṃmatā ..6..
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥७॥
उतथ्यस्य यवीयान् तु पुरोधाः त्रिदिवौकसाम् । बृहस्पतिः बृहत्-तेजाः ममताम् सः अन्वपद्यत ॥७॥
utathyasya yavīyān tu purodhāḥ tridivaukasām . bṛhaspatiḥ bṛhat-tejāḥ mamatām saḥ anvapadyata ..7..
उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥८॥
उवाच ममता तम् तु देवरम् वदताम् वरम् । अन्तर्वत्नी अहम् भ्रात्रा ज्येष्ठेन आरम्यताम् इति ॥८॥
uvāca mamatā tam tu devaram vadatām varam . antarvatnī aham bhrātrā jyeṣṭhena āramyatām iti ..8..
अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥९॥
अयम् च मे महाभाग कुक्षौ एव बृहस्पते । औतथ्यः वेदम् अत्र एव षष्-अङ्गम् प्रत्यधीयत ॥९॥
ayam ca me mahābhāga kukṣau eva bṛhaspate . autathyaḥ vedam atra eva ṣaṣ-aṅgam pratyadhīyata ..9..
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ॥१०॥
अमोघ-रेताः त्वम् च अपि नूनम् भवितुम् अर्हसि । तस्मात् एवङ्गते अद्य त्वम् उपारमितुम् अर्हसि ॥१०॥
amogha-retāḥ tvam ca api nūnam bhavitum arhasi . tasmāt evaṅgate adya tvam upāramitum arhasi ..10..
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥११॥
एवम् उक्तः तया सम्यक् बृहत्-तेजाः बृहस्पतिः । काम-आत्मानम् तदा आत्मानम् न शशाक नियच्छितुम् ॥११॥
evam uktaḥ tayā samyak bṛhat-tejāḥ bṛhaspatiḥ . kāma-ātmānam tadā ātmānam na śaśāka niyacchitum ..11..
सम्बभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥१२॥
सम्बभूव ततस् कामी तया सार्धम् अकामया । उत्सृजन्तम् तु तम् रेतः स गर्भ-स्थः अभ्यभाषत ॥१२॥
sambabhūva tatas kāmī tayā sārdham akāmayā . utsṛjantam tu tam retaḥ sa garbha-sthaḥ abhyabhāṣata ..12..
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥१३॥
भोः तात कन्यस वदे द्वयोः ना अस्ति अत्र सम्भवः । अमोघ-शुक्रः च भवान् पूर्वम् च अहम् इह आगतः ॥१३॥
bhoḥ tāta kanyasa vade dvayoḥ nā asti atra sambhavaḥ . amogha-śukraḥ ca bhavān pūrvam ca aham iha āgataḥ ..13..
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥१४॥
शशाप तम् ततस् क्रुद्धः एवम् उक्तः बृहस्पतिः । उतथ्य-पुत्रम् गर्भ-स्थम् निर्भर्त्स्य भगवान् ऋषिः ॥१४॥
śaśāpa tam tatas kruddhaḥ evam uktaḥ bṛhaspatiḥ . utathya-putram garbha-stham nirbhartsya bhagavān ṛṣiḥ ..14..
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥१५॥
यस्मात् त्वम् ईदृशे काले सर्व-भूत-ईप्सिते सति । एवम् आत्थ वचः तस्मात् तमः दीर्घम् प्रवेक्ष्यसि ॥१५॥
yasmāt tvam īdṛśe kāle sarva-bhūta-īpsite sati . evam āttha vacaḥ tasmāt tamaḥ dīrgham pravekṣyasi ..15..
स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥१६॥
स वै दीर्घतमाः नाम शापात् ऋषिः अजायत । बृहस्पतेः बृहत्-कीर्तेः बृहस्पतिः इव ओजसा ॥१६॥
sa vai dīrghatamāḥ nāma śāpāt ṛṣiḥ ajāyata . bṛhaspateḥ bṛhat-kīrteḥ bṛhaspatiḥ iva ojasā ..16..
स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ॥१७॥
स पुत्रान् जनयामास गौतम-आदीन् महा-यशाः । ऋषेः उतथ्यस्य तदा सन्तान-कुल-वृद्धये ॥१७॥
sa putrān janayāmāsa gautama-ādīn mahā-yaśāḥ . ṛṣeḥ utathyasya tadā santāna-kula-vṛddhaye ..17..
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥१८॥
लोभ-मोह-अभिभूताः ते पुत्राः तम् गौतम-आदयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायाम् समवासृजन् ॥१८॥
lobha-moha-abhibhūtāḥ te putrāḥ tam gautama-ādayaḥ . kāṣṭhe samudge prakṣipya gaṅgāyām samavāsṛjan ..18..
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥१९॥
न स्यात् अन्धः च वृद्धः च भर्तव्यः अयम् इति स्म ते । चिन्तयित्वा ततस् क्रूराः प्रतिजग्मुः अथो गृहान् ॥१९॥
na syāt andhaḥ ca vṛddhaḥ ca bhartavyaḥ ayam iti sma te . cintayitvā tatas krūrāḥ pratijagmuḥ atho gṛhān ..19..
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥२०॥
सः अनुस्रोतः तदा राजन् प्लवमानः ऋषिः ततस् । जगाम सु बहून् देशान् अन्धः तेन उडुपेन ह ॥२०॥
saḥ anusrotaḥ tadā rājan plavamānaḥ ṛṣiḥ tatas . jagāma su bahūn deśān andhaḥ tena uḍupena ha ..20..
तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥२१॥
तम् तु राजा बलिः नाम सर्व-धर्म-विशारदः । अपश्यत् मज्जन-गतः स्रोतसा अभ्याशम् आगतम् ॥२१॥
tam tu rājā baliḥ nāma sarva-dharma-viśāradaḥ . apaśyat majjana-gataḥ srotasā abhyāśam āgatam ..21..
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥२२॥
जग्राह च एनम् धर्म-आत्मा बलिः सत्य-पराक्रमः । ज्ञात्वा च एनम् स वव्रे अथ पुत्र-अर्थम् मनुज-ऋषभ ॥२२॥
jagrāha ca enam dharma-ātmā baliḥ satya-parākramaḥ . jñātvā ca enam sa vavre atha putra-artham manuja-ṛṣabha ..22..
सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥२३॥
सन्तान-अर्थम् महाभाग भार्यासु मम मानद । पुत्रान् धर्म-अर्थ-कुशलान् उत्पादयितुम् अर्हसि ॥२३॥
santāna-artham mahābhāga bhāryāsu mama mānada . putrān dharma-artha-kuśalān utpādayitum arhasi ..23..
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥२४॥
एवम् उक्तः स तेजस्वी तम् तथा इति उक्तवान् ऋषिः । तस्मै स राजा स्वाम् भार्याम् सुदेष्णाम् प्राहिणोत् तदा ॥२४॥
evam uktaḥ sa tejasvī tam tathā iti uktavān ṛṣiḥ . tasmai sa rājā svām bhāryām sudeṣṇām prāhiṇot tadā ..24..
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥२५॥
अन्धम् वृद्धम् च तम् मत्वा न सा देवी जगाम ह । स्वाम् तु धात्रेयिकाम् तस्मै वृद्धाय प्राहिणोत् तदा ॥२५॥
andham vṛddham ca tam matvā na sā devī jagāma ha . svām tu dhātreyikām tasmai vṛddhāya prāhiṇot tadā ..25..
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥२६॥
तस्याम् काक्षीवत्-आदीन् स शूद्र-योनौ ऋषिः वशी । जनयामास धर्म-आत्मा पुत्रान् एकादश एव तु ॥२६॥
tasyām kākṣīvat-ādīn sa śūdra-yonau ṛṣiḥ vaśī . janayāmāsa dharma-ātmā putrān ekādaśa eva tu ..26..
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥२७॥
काक्षीवत्-आदीन् पुत्रान् तान् दृष्ट्वा सर्वान् अधीयतः । उवाच तम् ऋषिम् राजा मम एते इति वीर्यवान् ॥२७॥
kākṣīvat-ādīn putrān tān dṛṣṭvā sarvān adhīyataḥ . uvāca tam ṛṣim rājā mama ete iti vīryavān ..27..
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥२८॥
न इति उवाच महा-ऋषिः तम् मम एव एते इति ब्रुवन् । शूद्र-योनौ मया हि इमे जाताः काक्षीवत्-आदयः ॥२८॥
na iti uvāca mahā-ṛṣiḥ tam mama eva ete iti bruvan . śūdra-yonau mayā hi ime jātāḥ kākṣīvat-ādayaḥ ..28..
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥२९॥
अन्धम् वृद्धम् च माम् मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्राम् धात्रेयिकाम् हि मे ॥२९॥
andham vṛddham ca mām matvā sudeṣṇā mahiṣī tava . avamanya dadau mūḍhā śūdrām dhātreyikām hi me ..29..
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥३०॥
ततस् प्रसादयामास पुनर् तम् ऋषि-सत्तमम् । बलिः सुदेष्णाम् भार्याम् च तस्मै ताम् प्राहिणोत् पुनर् ॥३०॥
tatas prasādayāmāsa punar tam ṛṣi-sattamam . baliḥ sudeṣṇām bhāryām ca tasmai tām prāhiṇot punar ..30..
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥३१॥
ताम् स दीर्घतमाः अङ्गेषु स्पृष्ट्वा देवीम् अथ अब्रवीत् । भविष्यति कुमारः ते तेजस्वी सत्य-वाच् इति ॥३१॥
tām sa dīrghatamāḥ aṅgeṣu spṛṣṭvā devīm atha abravīt . bhaviṣyati kumāraḥ te tejasvī satya-vāc iti ..31..
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥३२॥
तत्र अङ्गः नाम राजर्षिः सुदेष्णायाम् अजायत । एवम् अन्ये महा-इष्वासाः ब्राह्मणैः क्षत्रियाः भुवि ॥३२॥
tatra aṅgaḥ nāma rājarṣiḥ sudeṣṇāyām ajāyata . evam anye mahā-iṣvāsāḥ brāhmaṇaiḥ kṣatriyāḥ bhuvi ..32..
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥३३॥
जाताः परम-धर्म-ज्ञाः वीर्यवन्तः महा-बलाः । एतत् श्रुत्वा त्वम् अपि अत्र मातर् कुरु यथेप्सितम् ॥३३॥
jātāḥ parama-dharma-jñāḥ vīryavantaḥ mahā-balāḥ . etat śrutvā tvam api atra mātar kuru yathepsitam ..33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In