| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥१॥
पुनर् भरत-वंशस्य हेतुम् सन्तान-वृद्धये । वक्ष्यामि नियतम् मातर् तत् मे निगदतः शृणु ॥१॥
punar bharata-vaṃśasya hetum santāna-vṛddhaye . vakṣyāmi niyatam mātar tat me nigadataḥ śṛṇu ..1..
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥२॥
ब्राह्मणः गुणवान् कश्चिद् धनेन उपनिमन्त्र्यताम् । विचित्रवीर्य-क्षेत्रेषु यः समुत्पादयेत् प्रजाः ॥२॥
brāhmaṇaḥ guṇavān kaścid dhanena upanimantryatām . vicitravīrya-kṣetreṣu yaḥ samutpādayet prajāḥ ..2..
वैशम्पायन उवाच॥
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥३॥
ततस् सत्यवती भीष्मम् वाचा संसज्जमानया । विहसन्ती इव स व्रीडम् इदम् वचनम् अब्रवीत् ॥३॥
tatas satyavatī bhīṣmam vācā saṃsajjamānayā . vihasantī iva sa vrīḍam idam vacanam abravīt ..3..
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ॥४॥ ( न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥४॥ )
सत्यम् एतत् महा-बाहो यथा वदसि भारत । विश्वासात् ते प्रवक्ष्यामि सन्तानाय कुलस्य च ॥४॥ ( न ते शक्यम् अन् आख्यातुम् आपद् हि इयम् तथाविधा ॥४॥ )
satyam etat mahā-bāho yathā vadasi bhārata . viśvāsāt te pravakṣyāmi santānāya kulasya ca ..4.. ( na te śakyam an ākhyātum āpad hi iyam tathāvidhā ..4.. )
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥५॥
त्वम् एव नः कुले धर्मः त्वम् सत्यम् त्वम् परा गतिः । तस्मात् निशम्य वाक्यम् मे कुरुष्व यत् अनन्तरम् ॥५॥
tvam eva naḥ kule dharmaḥ tvam satyam tvam parā gatiḥ . tasmāt niśamya vākyam me kuruṣva yat anantaram ..5..
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥६॥
धर्म-युक्तस्य धर्म-आत्मन् पितुः आसीत् तरी मम । सा कदाचिद् अहम् तत्र गता प्रथम-यौवने ॥६॥
dharma-yuktasya dharma-ātman pituḥ āsīt tarī mama . sā kadācid aham tatra gatā prathama-yauvane ..6..
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥७॥
अथ धर्म-भृताम् श्रेष्ठः परम-ऋषिः पराशरः । आजगाम तरीम् धीमान् तरिष्यन् यमुनाम् नदीम् ॥७॥
atha dharma-bhṛtām śreṣṭhaḥ parama-ṛṣiḥ parāśaraḥ . ājagāma tarīm dhīmān tariṣyan yamunām nadīm ..7..
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥८॥
स तार्यमाणः यमुनाम् माम् उपेत्य अब्रवीत् तदा । सान्त्व-पूर्वम् मुनि-श्रेष्ठः काम-आर्तः मधुरम् बहु ॥८॥
sa tāryamāṇaḥ yamunām mām upetya abravīt tadā . sāntva-pūrvam muni-śreṣṭhaḥ kāma-ārtaḥ madhuram bahu ..8..
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥९॥
तम् अहम् शाप-भीता च पितुः भीता च भारत । वरैः असुलभैः उक्ता न प्रत्याख्यातुम् उत्सहे ॥९॥
tam aham śāpa-bhītā ca pituḥ bhītā ca bhārata . varaiḥ asulabhaiḥ uktā na pratyākhyātum utsahe ..9..
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥१०॥
अभिभूय स माम् बालाम् तेजसा वशम् आनयत् । तमसा लोकम् आवृत्य भारत ॥१०॥
abhibhūya sa mām bālām tejasā vaśam ānayat . tamasā lokam āvṛtya bhārata ..10..
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥११॥
मत्स्य-गन्धः महान् आसीत् पुरा मम जुगुप्सितः । तम् अपास्य शुभम् गन्धम् इमम् प्रादात् स मे मुनिः ॥११॥
matsya-gandhaḥ mahān āsīt purā mama jugupsitaḥ . tam apāsya śubham gandham imam prādāt sa me muniḥ ..11..
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥१२॥
ततस् माम् आह स मुनिः गर्भम् उत्सृज्य मामकम् । द्वीपे अस्याः एव सरितः कन्या एव त्वम् भविष्यसि ॥१२॥
tatas mām āha sa muniḥ garbham utsṛjya māmakam . dvīpe asyāḥ eva saritaḥ kanyā eva tvam bhaviṣyasi ..12..
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥१३॥
पाराशर्यः महा-योगी स बभूव महान् ऋषिः । कन्या-पुत्रः मम पुरा द्वैपायनः इति स्मृतः ॥१३॥
pārāśaryaḥ mahā-yogī sa babhūva mahān ṛṣiḥ . kanyā-putraḥ mama purā dvaipāyanaḥ iti smṛtaḥ ..13..
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥१४॥
यः व्यस्य वेदान् चतुरः तपसा भगवान् ऋषिः । लोके व्यास-त्वम् आपेदे कार्ष्ण्यात् कृष्ण-त्वम् एव च ॥१४॥
yaḥ vyasya vedān caturaḥ tapasā bhagavān ṛṣiḥ . loke vyāsa-tvam āpede kārṣṇyāt kṛṣṇa-tvam eva ca ..14..
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ॥१५॥ ( भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥१५॥ )
सत्य-वादी शम-परः तपस्वी दग्ध-किल्बिषः । स नियुक्तः मया व्यक्तम् त्वया च अमित-द्युते ॥१५॥ ( भ्रातुः क्षेत्रेषु कल्याणम् अपत्यम् जनयिष्यति ॥१५॥ )
satya-vādī śama-paraḥ tapasvī dagdha-kilbiṣaḥ . sa niyuktaḥ mayā vyaktam tvayā ca amita-dyute ..15.. ( bhrātuḥ kṣetreṣu kalyāṇam apatyam janayiṣyati ..15.. )
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥१६॥
स हि माम् उक्तवान् तत्र स्मरेः कृत्येषु माम् इति । तम् स्मरिष्ये महा-बाहो यदि भीष्म त्वम् इच्छसि ॥१६॥
sa hi mām uktavān tatra smareḥ kṛtyeṣu mām iti . tam smariṣye mahā-bāho yadi bhīṣma tvam icchasi ..16..
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥१७॥
तव हि अनुमते भीष्म नियतम् स महा-तपाः । विचित्रवीर्य-क्षेत्रेषु पुत्रान् उत्पादयिष्यति ॥१७॥
tava hi anumate bhīṣma niyatam sa mahā-tapāḥ . vicitravīrya-kṣetreṣu putrān utpādayiṣyati ..17..
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥१८॥
महा-ऋषेः कीर्तने तस्य भीष्मः प्राञ्जलिः अब्रवीत् । धर्मम् अर्थम् च कामम् च त्रीन् एतान् यः अनुपश्यति ॥१८॥
mahā-ṛṣeḥ kīrtane tasya bhīṣmaḥ prāñjaliḥ abravīt . dharmam artham ca kāmam ca trīn etān yaḥ anupaśyati ..18..
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ॥१९॥ ( यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥१९॥ )
अर्थम् अर्थ-अनुबन्धम् च धर्मम् धर्म-अनुबन्धनम् । कामम् काम-अनुबन्धम् च विपरीतान् पृथक् पृथक् ॥१९॥ ( यः विचिन्त्य धिया सम्यक् व्यवस्यति स बुद्धिमान् ॥१९॥ )
artham artha-anubandham ca dharmam dharma-anubandhanam . kāmam kāma-anubandham ca viparītān pṛthak pṛthak ..19.. ( yaḥ vicintya dhiyā samyak vyavasyati sa buddhimān ..19.. )
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥२०॥
तत् इदम् धर्म-युक्तम् च हितम् च एव कुलस्य नः । उक्तम् भवत्या यत् श्रेयः परमम् रोचते मम ॥२०॥
tat idam dharma-yuktam ca hitam ca eva kulasya naḥ . uktam bhavatyā yat śreyaḥ paramam rocate mama ..20..
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥२१॥
ततस् तस्मिन् प्रतिज्ञाते भीष्मेण कुरु-नन्दन । कृष्णद्वैपायनम् काली चिन्तयामास वै मुनिम् ॥२१॥
tatas tasmin pratijñāte bhīṣmeṇa kuru-nandana . kṛṣṇadvaipāyanam kālī cintayāmāsa vai munim ..21..
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥२२॥
स वेदान् विब्रुवन् धीमान् मातुः विज्ञाय चिन्तितम् । प्रादुर्बभूव अ विदितः क्षणेन कुरु-नन्दन ॥२२॥
sa vedān vibruvan dhīmān mātuḥ vijñāya cintitam . prādurbabhūva a viditaḥ kṣaṇena kuru-nandana ..22..
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ॥२३॥ ( मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥२३॥ )
तस्मै पूजाम् तदा दत्त्वा सुताय विधि-पूर्वकम् । परिष्वज्य च बाहुभ्याम् प्रस्नवैः अभिषिच्य च ॥२३॥ ( मुमोच बाष्पम् दाशेयी पुत्रम् दृष्ट्वा चिरस्य तम् ॥२३॥ )
tasmai pūjām tadā dattvā sutāya vidhi-pūrvakam . pariṣvajya ca bāhubhyām prasnavaiḥ abhiṣicya ca ..23.. ( mumoca bāṣpam dāśeyī putram dṛṣṭvā cirasya tam ..23.. )
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥२४॥
ताम् अद्भिः परिषिच्य आर्ताम् महा-ऋषिः अभिवाद्य च । मातरम् पूर्वजः पुत्रः व्यासः वचनम् अब्रवीत् ॥२४॥
tām adbhiḥ pariṣicya ārtām mahā-ṛṣiḥ abhivādya ca . mātaram pūrvajaḥ putraḥ vyāsaḥ vacanam abravīt ..24..
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥२५॥
भवत्या यत् अभिप्रेतम् तत् अहम् कर्तुम् आगतः । शाधि माम् धर्म-तत्त्व-ज्ञे करवाणि प्रियम् तव ॥२५॥
bhavatyā yat abhipretam tat aham kartum āgataḥ . śādhi mām dharma-tattva-jñe karavāṇi priyam tava ..25..
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥२६॥
तस्मै पूजाम् ततस् अकार्षीत् पुरोधाः परम-ऋषये । स च ताम् प्रतिजग्राह विधिवत् मन्त्र-पूर्वकम् ॥२६॥
tasmai pūjām tatas akārṣīt purodhāḥ parama-ṛṣaye . sa ca tām pratijagrāha vidhivat mantra-pūrvakam ..26..
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥२७॥
तम् आसन-गतम् माता पृष्ट्वा कुशलम् अव्ययम् । सत्यवती अभिवीक्ष्य एनम् उवाच इदम् अनन्तरम् ॥२७॥
tam āsana-gatam mātā pṛṣṭvā kuśalam avyayam . satyavatī abhivīkṣya enam uvāca idam anantaram ..27..
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥२८॥
माता-पित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषाम् पिता यथा स्वामी तथा माता न संशयः ॥२८॥
mātā-pitroḥ prajāyante putrāḥ sādhāraṇāḥ kave . teṣām pitā yathā svāmī tathā mātā na saṃśayaḥ ..28..
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥२९॥
विधातृ-विहितः स त्वम् यथा मे प्रथमः सुतः । विचित्रवीर्यः ब्रह्मर्षे तथा मे अवरजः सुतः ॥२९॥
vidhātṛ-vihitaḥ sa tvam yathā me prathamaḥ sutaḥ . vicitravīryaḥ brahmarṣe tathā me avarajaḥ sutaḥ ..29..
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥३०॥
यथा एव पितृतः भीष्मः तथा त्वम् अपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥३०॥
yathā eva pitṛtaḥ bhīṣmaḥ tathā tvam api mātṛtaḥ . bhrātā vicitravīryasya yathā vā putra manyase ..30..
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥३१॥
अयम् शान्तनवः सत्यम् पालयन् सत्य-विक्रमः । बुद्धिम् न कुरुते अपत्ये तथा राज्य-अनुशासने ॥३१॥
ayam śāntanavaḥ satyam pālayan satya-vikramaḥ . buddhim na kurute apatye tathā rājya-anuśāsane ..31..
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥३२॥
स त्वम् व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य च अस्य वचनात् नियोगात् च मम अनघ ॥३२॥
sa tvam vyapekṣayā bhrātuḥ santānāya kulasya ca . bhīṣmasya ca asya vacanāt niyogāt ca mama anagha ..32..
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥३३॥
अनुक्रोशात् च भूतानाम् सर्वेषाम् रक्षणाय च । आनृशंस्येन यत् ब्रूयाम् तत् श्रुत्वा कर्तुम् अर्हसि ॥३३॥
anukrośāt ca bhūtānām sarveṣām rakṣaṇāya ca . ānṛśaṃsyena yat brūyām tat śrutvā kartum arhasi ..33..
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥३४॥
यवीयसः तव भ्रातुः भार्ये सुर-सुता-उपमे । रूप-यौवन-सम्पन्ने पुत्र-कामे च धर्मतः ॥३४॥
yavīyasaḥ tava bhrātuḥ bhārye sura-sutā-upame . rūpa-yauvana-sampanne putra-kāme ca dharmataḥ ..34..
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥३५॥
तयोः उत्पादय अपत्यम् समर्थः हि असि पुत्रक । अनुरूपम् कुलस्य अस्य सन्तत्याः प्रसवस्य च ॥३५॥
tayoḥ utpādaya apatyam samarthaḥ hi asi putraka . anurūpam kulasya asya santatyāḥ prasavasya ca ..35..
व्यास उवाच॥
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥३६॥
वेत्थ धर्मम् सत्यवति परम् च अपरम् एव च । यथा च तव धर्म-ज्ञे धर्मे प्रणिहिता मतिः ॥३६॥
vettha dharmam satyavati param ca aparam eva ca . yathā ca tava dharma-jñe dharme praṇihitā matiḥ ..36..
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥३७॥
तस्मात् अहम् त्वद्-नियोगात् धर्मम् उद्दिश्य कारणम् । ईप्सितम् ते करिष्यामि दृष्टम् हि एतत् पुरातनम् ॥३७॥
tasmāt aham tvad-niyogāt dharmam uddiśya kāraṇam . īpsitam te kariṣyāmi dṛṣṭam hi etat purātanam ..37..
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥३८॥
भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोः समान् । व्रतम् चरेताम् ते देव्यौ निर्दिष्टम् इह यत् मया ॥३८॥
bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān . vratam caretām te devyau nirdiṣṭam iha yat mayā ..38..
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥३९॥
संवत्सरम् यथान्यायम् ततस् शुद्धे भविष्यतः । न हि माम् अव्रत-उपेता उपेयात् काचिद् अङ्गना ॥३९॥
saṃvatsaram yathānyāyam tatas śuddhe bhaviṣyataḥ . na hi mām avrata-upetā upeyāt kācid aṅganā ..39..
सत्यवत्युवाच॥
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥४०॥
यथा सद्यस् प्रपद्येत देवी गर्भम् तथा कुरु । अराजकेषु राष्ट्रेषु न अस्ति वृष्टिः न देवताः ॥४०॥
yathā sadyas prapadyeta devī garbham tathā kuru . arājakeṣu rāṣṭreṣu na asti vṛṣṭiḥ na devatāḥ ..40..
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥४१॥
कथम् अराजकम् राष्ट्रम् शक्यम् धारयितुम् प्रभो । तस्मात् गर्भम् समाधत्स्व भीष्मः तम् वर्धयिष्यति ॥४१॥
katham arājakam rāṣṭram śakyam dhārayitum prabho . tasmāt garbham samādhatsva bhīṣmaḥ tam vardhayiṣyati ..41..
व्यास उवाच॥
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥४२॥
यदि पुत्रः प्रदातव्यः मया क्षिप्रम् अकालिकम् । विरूपताम् मे सहताम् एतत् अस्याः परम् व्रतम् ॥४२॥
yadi putraḥ pradātavyaḥ mayā kṣipram akālikam . virūpatām me sahatām etat asyāḥ param vratam ..42..
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥४३॥
यदि मे सहते गन्धम् रूपम् वेषम् तथा वपुः । अद्या एव गर्भम् कौसल्या विशिष्टम् प्रतिपद्यताम् ॥४३॥
yadi me sahate gandham rūpam veṣam tathā vapuḥ . adyā eva garbham kausalyā viśiṣṭam pratipadyatām ..43..
वैशम्पायन उवाच॥
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ॥४४॥ ( धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥४४॥ )
समागमनम् आकाङ्क्षन् इति सः अन्तर्हितः मुनिः । ततस् अभिगम्य सा देवी स्नुषाम् रहसि सङ्गताम् ॥४४॥ ( धर्म्यम् अर्थ-समायुक्तम् उवाच वचनम् हितम् ॥४४॥ )
samāgamanam ākāṅkṣan iti saḥ antarhitaḥ muniḥ . tatas abhigamya sā devī snuṣām rahasi saṅgatām ..44.. ( dharmyam artha-samāyuktam uvāca vacanam hitam ..44.. )
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥४५॥
कौसल्ये धर्म-तन्त्रम् यत् ब्रवीमि त्वाम् निबोध मे । भरतानाम् समुच्छेदः व्यक्तम् मद्-भाग्य-सङ्क्षयात् ॥४५॥
kausalye dharma-tantram yat bravīmi tvām nibodha me . bharatānām samucchedaḥ vyaktam mad-bhāgya-saṅkṣayāt ..45..
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥४६॥
व्यथिताम् माम् च सम्प्रेक्ष्य पितृ-वंशम् च पीडितम् । भीष्मः बुद्धि-मदात् अत्र धर्मस्य च विवृद्धये ॥४६॥
vyathitām mām ca samprekṣya pitṛ-vaṃśam ca pīḍitam . bhīṣmaḥ buddhi-madāt atra dharmasya ca vivṛddhaye ..46..
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥४७॥
सा च बुद्धिः तव अधीना पुत्रि ज्ञातम् मया इति ह । नष्टम् च भारतम् वंशम् पुनर् एव समुद्धर ॥४७॥
sā ca buddhiḥ tava adhīnā putri jñātam mayā iti ha . naṣṭam ca bhāratam vaṃśam punar eva samuddhara ..47..
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥४८॥
पुत्रम् जनय सुश्रोणि देवराज-सम-प्रभम् । स हि राज्य-धुरम् गुर्वीम् उद्वक्ष्यति कुलस्य नः ॥४८॥
putram janaya suśroṇi devarāja-sama-prabham . sa hi rājya-dhuram gurvīm udvakṣyati kulasya naḥ ..48..
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥४९॥ 1.104.54
सा धर्मतः अनुनीय एनाम् कथञ्चिद् धर्म-चारिणीम् । भोजयामास विप्रान् च देवर्षीन् अतिथीन् तथा ॥४९॥ १।१०४।५४
sā dharmataḥ anunīya enām kathañcid dharma-cāriṇīm . bhojayāmāsa viprān ca devarṣīn atithīn tathā ..49.. 1.104.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In