| |
|

This overlay will guide you through the buttons:

चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः । कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ १२.१॥
चातुर्वर्ण्यस्य कृत्स्नः अयम् उक्तः धर्मः त्वया अनघः । कर्मणाम् फल-निर्वृत्तिम् शंस नः तत्त्वतः पराम् ॥ १२।१॥
cāturvarṇyasya kṛtsnaḥ ayam uktaḥ dharmaḥ tvayā anaghaḥ . karmaṇām phala-nirvṛttim śaṃsa naḥ tattvataḥ parām .. 12.1..
12.1. ’O sinless One, the whole sacred law, (applicable) to the four castes, has been declared by thee; communicate to us (now), according to the truth, the ultimate retribution for (their) deeds.’
स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२॥
स तान् उवाच धर्म-आत्मा महा-ऋषीन् मानवः भृगुः । अस्य सर्वस्य शृणुत कर्म-योगस्य निर्णयम् ॥ १२।२॥
sa tān uvāca dharma-ātmā mahā-ṛṣīn mānavaḥ bhṛguḥ . asya sarvasya śṛṇuta karma-yogasya nirṇayam .. 12.2..
12.2. To the great sages (who addressed him thus) righteous Bhrigu, sprung from Manu, answered, ’Hear the decision concerning this whole connexion with actions.’
शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥ १२.३॥
शुभ-अशुभ-फलम् कर्म मनः-वाच्-देह-सम्भवम् । कर्म-जाः गतयः नॄणाम् उत्तम-अधम-मध्यमः ॥ १२।३॥
śubha-aśubha-phalam karma manaḥ-vāc-deha-sambhavam . karma-jāḥ gatayaḥ nṝṇām uttama-adhama-madhyamaḥ .. 12.3..
12.3. Action, which springs from the mind, from speech, and from the body, produces either good or evil results; by action are caused the (various) conditions of men, the highest, the middling, and the lowest.
तस्यैह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥ १२.४॥
तस्य इह त्रिविधस्य अपि त्रि-अधिष्ठानस्य देहिनः । दश-लक्षण-युक्तस्य मनः विद्यात् प्रवर्तकम् ॥ १२।४॥
tasya iha trividhasya api tri-adhiṣṭhānasya dehinaḥ . daśa-lakṣaṇa-yuktasya manaḥ vidyāt pravartakam .. 12.4..
12.4. Know that the mind is the instigator here below, even to that (action) which is connected with the body, (and) which is of three kinds, has three locations, and falls under ten heads.
परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ १२.५॥
पर-द्रव्येषु अभिध्यानम् मनसा अनिष्ट-चिन्तनम् । वितथ-अभिनिवेशः च त्रिविधम् कर्म मानसम् ॥ १२।५॥
para-dravyeṣu abhidhyānam manasā aniṣṭa-cintanam . vitatha-abhiniveśaḥ ca trividham karma mānasam .. 12.5..
12.5. Coveting the property of others, thinking in one’s heart of what is undesirable, and adherence to false (doctrines), are the three kinds of (sinful) mental action
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ १२.६॥
पारुष्यम् अनृतम् च एव पैशुन्यम् च अपि सर्वशस् । असंबद्ध-प्रलापः च वाङ्मयम् स्यात् चतुर्विधम् ॥ १२।६॥
pāruṣyam anṛtam ca eva paiśunyam ca api sarvaśas . asaṃbaddha-pralāpaḥ ca vāṅmayam syāt caturvidham .. 12.6..
.12.6. Abusing (others, speaking) untruth, detracting from the merits of all men, and talking idly, shall be the four kinds of (evil) verbal action.
अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७॥
अदत्तानाम् उपादानम् हिंसा च एव अविधानतः । परदार-उपसेवा च शारीरम् त्रिविधम् स्मृतम् ॥ १२।७॥
adattānām upādānam hiṃsā ca eva avidhānataḥ . paradāra-upasevā ca śārīram trividham smṛtam .. 12.7..
12.7. Taking what has not been given, injuring (creatures) without the sanction of the law, and holding criminal intercourse with another man’s wife, are declared to be the three kinds of (wicked) bodily action.
मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनेव च कायिकम् ॥ १२.८॥
मानसम् मनसा इव अयम् उपभुङ्क्ते शुभ-अशुभम् । वाचा वाचा कृतम् कर्म कायेन इव च कायिकम् ॥ १२।८॥
mānasam manasā iva ayam upabhuṅkte śubha-aśubham . vācā vācā kṛtam karma kāyena iva ca kāyikam .. 12.8..
12.8. (A man) obtains (the result of) a good or evil mental (act) in his mind, (that of) a verbal (act) in his speech, (that of) a bodily (act) in his body.
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ १२.९॥
शरीर-जैः कर्म-दोषैः याति स्थावर-ताम् नरः । वाचिकैः पक्षि-मृग-ताम् मानसैः अन्त्य-जाति-ताम् ॥ १२।९॥
śarīra-jaiḥ karma-doṣaiḥ yāti sthāvara-tām naraḥ . vācikaiḥ pakṣi-mṛga-tām mānasaiḥ antya-jāti-tām .. 12.9..
12.9. In consequence of (many) sinful acts committed with his body, a man becomes (in the next birth) something inanimate, in consequence (of sins) committed by speech, a bird, or a beast, and in consequence of mental (sins he is re-born in) a low caste.
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १२.१०॥
वाग्दण्डः अथ मनोदण्डः कायदण्डः तथा एव च । यस्य एते निहिताः बुद्धौ त्रिदण्डी इति सः उच्यते ॥ १२।१०॥
vāgdaṇḍaḥ atha manodaṇḍaḥ kāyadaṇḍaḥ tathā eva ca . yasya ete nihitāḥ buddhau tridaṇḍī iti saḥ ucyate .. 12.10..
12.10. That man is called a (true) tridandin in whose mind these three, the control over his speech (vagdanda), the control over his thoughts (manodanda), and the control over his body (kayadanda), are firmly fixed.
त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति ॥ १२.११॥
त्रिदण्डम् एतत् निक्षिप्य सर्व-भूतेषु मानवः । काम-क्रोधौ सु संयम्य ततस् सिद्धिम् निगच्छति ॥ १२।११॥
tridaṇḍam etat nikṣipya sarva-bhūteṣu mānavaḥ . kāma-krodhau su saṃyamya tatas siddhim nigacchati .. 12.11..
12.11. That man who keeps this threefold control (over himself) with respect to all created beings and wholly subdues desire and wrath, thereby assuredly gains complete success.
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२॥
यः अस्य आत्मनः कारयिता तम् क्षेत्रज्ञम् प्रचक्षते । यः करोति तु कर्माणि स भूतात्मा उच्यते बुधैः ॥ १२।१२॥
yaḥ asya ātmanaḥ kārayitā tam kṣetrajñam pracakṣate . yaḥ karoti tu karmāṇi sa bhūtātmā ucyate budhaiḥ .. 12.12..
12.12. Him who impels this (corporeal) Self to action, they call the Kshetragna (the knower of the field); but him who does the acts, the wise name the Bhutatman (the Self consisting of the elements).
जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३॥
जीव-संज्ञः अन्तरात्मा अन्यः सहजः सर्व-देहिनाम् । येन वेदयते सर्वम् सुखम् दुःखम् च जन्मसु ॥ १२।१३॥
jīva-saṃjñaḥ antarātmā anyaḥ sahajaḥ sarva-dehinām . yena vedayate sarvam sukham duḥkham ca janmasu .. 12.13..
12.13. Another internal Self that is generated with all embodied (Kshetragnas) is called Giva, through which (the Kshetragna) becomes sensible of all pleasure and pain in (successive) births.
तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४॥
तौ उभौ भूत-सम्पृक्तौ महान् क्षेत्रज्ञः एव च । उच्चावचेषु भूतेषु स्थितम् तम् व्याप्य तिष्ठतः ॥ १२।१४॥
tau ubhau bhūta-sampṛktau mahān kṣetrajñaḥ eva ca . uccāvaceṣu bhūteṣu sthitam tam vyāpya tiṣṭhataḥ .. 12.14..
12.14. These two, the Great One and the Kshetragna, who are closely united with the elements, pervade him who resides in the multiform created beings.
असङ्ख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १२.१५॥
असङ्ख्याः मूर्तयः तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततम् चेष्टयन्ति याः ॥ १२।१५॥
asaṅkhyāḥ mūrtayaḥ tasya niṣpatanti śarīrataḥ . uccāvacāni bhūtāni satatam ceṣṭayanti yāḥ .. 12.15..
12.15. From his body innumerable forms go forth, which constantly impel the multiform creatures to action.
पञ्चभ्य एव भूतेभ्यः प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥ १२.१६॥
पञ्चभ्यः एव भूतेभ्यः प्रेत्य दुष्कृतिनाम् नृणाम् । शरीरम् यातना-अर्थीयम् अन्यत् उत्पद्यते ध्रुवम् ॥ १२।१६॥
pañcabhyaḥ eva bhūtebhyaḥ pretya duṣkṛtinām nṛṇām . śarīram yātanā-arthīyam anyat utpadyate dhruvam .. 12.16..
12.16. Another strong body, formed of particles (of the) five (elements and) destined to suffer the torments (in hell), is produced after death (in the case) of wicked men.
तेनानुभूय ता यामीः शरीरेणैह यातनाः । तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७॥
तेन अनुभूय ताः यामीः शरीरेण एह यातनाः । तासु एव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२।१७॥
tena anubhūya tāḥ yāmīḥ śarīreṇa eha yātanāḥ . tāsu eva bhūtamātrāsu pralīyante vibhāgaśaḥ .. 12.17..
12.17. When (the evil-doers) by means of that body have suffered there the torments imposed by Yama, (its constituent parts) are united, each according to its class, with those very elements (from which they were taken).
सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् । व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ १२.१८॥
सः अनुभूय असुख-उदर्कान् दोषान् विषय-सङ्ग-जान् । व्यपेत-कल्मषः अभ्येति तौ एव उभौ महा-ओजसौ ॥ १२।१८॥
saḥ anubhūya asukha-udarkān doṣān viṣaya-saṅga-jān . vyapeta-kalmaṣaḥ abhyeti tau eva ubhau mahā-ojasau .. 12.18..
12.18. He, having suffered for his faults, which are produced by attachment to sensual objects, and which result in misery, approaches, free from stains, those two mighty ones.
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति सम्पृक्तः प्रेत्येह च सुखासुखम् ॥ १२.१९॥
तौ धर्मम् पश्यतः तस्य पापम् च अतन्द्रितौ सह । याभ्याम् प्राप्नोति सम्पृक्तः प्रेत्य इह च सुख-असुखम् ॥ १२।१९॥
tau dharmam paśyataḥ tasya pāpam ca atandritau saha . yābhyām prāpnoti sampṛktaḥ pretya iha ca sukha-asukham .. 12.19..
12.19. Those two together examine without tiring the merit and the guilt of that (individual soul), united with which it obtains bliss or misery both in this world and the next.
यथाचरति धर्मं स प्रायशोऽधर्ममल्पशः । तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ १२.२०॥
यथा आचरति धर्मम् स प्रायशस् अधर्मम् अल्पशस् । तैः एव च आवृतः भूतैः स्वर्गे सुखम् उपाश्नुते ॥ १२।२०॥
yathā ācarati dharmam sa prāyaśas adharmam alpaśas . taiḥ eva ca āvṛtaḥ bhūtaiḥ svarge sukham upāśnute .. 12.20..
12.20. If (the soul) chiefly practises virtue and vice to a small degree, it obtains bliss in heaven, clothed with those very elements.
यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः । तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१॥
यदि तु प्रायशस् अधर्मम् सेवते धर्मम् अल्पशस् । तैः भूतैः स परित्यक्तः यामीः प्राप्नोति यातनाः ॥ १२।२१॥
yadi tu prāyaśas adharmam sevate dharmam alpaśas . taiḥ bhūtaiḥ sa parityaktaḥ yāmīḥ prāpnoti yātanāḥ .. 12.21..
12.21. But if it chiefly cleaves to vice and to virtue in a small degree, it suffers, deserted by the elements, the torments inflicted by Yama.
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः । तान्येव पञ्च भूतानि पुनरप्येति भागशः ॥ १२.२२॥
यामीः ताः यातनाः प्राप्य स जीवः वीत-कल्मषः । तानि एव पञ्च भूतानि पुनर् अप्येति भागशस् ॥ १२।२२॥
yāmīḥ tāḥ yātanāḥ prāpya sa jīvaḥ vīta-kalmaṣaḥ . tāni eva pañca bhūtāni punar apyeti bhāgaśas .. 12.22..
12.22. The individual soul, having endured those torments of Yama, again enters, free from taint, those very five elements, each in due proportion.
एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ॥ १२.२३॥
एताः दृष्ट्वा अस्य जीवस्य गतीः स्वेन एव चेतसा । धर्मतः अधर्मतः च एव धर्मे दध्यात् सदा मनः ॥ १२।२३॥
etāḥ dṛṣṭvā asya jīvasya gatīḥ svena eva cetasā . dharmataḥ adharmataḥ ca eva dharme dadhyāt sadā manaḥ .. 12.23..
12.23. Let (man), having recognised even by means of his intellect these transitions of the individual soul (which depend) on merit and demerit, always fix his heart on (the acquisition of) merit.
सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् । यैर्व्याप्यैमान् स्थितो भावान् महान् सर्वानशेषतः ॥ १२.२४॥
सत्त्वम् रजः तमः च एव त्रीन् विद्यात् आत्मनः गुणान् । यैः व्याप्य एमान् स्थितः भावान् महान् सर्वान् अशेषतस् ॥ १२।२४॥
sattvam rajaḥ tamaḥ ca eva trīn vidyāt ātmanaḥ guṇān . yaiḥ vyāpya emān sthitaḥ bhāvān mahān sarvān aśeṣatas .. 12.24..
12.24. Know Goodness (sattva), Activity (ragas), and Darkness (tamas) to be the three qualities of the Self, with which the Great One always completely pervades all existences.
यो यदेषां गुणो देहे साकल्येनातिरिच्यते । स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५॥
यः यत् एषाम् गुणः देहे साकल्येन अतिरिच्यते । स तदा तद्-गुण-प्रायम् तम् करोति शरीरिणम् ॥ १२।२५॥
yaḥ yat eṣām guṇaḥ dehe sākalyena atiricyate . sa tadā tad-guṇa-prāyam tam karoti śarīriṇam .. 12.25..
12.25. When one of these qualities wholly predominates in a body, then it makes the embodied (soul) eminently distinguished for that quality.
सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् । एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ १२.२६॥
सत्त्वम् ज्ञानम् तमः अज्ञानम् राग-द्वेषौ रजः स्मृतम् । एतत् व्याप्तिमत् एतेषाम् सर्व-भूत-आश्रितम् वपुः ॥ १२।२६॥
sattvam jñānam tamaḥ ajñānam rāga-dveṣau rajaḥ smṛtam . etat vyāptimat eteṣām sarva-bhūta-āśritam vapuḥ .. 12.26..
12.26. Goodness is declared (to have the form of) knowledge, Darkness (of) ignorance, Activity (of) love and hatred; such is the nature of these (three) which is (all-) pervading and clings to everything created.
तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७॥
तत्र यत् प्रीति-संयुक्तम् किम् चित्-आत्मनि लक्षयेत् । प्रशान्तम् इव शुद्ध-आभम् सत्त्वम् तत् उपधारयेत् ॥ १२।२७॥
tatra yat prīti-saṃyuktam kim cit-ātmani lakṣayet . praśāntam iva śuddha-ābham sattvam tat upadhārayet .. 12.27..
12.27. When (man) experiences in his soul a (feeling) full of bliss, a deep calm, as it were, and a pure light, then let him know (that it is) among those three (the quality called) Goodness.
यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः । तद्रजो प्रतीपं विद्यात्सततं हर्तृ देहिनाम् ॥ १२.२८॥
यत् तु दुःख-समायुक्तम् अप्रीति-करम् आत्मनः । तत् रजः प्रतीपम् विद्यात् सततम् हर्तृ देहिनाम् ॥ १२।२८॥
yat tu duḥkha-samāyuktam aprīti-karam ātmanaḥ . tat rajaḥ pratīpam vidyāt satatam hartṛ dehinām .. 12.28..
12.28. What is mixed with pain and does not give satisfaction to the soul one may know (to be the quality of) Activity, which is difficult to conquer, and which ever draws embodied (souls towards sensual objects).
यत्तु स्यान् मोहसंयुक्तमव्यक्तं विषयात्मकम् । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९॥
यत् तु स्यात् मोह-संयुक्तम् अव्यक्तम् विषय-आत्मकम् । अप्रतर्क्यम् अविज्ञेयम् तमः तत् उपधारयेत् ॥ १२।२९॥
yat tu syāt moha-saṃyuktam avyaktam viṣaya-ātmakam . apratarkyam avijñeyam tamaḥ tat upadhārayet .. 12.29..
12.29. What is coupled with delusion, what has the character of an undiscernible mass, what cannot be fathomed by reasoning, what cannot be fully known, one must consider (as the quality of) Darkness.
त्रयाणामपि चैतेषां गुणानां यः फलोदयः । अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ १२.३०॥
त्रयाणाम् अपि च एतेषाम् गुणानाम् यः फल-उदयः । अग्र्यः मध्यः जघन्यः च तम् प्रवक्ष्यामि अशेषतस् ॥ १२।३०॥
trayāṇām api ca eteṣām guṇānām yaḥ phala-udayaḥ . agryaḥ madhyaḥ jaghanyaḥ ca tam pravakṣyāmi aśeṣatas .. 12.30..
12.30. I will, moreover, fully describe the results which arise from these three qualities, the excellent ones, the middling ones, and the lowest.
वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः । धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ १२.३१॥
वेद-अभ्यासः तपः ज्ञानम् शौचम् इन्द्रिय-निग्रहः । धर्म-क्रिया आत्म-चिन्ता च सात्त्विकम् गुण-लक्षणम् ॥ १२।३१॥
veda-abhyāsaḥ tapaḥ jñānam śaucam indriya-nigrahaḥ . dharma-kriyā ātma-cintā ca sāttvikam guṇa-lakṣaṇam .. 12.31..
12.31. The study of the Vedas, austerity, (the pursuit of) knowledge, purity, control over the organs, the performance of meritorious acts and meditation on the Soul, (are) the marks of the quality of Goodness.
आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२॥
आरम्भ-रुचि-ता अधैर्यम् असत्-कार्य-परिग्रहः । विषय-उपसेवा च अजस्रम् राजसम् गुण-लक्षणम् ॥ १२।३२॥
ārambha-ruci-tā adhairyam asat-kārya-parigrahaḥ . viṣaya-upasevā ca ajasram rājasam guṇa-lakṣaṇam .. 12.32..
12.32. Delighting in undertakings, want of firmness, commission of sinful acts, and continual indulgence in sensual pleasures, (are) the marks of the quality of Activity.
लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ १२.३३॥
लोभः स्वप्नः अधृतिः क्रौर्यम् नास्तिक्यम् भिन्न-वृत्ति-ता । याचिष्णु-ता प्रमादः च तामसम् गुण-लक्षणम् ॥ १२।३३॥
lobhaḥ svapnaḥ adhṛtiḥ krauryam nāstikyam bhinna-vṛtti-tā . yāciṣṇu-tā pramādaḥ ca tāmasam guṇa-lakṣaṇam .. 12.33..
12.33. Covetousness, sleepiness, pusillanimity, cruelty, atheism, leading an evil life, a habit of soliciting favours, and inattentiveness, are the marks of the quality of Darkness.
त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् । इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४॥
त्रयाणाम् अपि च एतेषाम् गुणानाम् त्रिषु तिष्ठताम् । इदम् सामासिकम् ज्ञेयम् क्रमशस् गुण-लक्षणम् ॥ १२।३४॥
trayāṇām api ca eteṣām guṇānām triṣu tiṣṭhatām . idam sāmāsikam jñeyam kramaśas guṇa-lakṣaṇam .. 12.34..
12.34. Know, moreover, the following to be a brief description of the three qualities, each in its order, as they appear in the three (times, the present, past, and future).
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५॥
यत् कर्म कृत्वा कुर्वन् च करिष्यन् च एव लज्जति । तत् ज्ञेयम् विदुषा सर्वम् तामसम् गुण-लक्षणम् ॥ १२।३५॥
yat karma kṛtvā kurvan ca kariṣyan ca eva lajjati . tat jñeyam viduṣā sarvam tāmasam guṇa-lakṣaṇam .. 12.35..
12.35. When a (man), having done, doing, or being about to do any act, feels ashamed, the learned may know that all (such acts bear) the mark of the quality of Darkness.
येनास्मिन् कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयं तु राजसम् ॥ १२.३६॥
येन अस्मिन् कर्मणा लोके ख्यातिम् इच्छति पुष्कलाम् । न च शोचति असम्पत्तौ तत् विज्ञेयम् तु राजसम् ॥ १२।३६॥
yena asmin karmaṇā loke khyātim icchati puṣkalām . na ca śocati asampattau tat vijñeyam tu rājasam .. 12.36..
12.36. But, when (a man) desires (to gain) by an act much fame in this world and feels no sorrow on failing, know that it (bears the mark of the quality of) Activity.
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् । येन तुष्यति चात्माऽस्य तत्सत्त्वगुणलक्षणम् ॥ १२.३७॥
यत् सर्वेण इच्छति ज्ञातुम् यत् न लज्जति च आचरन् । येन तुष्यति च आत्मा अस्य तत् सत्त्व-गुण-लक्षणम् ॥ १२।३७॥
yat sarveṇa icchati jñātum yat na lajjati ca ācaran . yena tuṣyati ca ātmā asya tat sattva-guṇa-lakṣaṇam .. 12.37..
12.37. But that (bears) the mark of the quality of Goodness which with his whole (heart) he desires to know, which he is not ashamed to perform, and at which his soul rejoices.
तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ १२.३८॥
तमसः लक्षणम् कामः रजसः तु अर्थः उच्यते । सत्त्वस्य लक्षणम् धर्मः श्रैष्ठ्यम् एषाम् यथोत्तरम् ॥ १२।३८॥
tamasaḥ lakṣaṇam kāmaḥ rajasaḥ tu arthaḥ ucyate . sattvasya lakṣaṇam dharmaḥ śraiṣṭhyam eṣām yathottaram .. 12.38..
12.38. The craving after sensual pleasures is declared to be the mark of Darkness, (the pursuit of) wealth (the mark) of Activity, (the desire to gain) spiritual merit the mark of Goodness; each later) named quality is) better than the preceding one.
येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते । येन यांस्तु तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९॥
येन यः तु गुणेन एषाम् प्रतिपद्यते । येन यान् तु तान् समासेन वक्ष्यामि सर्वस्य अस्य यथाक्रमम् ॥ १२।३९॥
yena yaḥ tu guṇena eṣām pratipadyate . yena yān tu tān samāsena vakṣyāmi sarvasya asya yathākramam .. 12.39..
12.39. I will briefly declare in due order what transmigrations in this whole (world a man) obtains through each of these qualities.
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥ १२.४०॥
देव-त्वम् सात्त्विकाः यान्ति मनुष्य-त्वम् च राजसाः । तिर्यक्त्वम् तामसाः नित्यम् इति एषा त्रिविधा गतिः ॥ १२।४०॥
deva-tvam sāttvikāḥ yānti manuṣya-tvam ca rājasāḥ . tiryaktvam tāmasāḥ nityam iti eṣā trividhā gatiḥ .. 12.40..
12.40. Those endowed with Goodness reach the state of gods, those endowed with Activity the state of men, and those endowed with Darkness ever sink to the condition of beasts; that is the threefold course of transmigrations.
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१॥
त्रिविधा त्रिविधा एषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमा अग्र्या च कर्म-विद्या-विशेषतः ॥ १२।४१॥
trividhā trividhā eṣā tu vijñeyā gauṇikī gatiḥ . adhamā madhyamā agryā ca karma-vidyā-viśeṣataḥ .. 12.41..
12.41. But know this threefold course of transmigrations that depends on the (three) qualities (to be again) threefold, low, middling, and high, according to the particular nature of the acts and of the knowledge (of each man).
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः । पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ १२.४२॥
स्थावराः कृमि-कीटाः च मत्स्याः सर्पाः स कच्छपाः । पशवः च मृगाः च एव जघन्या तामसी गतिः ॥ १२।४२॥
sthāvarāḥ kṛmi-kīṭāḥ ca matsyāḥ sarpāḥ sa kacchapāḥ . paśavaḥ ca mṛgāḥ ca eva jaghanyā tāmasī gatiḥ .. 12.42..
12.42. Immovable (beings), insects, both small and great, fishes, snakes, and tortoises, cattle and wild animals, are the lowest conditions to which (the quality of) Darkness leads.
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः । सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ १२.४३॥
हस्तिनः च तुरङ्गाः च शूद्राः म्लेच्छाः च गर्हिताः । सिंहाः व्याघ्राः वराहाः च मध्यमा तामसी गतिः ॥ १२।४३॥
hastinaḥ ca turaṅgāḥ ca śūdrāḥ mlecchāḥ ca garhitāḥ . siṃhāḥ vyāghrāḥ varāhāḥ ca madhyamā tāmasī gatiḥ .. 12.43..
12.43. Elephants, horses, Sudras, and despicable barbarians, lions, tigers, and boars (are) the middling states, caused by (the quality of) Darkness.
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः । रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ १२.४४॥
चारणाः च सुपर्णाः च पुरुषाः च एव दाम्भिकाः । रक्षांसि च पिशाचाः च तामसीषु उत्तमा गतिः ॥ १२।४४॥
cāraṇāḥ ca suparṇāḥ ca puruṣāḥ ca eva dāmbhikāḥ . rakṣāṃsi ca piśācāḥ ca tāmasīṣu uttamā gatiḥ .. 12.44..
12.44. Karanas, Suparnas and hypocrites, Rakshasas and Pisakas (belong to) the highest (rank of) conditions among those produced by Darkness.
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ १२.४५॥
झल्लाः मल्लाः नटाः च एव पुरुषाः शस्त्रवृत्तयः । द्यूत-पान-प्रसक्ताः च जघन्या राजसी गतिः ॥ १२।४५॥
jhallāḥ mallāḥ naṭāḥ ca eva puruṣāḥ śastravṛttayaḥ . dyūta-pāna-prasaktāḥ ca jaghanyā rājasī gatiḥ .. 12.45..
12.45. Ghallas, Mallas, Natas, men who subsist by despicable occupations and those addicted to gambling and drinking (form) the lowest (order of) conditions caused by Activity.
राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ १२.४६॥
राजानः क्षत्रियाः च एव राज्ञाम् च एव पुरोहिताः । वाद-युद्ध-प्रधानाः च मध्यमा राजसी गतिः ॥ १२।४६॥
rājānaḥ kṣatriyāḥ ca eva rājñām ca eva purohitāḥ . vāda-yuddha-pradhānāḥ ca madhyamā rājasī gatiḥ .. 12.46..
12.46. Kings and Kshatriyas, the domestic priests of kings, and those who delight in the warfare of disputations (constitute) the middling (rank of the) states caused by Activity.
गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७॥
गन्धर्वाः गुह्यकाः यक्षाः विबुध-अनुचराः च ये । तथा एव अप्सरसः सर्वाः राजसीषु उत्तमा गतिः ॥ १२।४७॥
gandharvāḥ guhyakāḥ yakṣāḥ vibudha-anucarāḥ ca ye . tathā eva apsarasaḥ sarvāḥ rājasīṣu uttamā gatiḥ .. 12.47..
12.47. The Gandharvas, the Guhyakas, and the servants of the gods, likewise the Apsarases, (belong all to) the highest (rank of) conditions produced by Activity.
तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ १२.४८॥
तापसाः यतयः विप्राः ये च वैमानिकाः गणाः । नक्षत्राणि च दैत्याः च प्रथमा सात्त्विकी गतिः ॥ १२।४८॥
tāpasāḥ yatayaḥ viprāḥ ye ca vaimānikāḥ gaṇāḥ . nakṣatrāṇi ca daityāḥ ca prathamā sāttvikī gatiḥ .. 12.48..
12.48. Hermits, ascetics, Brahmanas, the crowds of the Vaimanika deities, the lunar mansions, and the Daityas (form) the first (and lowest rank of the) existences caused by Goodness.
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः । पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ १२.४९॥
यज्वानः ऋषयः देवाः वेदाः ज्योतींषि वत्सराः । पितरः च एव साध्याः च द्वितीया सात्त्विकी गतिः ॥ १२।४९॥
yajvānaḥ ṛṣayaḥ devāḥ vedāḥ jyotīṃṣi vatsarāḥ . pitaraḥ ca eva sādhyāḥ ca dvitīyā sāttvikī gatiḥ .. 12.49..
12.49. Sacrificers, the sages, the gods, the Vedas, the heavenly lights, the years, the manes, and the Sadhyas (constitute) the second order of existences, caused by Goodness.
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ १२.५०॥
ब्रह्मा विश्वसृजः धर्मः महान् अव्यक्तम् एव च । उत्तमाम् सात्त्विकीम् एताम् गतिम् आहुः मनीषिणः ॥ १२।५०॥
brahmā viśvasṛjaḥ dharmaḥ mahān avyaktam eva ca . uttamām sāttvikīm etām gatim āhuḥ manīṣiṇaḥ .. 12.50..
12.50. The sages declare Brahma, the creators of the universe, the law, the Great One, and the Undiscernible One (to constitute) the highest order of beings produced by Goodness.
एष सर्वः समुद्दिष्टस् त्रिः प्रकारस्य कर्मणः । त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५१॥
एष सर्वः समुद्दिष्टः त्रिस् प्रकारस्य कर्मणः । त्रिविधः त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२।५१॥
eṣa sarvaḥ samuddiṣṭaḥ tris prakārasya karmaṇaḥ . trividhaḥ trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ .. 12.51..
12.51. Thus (the result) of the threefold action, the whole system of transmigrations which (consists) of three classes, (each) with three subdivisions, and which includes all created beings, has been fully pointed out.
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान् संयान्ति संसारानविद्वांसो नराधमाः ॥ १२.५२॥
इन्द्रियाणाम् प्रसङ्गेन धर्मस्य असेवनेन च । पापान् संयान्ति संसारान् अ विद्वांसः नर-अधमाः ॥ १२।५२॥
indriyāṇām prasaṅgena dharmasya asevanena ca . pāpān saṃyānti saṃsārān a vidvāṃsaḥ nara-adhamāḥ .. 12.52..
12.52. In consequence of attachment to (the objects of) the senses, and in consequence of the non-performance of their duties, fools, the lowest of men, reach the vilest births.
यां यां योनिं तु जीवोऽयं येन येनैह कर्मणा । क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत ॥ १२.५३॥
याम् याम् योनिम् तु जीवः अयम् येन येन इह कर्मणा । क्रमशस् याति लोके अस्मिन् तत् तत् सर्वम् निबोधत ॥ १२।५३॥
yām yām yonim tu jīvaḥ ayam yena yena iha karmaṇā . kramaśas yāti loke asmin tat tat sarvam nibodhata .. 12.53..
12.53. What wombs this individual soul enters in this world and in consequence of what actions, learn the particulars of that at large and in due order.
बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ १२.५४॥
बहून् वर्ष-गणान् घोरान् नरकान् प्राप्य तद्-क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनः तु इमान् ॥ १२।५४॥
bahūn varṣa-gaṇān ghorān narakān prāpya tad-kṣayāt . saṃsārān pratipadyante mahāpātakinaḥ tu imān .. 12.54..
12.54. Those who committed mortal sins (mahapataka), having passed during large numbers of years through dreadful hells, obtain, after the expiration of (that term of punishment), the following births.
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ १२.५५॥
श्व-सूकर-खर-उष्ट्राणाम् गो-अज-अवि-मृग-पक्षिणाम् । चण्डाल-पुक्कसानाम् च ब्रह्म-हा योनिम् ऋच्छति ॥ १२।५५॥
śva-sūkara-khara-uṣṭrāṇām go-aja-avi-mṛga-pakṣiṇām . caṇḍāla-pukkasānām ca brahma-hā yonim ṛcchati .. 12.55..
12.55. The slayer of a Brahmana enters the womb of a dog, a pig, an ass, a camel, a cow, a goat, a sheep, a deer, a bird, a Kandala, and a Pukkasa.
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ १२.५६॥
कृमि-कीट-पतङ्गानाम् विड्भुजाम् च एव पक्षिणाम् । हिंस्राणाम् च एव सत्त्वानाम् सुरा-पः ब्राह्मणः व्रजेत् ॥ १२।५६॥
kṛmi-kīṭa-pataṅgānām viḍbhujām ca eva pakṣiṇām . hiṃsrāṇām ca eva sattvānām surā-paḥ brāhmaṇaḥ vrajet .. 12.56..
12.56. A Brahmana who drinks (the spirituous liquor called) Sura shall enter (the bodies) of small and large insects, of moths, of birds, feeding on ordure, and of destructive beasts.
लूताऽहिसरटानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ १२.५७॥
लूता-अहि-सरटानाम् च तिरश्चाम् च अम्बु-चारिणाम् । हिंस्राणाम् च पिशाचानाम् स्तेनः विप्रः सहस्रशस् ॥ १२।५७॥
lūtā-ahi-saraṭānām ca tiraścām ca ambu-cāriṇām . hiṃsrāṇām ca piśācānām stenaḥ vipraḥ sahasraśas .. 12.57..
12.57. A Brahmana who steals (the gold of a Brahmana shall pass) a thousand times (through the bodies) of spiders, snakes and lizards, of aquatic animals and of destructive Pisakas.
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८॥
तृण-गुल्म-लतानाम् च क्रव्यादाम् दंष्ट्रिणाम् अपि । क्रूर-कर्म-कृताम् च एव शतशस् गुरु-तल्प-गः ॥ १२।५८॥
tṛṇa-gulma-latānām ca kravyādām daṃṣṭriṇām api . krūra-karma-kṛtām ca eva śataśas guru-talpa-gaḥ .. 12.58..
12.58. The violator of a Guru’s bed (enters) a hundred times (the forms) of grasses, shrubs, and creepers, likewise of carnivorous (animals) and of (beasts) with fangs and of those doing cruel deeds.
हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः । परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ॥ १२.५९॥
हिंस्राः भवन्ति क्रव्य-आदाः कृमयः अमेध्य-भक्षिणः । परस्पर-आदिनः स्तेनाः प्रेत्य अन्त्य-स्त्री-निषेविणः ॥ १२।५९॥
hiṃsrāḥ bhavanti kravya-ādāḥ kṛmayaḥ amedhya-bhakṣiṇaḥ . paraspara-ādinaḥ stenāḥ pretya antya-strī-niṣeviṇaḥ .. 12.59..
12.59. Men who delight in doing hurt (become) carnivorous (animals); those who eat forbidden food, worms; thieves, creatures consuming their own kind; those who have intercourse with women of the lowest castes, Pretas.
संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ १२.६०॥
संयोगम् पतितैः गत्वा परस्य एव च योषितम् । अपहृत्य च विप्र-स्वम् भवति ब्रह्मराक्षसः ॥ १२।६०॥
saṃyogam patitaiḥ gatvā parasya eva ca yoṣitam . apahṛtya ca vipra-svam bhavati brahmarākṣasaḥ .. 12.60..
12.60. He who has associated with outcasts, he who has approached the wives of other men, and he who has stolen the property of a Brahmana become Brahmarakshasas.
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१॥
मणि-मुक्ता-प्रवालानि हृत्वा लोभेन मानवः । विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ १२।६१॥
maṇi-muktā-pravālāni hṛtvā lobhena mānavaḥ . vividhāṇi ca ratnāni jāyate hemakartṛṣu .. 12.61..
12.61. A man who out of greed has stolen gems, pearls or coral, or any of the many other kinds of precious things, is born among the goldsmiths.
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ १२.६२॥
धान्यम् हृत्वा भवति आखुः कांस्यम् हंसः जलम् प्लवः । मधु दंशः पयः काकः रसम् श्वा नकुलः घृतम् ॥ १२।६२॥
dhānyam hṛtvā bhavati ākhuḥ kāṃsyam haṃsaḥ jalam plavaḥ . madhu daṃśaḥ payaḥ kākaḥ rasam śvā nakulaḥ ghṛtam .. 12.62..
12.62. For stealing grain (a man) becomes a rat, for stealing yellow metal a Hamsa, for stealing water a Plava, for stealing honey a stinging insect, for stealing milk a crow, for stealing condiments a dog, for stealing clarified butter an ichneumon;
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः । चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ १२.६३॥
मांसम् गृध्रः वपाम् मद्गुः तैलम् तैलपकः खगः । चीरीवाकः तु लवणम् बलाका शकुनिः दधि ॥ १२।६३॥
māṃsam gṛdhraḥ vapām madguḥ tailam tailapakaḥ khagaḥ . cīrīvākaḥ tu lavaṇam balākā śakuniḥ dadhi .. 12.63..
12.63. For stealing meat a vulture, for stealing fat a cormorant, for stealing oil a winged animal (of the kind called) Tailapaka, for stealing salt a cricket, for stealing sour milk a bird (of the kind called) Balaka.
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ १२.६४॥
कौशेयम् तित्तिरिः हृत्वा क्षौमम् हृत्वा तु दर्दुरः । कार्पास-तान्तवम् क्रौञ्चः गोधा गाम् वाग्गुदः गुडम् ॥ १२।६४॥
kauśeyam tittiriḥ hṛtvā kṣaumam hṛtvā tu darduraḥ . kārpāsa-tāntavam krauñcaḥ godhā gām vāggudaḥ guḍam .. 12.64..
12.64. For stealing silk a partridge, for stealing linen a frog, for stealing cotton-cloth a crane, for stealing a cow an iguana, for stealing molasses a flying-fox;
छुच्छुन्दरीः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । श्वावित्कृतान्नं विविधमकृतान्नं तु शल्यकः ॥ १२.६५॥
छुच्छुन्दरीः शुभान् गन्धान् पत्र-शाकम् तु बर्हिणः । श्वाविध् कृत-अन्नम् विविधम् अकृत-अन्नम् तु शल्यकः ॥ १२।६५॥
chucchundarīḥ śubhān gandhān patra-śākam tu barhiṇaḥ . śvāvidh kṛta-annam vividham akṛta-annam tu śalyakaḥ .. 12.65..
12.65. For stealing fine perfumes a musk-rat, for stealing vegetables consisting of leaves a peacock, for stealing cooked food of various kinds a porcupine, for stealing uncooked food a hedgehog.
बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ १२.६६॥
बकः भवति हृत्वा अग्निम् गृहकारी हि उपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ १२।६६॥
bakaḥ bhavati hṛtvā agnim gṛhakārī hi upaskaram . raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ .. 12.66..
12.66. For stealing fire he becomes a heron, for stealing household-utensils a mason-wasp, for stealing dyed clothes a francolin-partridge;
वृको मृगैभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः । स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ॥ १२.६७॥
वृकः मृग-एभम् व्याघ्रः अश्वम् फल-मूलम् तु मर्कटः । स्त्रीम् ऋक्षः स्तोककः वारि यानानि उष्ट्रः पशूनजः ॥ १२।६७॥
vṛkaḥ mṛga-ebham vyāghraḥ aśvam phala-mūlam tu markaṭaḥ . strīm ṛkṣaḥ stokakaḥ vāri yānāni uṣṭraḥ paśūnajaḥ .. 12.67..
12.67. For stealing a deer or an elephant a wolf, for stealing a horse a tiger, for stealing fruit and roots a monkey, for stealing a woman a bear, for stealing water a black-white cuckoo, for stealing vehicles a camel, for stealing cattle a he-goat.
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ १२.६८॥
यत् वा तत् वा पर-द्रव्यम् अपहृत्य बलात् नरः । अवश्यम् याति तिर्यक्त्वम् जग्ध्वा च एव आहुतम् हविः ॥ १२।६८॥
yat vā tat vā para-dravyam apahṛtya balāt naraḥ . avaśyam yāti tiryaktvam jagdhvā ca eva āhutam haviḥ .. 12.68..
12.68. That man who has forcibly taken away any kind of property belonging to another, or who has eaten sacrificial food (of) which (no portion) had been offered, inevitably becomes an animal.
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ १२.६९॥
स्त्रियः अपि एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः । एतेषाम् एव जन्तूनाम् भार्या-त्वम् उपयान्ति ताः ॥ १२।६९॥
striyaḥ api etena kalpena hṛtvā doṣam avāpnuyuḥ . eteṣām eva jantūnām bhāryā-tvam upayānti tāḥ .. 12.69..
12.69. Women, also, who in like manner have committed a theft, shall incur guilt; they will become the females of those same creatures (which have been enumerated above).
स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि । पापान् संसृत्य संसारान् प्रेष्यतां यान्ति दस्युषु ॥ १२.७०॥
स्वेभ्यः स्वेभ्यः तु कर्मभ्यः च्युताः वर्णाः हि अनापदि । पापान् संसृत्य संसारान् प्रेष्य-ताम् यान्ति दस्युषु ॥ १२।७०॥
svebhyaḥ svebhyaḥ tu karmabhyaḥ cyutāḥ varṇāḥ hi anāpadi . pāpān saṃsṛtya saṃsārān preṣya-tām yānti dasyuṣu .. 12.70..
12.70. But (men of the four) castes who have relinquished without the pressure of necessity their proper occupations, will become the servants of Dasyus, after migrating into despicable bodies.
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः ॥ १२.७१॥
वान्ताशी उल्कामुखः प्रेतः विप्रः धर्मात् स्वकात् च्युतः । अमेध्य-कुणप-आशी च क्षत्रियः कूटपूतनः ॥ १२।७१॥
vāntāśī ulkāmukhaḥ pretaḥ vipraḥ dharmāt svakāt cyutaḥ . amedhya-kuṇapa-āśī ca kṣatriyaḥ kūṭapūtanaḥ .. 12.71..
12.71. A Brahmana who has fallen off from his duty (becomes) an Ulkamukha Preta, who feeds on what has been vomited; and a Kshatriya, a Kataputana (Preta), who eats impure substances and corpses.
मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः ॥ १२.७२॥
भवति । चैलाशकः च भवति शूद्रः धर्मात् स्वकात् च्युतः ॥ १२।७२॥
bhavati . cailāśakaḥ ca bhavati śūdraḥ dharmāt svakāt cyutaḥ .. 12.72..
12.72. A Vaisya who has fallen off from his duty becomes a Maitrakshagyotika Preta, who feeds on pus; and a Sudra, a Kailasaka (Preta, who feeds on moths).
यथा यथा निषेवन्ते विषयान् विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३॥
यथा यथा निषेवन्ते विषयान् विषय-आत्मकाः । तथा तथा कुशल-ता तेषाम् तेषु उपजायते ॥ १२।७३॥
yathā yathā niṣevante viṣayān viṣaya-ātmakāḥ . tathā tathā kuśala-tā teṣām teṣu upajāyate .. 12.73..
12.73. In proportion as sensual men indulge in sensual pleasures, in that same proportion their taste for them grows.
तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः । सम्प्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥ १२.७४॥
ते अभ्यासात् कर्मणाम् तेषाम् पापानाम् अल्पबुद्धयः । सम्प्राप्नुवन्ति दुःखानि तासु तासु इह योनिषु ॥ १२।७४॥
te abhyāsāt karmaṇām teṣām pāpānām alpabuddhayaḥ . samprāpnuvanti duḥkhāni tāsu tāsu iha yoniṣu .. 12.74..
12.74. By repeating their sinful acts those men of small understanding suffer pain here (below) in various births;
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । असिपत्रवनादीनि बन्धनछेदनानि च ॥ १२.७५॥
तामिस्र-आदिषु च उग्रेषु नरकेषु विवर्तनम् । असिपत्रवन-आदीनि बन्धन-छेदनानि च ॥ १२।७५॥
tāmisra-ādiṣu ca ugreṣu narakeṣu vivartanam . asipatravana-ādīni bandhana-chedanāni ca .. 12.75..
12.75. (The torture of) being tossed about in dreadful hells, Tamisra and the rest, (that of) the Forest with sword-leaved trees and the like, and (that of) being bound and mangled;
विविधाश्चैव सम्पीडाः काकोलूकैश्च भक्षणम् । करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् ॥ १२.७६॥
विविधाः च एव सम्पीडाः काक-उलूकैः च भक्षणम् । करम्भ-वालुका-तापान् कुम्भीपाकान् च दारुणान् ॥ १२।७६॥
vividhāḥ ca eva sampīḍāḥ kāka-ulūkaiḥ ca bhakṣaṇam . karambha-vālukā-tāpān kumbhīpākān ca dāruṇān .. 12.76..
12.76. And various torments, the (pain of) being devoured by ravens and owls, the heat of scorching sand, and the (torture of) being boiled in jars, which is hard to bear;
सम्भवांश्च वियोनीषु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च ॥ १२.७७॥
सम्भवान् च वियोनीषु दुःख-प्रायासु नित्यशस् । शीत-आतप-अभिघातान् च विविधानि भयानि च ॥ १२।७७॥
sambhavān ca viyonīṣu duḥkha-prāyāsu nityaśas . śīta-ātapa-abhighātān ca vividhāni bhayāni ca .. 12.77..
12.77. And births in the wombs (of) despicable (beings) which cause constant misery, and afflictions from cold and heat and terrors of various kinds,
असकृद्गर्भवासेषु वासं जन्म च दारुणम् । बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ॥ १२.७८॥
असकृत् गर्भ-वासेषु वासम् जन्म च दारुणम् । बन्धनानि च कष्टानि पर-प्रेष्य-त्वम् एव च ॥ १२।७८॥
asakṛt garbha-vāseṣu vāsam janma ca dāruṇam . bandhanāni ca kaṣṭāni para-preṣya-tvam eva ca .. 12.78..
12.78. The (pain of) repeatedly lying in various wombs and agonizing births, imprisonment in fetters hard to bear, and the misery of being enslaved by others,
बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः । द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९॥
बन्धु-प्रिय-वियोगान् च संवासम् च एव दुर्जनैः । द्रव्य-अर्जनम् च नाशम् च मित्र-अमित्रस्य च अर्जनम् ॥ १२।७९॥
bandhu-priya-viyogān ca saṃvāsam ca eva durjanaiḥ . dravya-arjanam ca nāśam ca mitra-amitrasya ca arjanam .. 12.79..
12.79. And separations from their relatives and dear ones, and the (pain of) dwelling together with the wicked, (labour in) gaining wealth and its loss, (trouble in) making friends and (the appearance of) enemies,
जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् । क्लेशांश्च विविधांस्तांस्तान् मृत्युमेव च दुर्जयम् ॥ १२.८०॥
जराम् च एव अप्रतीकाराम् व्याधिभिः च उपपीडनम् । क्लेशान् च विविधान् तान् तान् मृत्युम् एव च दुर्जयम् ॥ १२।८०॥
jarām ca eva apratīkārām vyādhibhiḥ ca upapīḍanam . kleśān ca vividhān tān tān mṛtyum eva ca durjayam .. 12.80..
12.80. Old age against which there is no remedy, the pangs of diseases, afflictions of many various kinds, and (finally) unconquerable death
यादृशेन तु भावेन यद्यत्कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥ १२.८१॥
यादृशेन तु भावेन यत् यत् कर्म निषेवते । तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥ १२।८१॥
yādṛśena tu bhāvena yat yat karma niṣevate . tādṛśena śarīreṇa tat tat phalam upāśnute .. 12.81..
.12.81. But with whatever disposition of mind (a man) forms any act, he reaps its result in a (future) body endowed with the same quality.
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः । नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२॥
एष सर्वः समुद्दिष्टः कर्मणाम् वः फल-उदयः । नैःश्रेयस-करम् कर्म विप्रस्य इदम् निबोधत ॥ १२।८२॥
eṣa sarvaḥ samuddiṣṭaḥ karmaṇām vaḥ phala-udayaḥ . naiḥśreyasa-karam karma viprasya idam nibodhata .. 12.82..
12.82. All the results, proceeding from actions, have been thus pointed out; learn (next) those acts which secure supreme bliss to a Brahmana.
वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३॥
वेद-अभ्यासः तपः ज्ञानम् इन्द्रियाणाम् च संयमः । अहिंसा गुरु-सेवा च निःश्रेयस-करम् परम् ॥ १२।८३॥
veda-abhyāsaḥ tapaḥ jñānam indriyāṇām ca saṃyamaḥ . ahiṃsā guru-sevā ca niḥśreyasa-karam param .. 12.83..
12.83. Studying the Veda, (practising) austerities, (the acquisition of true) knowledge, the subjugation of the organs, abstention from doing injury, and serving the Guru are the best means for attaining supreme bliss.
सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् । किं चित्श्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४॥
सर्वेषाम् अपि च एतेषाम् शुभानाम् इह कर्मणाम् । किम् चित्-श्रेयस्करतरम् कर्म उक्तम् पुरुषम् प्रति ॥ १२।८४॥
sarveṣām api ca eteṣām śubhānām iha karmaṇām . kim cit-śreyaskarataram karma uktam puruṣam prati .. 12.84..
12.84. (If you ask) whether among all these virtuous actions, (performed) here below, (there be) one which has been declared more efficacious (than the rest) for securing supreme happiness to man,
सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ १२.८५॥
सर्वेषाम् अपि च एतेषाम् आत्म-ज्ञानम् परम् स्मृतम् । तत् हि अग्र्यम् सर्व-विद्यानाम् प्राप्यते हि अमृतम् ततस् ॥ १२।८५॥
sarveṣām api ca eteṣām ātma-jñānam param smṛtam . tat hi agryam sarva-vidyānām prāpyate hi amṛtam tatas .. 12.85..
12.85. (The answer is that) the knowledge of the Soul is stated to be the most excellent among all of them; for that is the first of all sciences, because immortality is gained through that.
षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चैह च । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६॥
षण्णाम् एषाम् तु सर्वेषाम् कर्मणाम् प्रेत्य च एह च । श्रेयस्करतरम् ज्ञेयम् सर्वदा कर्म वैदिकम् ॥ १२।८६॥
ṣaṇṇām eṣām tu sarveṣām karmaṇām pretya ca eha ca . śreyaskarataram jñeyam sarvadā karma vaidikam .. 12.86..
12.86. Among those six (kinds of) actions (enumerated) above, the performance of) the acts taught in the Veda must ever be held to be most efficacious for ensuring happiness in this world and the next.
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ ॥ १२.८७॥
वैदिके कर्म-योगे तु सर्वाणि एतानि अशेषतस् । अन्तर्भवन्ति क्रमशस् तस्मिन् तस्मिन् क्रिया-विधौ ॥ १२।८७॥
vaidike karma-yoge tu sarvāṇi etāni aśeṣatas . antarbhavanti kramaśas tasmin tasmin kriyā-vidhau .. 12.87..
12.87. For in the performance of the acts prescribed by the Veda all those (others) are fully comprised, (each) in its turn in the several rules for the rites.
सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८॥
सुख-आभ्युदयिकम् च एव नैःश्रेयसिकम् एव च । प्रवृत्तम् च निवृत्तम् च द्विविधम् कर्म वैदिकम् ॥ १२।८८॥
sukha-ābhyudayikam ca eva naiḥśreyasikam eva ca . pravṛttam ca nivṛttam ca dvividham karma vaidikam .. 12.88..
12.88. The acts prescribed by the Veda are of two kinds, such as procure an increase of happiness and cause a continuation (of mundane existence, pravritta), and such as ensure supreme bliss and cause a cessation (of mundane existence, nivritta).
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ १२.८९॥
इह च अमुत्र वा काम्यम् प्रवृत्तम् कर्म कीर्त्यते । निष्कामम् ज्ञात-पूर्वम् तु निवृत्तम् उपदिश्यते ॥ १२।८९॥
iha ca amutra vā kāmyam pravṛttam karma kīrtyate . niṣkāmam jñāta-pūrvam tu nivṛttam upadiśyate .. 12.89..
12.89. Acts which secure (the fulfilment of) wishes in this world or in the next are called pravritta (such as cause a continuation of mundane existence); but acts performed without any desire (for a reward), preceded by (the acquisition) of (true) knowledge, are declared to be nivritta (such as cause the cessation of mundane existence).
प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् । निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ १२.९०॥
प्रवृत्तम् कर्म संसेव्यम् देवानाम् एति साम्यताम् । निवृत्तम् सेवमानः तु भूतानि अत्येति पञ्च वै ॥ १२।९०॥
pravṛttam karma saṃsevyam devānām eti sāmyatām . nivṛttam sevamānaḥ tu bhūtāni atyeti pañca vai .. 12.90..
12.90. He who sedulously performs acts leading to future births (pravritta) becomes equal to the gods; but he who is intent on the performance of those causing the cessation (of existence, nivritta) indeed, passes beyond (the reach of) the five elements.
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ १२.९१॥
सर्व-भूतेषु च आत्मानम् सर्व-भूतानि च आत्मनि । समम् पश्यन् आत्म-याजी स्वाराज्यम् अधिगच्छति ॥ १२।९१॥
sarva-bhūteṣu ca ātmānam sarva-bhūtāni ca ātmani . samam paśyan ātma-yājī svārājyam adhigacchati .. 12.91..
12.91. He who sacrifices to the Self (alone), equally recognising the Self in all created beings and all created beings in the Self, becomes (independent like) an autocrat and self-luminous.
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ १२.९२॥
यथा उक्तानि अपि कर्माणि परिहाय द्विजोत्तमः । आत्म-ज्ञाने शमे च स्यात् वेद-अभ्यासे च यत्नवान् ॥ १२।९२॥
yathā uktāni api karmāṇi parihāya dvijottamaḥ . ātma-jñāne śame ca syāt veda-abhyāse ca yatnavān .. 12.92..
12.92. After giving up even the above-mentioned sacrificial rites, a Brahmana should exert himself in (acquiring) the knowledge of the Soul, in extinguishing his passions, and in studying the Veda.
एतधि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३॥
एतत् हि जन्म-साफल्यम् ब्राह्मणस्य विशेषतः । प्राप्य एतत् कृतकृत्यः हि द्विजः भवति न अन्यथा ॥ १२।९३॥
etat hi janma-sāphalyam brāhmaṇasya viśeṣataḥ . prāpya etat kṛtakṛtyaḥ hi dvijaḥ bhavati na anyathā .. 12.93..
12.93. For that secures the attainment of the object of existence, especially in the case of a Brahmana, because by attaining that, not otherwise, a twice-born man has gained all his ends.
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ १२.९४॥
पितृ-देव-मनुष्याणाम् वेदः चक्षुः सनातनम् । अशक्यम् च अप्रमेयम् च वेद-शास्त्रम् इति स्थितिः ॥ १२।९४॥
pitṛ-deva-manuṣyāṇām vedaḥ cakṣuḥ sanātanam . aśakyam ca aprameyam ca veda-śāstram iti sthitiḥ .. 12.94..
12.94. The Veda is the eternal eye of the manes, gods, and men; the Veda-ordinance (is) both beyond the sphere of (human) power, and beyond the sphere of (human) comprehension; that is a certain fact.
या वेदबाह्याः श्रुतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५॥
याः वेद-बाह्याः श्रुतयः याः च काः च कुदृष्टयः । सर्वाः ताः निष्फलाः प्रेत्य तमः-निष्ठाः हि ताः स्मृताः ॥ १२।९५॥
yāḥ veda-bāhyāḥ śrutayaḥ yāḥ ca kāḥ ca kudṛṣṭayaḥ . sarvāḥ tāḥ niṣphalāḥ pretya tamaḥ-niṣṭhāḥ hi tāḥ smṛtāḥ .. 12.95..
12.95. All those traditions (smriti) and those despicable systems of philosophy, which are not based on the Veda, produce no reward after death; for they are declared to be founded on Darkness.
उत्पद्यन्ते विनश्यन्ति च यान्यतोऽन्यानि कानि चित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ॥ १२.९६॥
उत्पद्यन्ते विनश्यन्ति च यानि अतस् अन्यानि कानि चित् । तानि अर्वाक् कालिकतया निष्फलानि अनृतानि च ॥ १२।९६॥
utpadyante vinaśyanti ca yāni atas anyāni kāni cit . tāni arvāk kālikatayā niṣphalāni anṛtāni ca .. 12.96..
12.96. All those (doctrines), differing from the (Veda), which spring up and (soon) perish, are worthless and false, because they are of modern date.
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भवद्भविष्यं च सर्वं वेदात्प्रसिध्यति ॥ १२.९७॥
चातुर्वर्ण्यम् त्रयः लोकाः चत्वारः च आश्रमाः पृथक् । भूतम् भवत्-भविष्यम् च सर्वम् वेदात् प्रसिध्यति ॥ १२।९७॥
cāturvarṇyam trayaḥ lokāḥ catvāraḥ ca āśramāḥ pṛthak . bhūtam bhavat-bhaviṣyam ca sarvam vedāt prasidhyati .. 12.97..
12.97. The four castes, the three worlds, the four orders, the past, the present, and the future are all severally known by means of the Veda.
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ १२.९८॥
शब्दः स्पर्शः च रूपम् च रसः गन्धः च पञ्चमः । वेदात् एव प्रसूयन्ते प्रसूतिः गुण-कर्मतः ॥ १२।९८॥
śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandhaḥ ca pañcamaḥ . vedāt eva prasūyante prasūtiḥ guṇa-karmataḥ .. 12.98..
12.98. Sound, touch, colour, taste, and fifthly smell are known through the Veda alone, (their) production (is) through the (Vedic rites, which in this respect are) secondary acts.
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्मादेतत्परं मन्ये यत्जन्तोरस्य साधनम् ॥ १२.९९॥
बिभर्ति सर्व-भूतानि वेद-शास्त्रम् सनातनम् । तस्मात् एतत् परम् मन्ये यत् जन्तोः अस्य साधनम् ॥ १२।९९॥
bibharti sarva-bhūtāni veda-śāstram sanātanam . tasmāt etat param manye yat jantoḥ asya sādhanam .. 12.99..
12.99. The eternal lore of the Veda upholds all created beings; hence I hold that to be supreme, which is the means of (securing happiness to) these creatures.
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ १२.१००॥
सैनापत्यम् च राज्यम् च दण्ड-नेतृ-त्वम् एव च । सर्व-लोक-आधिपत्यम् च वेद-शास्त्र-विद् अर्हति ॥ १२।१००॥
saināpatyam ca rājyam ca daṇḍa-netṛ-tvam eva ca . sarva-loka-ādhipatyam ca veda-śāstra-vid arhati .. 12.100..
12.100. Command of armies, royal authority, the office of a judge, and sovereignty over the whole world he (only) deserves who knows the Veda-science.
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १२.१०१॥
यथा जात-बलः वह्निः दहति आर्द्रान् अपि द्रुमान् । तथा दहति वेद-ज्ञः कर्म-जम् दोषम् आत्मनः ॥ १२।१०१॥
yathā jāta-balaḥ vahniḥ dahati ārdrān api drumān . tathā dahati veda-jñaḥ karma-jam doṣam ātmanaḥ .. 12.101..
12.101. As a fire that has gained strength consumes even trees full of sap, even so he who knows the Veda burns out the taint of his soul which arises from (evil) acts.
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२॥
वेद-शास्त्र-अर्थ-तत्त्व-ज्ञः यत्र तत्र आश्रमे वसन् । इह एव लोके तिष्ठन् स ब्रह्म-भूयाय कल्पते ॥ १२।१०२॥
veda-śāstra-artha-tattva-jñaḥ yatra tatra āśrame vasan . iha eva loke tiṣṭhan sa brahma-bhūyāya kalpate .. 12.102..
12.102. In whatever order (a man) who knows the true meaning of the Veda-science may dwell, he becomes even while abiding in this world, fit for the union with Brahman.
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३॥
अज्ञेभ्यः ग्रन्थिनः श्रेष्ठाः ग्रन्थिभ्यः धारिणः वराः । धारिभ्यः ज्ञानिनः श्रेष्ठाः ज्ञानिभ्यः व्यवसायिनः ॥ १२।१०३॥
ajñebhyaḥ granthinaḥ śreṣṭhāḥ granthibhyaḥ dhāriṇaḥ varāḥ . dhāribhyaḥ jñāninaḥ śreṣṭhāḥ jñānibhyaḥ vyavasāyinaḥ .. 12.103..
12.103. (Even forgetful) students of the (sacred) books are more distinguished than the ignorant, those who remember them surpass the (forgetful) students, those who possess a knowledge (of the meaning) are more distinguished than those who (only) remember (the words), men who follow (the teaching of the texts) surpass those who (merely) know (their meaning).
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥ १२.१०४॥
तपः विद्या च विप्रस्य निःश्रेयस-करम् परम् । तपसा किल्बिषम् हन्ति विद्यया अमृतम् अश्नुते ॥ १२।१०४॥
tapaḥ vidyā ca viprasya niḥśreyasa-karam param . tapasā kilbiṣam hanti vidyayā amṛtam aśnute .. 12.104..
12.104. Austerity and sacred learning are the best means by which a Brahmana secures supreme bliss; by austerities he destroys guilt, by sacred learning he obtains the cessation of (births and) deaths.
प्रत्यक्षं चानुमानं च शास्त्रं च विविधाऽऽगमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ १२.१०५॥
प्रत्यक्षम् च अनुमानम् च शास्त्रम् च विविध-आगमम् । त्रयम् सु विदितम् कार्यम् धर्म-शुद्धिम् अभीप्सता ॥ १२।१०५॥
pratyakṣam ca anumānam ca śāstram ca vividha-āgamam . trayam su viditam kāryam dharma-śuddhim abhīpsatā .. 12.105..
12.105. The three (kinds of evidence), perception, inference, and the (sacred) Institutes which comprise the tradition (of) many (schools), must be fully understood by him who desires perfect correctness with respect to the sacred law.
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नैतरः ॥ १२.१०६॥
आर्षम् धर्म-उपदेशम् च वेद-शास्त्र-अविरोधिना । यः तर्केण अनुसंधत्ते स धर्मम् वेद न एतरः ॥ १२।१०६॥
ārṣam dharma-upadeśam ca veda-śāstra-avirodhinā . yaḥ tarkeṇa anusaṃdhatte sa dharmam veda na etaraḥ .. 12.106..
12.106. He alone, and no other man, knows the sacred law, who explores the (utterances) of the sages and the body of the laws, by (modes of) reasoning, not repugnant to the Veda-lore.
नैःश्रेयसमिदं कर्म यथोदितमशेषतः । मानवस्यास्य शास्त्रस्य रहस्यम उपदेक्ष्यते॥ १२.१०७॥
नैःश्रेयसम् इदम् कर्म यथा उदितम् अशेषतस् । मानवस्य अस्य शास्त्रस्य रहस्यम् अमः उपदेक्ष्यते॥ १२।१०७॥
naiḥśreyasam idam karma yathā uditam aśeṣatas . mānavasya asya śāstrasya rahasyam amaḥ upadekṣyate.. 12.107..
12.107. Thus the acts which secure supreme bliss have been exactly and fully described; (now) the secret portion of these Institutes, proclaimed by Manu, will be taught.
अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ १२.१०८॥
अन् आम्नातेषु धर्मेषु कथम् स्यात् इति चेद् भवेत् । यम् शिष्टाः ब्राह्मणाः ब्रूयुः स धर्मः स्यात् अशङ्कितः ॥ १२।१०८॥
an āmnāteṣu dharmeṣu katham syāt iti ced bhavet . yam śiṣṭāḥ brāhmaṇāḥ brūyuḥ sa dharmaḥ syāt aśaṅkitaḥ .. 12.108..
12.108. If it be asked how it should be with respect to (points of) the law which have not been (specially) mentioned, (the answer is), ’that which Brahmanas (who are) Sishtas propound, shall doubtlessly have legal (force).
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९॥
धर्मेण अधिगतः यैः तु वेदः स परिबृंहणः । ते शिष्टाः ब्राह्मणाः ज्ञेयाः श्रुति-प्रत्यक्ष-हेतवः ॥ १२।१०९॥
dharmeṇa adhigataḥ yaiḥ tu vedaḥ sa paribṛṃhaṇaḥ . te śiṣṭāḥ brāhmaṇāḥ jñeyāḥ śruti-pratyakṣa-hetavaḥ .. 12.109..
12.109. Those Brahmanas must be considered as Sishtas who, in accordance with the sacred law, have studied the Veda together with its appendages, and are able to adduce proofs perceptible by the senses from the revealed texts.
दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्य्ऽवरा वाऽपि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११०॥
दश-अवराः वा परिषद्यम् धर्मम् परिकल्पयेत् । त्रि-अवरा वा अपि वृत्त-स्था तम् धर्मम् न विचालयेत् ॥ १२।११०॥
daśa-avarāḥ vā pariṣadyam dharmam parikalpayet . tri-avarā vā api vṛtta-sthā tam dharmam na vicālayet .. 12.110..
12.110. Whatever an assembly, consisting either of at least ten, or of at least three persons who follow their prescribed occupations, declares to be law, the legal (force of) that one must not dispute.
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ १२.१११॥
त्रैविद्यः हेतुकः तर्की नैरुक्तः धर्म-पाठकः । त्रयः च आश्रमिणः पूर्वे परिषद् स्यात् दश-अवरा ॥ १२।१११॥
traividyaḥ hetukaḥ tarkī nairuktaḥ dharma-pāṭhakaḥ . trayaḥ ca āśramiṇaḥ pūrve pariṣad syāt daśa-avarā .. 12.111..
12.111. Three persons who each know one of the three principal Vedas, a logician, a Mimamsaka, one who knows the Nirukta, one who recites (the Institutes of) the sacred law, and three men belonging to the first three orders shall constitute a (legal) assembly, consisting of at least ten members.
ऋग्वेदविद्यजुर्विद्च सामवेदविदेव च । त्र्य्ऽवरा परिषद्ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२॥
ऋग्वेद-विद् यजुः-विद् च सामवेद-विद् एव च । त्रि-अवरा परिषद् ज्ञेया धर्म-संशय-निर्णये ॥ १२।११२॥
ṛgveda-vid yajuḥ-vid ca sāmaveda-vid eva ca . tri-avarā pariṣad jñeyā dharma-saṃśaya-nirṇaye .. 12.112..
12.112. One who knows the Rig-veda, one who knows the Yagur-veda, and one who knows the Sama-veda, shall be known (to form) an assembly consisting of at least three members (and competent) to decide doubtful points of law.
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः । स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ १२.११३॥
एकः अपि वेद-विद् धर्मम् यम् व्यवस्येत् द्विजोत्तमः । स विज्ञेयः परः धर्मः न अज्ञान-अमुदितः अयुतैः ॥ १२।११३॥
ekaḥ api veda-vid dharmam yam vyavasyet dvijottamaḥ . sa vijñeyaḥ paraḥ dharmaḥ na ajñāna-amuditaḥ ayutaiḥ .. 12.113..
12.113. Even that which one Brahmana versed in the Veda declares to be law, must be considered (to have) supreme legal (force, but) not that which is proclaimed by myriads of ignorant men.
अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४॥
अ व्रतानाम् अ मन्त्राणाम् जाति-मात्र-उपजीविनाम् । सहस्रशस् समेतानाम् परिषद्-त्वम् न विद्यते ॥ १२।११४॥
a vratānām a mantrāṇām jāti-mātra-upajīvinām . sahasraśas sametānām pariṣad-tvam na vidyate .. 12.114..
12.114. Even if thousands of Brahmanas, who have not fulfilled their sacred duties, are unacquainted with the Veda, and subsist only by the name of their caste, meet, they cannot (form) an assembly (for settling the sacred law).
यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ॥ १२.११५॥
यम् वदन्ति तमः-भूताः मूर्खाः धर्म-मत-द्विदः । तत् पापम् शतधा भूत्वा तद्-वक्तॄन् अनुगच्छति ॥ १२।११५॥
yam vadanti tamaḥ-bhūtāḥ mūrkhāḥ dharma-mata-dvidaḥ . tat pāpam śatadhā bhūtvā tad-vaktṝn anugacchati .. 12.115..
12.115. The sin of him whom dunces, incarnations of Darkness, and unacquainted with the law, instruct (in his duty), falls, increased a hundredfold, on those who propound it.
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् । अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६॥
एतत् वः अभिहितम् सर्वम् निःश्रेयस-करम् परम् । अस्मात् अप्रच्युतः विप्रः प्राप्नोति परमाम् गतिम् ॥ १२।११६॥
etat vaḥ abhihitam sarvam niḥśreyasa-karam param . asmāt apracyutaḥ vipraḥ prāpnoti paramām gatim .. 12.116..
12.116. All that which is most efficacious for securing supreme bliss has been thus declared to you; a Brahmana who does not fall off from that obtains the most excellent state.
एवं स भगवान् देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ १२.११७॥
एवम् स भगवान् देवः लोकानाम् हित-काम्यया । धर्मस्य परमम् गुह्यम् मम इदम् सर्वम् उक्तवान् ॥ १२।११७॥
evam sa bhagavān devaḥ lokānām hita-kāmyayā . dharmasya paramam guhyam mama idam sarvam uktavān .. 12.117..
12.117. Thus did that worshipful deity disclose to me, through a desire of benefiting mankind, this whole most excellent secret of the sacred law.
सर्वमात्मनि सम्पश्येत्सत्चासत्च समाहितः । सर्वं ह्यात्मनि सम्पश्यन्नाधर्मे कुरुते मनः ॥ १२.११८॥
सर्वम् आत्मनि सम्पश्येत् सत् च असत् च समाहितः । सर्वम् हि आत्मनि सम्पश्यन् न अधर्मे कुरुते मनः ॥ १२।११८॥
sarvam ātmani sampaśyet sat ca asat ca samāhitaḥ . sarvam hi ātmani sampaśyan na adharme kurute manaḥ .. 12.118..
12.118. Let (every Brahmana), concentrating his mind, fully recognise in the Self all things, both the real and the unreal, for he who recognises the universe in the Self, does not give his heart to unrighteousness.
आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ १२.११९॥
आत्मा एव देवताः सर्वाः सर्वम् आत्मनि अवस्थितम् । आत्मा हि जनयति एषाम् कर्म-योगम् शरीरिणाम् ॥ १२।११९॥
ātmā eva devatāḥ sarvāḥ sarvam ātmani avasthitam . ātmā hi janayati eṣām karma-yogam śarīriṇām .. 12.119..
12.119. The Self alone is the multitude of the gods, the universe rests on the Self; for the Self produces the connexion of these embodied (spirits) with actions.
खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् । पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२.१२०॥
खम् संनिवेशयेत् खेषु चेष्टन-स्पर्शने अनिलम् । पक्ति-दृष्ट्योः परम् तेजः स्नेहे अपः गाम् च मूर्तिषु ॥ १२।१२०॥
kham saṃniveśayet kheṣu ceṣṭana-sparśane anilam . pakti-dṛṣṭyoḥ param tejaḥ snehe apaḥ gām ca mūrtiṣu .. 12.120..
12.120. Let him meditate on the ether as identical with the cavities (of the body), on the wind as identical with the organs of motions and of touch, on the most excellent light as the same with his digestive organs and his sight, on water as the same with the (corporeal) fluids, on the earth as the same with the solid parts (of his body);
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१॥
मनसि इन्दुम् दिशः श्रोत्रे क्रान्ते विष्णुम् बले हरम् । वाचि अग्निम् मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ १२।१२१॥
manasi indum diśaḥ śrotre krānte viṣṇum bale haram . vāci agnim mitram utsarge prajane ca prajāpatim .. 12.121..
12.121. On the moon as one with the internal organ, on the quarters of the horizon as one with his sense of hearing, on Vishnu as one with his (power of) motion, on Hara as the same with his strength, on Agni (Fire) as identical with his speech, on Mitra as identical with his excretions, and on Pragapati as one with his organ of generation.
प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२.१२२॥
प्रशासितारम् सर्वेषाम् अणीयांसम् अणोः अपि । रुक्म-आभम् स्वप्न-धी-गम्यम् विद्यात् तम् पुरुषम् परम् ॥ १२।१२२॥
praśāsitāram sarveṣām aṇīyāṃsam aṇoḥ api . rukma-ābham svapna-dhī-gamyam vidyāt tam puruṣam param .. 12.122..
12.122. Let him know the supreme Male (Purusha, to be) the sovereign ruler of them all, smaller even than small, bright like gold, and perceptible by the intellect (only when) in (a state of) sleep (-like abstraction).
एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२.१२३॥
एतम् एके वदन्ति अग्निम् मनुम् अन्ये प्रजापतिम् । इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ १२।१२३॥
etam eke vadanti agnim manum anye prajāpatim . indram eke pare prāṇam apare brahma śāśvatam .. 12.123..
12.123. Some call him Agni (Fire), others Manu, the Lord of creatures, others Indra, others the vital air, and again others eternal Brahman.
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४॥
एष सर्वाणि भूतानि पञ्चभिः व्याप्य मूर्तिभिः । जन्म-वृद्धि-क्षयैः नित्यम् संसारयति चक्र-वत् ॥ १२।१२४॥
eṣa sarvāṇi bhūtāni pañcabhiḥ vyāpya mūrtibhiḥ . janma-vṛddhi-kṣayaiḥ nityam saṃsārayati cakra-vat .. 12.124..
12.124. He pervades all created beings in the five forms, and constantly makes them, by means of birth, growth and decay, revolve like the wheels (of a chariot).
एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५॥
एवम् यः सर्व-भूतेषु पश्यति आत्मानम् आत्मना । स सर्व-सम-ताम् एत्य ब्रह्म अभ्येति परम् पदम् ॥ १२।१२५॥
evam yaḥ sarva-bhūteṣu paśyati ātmānam ātmanā . sa sarva-sama-tām etya brahma abhyeti param padam .. 12.125..
12.125. He who thus recognises the Self through the Self in all created beings, becomes equal (-minded) towards all, and enters the highest state, Brahman.
इत्येतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः । भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२.१२६॥
इति एतत् मानवम् शास्त्रम् भृगु-प्रोक्तम् पठन् द्विजः । भवति आचारवान् नित्यम् यथा इष्टाम् प्राप्नुयात् गतिम् ॥ १२।१२६॥
iti etat mānavam śāstram bhṛgu-proktam paṭhan dvijaḥ . bhavati ācāravān nityam yathā iṣṭām prāpnuyāt gatim .. 12.126..
12.126. A twice-born man who recites these Institutes, revealed by Manu, will be always virtuous in conduct, and will reach whatever condition he desires.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In