| |
|

This overlay will guide you through the buttons:

चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१॥
चतुर्थम् आयुषः भागम् उषित्वा अद्यम् गुरौ द्विजाः । द्वितीयम् आयुषः भागम् कृतदारः गृहे वसेत् ॥ ४।१॥
caturtham āyuṣaḥ bhāgam uṣitvā adyam gurau dvijāḥ . dvitīyam āyuṣaḥ bhāgam kṛtadāraḥ gṛhe vaset .. 4.1..
4.1. Having dwelt with a teacher during the fourth part of (a man’s) life, a Brahmana shall live during the second quarter (of his existence) in his house, after he has wedded a wife.
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ ४.२॥
अद्रोहेण एव भूतानाम् अल्प-द्रोहेण वा पुनर् । या वृत्तिः ताम् समास्थाय विप्रः जीवेत् अनापदि ॥ ४।२॥
adroheṇa eva bhūtānām alpa-droheṇa vā punar . yā vṛttiḥ tām samāsthāya vipraḥ jīvet anāpadi .. 4.2..
4.2. A Brahmana must seek a means of subsistence which either causes no, or at least little pain (to others), and live (by that) except in times of distress.
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ ४.३॥
यात्रा-मात्र-प्रसिद्धि-अर्थम् स्वैः कर्मभिः अगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धन-सञ्चयम् ॥ ४।३॥
yātrā-mātra-prasiddhi-artham svaiḥ karmabhiḥ agarhitaiḥ . akleśena śarīrasya kurvīta dhana-sañcayam .. 4.3..
4.3. For the purpose of gaining bare subsistence, let him accumulate property by (following those) irreproachable occupations (which are prescribed for) his (caste), without (unduly) fatiguing his body.
ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥ ४.४॥
ऋत-अमृताभ्याम् जीवेत् तु मृतेन प्रमृतेन वा । सत्य-अनृताभ्याम् अपि वा न श्ववृत्त्या कदा चन ॥ ४।४॥
ṛta-amṛtābhyām jīvet tu mṛtena pramṛtena vā . satya-anṛtābhyām api vā na śvavṛttyā kadā cana .. 4.4..
4.4. He may subsist by Rita (truth), and Amrita (ambrosia), or by Mrita (death) and by Pramrita (what causes many deaths); or even by (the mode) called Satyanrita (a mixture of truth and falsehood), but never by Svavritti (a dog’s mode of life).
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ४.५॥
ऋतम् उञ्छ-शिलम् ज्ञेयम् अमृतम् स्यात् अ याचितम् । मृतम् तु याचितम् भैक्षम् प्रमृतम् कर्षणम् स्मृतम् ॥ ४।५॥
ṛtam uñcha-śilam jñeyam amṛtam syāt a yācitam . mṛtam tu yācitam bhaikṣam pramṛtam karṣaṇam smṛtam .. 4.5..
4.5. By Rita shall be understood the gleaning of corn; by Amrita, what is given unasked; by Mrita, food obtained by begging and agriculture is declared to be Pramrita.
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ४.६॥
सत्यानृतम् तु वाणिज्यम् तेन च एव अपि जीव्यते । सेवा श्ववृत्तिः आख्याता तस्मात् ताम् परिवर्जयेत् ॥ ४।६॥
satyānṛtam tu vāṇijyam tena ca eva api jīvyate . sevā śvavṛttiḥ ākhyātā tasmāt tām parivarjayet .. 4.6..
4.6. But trade and (money-lending) are Satyanrita, even by that one may subsist. Service is called Svavritti; therefore one should avoid it.
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ॥ ४.७॥
कुसूलधान्यकः वा स्यात् कुम्भीधान्यकः एव वा । त्रि-अह-ईहिकः वा अपि भवेत् अश्वस्तनिकः एव वा ॥ ४।७॥
kusūladhānyakaḥ vā syāt kumbhīdhānyakaḥ eva vā . tri-aha-īhikaḥ vā api bhavet aśvastanikaḥ eva vā .. 4.7..
4.7. He may either possess enough to fill a granary, or a store filling a grain-jar; or he may collect what suffices for three days, or make no provision for the morrow.
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ ४.८॥
चतुर्णाम् अपि च एतेषाम् द्विजानाम् गृहमेधिनाम् । ज्यायान् परः परः ज्ञेयः धर्मतः लोक-जित्तमः ॥ ४।८॥
caturṇām api ca eteṣām dvijānām gṛhamedhinām . jyāyān paraḥ paraḥ jñeyaḥ dharmataḥ loka-jittamaḥ .. 4.8..
4.8. Moreover, among these four Brahmana householders, each later-(named) must be considered more distinguished, and through his virtue to have conquered the world more completely.
षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ॥ ४.९॥
षष्-कर्मा एकः भवति एषाम् त्रिभिः अन्यः प्रवर्तते । द्वाभ्याम् एकः चतुर्थः तु ब्रह्मसत्त्रेण जीवति ॥ ४।९॥
ṣaṣ-karmā ekaḥ bhavati eṣām tribhiḥ anyaḥ pravartate . dvābhyām ekaḥ caturthaḥ tu brahmasattreṇa jīvati .. 4.9..
4.9. One of these follows six occupations, another subsists by three, one by two, but the fourth lives by the Brahmasattra.
वर्तयंश्च शिलौञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा ॥ ४.१०॥
वर्तयन् च शिल-औञ्छाभ्याम् अग्निहोत्र-परायणः । इष्टीः केवलाः निर्वपेत् सदा ॥ ४।१०॥
vartayan ca śila-auñchābhyām agnihotra-parāyaṇaḥ . iṣṭīḥ kevalāḥ nirvapet sadā .. 4.10..
4.10. He who maintains himself by picking up grains and ears of corn, must be always intent on (the performance of) the Agnihotra, and constantly offer those Ishtis only, which are prescribed for the days of the conjunction and opposition (of the moon), and for the solstices.
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अजिह्मामशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥ ४.११॥
न लोक-वृत्तम् वर्तेत वृत्ति-हेतोः कथम् चन । शुद्धाम् जीवेत् ब्राह्मण-जीविकाम् ॥ ४।११॥
na loka-vṛttam varteta vṛtti-hetoḥ katham cana . śuddhām jīvet brāhmaṇa-jīvikām .. 4.11..
4.11. Let him never, for the sake of subsistence, follow the ways of the world; let him live the pure, straightforward, honest life of a Brahmana.
संतोषं परमास्थाय सुखार्थी संयतो भवेत् । संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ ४.१२॥
संतोषम् परम् आस्थाय सुख-अर्थी संयतः भवेत् । संतोष-मूलम् हि सुखम् दुःख-मूलम् विपर्ययः ॥ ४।१२॥
saṃtoṣam param āsthāya sukha-arthī saṃyataḥ bhavet . saṃtoṣa-mūlam hi sukham duḥkha-mūlam viparyayaḥ .. 4.12..
4.12. He who desires happiness must strive after a perfectly contented disposition and control himself; for happiness has contentment for its root, the root of unhappiness is the contrary (disposition).
अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्ग्यायुष्य यशस्यानि व्रताणीमानि धारयेत् ॥ ४.१३॥
अतस् अन्यतमया वृत्त्या जीवन् तु स्नातकः द्विजः । स्वर्ग्य-आयुष्य यशस्यानि व्रताणि इमानि धारयेत् ॥ ४।१३॥
atas anyatamayā vṛttyā jīvan tu snātakaḥ dvijaḥ . svargya-āyuṣya yaśasyāni vratāṇi imāni dhārayet .. 4.13..
4.13. A Brahmana, who is a Snataka and subsists by one of the (above-mentioned) modes of life, must discharge the (following) duties which secure heavenly bliss, long life, and fame.
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तधि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ ४.१४॥
वेद-उदितम् स्वकम् कर्म नित्यम् कुर्यात् अतन्द्रितः । तधि कुर्वन् यथाशक्ति प्राप्नोति परमाम् गतिम् ॥ ४।१४॥
veda-uditam svakam karma nityam kuryāt atandritaḥ . tadhi kurvan yathāśakti prāpnoti paramām gatim .. 4.14..
4.14. Let him, untired, perform daily the rites prescribed for him in the Veda; for he who performs those according to his ability, attains to the highest state.
नैहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न कल्पमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ ४.१५॥
न एहेत अर्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न कल्पमानेषु अर्थेषु न आर्त्याम् अपि यतस् ततस् ॥ ४।१५॥
na eheta arthān prasaṅgena na viruddhena karmaṇā . na kalpamāneṣu artheṣu na ārtyām api yatas tatas .. 4.15..
4.15. Whether he be rich or even in distress, let him not seek wealth through pursuits to which men cleave, nor by forbidden occupations, nor (let him accept presents) from any (giver whosoever he may be).
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६॥
इन्द्रिय-अर्थेषु सर्वेषु न प्रसज्येत कामतः । अति प्रसक्तिम् च एतेषाम् मनसा संनिवर्तयेत् ॥ ४।१६॥
indriya-artheṣu sarveṣu na prasajyeta kāmataḥ . ati prasaktim ca eteṣām manasā saṃnivartayet .. 4.16..
4.16. Let him not, out of desire (for enjoyments), attach himself to any sensual pleasures, and let him carefully obviate an excessive attachment to them, by (reflecting on their worthlessness in) his heart.
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः । यथा तथाऽध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ ४.१७॥
सर्वान् परित्यजेत् अर्थान् स्वाध्यायस्य विरोधिनः । यथा तथा अध्यापयन् तु सा हि अस्य कृतकृत्य-ता ॥ ४।१७॥
sarvān parityajet arthān svādhyāyasya virodhinaḥ . yathā tathā adhyāpayan tu sā hi asya kṛtakṛtya-tā .. 4.17..
4.17. Let him avoid all (means of acquiring) wealth which impede the study of the Veda; (let him maintain himself) anyhow, but study, because that (devotion to the Veda-study secures) the realisation of his aims.
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥ ४.१८॥
वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च । वेष-वाच्-बुद्धि-सारूप्यम् आचरन् विचरेत् इह ॥ ४।१८॥
vayasaḥ karmaṇaḥ arthasya śrutasya abhijanasya ca . veṣa-vāc-buddhi-sārūpyam ācaran vicaret iha .. 4.18..
4.18. Let him walk here (on earth), bringing his dress, speech, and thoughts to a conformity with his age, his occupation, his wealth, his sacred learning, and his race.
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ ४.१९॥
बुद्धि-वृद्धि-कराणि आशु धन्यानि च हितानि च । नित्यम् शास्त्राणि अवेक्षेत निगमान् च एव वैदिकान् ॥ ४।१९॥
buddhi-vṛddhi-karāṇi āśu dhanyāni ca hitāni ca . nityam śāstrāṇi avekṣeta nigamān ca eva vaidikān .. 4.19..
4.19. Let him daily pore over those Institutes of science which soon give increase of wisdom, those which teach the acquisition of wealth, those which are beneficial (for other worldly concerns), and likewise over the Nigamas which explain the Veda.
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२०॥
यथा यथा हि पुरुषः शास्त्रम् समधिगच्छति । तथा तथा विजानाति विज्ञानम् च अस्य रोचते ॥ ४।२०॥
yathā yathā hi puruṣaḥ śāstram samadhigacchati . tathā tathā vijānāti vijñānam ca asya rocate .. 4.20..
4.20. For the more a man completely studies the Institutes of science, the more he fully understands (them), and his great learning shines brightly.
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१॥
ऋषि-यज्ञम् देव-यज्ञम् भूतयज्ञम् च सर्वदा । नृयज्ञम् पितृ-यज्ञम् च यथाशक्ति न हापयेत् ॥ ४।२१॥
ṛṣi-yajñam deva-yajñam bhūtayajñam ca sarvadā . nṛyajñam pitṛ-yajñam ca yathāśakti na hāpayet .. 4.21..
4.21. Let him never, if he is able (to perform them), neglect the sacrifices to the sages, to the gods, to the Bhutas, to men, and to the manes.
एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ ४.२२॥
एतान् एके महायज्ञान् यज्ञ-शास्त्र-विदः जनाः । अन् ईहमानाः सततम् इन्द्रियेषु एव जुह्वति ॥ ४।२२॥
etān eke mahāyajñān yajña-śāstra-vidaḥ janāḥ . an īhamānāḥ satatam indriyeṣu eva juhvati .. 4.22..
4.22. Some men who know the ordinances for sacrificial rites, always offer these great sacrifices in their organs (of sensation), without any (external) effort.
वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ ४.२३॥
वाचि एके जुह्वति प्राणम् प्राणे वाचम् च सर्वदा । वाचि प्राणे च पश्यन्तः यज्ञ-निर्वृत्तिम् अक्षयाम् ॥ ४।२३॥
vāci eke juhvati prāṇam prāṇe vācam ca sarvadā . vāci prāṇe ca paśyantaḥ yajña-nirvṛttim akṣayām .. 4.23..
4.23. Knowing that the (performance of the) sacrifice in their speech and their breath yields imperishable (rewards), some always offer their breath in their speech, and their speech in their breath.
ज्ञानेनैवापरे विप्रा यजन्ते तैर्मखैः सदा। ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ ४.२४॥
ज्ञानेन एव अपरे विप्राः यजन्ते तैः मखैः सदा। ज्ञान-मूलाम् क्रियाम् एषाम् पश्यन्तः ज्ञान-चक्षुषा ॥ ४।२४॥
jñānena eva apare viprāḥ yajante taiḥ makhaiḥ sadā. jñāna-mūlām kriyām eṣām paśyantaḥ jñāna-cakṣuṣā .. 4.24..
4.24. Other Brahmanas, seeing with the eye of knowledge that the performance of those rites has knowledge for its root, always perform them through knowledge alone.
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा । दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ ४.२५॥
अग्निहोत्रम् च जुहुयात् आदि-अन्ते द्यु-निशोः सदा । दर्शेन च अर्ध-मास-अन्ते पौर्णमासेन च एव हि ॥ ४।२५॥
agnihotram ca juhuyāt ādi-ante dyu-niśoḥ sadā . darśena ca ardha-māsa-ante paurṇamāsena ca eva hi .. 4.25..
4.25. A Brahmana shall always offer the Agnihotra at the beginning or at the end of the day and of the night, and the Darsa and Paurnamasa (Ishtis) at the end of each half-month,
सस्यान्ते नवसस्येष्ट्या तथार्तुअन्ते द्विजोऽध्वरैः । अयनान्ते तु समांते सौमिकैर्मखैः ॥ ४.२६॥
सस्य-अन्ते नव-सस्य-इष्ट्या तथा ऋतु-अन्ते द्विजः अध्वरैः । अयन-अन्ते तु समा-अंते सौमिकैः मखैः ॥ ४।२६॥
sasya-ante nava-sasya-iṣṭyā tathā ṛtu-ante dvijaḥ adhvaraiḥ . ayana-ante tu samā-aṃte saumikaiḥ makhaiḥ .. 4.26..
4.26. When the old grain has been consumed the (Agrayana) Ishti with new grain, at the end of the (three) seasons the (Katurmasya-) sacrifices, at the solstices an animal (sacrifice), at the end of the year Soma- offerings.
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नमद्यात्मांसं वा दीर्घमायुर्जिजीविषुः ॥ ४.२७॥
न अन् इष्ट्वा नव-सस्य-इष्ट्या पशुना च अग्निमान् द्विजः । वा दीर्घम् आयुः जिजीविषुः ॥ ४।२७॥
na an iṣṭvā nava-sasya-iṣṭyā paśunā ca agnimān dvijaḥ . vā dīrgham āyuḥ jijīviṣuḥ .. 4.27..
4.27. A Brahmana, who keeps sacred fires, shall, if he desires to live long, not eat new grain or meat, without having offered the (Agrayana) Ishti with new grain and an animal-(sacrifice).
नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः । प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ ४.२८॥
नवेन अनर्चिताः हि अस्य पशु-हव्येन च अग्नयः । प्राणान् एव अत्तुम् इच्छन्ति नव-अन्न-आमिष-गर्धिनः ॥ ४।२८॥
navena anarcitāḥ hi asya paśu-havyena ca agnayaḥ . prāṇān eva attum icchanti nava-anna-āmiṣa-gardhinaḥ .. 4.28..
4.28. For his fires, not being worshipped by offerings of new grain and of an animal, seek to devour his vital spirits, (because they are) greedy for new grain and flesh.
आसनाशनशय्याभिरद्भिर्मूलफलेन वा । नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ॥ ४.२९॥
आसन-अशन-शय्याभिः अद्भिः मूल-फलेन वा । न अस्य कश्चिद् वसेत् गेहे शक्तितः अनर्चितः अतिथिः ॥ ४।२९॥
āsana-aśana-śayyābhiḥ adbhiḥ mūla-phalena vā . na asya kaścid vaset gehe śaktitaḥ anarcitaḥ atithiḥ .. 4.29..
4.29. No guest must stay in his house without being honoured, according to his ability, with a seat, food, a couch, water, or roots and fruits.
पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ४.३०॥
पाषण्डिनः विकर्म-स्थान् बैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तीन् च वाच्-मात्रेण अपि न अर्चयेत् ॥ ४।३०॥
pāṣaṇḍinaḥ vikarma-sthān baiḍālavratikān śaṭhān . haitukān bakavṛttīn ca vāc-mātreṇa api na arcayet .. 4.30..
4.30. Let him not honour, even by a greeting, heretics, men who follow forbidden occupations, men who live like cats, rogues, logicians, (arguing against the Veda,) and those who live like herons.
वेदविद्याव्रतस्नातांश्रोत्रियान् गृहमेधिनः । पूजयेधव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१॥
वेद-विद्या-व्रत-स्नातान् श्रोत्रियान् गृहमेधिनः । पूजयेत् हव्य-कव्येन विपरीतान् च वर्जयेत् ॥ ४।३१॥
veda-vidyā-vrata-snātān śrotriyān gṛhamedhinaḥ . pūjayet havya-kavyena viparītān ca varjayet .. 4.31..
4.31. Those who have become Snatakas after studying the Veda, or after completing their vows, (and) householders, who are Srotriyas, one must worship by (gifts of food) sacred to gods and manes, but one must avoid those who are different.
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना । संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ४.३२॥
शक्तितस् अपचमानेभ्यः दातव्यम् गृहमेधिना । संविभागः च भूतेभ्यः कर्तव्यः अन् उपरोधतः ॥ ४।३२॥
śaktitas apacamānebhyaḥ dātavyam gṛhamedhinā . saṃvibhāgaḥ ca bhūtebhyaḥ kartavyaḥ an uparodhataḥ .. 4.32..
4.32. A householder must give (as much food) as he is able (to spare) to those who do not cook for themselves, and to all beings one must distribute (food) without detriment (to one’s own interest).
राजतो धनमन्विच्छेत्संसीदन् स्नातकः क्षुधा । याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ ४.३३॥
राजतः धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा । याज्य-अन्तेवासिनोः वा अपि न तु अन्यतस् इति स्थितिः ॥ ४।३३॥
rājataḥ dhanam anvicchet saṃsīdan snātakaḥ kṣudhā . yājya-antevāsinoḥ vā api na tu anyatas iti sthitiḥ .. 4.33..
4.33. A Snataka who pines with hunger, may beg wealth of a king, of one for whom he sacrifices, and of a pupil, but not of others; that is a settled rule.
न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन । न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ४.३४॥
न सीदेत् स्नातकः विप्रः क्षुधा शक्तः कथम् चन । न जीर्ण-मलवत्-वासाः भवेत् च विभवे सति ॥ ४।३४॥
na sīdet snātakaḥ vipraḥ kṣudhā śaktaḥ katham cana . na jīrṇa-malavat-vāsāḥ bhavet ca vibhave sati .. 4.34..
4.34. A Snataka who is able (to procure food) shall never waste himself with hunger, nor shall he wear old or dirty clothes, if he possesses property.
कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः । स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ ४.३५॥
कॢप्त-केश-नख-श्मश्रुः दान्तः शुक्ल-अम्बरः शुचिः । स्वाध्याये च एव युक्तः स्यात् नित्यम् आत्म-हितेषु च ॥ ४।३५॥
kḷpta-keśa-nakha-śmaśruḥ dāntaḥ śukla-ambaraḥ śuciḥ . svādhyāye ca eva yuktaḥ syāt nityam ātma-hiteṣu ca .. 4.35..
4.35. Keeping his hair, nails, and beard clipped, subduing his passions by austerities, wearing white garments and (keeping himself) pure, he shall be always engaged in studying the Veda and (such acts as are) conducive to his welfare.
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ ४.३६॥
वैणवीम् धारयेत् यष्टिम् स उदकम् च कमण्डलुम् । यज्ञोपवीतम् वेदम् च शुभम् रौक्मे च कुण्डले ॥ ४।३६॥
vaiṇavīm dhārayet yaṣṭim sa udakam ca kamaṇḍalum . yajñopavītam vedam ca śubham raukme ca kuṇḍale .. 4.36..
4.36. He shall carry a staff of bamboo, a pot full of water, a sacred string, a bundle of Kusa grass, and (wear) two bright golden ear-rings.
नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ४.३७॥
न ईक्षेत उद्यन्तम् आदित्यम् न अस्तम् यान्तम् कदा चन । न उपसृष्टम् न वारि-स्थम् न मध्यम् नभसः गतम् ॥ ४।३७॥
na īkṣeta udyantam ādityam na astam yāntam kadā cana . na upasṛṣṭam na vāri-stham na madhyam nabhasaḥ gatam .. 4.37..
4.37. Let him never look at the sun, when he sets or rises, is eclipsed or reflected in water, or stands in the middle of the sky.
न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वरूपमिति धारणा ॥ ४.३८॥
न लङ्घयेत् वत्स-तन्त्रीम् न प्रधावेत् च वर्षति । न च उदके निरीक्षेत स्व-रूपम् इति धारणा ॥ ४।३८॥
na laṅghayet vatsa-tantrīm na pradhāvet ca varṣati . na ca udake nirīkṣeta sva-rūpam iti dhāraṇā .. 4.38..
4.38. Let him not step over a rope to which a calf is tied, let him not run when it rains, and let him not look at his own image in water; that is a settled rule.
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ४.३९॥
मृदम् गाम् दैवतम् विप्रम् घृतम् मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातान् च वनस्पतीन् ॥ ४।३९॥
mṛdam gām daivatam vipram ghṛtam madhu catuṣpatham . pradakṣiṇāni kurvīta prajñātān ca vanaspatīn .. 4.39..
4.39. Let him pass by (a mound of) earth, a cow, an idol, a Brahmana, clarified butter, honey, a crossway, and well-known trees, turning his right hand towards them.
नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने । समानशयने चैव न शयीत तया सह ॥ ४.४०॥
न उपगच्छेत् प्रमत्तः अपि स्त्रियम् आर्तव-दर्शने । समान-शयने च एव न शयीत तया सह ॥ ४।४०॥
na upagacchet pramattaḥ api striyam ārtava-darśane . samāna-śayane ca eva na śayīta tayā saha .. 4.40..
4.40. Let him, though mad with desire, not approach his wife when her courses appear; nor let him sleep with her in the same bed.
रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ ४.४१॥
रजसा अभिप्लुताम् नारीम् नरस्य हि उपगच्छतः । प्रज्ञा तेजः बलम् चक्षुः आयुः च एव प्रहीयते ॥ ४।४१॥
rajasā abhiplutām nārīm narasya hi upagacchataḥ . prajñā tejaḥ balam cakṣuḥ āyuḥ ca eva prahīyate .. 4.41..
4.41. For the wisdom, the energy, the strength, the sight, and the vitality of a man who approaches a woman covered with menstrual excretions, utterly perish.
तां विवर्जयतस्तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४.४२॥
ताम् विवर्जयतः तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजः बलम् चक्षुः आयुः च एव प्रवर्धते ॥ ४।४२॥
tām vivarjayataḥ tasya rajasā samabhiplutām . prajñā tejaḥ balam cakṣuḥ āyuḥ ca eva pravardhate .. 4.42..
4.42. If he avoids her, while she is in that condition, his wisdom, energy, strength, sight, and vitality will increase.
नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४.४३॥
न अश्नीयात् भार्यया सार्धम् न एनाम् ईक्षेत च अश्नतीम् । क्षुवतीम् जृम्भमाणाम् वा न च आसीनाम् यथासुखम् ॥ ४।४३॥
na aśnīyāt bhāryayā sārdham na enām īkṣeta ca aśnatīm . kṣuvatīm jṛmbhamāṇām vā na ca āsīnām yathāsukham .. 4.43..
4.43. Let him not eat in the company of his wife, nor look at her, while she eats, sneezes, yawns, or sits at her ease.
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ ४.४४॥
न अञ्जयन्तीम् स्वके नेत्रे न च अभ्यक्ताम् अनावृताम् । न पश्येत् प्रसवन्तीम् च तेजस्कामः द्विजोत्तमः ॥ ४।४४॥
na añjayantīm svake netre na ca abhyaktām anāvṛtām . na paśyet prasavantīm ca tejaskāmaḥ dvijottamaḥ .. 4.44..
4.44. A Brahmana who desires energy must not look at (a woman) who applies collyrium to her eyes, has anointed or uncovered herself or brings forth (a child).
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४.४५॥
न अन्नम् अद्यात् एक-वासाः न नग्नः स्नानम् आचरेत् । न मूत्रम् पथि कुर्वीत न भस्मनि न गो-व्रजे ॥ ४।४५॥
na annam adyāt eka-vāsāḥ na nagnaḥ snānam ācaret . na mūtram pathi kurvīta na bhasmani na go-vraje .. 4.45..
4.45. Let him not eat, dressed with one garment only; let him not bathe naked; let him not void urine on a road, on ashes, or in a cow-pen,
न फालकृष्टे न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदा चन ॥ ४.४६॥
न फालकृष्टे न जले न चित्याम् न च पर्वते । न जीर्ण-देवायतने न वल्मीके कदा चन ॥ ४।४६॥
na phālakṛṣṭe na jale na cityām na ca parvate . na jīrṇa-devāyatane na valmīke kadā cana .. 4.46..
4.46. Nor on ploughed land, in water, on an altar of bricks, on a mountain, on the ruins of a temple, nor ever on an ant-hill,
न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः । न नदीतीरमासाद्य न च पर्वतमस्तके ॥ ४.४७॥
न स सत्त्वेषु गर्तेषु न गच्छन् अपि न स्थितः । न नदी-तीरम् आसाद्य न च पर्वत-मस्तके ॥ ४।४७॥
na sa sattveṣu garteṣu na gacchan api na sthitaḥ . na nadī-tīram āsādya na ca parvata-mastake .. 4.47..
4.47. Nor in holes inhabited by living creatures, nor while he walks or stands, nor on reaching the bank of a river, nor on the top of a mountain.
वायुअग्निविप्रमादित्यमपः पश्यंस्तथैव गाः । न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४.४८॥
वायु-अग्नि-विप्रम् आदित्यम् अपः पश्यन् तथा एव गाः । न कदा चन कुर्वीत विष्-मूत्रस्य विसर्जनम् ॥ ४।४८॥
vāyu-agni-vipram ādityam apaḥ paśyan tathā eva gāḥ . na kadā cana kurvīta viṣ-mūtrasya visarjanam .. 4.48..
4.48. Let him never void faeces or urine, facing the wind, or a fire, or looking towards a Brahmana, the sun, water, or cows.
तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादिना । तृणादि चनियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ ४.४९॥
तिरस्कृत्य उच्चरेत् काष्ठ-लोष्ठ-पत्र-तृण-आदिना । तृण-आदि च नियम्य प्रयतः वाचम् संवीत-अङ्गः अवगुण्ठितः ॥ ४।४९॥
tiraskṛtya uccaret kāṣṭha-loṣṭha-patra-tṛṇa-ādinā . tṛṇa-ādi ca niyamya prayataḥ vācam saṃvīta-aṅgaḥ avaguṇṭhitaḥ .. 4.49..
4.49. He may ease himself, having covered (the ground) with sticks, clods, leaves, grass, and the like, restraining his speech, (keeping himself) pure, wrapping up his body, and covering his head.
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः । दक्षिणाऽभिमुखो रात्रौ संध्यायोश्च यथा दिवा ॥ ४.५०॥
मूत्र-उच्चार-समुत्सर्गम् दिवा कुर्यात् उदक्-मुखः । दक्षिणा-अभिमुखः रात्रौ संध्या-आयोः च यथा दिवा ॥ ४।५०॥
mūtra-uccāra-samutsargam divā kuryāt udak-mukhaḥ . dakṣiṇā-abhimukhaḥ rātrau saṃdhyā-āyoḥ ca yathā divā .. 4.50..
4.50. Let him void faeces and urine, in the daytime turning to the north, at night turning towards the south, during the two twilights in the same (position) as by day.
छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधभयेषु च ॥ ४.५१॥
छायायाम् अन्धकारे वा रात्रौ अहनि वा द्विजः । यथा सुख-मुखः कुर्यात् प्राण-बाध-भयेषु च ॥ ४।५१॥
chāyāyām andhakāre vā rātrau ahani vā dvijaḥ . yathā sukha-mukhaḥ kuryāt prāṇa-bādha-bhayeṣu ca .. 4.51..
4.51. In the shade or in darkness a Brahmana may, both by day and at night, do it, assuming any position he pleases; likewise when his life is in danger.
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ ४.५२॥
प्रत्यग्निम् प्रतिसूर्यम् च प्रति सोम-उदक-द्विजम् । प्रतिगाम् प्रतिवातम् च प्रज्ञा नश्यति मेहतः ॥ ४।५२॥
pratyagnim pratisūryam ca prati soma-udaka-dvijam . pratigām prativātam ca prajñā naśyati mehataḥ .. 4.52..
4.52. The intellect of (a man) who voids urine against a fire, the sun, the moon, in water, against a Brahmana, a cow, or the wind, perishes.
नाग्निं मुखेनोपधमेन्नग्नां नैक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३॥
न अग्निम् मुखेन उपधमेत् नग्नाम् न ईक्षेत च स्त्रियम् । न अमेध्यम् प्रक्षिपेत् अग्नौ न च पादौ प्रतापयेत् ॥ ४।५३॥
na agnim mukhena upadhamet nagnām na īkṣeta ca striyam . na amedhyam prakṣipet agnau na ca pādau pratāpayet .. 4.53..
4.53. Let him not blow a fire with his mouth; let him not look at a naked woman; let him not throw any impure substance into the fire, and let him not warm his feet at it.
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४॥
अधस्तात् न उपदध्यात् च न च एनम् अभिलङ्घयेत् । न च एनम् पादतः कुर्यात् न प्राण-आबाधम् आचरेत् ॥ ४।५४॥
adhastāt na upadadhyāt ca na ca enam abhilaṅghayet . na ca enam pādataḥ kuryāt na prāṇa-ābādham ācaret .. 4.54..
4.54. Let him not place (fire) under (a bed or the like); nor step over it, nor place it (when he sleeps) at the foot- (end of his bed); let him not torment living creatures.
नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् । न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम् ॥ ४.५५॥
न अश्नीयात् संधि-वेलायाम् न गच्छेत् न अपि संविशेत् । न च एव प्रलिखेत् भूमिम् न आत्मनः अपहरेत् स्रजम् ॥ ४।५५॥
na aśnīyāt saṃdhi-velāyām na gacchet na api saṃviśet . na ca eva pralikhet bhūmim na ātmanaḥ apaharet srajam .. 4.55..
4.55. Let him not eat, nor travel, nor sleep during the twilight; let him not scratch the ground; let him not take off his garland.
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥ ४.५६॥
न अप्सु मूत्रम् पुरीषम् वा ष्ठीवनम् वा समुत्सृजेत् । अमेध्य-लिप्तम् अन्यत् वा लोहितम् वा विषाणि वा ॥ ४।५६॥
na apsu mūtram purīṣam vā ṣṭhīvanam vā samutsṛjet . amedhya-liptam anyat vā lohitam vā viṣāṇi vā .. 4.56..
4.56. Let him not throw urine or faeces into the water, nor saliva, nor (clothes) defiled by impure substances, nor any other (impurity), nor blood, nor poisonous things.
नैकः शून्यगृहे स्वप्यान् श्रेयांसं प्रबोधयेत् । नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ ४.५७॥
न एकः शून्य-गृहे स्वप्यान् श्रेयांसम् प्रबोधयेत् । न उदक्यया अभिभाषेत यज्ञम् गच्छेत् न च अ वृतः ॥ ४।५७॥
na ekaḥ śūnya-gṛhe svapyān śreyāṃsam prabodhayet . na udakyayā abhibhāṣeta yajñam gacchet na ca a vṛtaḥ .. 4.57..
4.57. Let him not sleep alone in a deserted dwelling; let him not wake (a superior) who is sleeping; let him not converse with a menstruating woman; nor let him go to a sacrifice, if he is not chosen (to be officiating priest).
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ ४.५८॥
अग्न्यगारे गवाम् गोष्ठे ब्राह्मणानाम् च संनिधौ । स्वाध्याये भोजने च एव दक्षिणम् पाणिम् उद्धरेत् ॥ ४।५८॥
agnyagāre gavām goṣṭhe brāhmaṇānām ca saṃnidhau . svādhyāye bhojane ca eva dakṣiṇam pāṇim uddharet .. 4.58..
4.58. Let him keep his right arm uncovered in a place where a sacred fire is kept, in a cow-pen, in the presence of Brahmanas, during the private recitation of the Veda, and at meals.
न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् । न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः ॥ ४.५९॥
न वारयेत् गाम् धयन्तीम् न च आचक्षीत कस्य चित् । न दिवि इन्द्रायुधम् दृष्ट्वा कस्य चित् दर्शयेत् बुधः ॥ ४।५९॥
na vārayet gām dhayantīm na ca ācakṣīta kasya cit . na divi indrāyudham dṛṣṭvā kasya cit darśayet budhaḥ .. 4.59..
4.59. Let him not interrupt a cow who is suckling (her calf), nor tell anybody of it. A wise man, if he sees a rainbow in the sky, must not point it out to anybody.
नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् । नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६०॥
न आधर्मिके वसेत् ग्रामे न व्याधि-बहुले भृशम् । न एकः प्रपद्येत अध्वानम् न चिरम् पर्वते वसेत् ॥ ४।६०॥
na ādharmike vaset grāme na vyādhi-bahule bhṛśam . na ekaḥ prapadyeta adhvānam na ciram parvate vaset .. 4.60..
4.60. Let him not dwell in a village where the sacred law is not obeyed, nor (stay) long where diseases are endemic; let him not go alone on a journey, nor reside long on a mountain.
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥ ४.६१॥
न शूद्र-राज्ये निवसेत् न अधार्मिक-जन-आवृते । न पाषण्डि-गण-आक्रान्ते न उपसृष्टे अन्त्यजैः नृभिः ॥ ४।६१॥
na śūdra-rājye nivaset na adhārmika-jana-āvṛte . na pāṣaṇḍi-gaṇa-ākrānte na upasṛṣṭe antyajaiḥ nṛbhiḥ .. 4.61..
4.61. Let him not dwell in a country where the rulers are Sudras, nor in one which is surrounded by unrighteous men, nor in one which has become subject to heretics, nor in one swarming with men of the lowest castes.
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ॥नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४.६२॥
न भुञ्जीत उद्धृत-स्नेहम् न अति सौहित्यम् आचरेत् ॥न अतिप्रगे न अति सायम् न सायम् प्रातर् आशितः ॥ ४।६२॥
na bhuñjīta uddhṛta-sneham na ati sauhityam ācaret ..na atiprage na ati sāyam na sāyam prātar āśitaḥ .. 4.62..
4.62. Let him not eat anything from which the oil has been extracted; let him not be a glutton; let him not eat very early (in the morning), nor very late (in the evening), nor (take any food) in the evening, if he has eaten (his fill) in the morning.
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ॥ ४.६३॥
न कुर्वीत वृथा चेष्टाम् न वारि-अञ्जलिना पिबेत् । न उत्सङ्गे भक्षयेत् भक्ष्यात् न जातु स्यात् कुतूहली ॥ ४।६३॥
na kurvīta vṛthā ceṣṭām na vāri-añjalinā pibet . na utsaṅge bhakṣayet bhakṣyāt na jātu syāt kutūhalī .. 4.63..
4.63. Let him not exert himself without a purpose; let him not drink water out of his joined palms; let him not eat food (placed) in his lap; let him not show (idle) curiosity.
न नृत्येदथ वा गायेन्न वादित्राणि वादयेत् । नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ ४.६४॥
न नृत्येत् अथ वा गायेत् न वादित्राणि वादयेत् । न आस्फोटयेत् न च क्ष्वेडेत् न च रक्तः विरावयेत् ॥ ४।६४॥
na nṛtyet atha vā gāyet na vāditrāṇi vādayet . na āsphoṭayet na ca kṣveḍet na ca raktaḥ virāvayet .. 4.64..
4.64. Let him not dance, nor sing, nor play musical instruments, nor slap (his limbs), nor grind his teeth, nor let him make uncouth noises, though he be in a passion.
न पादौ धावयेत्कांस्ये कदा चिदपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ४.६५॥
न पादौ धावयेत् कांस्ये कदा चित् अपि भाजने । न भिन्न-भाण्डे भुञ्जीत न भाव-प्रतिदूषिते ॥ ४।६५॥
na pādau dhāvayet kāṃsye kadā cit api bhājane . na bhinna-bhāṇḍe bhuñjīta na bhāva-pratidūṣite .. 4.65..
4.65. Let him never wash his feet in a vessel of white brass; let him not eat out of a broken (earthen) dish, nor out of one that (to judge) from its appearance (is) defiled.
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च ॥ ४.६६॥
उपानहौ च वासः च धृतम् अन्यैः न धारयेत् । उपवीतम् अलङ्कारम् स्रजम् करकम् एव च ॥ ४।६६॥
upānahau ca vāsaḥ ca dhṛtam anyaiḥ na dhārayet . upavītam alaṅkāram srajam karakam eva ca .. 4.66..
4.66. Let him not use shoes, garments, a sacred string, ornaments, a garland, or a water-vessel which have been used by others.
नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः । न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ ४.६७॥
न अविनीतैः भजेत् धुर्यैः न च क्षुध्वी-आधि-पीडितैः । न भिन्न-शृङ्ग-अक्षि-खुरैः न वालधि-विरूपितैः ॥ ४।६७॥
na avinītaiḥ bhajet dhuryaiḥ na ca kṣudhvī-ādhi-pīḍitaiḥ . na bhinna-śṛṅga-akṣi-khuraiḥ na vāladhi-virūpitaiḥ .. 4.67..
4.67. Let him not travel with untrained beasts of burden, nor with (animals) that are tormented by hunger or disease, or whose horns, eyes, and hoofs have been injured, or whose tails have been disfigured.
विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः । वर्णरूपोपसम्पन्नैः प्रतोदेनातुदन् भृशम् ॥ ४.६८॥
विनीतैः तु व्रजेत् नित्यम् आशु-गैः लक्षण-अन्वितैः । वर्ण-रूप-उपसम्पन्नैः प्रतोदेन आतुदन् भृशम् ॥ ४।६८॥
vinītaiḥ tu vrajet nityam āśu-gaiḥ lakṣaṇa-anvitaiḥ . varṇa-rūpa-upasampannaiḥ pratodena ātudan bhṛśam .. 4.68..
4.68. Let him always travel with (beasts) which are well broken in, swift, endowed with lucky marks, and perfect in colour and form, without urging them much with the goad.
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽसनम् । न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ ४.६९॥
बाल-आतपः प्रेतधूमः वर्ज्यम् भिन्नम् तथा आसनम् । न छिन्द्यात् नख-रोमाणि दन्तैः न उत्पाटयेत् नखान् ॥ ४।६९॥
bāla-ātapaḥ pretadhūmaḥ varjyam bhinnam tathā āsanam . na chindyāt nakha-romāṇi dantaiḥ na utpāṭayet nakhān .. 4.69..
4.69. The morning sun, the smoke rising from a (burning) corpse, and a broken seat must be avoided. Let him not clip his nails or hair, and not tear his nails with his teeth.
न मृत्लोष्ठं च मृद्नीयान्न च्छिन्द्यात् करजैस्तृणम् । न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ ४.७०॥
न मृद्-लोष्ठम् च मृद्नीयात् न छिन्द्यात् करजैः तृणम् । न कर्म निष्फलम् कुर्यात् न आयत्याम् असुख-उदयम् ॥ ४।७०॥
na mṛd-loṣṭham ca mṛdnīyāt na chindyāt karajaiḥ tṛṇam . na karma niṣphalam kuryāt na āyatyām asukha-udayam .. 4.70..
4.70. Let him not crush earth or clods, nor tear off grass with his nails; let him not do anything that is useless or will have disagreeable results in the future.
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्याशु सूचकाऽशुचिरेव च ॥ ४.७१॥
लोष्ठ-मर्दी तृण-छेदी नख-खादी च यः नरः । स विनाशम् व्रजति आशु सूचक-अशुचिः एव च ॥ ४।७१॥
loṣṭha-mardī tṛṇa-chedī nakha-khādī ca yaḥ naraḥ . sa vināśam vrajati āśu sūcaka-aśuciḥ eva ca .. 4.71..
4.71. A man who crushes clods, tears off grass, or bites his nails, goes soon to perdition, likewise an informer and he who neglects (the rules of) purification.
न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ४.७२॥
न विगर्ह्य कथाम् कुर्यात् बहिस् माल्यम् न धारयेत् । गवाम् च यानम् पृष्ठेन सर्वथा एव विगर्हितम् ॥ ४।७२॥
na vigarhya kathām kuryāt bahis mālyam na dhārayet . gavām ca yānam pṛṣṭhena sarvathā eva vigarhitam .. 4.72..
4.72. Let him not wrangle; let him not wear a garland over (his hair). To ride on the back of cows (or of oxen) is anyhow a blamable act.
अद्वारेण च नातीयाद्ग्रामं वा वेश्म वाऽवृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३॥
अद्वारेण च न अतीयात् ग्रामम् वा वेश्म वा अ वृतम् । रात्रौ च वृक्ष-मूलानि दूरतस् परिवर्जयेत् ॥ ४।७३॥
advāreṇa ca na atīyāt grāmam vā veśma vā a vṛtam . rātrau ca vṛkṣa-mūlāni dūratas parivarjayet .. 4.73..
4.73. Let him not enter a walled village or house except by the gate, and by night let him keep at a long distance from the roots of trees.
नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ४.७४॥
न अक्षैः दीव्येत् कदा चित् तु स्वयम् न उपानहौ हरेत् । शयन-स्थः न भुञ्जीत न पाणि-स्थम् न च आसने ॥ ४।७४॥
na akṣaiḥ dīvyet kadā cit tu svayam na upānahau haret . śayana-sthaḥ na bhuñjīta na pāṇi-stham na ca āsane .. 4.74..
4.74. Let him never play with dice, nor himself take off his shoes; let him not eat, lying on a bed, nor what has been placed in his hand or on a seat.
सर्वं च तिलसम्बद्धं नाद्यादस्तमिते रवौ । न च नग्नः शयीतैह न चोच्छिष्टः क्व चिद्व्रजेत् ॥ ४.७५॥
सर्वम् च तिल-सम्बद्धम् न अद्यात् अस्तमिते रवौ । न च नग्नः शयीत एह न च उच्छिष्टः क्व चित् व्रजेत् ॥ ४।७५॥
sarvam ca tila-sambaddham na adyāt astamite ravau . na ca nagnaḥ śayīta eha na ca ucchiṣṭaḥ kva cit vrajet .. 4.75..
4.75. Let him not eat after sunset any (food) containing sesamum grains; let him never sleep naked, nor go anywhere unpurified (after meals).
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६॥
आर्द्र-पादः तु भुञ्जीत न आर्द्र-पादः तु संविशेत् । आर्द्र-पादः तु भुञ्जानः दीर्घम् आयुः अवाप्नुयात् ॥ ४।७६॥
ārdra-pādaḥ tu bhuñjīta na ārdra-pādaḥ tu saṃviśet . ārdra-pādaḥ tu bhuñjānaḥ dīrgham āyuḥ avāpnuyāt .. 4.76..
4.76. Let him eat while his feet are (yet) wet (from the ablution), but let him not go to bed with wet feet. He who eats while his feet are (still) wet, will attain long life.
अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् । न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ४.७७॥
अ चक्षुः-विषयम् दुर्गम् न प्रपद्येत कर्हि चित् । न विष्-मूत्रम् उदीक्षेत न बाहुभ्याम् नदीम् तरेत् ॥ ४।७७॥
a cakṣuḥ-viṣayam durgam na prapadyeta karhi cit . na viṣ-mūtram udīkṣeta na bāhubhyām nadīm taret .. 4.77..
4.77. Let him never enter a place, difficult of access, which is impervious to his eye; let him not look at urine or ordure, nor cross a river (swimming) with his arms.
अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः । न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ॥ ४.७८॥
अधितिष्ठेत् न केशान् तु न भस्म-अस्थि-कपालिकाः । न कार्पास-अस्थि न तुषान् दीर्घम् आयुः जिजीविषुः ॥ ४।७८॥
adhitiṣṭhet na keśān tu na bhasma-asthi-kapālikāḥ . na kārpāsa-asthi na tuṣān dīrgham āyuḥ jijīviṣuḥ .. 4.78..
4.78. Let him not step on hair, ashes, bones, potsherds, cotton-seed or chaff, if he desires long life.
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ ४.७९॥
न संवसेत् च पतितैः न चाण्डालैः न पुल्कसैः । न मूर्खैः न अवलिप्तैः च न अन्त्यैः न अन्त्यावसायिभिः ॥ ४।७९॥
na saṃvaset ca patitaiḥ na cāṇḍālaiḥ na pulkasaiḥ . na mūrkhaiḥ na avaliptaiḥ ca na antyaiḥ na antyāvasāyibhiḥ .. 4.79..
4.79. Let him not stay together with outcasts, nor with Kandalas, nor with Pukkasas, nor with fools, nor with overbearing men, nor with low-caste men, nor with Antyavasayins.
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ ४.८०॥
न शूद्राय मतिम् दद्यात् न उच्छिष्टम् न हविष्कृतम् । न च अस्य उपदिशेत् धर्मम् न च अस्य व्रतम् आदिशेत् ॥ ४।८०॥
na śūdrāya matim dadyāt na ucchiṣṭam na haviṣkṛtam . na ca asya upadiśet dharmam na ca asya vratam ādiśet .. 4.80..
4.80. Let him not give to a Sudra advice, nor the remnants (of his meal), nor food offered to the gods; nor let him explain the sacred law (to such a man), nor impose (upon him) a penance.
यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् । सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ४.८१॥
यः हि अस्य धर्मम् आचष्टे यः च एव आदिशति व्रतम् । सः असंवृतम् नाम तमः सह तेन एव मज्जति ॥ ४।८१॥
yaḥ hi asya dharmam ācaṣṭe yaḥ ca eva ādiśati vratam . saḥ asaṃvṛtam nāma tamaḥ saha tena eva majjati .. 4.81..
4.81. For he who explains the sacred law (to a Sudra) or dictates to him a penance, will sink together with that (man) into the hell (called) Asamvrita.
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः ॥ ४.८२॥
न संहताभ्याम् पाणिभ्याम् कण्डूयेत् आत्मनः शिरः । न स्पृशेत् च एतत् उच्छिष्टः न च स्नायात् विना ततस् ॥ ४।८२॥
na saṃhatābhyām pāṇibhyām kaṇḍūyet ātmanaḥ śiraḥ . na spṛśet ca etat ucchiṣṭaḥ na ca snāyāt vinā tatas .. 4.82..
4.82. Let him not scratch his head with both hands joined; let him not touch it while he is impure, nor bathe without (submerging) it.
केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् । शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥ ४.८३॥
केश-ग्रहान् प्रहारान् च शिरसि एतान् विवर्जयेत् । शिरः-स्नातः च तैलेन न अङ्गम् किम् चित् अपि स्पृशेत् ॥ ४।८३॥
keśa-grahān prahārān ca śirasi etān vivarjayet . śiraḥ-snātaḥ ca tailena na aṅgam kim cit api spṛśet .. 4.83..
4.83. Let him avoid (in anger) to lay hold of (his own or other men’s) hair, or to strike (himself or others) on the head. When he has bathed (submerging) his head, he shall not touch any of his limbs with oil.
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ४.८४॥
न राज्ञः प्रतिगृह्णीयात् अराजन्य-प्रसूतितः । सूना-चक्र-ध्वजवताम् वेशेन एव च जीवताम् ॥ ४।८४॥
na rājñaḥ pratigṛhṇīyāt arājanya-prasūtitaḥ . sūnā-cakra-dhvajavatām veśena eva ca jīvatām .. 4.84..
4.84. Let him not accept presents from a king who is not descended from the Kshatriya race, nor from butchers, oil-manufacturers, and publicans, nor from those who subsist by the gain of prostitutes.
दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥ ४.८५॥
दश-सूना-समम् चक्रम् दश-चक्र-समः ध्वजः । दश-ध्वज-समः वेशः दश-वेश-समः नृपः ॥ ४।८५॥
daśa-sūnā-samam cakram daśa-cakra-samaḥ dhvajaḥ . daśa-dhvaja-samaḥ veśaḥ daśa-veśa-samaḥ nṛpaḥ .. 4.85..
4.85. One oil-press is as (bad) as ten slaughter-houses, one tavern as (bad as) ten oil-presses, one brothel as (bad as) ten taverns, one king as (bad as) ten brothels.
दश सूणासहस्राणि यो वाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ४.८६॥
दश सूणा-सहस्राणि यः वाहयति सौनिकः । तेन तुल्यः स्मृतः राजा घोरः तस्य प्रतिग्रहः ॥ ४।८६॥
daśa sūṇā-sahasrāṇi yaḥ vāhayati saunikaḥ . tena tulyaḥ smṛtaḥ rājā ghoraḥ tasya pratigrahaḥ .. 4.86..
4.86. A king is declared to be equal (in wickedness) to a butcher who keeps a hundred thousand slaughter- houses; to accept presents from him is a terrible (crime).
यो राज्ञः प्रतिगृह्णाति लुब्धस्यौच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ ४.८७॥
यः राज्ञः प्रतिगृह्णाति । स पर्यायेण याति इमान् नरकान् एकविंशतिम् ॥ ४।८७॥
yaḥ rājñaḥ pratigṛhṇāti . sa paryāyeṇa yāti imān narakān ekaviṃśatim .. 4.87..
4.87. He who accepts presents from an avaricious king who acts contrary to the Institutes (of the sacred law), will go in succession to the following twenty-one hells:
तामिस्रमन्धतामिस्रं महारौरवरौरवौ । नरकं कालसूत्रं च महानरकमेव च ॥ ४.८८॥
तामिस्रम् अन्धतामिस्रम् महारौरव-रौरवौ । नरकम् कालसूत्रम् च महानरकम् एव च ॥ ४।८८॥
tāmisram andhatāmisram mahāraurava-rauravau . narakam kālasūtram ca mahānarakam eva ca .. 4.88..
4.88. Tamisra, Andhatamisra, Maharaurava, Raurava, the Kalasutra hell, Mahanaraka,
सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् । संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ ४.८९॥
सञ्जीवनम् महावीचिम् तपनम् सम्प्रतापनम् । संहातम् च स काकोलम् कुड्मलम् प्रतिमूर्तिकम् ॥ ४।८९॥
sañjīvanam mahāvīcim tapanam sampratāpanam . saṃhātam ca sa kākolam kuḍmalam pratimūrtikam .. 4.89..
4.89. Samgivana, Mahaviki, Tapana, Sampratapana, Samghata, Sakakola, Kudmala, Putimrittika,
लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥ ४.९०॥
लोहशङ्कुम् ऋजीषम् च पन्थानम् शाल्मलीम् नदीम् । असिपत्रवनम् च एव लोहदारकम् एव च ॥ ४।९०॥
lohaśaṅkum ṛjīṣam ca panthānam śālmalīm nadīm . asipatravanam ca eva lohadārakam eva ca .. 4.90..
4.90. Lohasanku, Rigisha, Pathin, the (flaming) river, Salmala, Asipatravana, and Lohakaraka.
एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ ४.९१॥
एतत् विदन्तः विद्वांसः ब्राह्मणाः ब्रह्म-वादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयः-अभिकाङ्क्षिणः ॥ ४।९१॥
etat vidantaḥ vidvāṃsaḥ brāhmaṇāḥ brahma-vādinaḥ . na rājñaḥ pratigṛhṇanti pretya śreyaḥ-abhikāṅkṣiṇaḥ .. 4.91..
4.91. Learned Brahmanas, who know that, who study the Veda and desire bliss after death, do not accept presents from a king.
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ ४.९२॥
ब्राह्मे मुहूर्ते बुध्येत धर्म-अर्थौ च अनुचिन्तयेत् । काय-क्लेशान् च तद्-मूलान् वेद-तत्त्व-अर्थम् एव च ॥ ४।९२॥
brāhme muhūrte budhyeta dharma-arthau ca anucintayet . kāya-kleśān ca tad-mūlān veda-tattva-artham eva ca .. 4.92..
4.92. Let him wake in the muhurta, sacred to Brahman, and think of (the acquisition of) spiritual merit and wealth, of the bodily fatigue arising therefrom, and of the true meaning of the Veda.
उत्थायावश्यकं कृत्वा कृतशौचः समाहितः । पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् ॥ ४.९३॥
उत्थाय आवश्यकम् कृत्वा कृत-शौचः समाहितः । पूर्वाम् संध्याम् जपन् तिष्ठेत् स्व-काले च अपराम् चिरम् ॥ ४।९३॥
utthāya āvaśyakam kṛtvā kṛta-śaucaḥ samāhitaḥ . pūrvām saṃdhyām japan tiṣṭhet sva-kāle ca aparām ciram .. 4.93..
4.93. When he has risen, has relieved the necessities of nature and carefully purified himself, let him stand during the morning twilight, muttering for a long time (the Gayatri), and at the proper time (he must similarly perform) the evening (devotion).
ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ ४.९४॥
ऋषयः दीर्घ-संध्या-त्वात् दीर्घम् आयुः अवाप्नुयुः । प्रज्ञाम् यशः च कीर्तिम् च ब्रह्मवर्चसम् एव च ॥ ४।९४॥
ṛṣayaḥ dīrgha-saṃdhyā-tvāt dīrgham āyuḥ avāpnuyuḥ . prajñām yaśaḥ ca kīrtim ca brahmavarcasam eva ca .. 4.94..
4.94. By prolonging the twilight devotions, the sages obtained long life, wisdom, honour, fame, and excellence in Vedic knowledge.
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ ४.९५॥
श्रावण्याम् प्रौष्ठपद्याम् वा अपि उपाकृत्य यथाविधि । युक्तः छन्दांसि अधीयीत मासान् विप्रः अर्धपञ्चमान् ॥ ४।९५॥
śrāvaṇyām prauṣṭhapadyām vā api upākṛtya yathāvidhi . yuktaḥ chandāṃsi adhīyīta māsān vipraḥ ardhapañcamān .. 4.95..
4.95. Having performed the Upakarman according to the prescribed rule on (the full moon of the month) Sravana, or on that of Praushthapada (Bhadrapada), a Brahmana shall diligently study the Vedas during four months and a hal
पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ ४.९६॥
पुष्ये तु छन्दसाम् कुर्यात् बहिस् उत्सर्जनम् द्विजः । माघ-शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे अहनि ॥ ४।९६॥
puṣye tu chandasām kuryāt bahis utsarjanam dvijaḥ . māgha-śuklasya vā prāpte pūrvāhṇe prathame ahani .. 4.96..
4.96. When the Pushya-day (of the month Pausha), or the first day of the bright half of Magha has come, a Brahmana shall perform in the forenoon the Utsargana of the Vedas.
यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ ४.९७॥
यथाशास्त्रम् तु कृत्वा एवम् उत्सर्गम् छन्दसाम् बहिस् । विरमेत् पक्षिणीम् रात्रिम् तत् एव एकम् अहर्निशम् ॥ ४।९७॥
yathāśāstram tu kṛtvā evam utsargam chandasām bahis . viramet pakṣiṇīm rātrim tat eva ekam aharniśam .. 4.97..
4.97. Having performed the Utsarga outside (the village), as the Institutes (of the sacred law) prescribe, he shall stop reading during two days and the intervening night, or during that day (of the Utsarga) and (the following) night.
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत् ॥ ४.९८॥
अतस् ऊर्ध्वम् तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्ण-पक्षेषु सम्पठेत् ॥ ४।९८॥
atas ūrdhvam tu chandāṃsi śukleṣu niyataḥ paṭhet . vedāṅgāni ca sarvāṇi kṛṣṇa-pakṣeṣu sampaṭhet .. 4.98..
4.98. Afterwards he shall diligently recite the Vedas during the bright (halves of the months), and duly study all the Angas of the Vedas during the dark fortnights.
नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ । न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९९॥
न अविस्पष्टम् अधीयीत न शूद्र-जन-सन्निधौ । न निशा-अन्ते परिश्रान्तः ब्रह्म अधीत्य पुनर् स्वपेत् ॥ ४।९९॥
na avispaṣṭam adhīyīta na śūdra-jana-sannidhau . na niśā-ante pariśrāntaḥ brahma adhītya punar svapet .. 4.99..
4.99. Let him not recite (the texts) indistinctly, nor in the presence of Sudras; nor let him, if in the latter part of the night he is tired with reciting the Veda, go again to sleep.
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥ ४.१००॥
यथा उदितेन विधिना नित्यम् छन्दस्कृतम् पठेत् । ब्रह्म छन्दस्कृतम् च एव द्विजः युक्तः हि अनापदि ॥ ४।१००॥
yathā uditena vidhinā nityam chandaskṛtam paṭhet . brahma chandaskṛtam ca eva dvijaḥ yuktaḥ hi anāpadi .. 4.100..
4.100. According to the rule declared above, let him recite the daily (portion of the) Mantras, and a zealous Brahmana, (who is) not in distress, (shall study) the Brahmana and the Mantrasamhita.
इमान्नित्यमनध्यायानधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ ४.१०१॥
इमान् नित्यम् अनध्यायान् अधीयानः विवर्जयेत् । अध्यापनम् च कुर्वाणः शिष्याणाम् विधि-पूर्वकम् ॥ ४।१०१॥
imān nityam anadhyāyān adhīyānaḥ vivarjayet . adhyāpanam ca kurvāṇaḥ śiṣyāṇām vidhi-pūrvakam .. 4.101..
4.101. Let him who studies always avoid (reading) on the following occasions when the Veda-study is forbidden, and (let) him who teaches pupils according to the prescribed rule (do it likewise).
कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने । एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ ४.१०२॥
कर्ण-श्रवे अनिले रात्रौ दिवा पांसु-समूहने । एतौ वर्षासु अनध्यायौ अध्याय-ज्ञाः प्रचक्षते ॥ ४।१०२॥
karṇa-śrave anile rātrau divā pāṃsu-samūhane . etau varṣāsu anadhyāyau adhyāya-jñāḥ pracakṣate .. 4.102..
4.102. Those who know the (rules of) recitation declare that in the rainy season the Veda-study must be stopped on these two (occasions), when the wind is audible at night, and when it whirls up the dust in the day-time.
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ ४.१०३॥
विद्युत्-स्तनित-वर्षेषु महा-उल्कानाम् च सम्प्लवे । आकालिकम् अनध्यायम् एतेषु मनुः अब्रवीत् ॥ ४।१०३॥
vidyut-stanita-varṣeṣu mahā-ulkānām ca samplave . ākālikam anadhyāyam eteṣu manuḥ abravīt .. 4.103..
4.103. Manu has stated, that when lightning, thunder, and rain (are observed together), or when large fiery meteors fall on all sides, the recitation must be interrupted until the same hour (on the next day, counting from the occurrence of the event).
एतांस्त्वभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ ४.१०४॥
एतान् तु अभ्युदितान् विद्यात् यदा प्रादुष्कृत-अग्निषु । तदा विद्यात् अनध्यायम् अनृतौ च अभ्र-दर्शने ॥ ४।१०४॥
etān tu abhyuditān vidyāt yadā prāduṣkṛta-agniṣu . tadā vidyāt anadhyāyam anṛtau ca abhra-darśane .. 4.104..
4.104. When one perceives these (phenomena) all together (in the twilight), after the sacred fires have been made to blaze (for the performance of the Agnihotra), then one must know the recitation of the Veda to be forbidden, and also when clouds appear out of season.
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान् विद्यादनध्यायान् ऋतावपि ॥ ४.१०४॥
निर्घाते भूमिचलने ज्योतिषाम् च उपसर्जने । एतान् आकालिकान् विद्यात् अनध्यायान् ऋतौ अपि ॥ ४।१०४॥
nirghāte bhūmicalane jyotiṣām ca upasarjane . etān ākālikān vidyāt anadhyāyān ṛtau api .. 4.104..
4.105. On (the occasion of) a preternatural sound from the sky, (of) an earthquake, and when the lights of heaven are surrounded by a halo, let him know that (the Veda-study must be) stopped until the same hour (on the next day), even if (these phenomena happen) in the (rainy) season.
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने । सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ ४.१०६॥
प्रादुष्कृतेषु अग्निषु तु विद्युत्-स्तनित-निःस्वने । स ज्योतिः स्यात् अनध्यायः शेषे रात्रौ यथा दिवा ॥ ४।१०६॥
prāduṣkṛteṣu agniṣu tu vidyut-stanita-niḥsvane . sa jyotiḥ syāt anadhyāyaḥ śeṣe rātrau yathā divā .. 4.106..
4.106. But when lightning and the roar of thunder (are observed) after the sacred fires have been made to blaze, the stoppage shall last as long as the light (of the sun or of the stars is visible); if the remaining (above-named phenomenon, rain, occurs, the reading shall cease), both in the day-time and at night.
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ ४.१०७॥ सर्वशः
नित्यानध्यायः एव स्यात् ग्रामेषु नगरेषु च । धर्म-नैपुण्य-कामानाम् पूति-गन्धे च सर्वदा ॥ ४।१०७॥ सर्वशस्
nityānadhyāyaḥ eva syāt grāmeṣu nagareṣu ca . dharma-naipuṇya-kāmānām pūti-gandhe ca sarvadā .. 4.107.. sarvaśas
4.107. For those who wish to acquire exceedingiy great merit, a continual interruption of the Veda-study (is prescribed) in villages and in towns, and (the Veda-study must) always (cease) when any kind of foul smell (is perceptible).
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ४.१०८॥
अन्तर्गत-शवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायः रुद्यमाने समवाये जनस्य च ॥ ४।१०८॥
antargata-śave grāme vṛṣalasya ca sannidhau . anadhyāyaḥ rudyamāne samavāye janasya ca .. 4.108..
4.108. In a village where a corpse lies, in the presence of a (man who lives as unrighteously as a) Sudra, while (the sound of) weeping (is heard), and in a crowd of men the (recitation of the Veda must be) stopped.
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक्चैव मनसाऽपि न चिन्तयेत् ॥ ४.१०९॥
उदके मध्यरात्रे च विष्-मूत्रस्य विसर्जने । उच्छिष्टः श्राद्ध-भुज् च एव मनसा अपि न चिन्तयेत् ॥ ४।१०९॥
udake madhyarātre ca viṣ-mūtrasya visarjane . ucchiṣṭaḥ śrāddha-bhuj ca eva manasā api na cintayet .. 4.109..
4.109. In water, during the middle part of the night, while he voids excrements, or is impure, and after he has partaken of a funeral dinner, a man must not even think in his heart (of the sacred texts).
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ ४.११०॥
प्रतिगृह्य द्विजः विद्वान् एकोद्दिष्टस्य केतनम् । त्रि-अहम् न कीर्तयेत् ब्रह्म राज्ञः राहोः च सूतके ॥ ४।११०॥
pratigṛhya dvijaḥ vidvān ekoddiṣṭasya ketanam . tri-aham na kīrtayet brahma rājñaḥ rāhoḥ ca sūtake .. 4.110..
4.110. A learned Brahmana shall not recite the Veda during three days, when he has accepted an invitation to a (funeral rite) in honour of one ancestor (ekoddishta), or when the king has become impure through a birth or death in his family (sutaka), or when Rahu by an eclipse makes the moon impure.
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ ४.१११॥
यावत् एकानुदिष्टस्य गन्धः लेपः च तिष्ठति । विप्रस्य विदुषः देहे तावत् ब्रह्म न कीर्तयेत् ॥ ४।१११॥
yāvat ekānudiṣṭasya gandhaḥ lepaḥ ca tiṣṭhati . viprasya viduṣaḥ dehe tāvat brahma na kīrtayet .. 4.111..
4.111. As long as the smell and the stains of the (food given) in honour of one ancestor remain on the body of a learned Brahmana, so long he must not recite the Veda.
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ ४.११२॥
शयानः प्रौढ-पादः च कृत्वा च एव अवसक्थिकाम् । न अधीयीत आमिषम् जग्ध्वा सूतकान्न-आद्यम् एव च ॥ ४।११२॥
śayānaḥ prauḍha-pādaḥ ca kṛtvā ca eva avasakthikām . na adhīyīta āmiṣam jagdhvā sūtakānna-ādyam eva ca .. 4.112..
4.112. While lying on a bed, while his feet are raised (on a bench), while he sits on his hams with a cloth tied round his knees, let him not study, nor when he has eaten meat or food given by a person impure on account of a birth or a death,
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः । अमावास्याचतुर्दश्योः पौर्णमास्य्ऽष्टकासु च ॥ ४.११३॥
नीहारे बाण-शब्दे च संध्ययोः एव च उभयोः । अमावास्या-चतुर्दश्योः पौर्णमासी-अष्टकासु च ॥ ४।११३॥
nīhāre bāṇa-śabde ca saṃdhyayoḥ eva ca ubhayoḥ . amāvāsyā-caturdaśyoḥ paurṇamāsī-aṣṭakāsu ca .. 4.113..
4.113. Nor during a fog, nor while the sound of arrows is audible, nor during both the twilights, nor on the new- moon day, nor on the fourteenth and the eighth (days of each half-month), nor on the full-moon day.
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टकपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ ४.११४॥
अमावास्या गुरुम् हन्ति शिष्यम् हन्ति चतुर्दशी । ब्रह्म अष्टक-पौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ ४।११४॥
amāvāsyā gurum hanti śiṣyam hanti caturdaśī . brahma aṣṭaka-paurṇamāsyau tasmāt tāḥ parivarjayet .. 4.114..
4.114. The new-moon day destroys the teacher, the fourteenth (day) the pupil, the eighth and the full-moon days (destroy all remembrance of) the Veda; let him therefore avoid (reading on) those (days).
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठेद्द्विजः ॥ ४.११५॥
पांसु-वर्षे दिशाम् दाहे गोमायु-विरुते तथा । श्व-खर-उष्ट्रे च रुवति च न पठेत् द्विजः ॥ ४।११५॥
pāṃsu-varṣe diśām dāhe gomāyu-virute tathā . śva-khara-uṣṭre ca ruvati ca na paṭhet dvijaḥ .. 4.115..
4.115. A Brahmana shall not recite (the Veda) during a dust-storm, nor while the sky is preternaturally red, nor while jackals howl, nor while the barking of dogs, the braying of donkeys, or the grunting of camels (is heard), nor while (he is seated) in a company.
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ४.११६॥
न अधीयीत श्मशान-अन्ते ग्राम-अन्ते गो-व्रजे अपि वा । वसित्वा मैथुनम् वासः श्राद्धिकम् प्रतिगृह्य च ॥ ४।११६॥
na adhīyīta śmaśāna-ante grāma-ante go-vraje api vā . vasitvā maithunam vāsaḥ śrāddhikam pratigṛhya ca .. 4.116..
4.116. Let him not study near a burial-ground, nor near a village, nor in a cow-pen, nor dressed in a garment which he wore during conjugal intercourse, nor after receiving a present at a funeral sacrifice.
प्राणि वा यदि वाऽप्राणि यत्किं चित्श्राद्धिकं भवेत् । तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ४.११७॥
प्राणि वा यदि वा अप्राणि यत् किम् चित्-श्राद्धिकम् भवेत् । तत् आलभ्य अपि अनध्यायः पाणि-आस्यः हि द्विजः स्मृतः ॥ ४।११७॥
prāṇi vā yadi vā aprāṇi yat kim cit-śrāddhikam bhavet . tat ālabhya api anadhyāyaḥ pāṇi-āsyaḥ hi dvijaḥ smṛtaḥ .. 4.117..
4.117. Be it an animal or a thing inanimate, whatever be the (gift) at a Sraddha, let him not, having just accepted it, recite the Veda; for the hand of a Brahmana is his mouth.
चोरैरुपप्लुते सम्भ्रमे चाग्निकारिते । आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च ॥ ४.११८॥
चोरैः उपप्लुते सम्भ्रमे च अग्नि-कारिते । आकालिकम् अनध्यायम् विद्यात् सर्व-अद्भुतेषु च ॥ ४।११८॥
coraiḥ upaplute sambhrame ca agni-kārite . ākālikam anadhyāyam vidyāt sarva-adbhuteṣu ca .. 4.118..
4.118. When the village has been beset by robbers, and when an alarm has been raised by fire, let him know that (the Veda-study must be) interrupted until the same hour (on the next day), and on (the occurrence of) all portents.
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ॥ ४.११९॥
उपाकर्मणि च उत्सर्गे त्रि-रात्रम् क्षेपणम् स्मृतम् । अष्टकासु तु अहोरात्रम् ऋतु-अन्तासु च रात्रिषु ॥ ४।११९॥
upākarmaṇi ca utsarge tri-rātram kṣepaṇam smṛtam . aṣṭakāsu tu ahorātram ṛtu-antāsu ca rātriṣu .. 4.119..
4.119. On (the occasion of) the Upakarman and (of) the Vedotsarga an omission (of the Veda-study) for three days has been prescribed, but on the Ashtakas and on the last nights of the seasons for a day and a night.
नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नैरिणस्थो न यानगः ॥ ४.१२०॥
न अधीयीत अश्वम् आरूढः न वृक्षम् न च हस्तिनम् । न नावम् न खरम् न उष्ट्रम् न एरिण-स्थः न यान-गः ॥ ४।१२०॥
na adhīyīta aśvam ārūḍhaḥ na vṛkṣam na ca hastinam . na nāvam na kharam na uṣṭram na eriṇa-sthaḥ na yāna-gaḥ .. 4.120..
4.120. Let him not recite the Veda on horseback, nor on a tree, nor on an elephant, nor in a boat (or ship), nor on a donkey, nor on camel, nor standing on barren ground, nor riding in a carriage,
न विवादे न कलहे न सेनायां न सङ्गरे । न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ ४.१२१॥
न विवादे न कलहे न सेनायाम् न सङ्गरे । न भुक्त-मात्रे न अजीर्णे न वमित्वा न शुक्तके ॥ ४।१२१॥
na vivāde na kalahe na senāyām na saṅgare . na bhukta-mātre na ajīrṇe na vamitvā na śuktake .. 4.121..
4.121. Nor during a verbal altercation, nor during a mutual assault, nor in a camp, nor during a battle, nor when he has just eaten, nor during an indigestion, nor after vomiting, nor with sour eructations,
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्रात्शस्त्रेण च परिक्षते ॥ ४.१२२॥
अतिथिम् च अन् अनुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्रात् शस्त्रेण च परिक्षते ॥ ४।१२२॥
atithim ca an anujñāpya mārute vāti vā bhṛśam . rudhire ca srute gātrāt śastreṇa ca parikṣate .. 4.122..
4.122. Nor without receiving permission from a guest (who stays in his house), nor while the wind blows vehemently, nor while blood flows from his body, nor when he is wounded by a weapon.
सामध्वनावृग्यजुषी नाधीयीत कदा चन । वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥ ४.१२३॥
साम-ध्वना वृक्-यजुषी न अधीयीत कदा चन । वेदस्य अधीत्य वा अपि अन्तम् आरण्यकम् अधीत्य च ॥ ४।१२३॥
sāma-dhvanā vṛk-yajuṣī na adhīyīta kadā cana . vedasya adhītya vā api antam āraṇyakam adhītya ca .. 4.123..
4.123. Let him never recite the Rig-veda or the Yagur-veda while the Saman (melodies) are heard; (let him stop all Veda-study for a day and a night) after finishing a Veda or after reciting an Aranyaka.
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥ ४.१२४॥
ऋग्वेदः देव-दैवत्यः यजुर्वेदः तु मानुषः । सामवेदः स्मृतः पित्र्यः तस्मात् तस्य अशुचिः ध्वनिः ॥ ४।१२४॥
ṛgvedaḥ deva-daivatyaḥ yajurvedaḥ tu mānuṣaḥ . sāmavedaḥ smṛtaḥ pitryaḥ tasmāt tasya aśuciḥ dhvaniḥ .. 4.124..
4.124. The Rig-veda is declared to be sacred to the gods, the Yagur-veda sacred to men, and the Sama-veda sacred to the manes; hence the sound of the latter is impure (as it were).
एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् । क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ ४.१२५॥
एतद्-विद्वन्तः विद्वांसः त्रयी-निष्कर्षम् अन्वहम् । क्रमतस् पूर्वम् अभ्यस्य पश्चात् वेदम् अधीयते ॥ ४।१२५॥
etad-vidvantaḥ vidvāṃsaḥ trayī-niṣkarṣam anvaham . kramatas pūrvam abhyasya paścāt vedam adhīyate .. 4.125..
4.125. Knowing this, the learned daily repeat first in due order the essence of the three (Vedas) and afterwards the (text of the) Veda.
पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ ४.१२६॥
पशु-मण्डूक-मार्जार-श्व-सर्प-नकुल-आखुभिः । अन्तर् आगमने विद्यात् अनध्यायम् अहर्निशम् ॥ ४।१२६॥
paśu-maṇḍūka-mārjāra-śva-sarpa-nakula-ākhubhiḥ . antar āgamane vidyāt anadhyāyam aharniśam .. 4.126..
4.126. Know that (the Veda-study must be) interrupted for a day and a night, when cattle, a frog, a cat, a dog, a snake, an ichneumon, or a rat pass between (the teacher and his pupil).
द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः । स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ॥ ४.१२७॥
द्वौ एव वर्जयेत् नित्यम् अनध्यायौ प्रयत्नतः । स्वाध्याय-भूमिम् च अशुद्धम् आत्मानम् च अशुचिम् द्विजः ॥ ४।१२७॥
dvau eva varjayet nityam anadhyāyau prayatnataḥ . svādhyāya-bhūmim ca aśuddham ātmānam ca aśucim dvijaḥ .. 4.127..
4.127. Let a twice-born man always carefully interrupt the Veda-study on two (occasions, viz.) when the place where he recites is impure, and when he himself is unpurified.
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यर्तौ स्नातको द्विजः ॥ ४.१२८॥
अमावास्याम् अष्टमीम् च पौर्णमासीम् चतुर्दशीम् । ब्रह्मचारी भवेत् नित्यम् अपि अर्तौ स्नातकः द्विजः ॥ ४।१२८॥
amāvāsyām aṣṭamīm ca paurṇamāsīm caturdaśīm . brahmacārī bhavet nityam api artau snātakaḥ dvijaḥ .. 4.128..
4.128. A twice-born man who is a Snataka shall remain chaste on the new-moon day, on the eighth (lunar day of each half-month), on the full-moon day, and on the fourteenth, even (if they fall) in the period (proper for conjugal intercourse).
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९॥
न स्नानम् आचरेत् भुक्त्वा न आतुरः न महानिशि । न वासोभिः सह अजस्रम् न अ विज्ञाते जलाशये ॥ ४।१२९॥
na snānam ācaret bhuktvā na āturaḥ na mahāniśi . na vāsobhiḥ saha ajasram na a vijñāte jalāśaye .. 4.129..
4.129. Let him not bathe (immediately) after a meal, nor when he is sick, nor in the middle of the night, nor frequently dressed in all his garments, nor in a pool which he does not perfectly know.
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ ४.१३०॥
देवतानाम् गुरोः राज्ञः स्नातक-आचार्ययोः तथा । न आक्रामेत् कामतः छायाम् बभ्रुणः दीक्षितस्य च ॥ ४।१३०॥
devatānām guroḥ rājñaḥ snātaka-ācāryayoḥ tathā . na ākrāmet kāmataḥ chāyām babhruṇaḥ dīkṣitasya ca .. 4.130..
4.130. Let him not intentionally step on the shadow of (images of) the gods, of a Guru, of a king, of a Snataka, of his teacher, of a reddish-brown animal, or of one who has been initiated to the performance of a Srauta sacrifice (Dikshita).
मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ ४.१३१॥
मध्यंदिने अर्धरात्रे च श्राद्धम् भुक्त्वा च स आमिषम् । संध्ययोः उभयोः च एव न सेवेत चतुष्पथम् ॥ ४।१३१॥
madhyaṃdine ardharātre ca śrāddham bhuktvā ca sa āmiṣam . saṃdhyayoḥ ubhayoḥ ca eva na seveta catuṣpatham .. 4.131..
4.131. At midday and at midnight, after partaking of meat at a funeral dinner, and in the two twilights let him not stay long on a cross-road.
उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ ४.१३२॥
उद्वर्तनम् अपस्नानम् विष्-मूत्रे रक्तम् एव च । श्लेश्म-निष्ठ्यूत-वान्तानि न अधितिष्ठेत् तु कामतः ॥ ४।१३२॥
udvartanam apasnānam viṣ-mūtre raktam eva ca . śleśma-niṣṭhyūta-vāntāni na adhitiṣṭhet tu kāmataḥ .. 4.132..
4.132. Let him not step intentionally on things used for cleansing the body, on water used for a bath, on urine or ordure, on blood, on mucus, and on anything spat out or vomited.
वैरिणं नोपसेवेत सहायं चैव वैरिणः । अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ ४.१३३॥
वैरिणम् न उपसेवेत सहायम् च एव वैरिणः । अधार्मिकम् तस्करम् च परस्य एव च योषितम् ॥ ४।१३३॥
vairiṇam na upaseveta sahāyam ca eva vairiṇaḥ . adhārmikam taskaram ca parasya eva ca yoṣitam .. 4.133..
4.133. Let him not show particular attention to an enemy, to the friend of an enemy, to a wicked man, to a thief, or to the wife of another man.
न हीदृशमनायुष्यं लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४॥
न हि ईदृशम् अनायुष्यम् लोके किम् चन विद्यते । यादृशम् पुरुषस्य इह पर-दार-उपसेवनम् ॥ ४।१३४॥
na hi īdṛśam anāyuṣyam loke kim cana vidyate . yādṛśam puruṣasya iha para-dāra-upasevanam .. 4.134..
4.134. For in this world there is nothing so detrimental to long life as criminal conversation with another man’s wife.
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदा चन ॥ ४.१३५॥
क्षत्रियम् च एव सर्पम् च ब्राह्मणम् च बहु-श्रुतम् । न अवमन्येत वै भूष्णुः कृशान् अपि कदा चन ॥ ४।१३५॥
kṣatriyam ca eva sarpam ca brāhmaṇam ca bahu-śrutam . na avamanyeta vai bhūṣṇuḥ kṛśān api kadā cana .. 4.135..
4.135. Let him who desires prosperity, indeed, never despise a Kshatriya, a snake, and a learned Brahmana, be they ever so feeble.
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् । तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ ४.१३६॥
एतत् त्रयम् हि पुरुषम् निर्दहेत् अवमानितम् । तस्मात् एतत् त्रयम् नित्यम् न अवमन्येत बुद्धिमान् ॥ ४।१३६॥
etat trayam hi puruṣam nirdahet avamānitam . tasmāt etat trayam nityam na avamanyeta buddhimān .. 4.136..
4.136. Because these three, when treated with disrespect, may utterly destroy him; hence a wise man must never despise them.
नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः । आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ ४.१३७॥
न आत्मानम् अवमन्येत पुर्वाभिः असमृद्धिभिः । आ मृत्योः श्रियम् अन्विच्छेत् न एनाम् मन्येत दुर्लभाम् ॥ ४।१३७॥
na ātmānam avamanyeta purvābhiḥ asamṛddhibhiḥ . ā mṛtyoḥ śriyam anvicchet na enām manyeta durlabhām .. 4.137..
4.137. Let him not despise himself on account of former failures; until death let him seek fortune, nor despair of gaining it.
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ ४.१३८॥
सत्यम् ब्रूयात् प्रियम् ब्रूयात् न ब्रूयात् सत्यम् अप्रियम् । प्रियम् च न अनृतम् ब्रूयात् एष धर्मः सनातनः ॥ ४।१३८॥
satyam brūyāt priyam brūyāt na brūyāt satyam apriyam . priyam ca na anṛtam brūyāt eṣa dharmaḥ sanātanaḥ .. 4.138..
4.138. Let him say what is true, let him say what is pleasing, let him utter no disagreeable truth, and let him utter no agreeable falsehood; that is the eternal law.
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् । शुष्कवैरं विवादं च न कुर्यात्केन चित्सह ॥ ४.१३९॥
भद्रम् भद्रम् इति ब्रूयात् भद्रम् इति एव वा वदेत् । शुष्क-वैरम् विवादम् च न कुर्यात् केन चित् सह ॥ ४।१३९॥
bhadram bhadram iti brūyāt bhadram iti eva vā vadet . śuṣka-vairam vivādam ca na kuryāt kena cit saha .. 4.139..
4.139. (What is) well, let him call well, or let him say ’well’ only; let him not engage in a useless enmity or dispute with anybody.
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ ४.१४०॥
न अति कल्यम् न अति सायम् न अति मध्यंदिने स्थिते । न अज्ञातेन समम् गच्छेत् न एकः न वृषलैः सह ॥ ४।१४०॥
na ati kalyam na ati sāyam na ati madhyaṃdine sthite . na ajñātena samam gacchet na ekaḥ na vṛṣalaiḥ saha .. 4.140..
4.140. Let him not journey too early in the morning, nor too late in the evening, nor just during the midday (heat), nor with an unknown (companion), nor alone, nor with Sudras.
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् । रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१॥
हीन-अङ्ग-अनतिरिक्त-अङ्गान् विद्या-हीनान् वयः-अधिकान् । रूप-द्रविण-हीनान् च जाति-हीनान् च न आक्षिपेत् ॥ ४।१४१॥
hīna-aṅga-anatirikta-aṅgān vidyā-hīnān vayaḥ-adhikān . rūpa-draviṇa-hīnān ca jāti-hīnān ca na ākṣipet .. 4.141..
4.141. Let him not insult those who have redundant limbs or are deficient in limbs, nor those destitute of knowledge, nor very aged men, nor those who have no beauty or wealth, nor those who are of low birth.
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् । न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ ४.१४२॥
न स्पृशेत् पाणिना उच्छिष्टः विप्रः गो-ब्राह्मण-अनल-आण् । न च अपि पश्येत् अशुचिः सुस्थः ज्योतिः-गणान् दिवा ॥ ४।१४२॥
na spṛśet pāṇinā ucchiṣṭaḥ vipraḥ go-brāhmaṇa-anala-āṇ . na ca api paśyet aśuciḥ susthaḥ jyotiḥ-gaṇān divā .. 4.142..
4.142. A Brahmana who is impure must not touch with his hand a cow, a Brahmana, or fire; nor, being in good health, let him look at the luminaries in the sky, while he is impure.
स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ ४.१४३॥
स्पृष्ट्वा एतान् अशुचिः नित्यम् अद्भिः प्राणान् उपस्पृशेत् । गात्राणि च एव सर्वाणि नाभिम् पाणि-तलेन तु ॥ ४।१४३॥
spṛṣṭvā etān aśuciḥ nityam adbhiḥ prāṇān upaspṛśet . gātrāṇi ca eva sarvāṇi nābhim pāṇi-talena tu .. 4.143..
4.143. If he has touched these, while impure, let him always sprinkle with his hand water on the organs of sensation, all his limbs, and the navel.
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ ४.१४४॥
अनातुरः स्वानि खानि न स्पृशेत् अनिमित्ततः । रोमाणि च रहस्यानि सर्वाणि एव विवर्जयेत् ॥ ४।१४४॥
anāturaḥ svāni khāni na spṛśet animittataḥ . romāṇi ca rahasyāni sarvāṇi eva vivarjayet .. 4.144..
4.144. Except when sick he must not touch the cavities (of the body) without a reason, and he must avoid (to touch) the hair on the secret (parts).
मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ ४.१४५॥
मङ्गल-आचार-युक्तः स्यात् प्रयत-आत्मा जित-इन्द्रियः । जपेत् च जुहुयात् च एव नित्यम् अग्निम् अतन्द्रितः ॥ ४।१४५॥
maṅgala-ācāra-yuktaḥ syāt prayata-ātmā jita-indriyaḥ . japet ca juhuyāt ca eva nityam agnim atandritaḥ .. 4.145..
4.145. Let him eagerly follow the (customs which are) auspicious and the rule of good conduct, be careful of purity, and control all his organs, let him mutter (prayers) and, untired, daily offer oblations in the fire.
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ ४.१४६॥
मङ्गल-आचार-युक्तानाम् नित्यम् च प्रयत-आत्मनाम् । जपताम् जुह्वताम् च एव विनिपातः न विद्यते ॥ ४।१४६॥
maṅgala-ācāra-yuktānām nityam ca prayata-ātmanām . japatām juhvatām ca eva vinipātaḥ na vidyate .. 4.146..
4.146. No calamity happens to those who eagerly follow auspicious customs and the rule of good conduct, to those who are always careful of purity, and to those who mutter (sacred texts) and offer burnt-oblations.
वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः । तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ ४.१४७॥
वेदम् एव अभ्यसेत् नित्यम् यथाकालम् अतन्द्रितः । तम् हि अस्य आहुः परम् धर्मम् उपधर्मः अन्यः उच्यते ॥ ४।१४७॥
vedam eva abhyaset nityam yathākālam atandritaḥ . tam hi asya āhuḥ param dharmam upadharmaḥ anyaḥ ucyate .. 4.147..
4.147. Let him, without tiring, daily mutter the Veda at the proper time; for they declare that to be one’s highest duty; (all) other (observances) are called secondary duties.
वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८॥
वेद-अभ्यासेन सततम् शौचेन तपसा एव च । अद्रोहेण च भूतानाम् जातिम् स्मरति पौर्विकीम् ॥ ४।१४८॥
veda-abhyāsena satatam śaucena tapasā eva ca . adroheṇa ca bhūtānām jātim smarati paurvikīm .. 4.148..
4.148. By daily reciting the Veda, by (the observance of the rules of) purification, by (practising) austerities, and by doing no injury to created beings, one (obtains the faculty of) remembering former births.
पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ ४.१४९॥
पौर्विकीम् संस्मरन् जातिम् ब्रह्म एव अभ्यस्यते पुनर् । ब्रह्म-अभ्यासेन च अजस्रम् अनन्तम् सुखम् अश्नुते ॥ ४।१४९॥
paurvikīm saṃsmaran jātim brahma eva abhyasyate punar . brahma-abhyāsena ca ajasram anantam sukham aśnute .. 4.149..
4.149. He who, recollecting his former existences, again recites the Veda, gains endless bliss by the continual study of the Veda.
सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥ ४.१५०॥
सावित्रान् शान्ति-होमान् च कुर्यात् पर्वसु नित्यशस् । पितॄन् च एव अष्टकासु अर्चेत् नित्यम् अन्वष्टकासु च ॥ ४।१५०॥
sāvitrān śānti-homān ca kuryāt parvasu nityaśas . pitṝn ca eva aṣṭakāsu arcet nityam anvaṣṭakāsu ca .. 4.150..
4.150. Let him always offer on the Parva-days oblations to Savitri and such as avert evil omens, and on the Ashtakas and Anvashtakas let him constantly worship the manes.
दूरादावसथान् मूत्रं दूरात्पादावसेचनम् । उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१॥
दूरात् आवसथात् मूत्रम् दूरात् पाद-अवसेचनम् । उच्छिष्ट-अन्न-निषेकम् च दूरात् एव समाचरेत् ॥ ४।१५१॥
dūrāt āvasathāt mūtram dūrāt pāda-avasecanam . ucchiṣṭa-anna-niṣekam ca dūrāt eva samācaret .. 4.151..
4.151. Far from his dwelling let him remove urine (and ordure), far (let him remove) the water used for washing his feet, and far the remnants of food and the water from his bath.
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ ४.१५२॥
मैत्रम् प्रसाधनम् स्नानम् दन्त-धावनम् अञ्जनम् । पूर्वाह्णे एव कुर्वीत देवतानाम् च पूजनम् ॥ ४।१५२॥
maitram prasādhanam snānam danta-dhāvanam añjanam . pūrvāhṇe eva kurvīta devatānām ca pūjanam .. 4.152..
4.152. Early in the morning only let him void faeces, decorate (his body), bathe, clean his teeth, apply collyrium to his eyes, and worship the gods.
दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् । ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु ॥ ४.१५३॥
दैवतानि अभिगच्छेत् तु धार्मिकान् च द्विजोत्तमान् । ईश्वरम् च एव रक्षा-अर्थम् गुरून् एव च पर्वसु ॥ ४।१५३॥
daivatāni abhigacchet tu dhārmikān ca dvijottamān . īśvaram ca eva rakṣā-artham gurūn eva ca parvasu .. 4.153..
4.153. But on the Parva-days let him go to visit the (images of the) gods, and virtuous Brahmanas, and the ruler (of the country), for the sake of protection, as well as his Gurus.
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् । कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४॥
अभिवादयेत् वृद्धान् च दद्यात् च एव आसनम् स्वकम् । कृताञ्जलिः उपासीत गच्छतः पृष्ठतस् अन्वियात् ॥ ४।१५४॥
abhivādayet vṛddhān ca dadyāt ca eva āsanam svakam . kṛtāñjaliḥ upāsīta gacchataḥ pṛṣṭhatas anviyāt .. 4.154..
4.154. Let him reverentially salute venerable men (who visit him), give them his own seat, let him sit near them with joined hands and, when they leave, (accompany them), walking behind them.
श्रुतिस्मृत्योदितं सम्यग़् निबद्धं स्वेषु कर्मसु । धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ ४.१५५॥
श्रुति-स्मृत्या उदितम् सम्यक् निबद्धम् स्वेषु कर्मसु । धर्म-मूलम् निषेवेत सत्-आचारम् अतन्द्रितः ॥ ४।१५५॥
śruti-smṛtyā uditam samyak nibaddham sveṣu karmasu . dharma-mūlam niṣeveta sat-ācāram atandritaḥ .. 4.155..
4.155. Let him, untired, follow the conduct of virtuous men, connected with his occupations, which has been fully declared in the revealed texts and in the sacred tradition (Smriti) and is the root of the sacred law.
आचारात्लभते ह्यायुराचारादीप्सिताः प्रजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४.१५६॥
आचारात् लभते हि आयुः आचारात् ईप्सिताः प्रजाः । आचारात् धनम् अक्षय्यम् आचारः हन्ति अलक्षणम् ॥ ४।१५६॥
ācārāt labhate hi āyuḥ ācārāt īpsitāḥ prajāḥ . ācārāt dhanam akṣayyam ācāraḥ hanti alakṣaṇam .. 4.156..
4.156. Through virtuous conduct he obtains long life, through virtuous conduct desirable offspring, through virtuous conduct imperishable wealth; virtuous conduct destroys (the effect of) inauspicious marks.
दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ४.१५७॥
दुराचारः हि पुरुषः लोके भवति निन्दितः । दुःख-भागी च सततम् व्याधितः अल्प-आयुः एव च ॥ ४।१५७॥
durācāraḥ hi puruṣaḥ loke bhavati ninditaḥ . duḥkha-bhāgī ca satatam vyādhitaḥ alpa-āyuḥ eva ca .. 4.157..
4.157. For a man of bad conduct is blamed among people, constantly suffers misfortunes, is afflicted with diseases, and short-lived.
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ४.१५८॥
सर्व-लक्षण-हीनः अपि यः सत्-आचारवान् नरः । श्रद्दधानः अनसूयः च शतम् वर्षाणि जीवति ॥ ४।१५८॥
sarva-lakṣaṇa-hīnaḥ api yaḥ sat-ācāravān naraḥ . śraddadhānaḥ anasūyaḥ ca śatam varṣāṇi jīvati .. 4.158..
4.158. A man who follows the conduct of the virtuous, has faith and is free from envy, lives a hundred years, though he be entirely destitute of auspicious marks.
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ॥यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः ॥ ४.१५९॥
यत् यत् परवशम् कर्म तत् तत् यत्नेन वर्जयेत् ॥यत् यत् आत्म-वशम् तु स्यात् तत् तत् सेवेत यत्नतः ॥ ४।१५९॥
yat yat paravaśam karma tat tat yatnena varjayet ..yat yat ātma-vaśam tu syāt tat tat seveta yatnataḥ .. 4.159..
4.159. Let him carefully avoid all undertakings (the success of) which depends on others; but let him eagerly pursue that (the accomplishment of) which depends on himself.
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ ४.१६०॥
सर्वम् पर-वशम् दुःखम् सर्वम् आत्म-वशम् सुखम् । एतत् विद्यात् समासेन लक्षणम् सुख-दुःखयोः ॥ ४।१६०॥
sarvam para-vaśam duḥkham sarvam ātma-vaśam sukham . etat vidyāt samāsena lakṣaṇam sukha-duḥkhayoḥ .. 4.160..
4.160. Everything that depends on others (gives) pain, everything that depends on oneself (gives) pleasure; know that this is the short definition of pleasure and pain.
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः । तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१॥
यत् कर्म कुर्वतः अस्य स्यात् परितोषः अन्तरात्मनः । तत् प्रयत्नेन कुर्वीत विपरीतम् तु वर्जयेत् ॥ ४।१६१॥
yat karma kurvataḥ asya syāt paritoṣaḥ antarātmanaḥ . tat prayatnena kurvīta viparītam tu varjayet .. 4.161..
4.161. When the performance of an act gladdens his heart, let him perform it with diligence; but let him avoid the opposite.
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ ४.१६२॥
आचार्यम् च प्रवक्तारम् पितरम् मातरम् गुरुम् । न हिंस्यात् ब्राह्मणान् गाः च सर्वान् च एव तपस्विनः ॥ ४।१६२॥
ācāryam ca pravaktāram pitaram mātaram gurum . na hiṃsyāt brāhmaṇān gāḥ ca sarvān ca eva tapasvinaḥ .. 4.162..
4.162. Let him never offend the teacher who initiated him, nor him who explained the Veda, nor his father and mother, nor (any other) Guru, nor cows, nor Brahmanas, nor any men performing austerities.
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ह्ण्यं च वर्जयेत् ॥ ४.१६३॥
नास्तिक्यम् वेद-निन्दाम् च देवतानाम् च कुत्सनम् । द्वेषम् दम्भम् च मानम् च क्रोधम् तैक्ष्ह्ण्यम् च वर्जयेत् ॥ ४।१६३॥
nāstikyam veda-nindām ca devatānām ca kutsanam . dveṣam dambham ca mānam ca krodham taikṣhṇyam ca varjayet .. 4.163..
4.163. Let him avoid atheism, cavilling at the Vedas, contempt of the gods, hatred, want of modesty, pride, anger, and harshness.
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् । अन्यत्र पुत्रात्शिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥ ४.१६४॥
परस्य दण्डम् न उद्यच्छेत् क्रुद्धः न एनम् निपातयेत् । अन्यत्र पुत्रात् शिष्यात् वा शिष्टि-अर्थम् ताडयेत् तु तौ ॥ ४।१६४॥
parasya daṇḍam na udyacchet kruddhaḥ na enam nipātayet . anyatra putrāt śiṣyāt vā śiṣṭi-artham tāḍayet tu tau .. 4.164..
4.164. Let him, when angry, not raise a stick against another man, nor strike (anybody) except a son or a pupil; those two he may beat in order to correct them.
ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया । शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४.१६५॥
ब्राह्मणाय अवगुर्य एव द्विजातिः वध-काम्यया । शतम् वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४।१६५॥
brāhmaṇāya avagurya eva dvijātiḥ vadha-kāmyayā . śatam varṣāṇi tāmisre narake parivartate .. 4.165..
4.165. A twice-born man who has merely threatened a Brahmana with the intention of (doing him) a corporal injury, will wander about for a hundred years in the Tamisra hell.
ताडयित्वा तृणेनापि संरम्भात्मतिपूर्वकम् । एकविंशतीमाजातीः पापयोनिषु जायते ॥ ४.१६६॥
ताडयित्वा तृणेन अपि संरम्भात् मति-पूर्वकम् । एकविंशतीम् आजातीः पाप-योनिषु जायते ॥ ४।१६६॥
tāḍayitvā tṛṇena api saṃrambhāt mati-pūrvakam . ekaviṃśatīm ājātīḥ pāpa-yoniṣu jāyate .. 4.166..
4.166. Having intentionally struck him in anger, even with a blade of grass, he will be born during twenty-one existences in the wombs (of such beings where men are born in punishment of their) sins.
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ ४.१६७॥
अ युध्यमानस्य उत्पाद्य ब्राह्मणस्य असृज् अङ्गतः । दुःखम् सु महत् आप्नोति प्रेत्य अप्राज्ञ-तया नरः ॥ ४।१६७॥
a yudhyamānasya utpādya brāhmaṇasya asṛj aṅgataḥ . duḥkham su mahat āpnoti pretya aprājña-tayā naraḥ .. 4.167..
4.167. A man who in his folly caused blood to flow from the body of a Brahmana who does not attack him, will suffer after death exceedingly great pain.
शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् । तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ ४.१६८॥
शोणितम् यावतः पांसून् सङ्गृह्णाति मही-तलात् । तावतः अब्दान् अमुत्र अन्यैः शोणित-उत्पादकः अद्यते ॥ ४।१६८॥
śoṇitam yāvataḥ pāṃsūn saṅgṛhṇāti mahī-talāt . tāvataḥ abdān amutra anyaiḥ śoṇita-utpādakaḥ adyate .. 4.168..
4.168. As many particles of dust as the blood takes up from the ground, during so many years the spiller of the blood will be devoured by other (animals) in the next world.
न कदा चिद्द्विजे तस्माद्विद्वानवगुरेदपि । न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक् ॥ ४.१६९॥
न कदा चित् द्विजे तस्मात् विद्वान् अवगुरेत् अपि । न ताडयेत् तृणेन अपि न गात्रात् स्रावयेत् असृज् ॥ ४।१६९॥
na kadā cit dvije tasmāt vidvān avaguret api . na tāḍayet tṛṇena api na gātrāt srāvayet asṛj .. 4.169..
4.169. A wise man should therefore never threaten a Brahmana, nor strike him even with a blade of grass, nor cause his blood to flow.
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् । हिंसारतिश् यो नित्यं नैहासौ सुखमेधते ॥ ४.१७०॥
अधार्मिकः नरः यः हि यस्य च अपि अनृतम् धनम् । हिंसा-रतिः यः नित्यम् न एह असौ सुखम् एधते ॥ ४।१७०॥
adhārmikaḥ naraḥ yaḥ hi yasya ca api anṛtam dhanam . hiṃsā-ratiḥ yaḥ nityam na eha asau sukham edhate .. 4.170..
4.170. Neither a man who (lives) unrighteously, nor he who (acquires) wealth (by telling) falsehoods, nor he who always delights in doing injury, ever attain happiness in this world.
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् । अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ॥ ४.१७१॥
न सीदन् अपि धर्मेण मनः अधर्मे निवेशयेत् । अधार्मिकानाम् पापानाम् आशु पश्यन् विपर्ययम् ॥ ४।१७१॥
na sīdan api dharmeṇa manaḥ adharme niveśayet . adhārmikānām pāpānām āśu paśyan viparyayam .. 4.171..
4.171. Let him, though suffering in consequence of his righteousness, never turn his heart to unrighteousness; for he will see the speedy overthrow of unrighteous, wicked men.
नाधर्मश्चरितो लोके सद्यः फलति गौरिव । शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥ ४.१७२॥
न अधर्मः चरितः लोके सद्यस् फलति गौः इव । शनैस् आवर्त्यमानः तु कर्तुः मूलानि कृन्तति ॥ ४।१७२॥
na adharmaḥ caritaḥ loke sadyas phalati gauḥ iva . śanais āvartyamānaḥ tu kartuḥ mūlāni kṛntati .. 4.172..
4.172. Unrighteousness, practised in this world, does not at once produce its fruit, like a cow; but, advancing slowly, it cuts off the roots of him who committed it.
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ ४.१७३॥
यदि न आत्मनि पुत्रेषु न चेद् पुत्रेषु नप्तृषु । न तु एव तु कृतः अधर्मः कर्तुः भवति निष्फलः ॥ ४।१७३॥
yadi na ātmani putreṣu na ced putreṣu naptṛṣu . na tu eva tu kṛtaḥ adharmaḥ kartuḥ bhavati niṣphalaḥ .. 4.173..
4.173. If (the punishment falls) not on (the offender) himself, (it falls) on his sons, if not on the sons, (at least) on his grandsons; but an iniquity (once) committed, never fails to produce fruit to him who wrought it.
अधर्मेणैधते तावत्ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ ४.१७४॥
अधर्मेण एधते तावत् ततस् भद्राणि पश्यति । ततस् सपत्नान् जयति समूलः तु विनश्यति ॥ ४।१७४॥
adharmeṇa edhate tāvat tatas bhadrāṇi paśyati . tatas sapatnān jayati samūlaḥ tu vinaśyati .. 4.174..
4.174. He prospers for a while through unrighteousness, then he gains great good fortune, next he conquers his enemies, but (at last) he perishes (branch and) root.
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा । शिष्यांश्च शिष्याद्धर्मेण वाच्। बाहूदरसंयतः ॥ ४.१७५॥
सत्य-धर्म-आर्य-वृत्तेषु शौचे च एव आरमेत् सदा । शिष्यान् च शिष्यात् धर्मेण वाच्। बाहु-उदर-संयतः ॥ ४।१७५॥
satya-dharma-ārya-vṛtteṣu śauce ca eva āramet sadā . śiṣyān ca śiṣyāt dharmeṇa vāc. bāhu-udara-saṃyataḥ .. 4.175..
4.175. Let him always delight in truthfulness, (obedience to) the sacred law, conduct worthy of an Aryan, and purity; let him chastise his pupils according to the sacred law; let him keep his speech, his arms, and his belly under control.
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्मं चाप्यसुखोदर्कं लोकसङ्क्रुष्टमेव च ॥ ४.१७६॥
परित्यजेत् अर्थ-कामौ यौ स्याताम् धर्म-वर्जितौ । धर्मम् च अपि असुख-उदर्कम् लोक-सङ्क्रुष्टम् एव च ॥ ४।१७६॥
parityajet artha-kāmau yau syātām dharma-varjitau . dharmam ca api asukha-udarkam loka-saṅkruṣṭam eva ca .. 4.176..
4.176. Let him avoid (the acquisition of) wealth and (the gratification of his) desires, if they are opposed to the sacred law, and even lawful acts which may cause pain in the future or are offensive to men.
न पाणिपादचपलो न नेत्रचपलोऽनृजुः । न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ ४.१७७॥
न पाणि-पाद-चपलः न नेत्र-चपलः अनृजुः । न स्यात् वाच्-चपलः च एव न पर-द्रोह-कर्म-धीः ॥ ४।१७७॥
na pāṇi-pāda-capalaḥ na netra-capalaḥ anṛjuḥ . na syāt vāc-capalaḥ ca eva na para-droha-karma-dhīḥ .. 4.177..
4.177. Let him not be uselessly active with his hands and feet, or with his eyes, nor crooked (in his ways), nor talk idly, nor injure others by deeds or even think of it.
येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति ॥ ४.१७८॥
येन अस्य पितरः याताः येन याताः पितामहाः । तेन यायात् सताम् मार्गम् तेन गच्छन् न रिष्यति ॥ ४।१७८॥
yena asya pitaraḥ yātāḥ yena yātāḥ pitāmahāḥ . tena yāyāt satām mārgam tena gacchan na riṣyati .. 4.178..
4.178. Let him walk in that path of holy men which his fathers and his grandfathers followed; while he walks in that, he will not suffer harm.
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः । बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ॥ ४.१७९॥
ऋत्विज्-पुरोहित-आचार्यैः मातुल-अतिथि-संश्रितैः । बाल-वृद्ध-आतुरैः वैद्यैः ज्ञाति-सम्बन्धि-बान्धवैः ॥ ४।१७९॥
ṛtvij-purohita-ācāryaiḥ mātula-atithi-saṃśritaiḥ . bāla-vṛddha-āturaiḥ vaidyaiḥ jñāti-sambandhi-bāndhavaiḥ .. 4.179..
4.179. With an officiating or a domestic priest, with a teacher, with a maternal uncle, a guest and a dependant, with infants, aged and sick men, with learned men, with his paternal relatives, connexions by marriage and maternal relatives,
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८०॥
माता-पितृभ्याम् जामीभिः भ्रात्रा पुत्रेण भार्यया । दुहित्रा दास-वर्गेण विवादम् न समाचरेत् ॥ ४।१८०॥
mātā-pitṛbhyām jāmībhiḥ bhrātrā putreṇa bhāryayā . duhitrā dāsa-vargeṇa vivādam na samācaret .. 4.180..
4.180. With his father and his mother, with female relatives, with a brother, with his son and his wife, with his daughter and with his slaves, let him not have quarrels.
एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एतैर्जितैश्च जयति सर्वान्लोकानिमान् गृही ॥ ४.१८१॥
एतैः विवादान् संत्यज्य सर्व-पापैः प्रमुच्यते । एतैः जितैः च जयति सर्वान् लोकान् इमान् गृही ॥ ४।१८१॥
etaiḥ vivādān saṃtyajya sarva-pāpaiḥ pramucyate . etaiḥ jitaiḥ ca jayati sarvān lokān imān gṛhī .. 4.181..
4.181. If he avoids quarrels with these persons, he will be freed from all sins, and by suppressing (all) such (quarrels) a householder conquers all the following worlds.
आचार्यो ब्रह्मलोकैशः प्राजापत्ये पिता प्रभुः । अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४.१८२॥
आचार्यः ब्रह्म-लोक-ऐशः प्राजापत्ये पिता प्रभुः । अतिथिः तु इन्द्र-लोक-ईशः देव-लोकस्य च ऋत्विजः ॥ ४।१८२॥
ācāryaḥ brahma-loka-aiśaḥ prājāpatye pitā prabhuḥ . atithiḥ tu indra-loka-īśaḥ deva-lokasya ca ṛtvijaḥ .. 4.182..
4.182. The teacher is the lord of the world of Brahman, the father has power over the world of the Lord of created beings (Pragapati), a guest rules over the world of Indra, and the priests over the world of the gods.
जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः । सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ ४.१८३॥
जामयः अप्सरसाम् लोके वैश्वदेवस्य बान्धवाः । सम्बन्धिनः हि अपाम् लोके पृथिव्याम् मातृ-मातुलौ ॥ ४।१८३॥
jāmayaḥ apsarasām loke vaiśvadevasya bāndhavāḥ . sambandhinaḥ hi apām loke pṛthivyām mātṛ-mātulau .. 4.183..
4.183. The female relatives (have power) over the world of the Apsarases, the maternal relatives over that of the Visve Devas, the connexions by marriage over that of the waters, the mother and the maternal uncle over the earth.
आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४.१८४॥
आकाश-ईशाः तु विज्ञेयाः बाल-वृद्ध-कृश-आतुराः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४।१८४॥
ākāśa-īśāḥ tu vijñeyāḥ bāla-vṛddha-kṛśa-āturāḥ . bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ .. 4.184..
4.184. Infants, aged, poor and sick men must be considered as rulers of the middle sphere, the eldest brother as equal to one’s father, one’s wife and one’s son as one’s own body,
छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥ ४.१८५॥
छाया स्वः दास-वर्गः च दुहिता कृपणम् परम् । तस्मात् एतैः अधिक्षिप्तः सहेत असत्-ज्वरः सदा ॥ ४।१८५॥
chāyā svaḥ dāsa-vargaḥ ca duhitā kṛpaṇam param . tasmāt etaiḥ adhikṣiptaḥ saheta asat-jvaraḥ sadā .. 4.185..
4.185. One’s slaves as one’s shadow, one’s daughter as the highest object of tenderness; hence if one is offended by (any one of) these, one must bear it without resentment.
प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् । प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ ४.१८६॥
प्रतिग्रह-समर्थः अपि प्रसङ्गम् तत्र वर्जयेत् । प्रतिग्रहेण हि अस्य आशु ब्राह्मम् तेजः प्रशाम्यति ॥ ४।१८६॥
pratigraha-samarthaḥ api prasaṅgam tatra varjayet . pratigraheṇa hi asya āśu brāhmam tejaḥ praśāmyati .. 4.186..
4.186. Though (by his learning and sanctity) he may be entitled to accept presents, let him not attach himself (too much) to that (habit); for through his accepting (many) presents the divine light in him is soon extinguished.
न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ ४.१८७॥
न द्रव्याणाम् अ विज्ञाय विधिम् धर्म्यम् प्रतिग्रहे । प्राज्ञः प्रतिग्रहम् कुर्यात् अवसीदन् अपि क्षुधा ॥ ४।१८७॥
na dravyāṇām a vijñāya vidhim dharmyam pratigrahe . prājñaḥ pratigraham kuryāt avasīdan api kṣudhā .. 4.187..
4.187. Without a full knowledge of the rules, prescribed by the sacred law for the acceptance of presents, a wise man should not take anything, even though he may pine with hunger.
हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् । प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ ४.१८८॥
हिरण्यम् भूमिम् अश्वम् गाम् अन्नम् वासः तिलान् घृतम् । प्रतिगृह्णन् अ विद्वान् तु भस्मीभवति दारु-वत् ॥ ४।१८८॥
hiraṇyam bhūmim aśvam gām annam vāsaḥ tilān ghṛtam . pratigṛhṇan a vidvān tu bhasmībhavati dāru-vat .. 4.188..
4.188. But an ignorant (man) who accepts gold, land, a horse, a cow, food, a dress, sesamum-grains, (or) clarified butter, is reduced to ashes like (a piece of) wood.
हिरण्यमायुरन्नं च भूर्गोश्चाप्योषतस्तनुम् । अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥ ४.१८९॥
हिरण्यम् आयुः अन्नम् च भूर्गोः च अपि ओषतः तनुम् । अश्वः चक्षुः त्वचम् वासः घृतम् तेजः तिलाः प्रजाः ॥ ४।१८९॥
hiraṇyam āyuḥ annam ca bhūrgoḥ ca api oṣataḥ tanum . aśvaḥ cakṣuḥ tvacam vāsaḥ ghṛtam tejaḥ tilāḥ prajāḥ .. 4.189..
4.189. Gold and food destroy his longevity, land and a cow his body, a horse his eye (sight), a garment his skin, clarified butter his energy, sesamum-grains his offspring.
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ॥ ४.१९०॥
अतपाः तु अन् अधीयानः प्रतिग्रह-रुचिः द्विजः । अम्भसि अश्म-प्लवेन एव सह तेन एव मज्जति ॥ ४।१९०॥
atapāḥ tu an adhīyānaḥ pratigraha-ruciḥ dvijaḥ . ambhasi aśma-plavena eva saha tena eva majjati .. 4.190..
4.190. A Brahmana who neither performs austerities nor studies the Veda, yet delights in accepting gifts, sinks with the (donor into hell), just as (he who attempts to cross over in) a boat made of stone (is submerged) in the water.
तस्मादविद्वान् बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् । स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ॥ ४.१९१॥
तस्मात् अ विद्वान् बिभियात् यस्मात् तस्मात् प्रतिग्रहात् । सु अल्पकेन अपि अ विद्वान् हि पङ्के गौः इव सीदति ॥ ४।१९१॥
tasmāt a vidvān bibhiyāt yasmāt tasmāt pratigrahāt . su alpakena api a vidvān hi paṅke gauḥ iva sīdati .. 4.191..
4.191. Hence an ignorant (man) should be afraid of accepting any presents; for by reason of a very small (gift) even a fool sinks (into hell) as a cow into a morass.
न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२॥
न वारि अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । न बकव्रतिके पापे न अ वेद-विदि धर्म-विद् ॥ ४।१९२॥
na vāri api prayacchet tu baiḍālavratike dvije . na bakavratike pāpe na a veda-vidi dharma-vid .. 4.192..
4.192. (A man) who knows the law should not offer even water to a Brahmana who acts like a cat, nor to a Brahmana who acts like a heron, nor to one who is unacquainted with the Veda.
त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ ४.१९३॥
त्रिषु अपि एतेषु दत्तम् हि विधिना अपि अर्जितम् धनम् । दातुः भवति अनर्थाय परत्र अदातुः एव च ॥ ४।१९३॥
triṣu api eteṣu dattam hi vidhinā api arjitam dhanam . dātuḥ bhavati anarthāya paratra adātuḥ eva ca .. 4.193..
4.193. For property, though earned in accordance with prescribed rules, which is given to these three (persons), causes in the next world misery both to the giver and to the recipient.
यथा प्लवेनोपलेन निमज्जत्युदके तरन् । तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ ४.१९४॥
यथा प्लवेन उपलेन निमज्जति उदके तरन् । तथा निमज्जतः अधस्तात् अज्ञौ दातृ-प्रतीच्छकौ ॥ ४।१९४॥
yathā plavena upalena nimajjati udake taran . tathā nimajjataḥ adhastāt ajñau dātṛ-pratīcchakau .. 4.194..
4.194. As he who (attempts to) cross water in a boat of stone sinks (to the bottom), even so an ignorant donor and an ignorant donee sink low.
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ॥बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ ४.१९५॥
धर्म-ध्वजी सदा लुब्धः छाद्मिकः लोक-दम्भकः ॥बैडालव्रतिकः ज्ञेयः हिंस्रः सर्व-अभिसंधकः ॥ ४।१९५॥
dharma-dhvajī sadā lubdhaḥ chādmikaḥ loka-dambhakaḥ ..baiḍālavratikaḥ jñeyaḥ hiṃsraḥ sarva-abhisaṃdhakaḥ .. 4.195..
4.195. (A man) who, ever covetous, displays the flag of virtue, (who is) a hypocrite, a deceiver of the people, intent on doing injury, (and) a detractor (from the merits) of all men, one must know to be one who acts like a cat.
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ ४.१९६॥
अधस् दृष्टिः नैष्कृतिकः स्व-अर्थ-साधन-तत्परः । शठः मिथ्या विनीतः च बकव्रत-चरः द्विजः ॥ ४।१९६॥
adhas dṛṣṭiḥ naiṣkṛtikaḥ sva-artha-sādhana-tatparaḥ . śaṭhaḥ mithyā vinītaḥ ca bakavrata-caraḥ dvijaḥ .. 4.196..
4.196. That Brahmana, who with downcast look, of a cruel disposition, is solely intent on attaining his own ends, dishonest and falsely gentle, is one who acts like a heron.
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ ४.१९७॥
ये बकव्रतिनः विप्राः ये च मार्जारलिङ्गिनः । ते पतन्ति अन्धतामिस्रे तेन पापेन कर्मणा ॥ ४।१९७॥
ye bakavratinaḥ viprāḥ ye ca mārjāraliṅginaḥ . te patanti andhatāmisre tena pāpena karmaṇā .. 4.197..
4.197. Those Brahmanas who act like herons, and those who display the characteristics of cats, fall in consequence of that wicked mode of acting into (the hell called) Andhatamisra.
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ४.१९८॥
न धर्मस्य अपदेशेन पापम् कृत्वा व्रतम् चरेत् । व्रतेन पापम् प्रच्छाद्य कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ ४।१९८॥
na dharmasya apadeśena pāpam kṛtvā vratam caret . vratena pāpam pracchādya kurvan strī-śūdra-dambhanam .. 4.198..
4.198. When he has committed a sin, let him not perform a penance under the pretence (that the act is intended to gain) spiritual merit, (thus) hiding his sin under (the pretext of) a vow and deceiving women and Sudras.
प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ ४.१९९॥
प्रेत्य इह च ईदृशाः विप्राः गर्ह्यन्ते ब्रह्म-वादिभिः । छद्मना चरितम् यत् च व्रतम् रक्षांसि गच्छति ॥ ४।१९९॥
pretya iha ca īdṛśāḥ viprāḥ garhyante brahma-vādibhiḥ . chadmanā caritam yat ca vratam rakṣāṃsi gacchati .. 4.199..
4.199. Such Brahmanas are reprehended after death and in this (life) by those who expound the Veda, and a vow, performed under a false pretence, goes to the Rakshasas.
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ ४.२००॥
अलिङ्गी लिङ्गि-वेषेण यः वृत्तिम् उपजीवति । स लिङ्गिनाम् हरति एनः तिर्यग्योनौ च जायते ॥ ४।२००॥
aliṅgī liṅgi-veṣeṇa yaḥ vṛttim upajīvati . sa liṅginām harati enaḥ tiryagyonau ca jāyate .. 4.200..
4.200. He who, without being a student, gains his livelihood by (wearing) the dress of a student, takes upon himself the guilt of (all) students and is born again in the womb of an animal.
परकीयनिपानेषु न स्नायाच्च कदा चन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ ४.२०१॥
परकीय-निपानेषु न स्नायात् च कदा चन । निपान-कर्तुः स्नात्वा तु दुष्कृत-अंशेन लिप्यते ॥ ४।२०१॥
parakīya-nipāneṣu na snāyāt ca kadā cana . nipāna-kartuḥ snātvā tu duṣkṛta-aṃśena lipyate .. 4.201..
4.201. Let him never bathe in tanks belonging to other men; if he bathes (in such a one), he is tainted by a portion of the guilt of him who made the tank.
यानशय्याऽऽसनान्यस्य कूपोद्यानगृहाणि च । अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक् ॥ ४.२०२॥
यान-शय्या-आसनानि अस्य कूप-उद्यान-गृहाणि च । अदत्तानि उपयुञ्जानः एनसः स्यात् तुरीय-भाज् ॥ ४।२०२॥
yāna-śayyā-āsanāni asya kūpa-udyāna-gṛhāṇi ca . adattāni upayuñjānaḥ enasaḥ syāt turīya-bhāj .. 4.202..
4.202. He who uses without permission a carriage, a bed, a seat, a well, a garden or a house belonging to an (other man), takes upon himself one fourth of (the owner’s) guilt.
नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ ४.२०३॥
नदीषु देवखातेषु तडागेषु सरःसु च । स्नानम् समाचरेत् नित्यम् गर्त-प्रस्रवणेषु च ॥ ४।२०३॥
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca . snānam samācaret nityam garta-prasravaṇeṣu ca .. 4.203..
4.203. Let him always bathe in rivers, in ponds, dug by the gods (themselves), in lakes, and in waterholes or springs.
यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥ ४.२०४॥
यमान् सेवेत सततम् न नित्यम् नियमान् बुधः । यमान् पतति अकुर्वाणः नियमान् केवलान् भजन् ॥ ४।२०४॥
yamān seveta satatam na nityam niyamān budhaḥ . yamān patati akurvāṇaḥ niyamān kevalān bhajan .. 4.204..
4.204. A wise man should constantly discharge the paramount duties (called yama), but not always the minor ones (called niyama); for he who does not discharge the former, while he obeys the latter alone, becomes an outcast.
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ ४.२०५॥
न अ श्रोत्रिय-तते यज्ञे ग्राम-याजि-कृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ ४।२०५॥
na a śrotriya-tate yajñe grāma-yāji-kṛte tathā . striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit .. 4.205..
4.205. A Brahmana must never eat (a dinner given) at a sacrifice that is offered by one who is not a Srotriya, by one who sacrifices for a multitude of men, by a woman, or by a eunuch.
अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः । अश्लीलम्प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ॥ ४.२०६॥
अश्लीकम् एतत् साधूनाम् यत्र जुह्वति अमी हविः । अश्लीलम् प्रतीपम् एतत् देवानाम् तस्मात् तत् परिवर्जयेत् ॥ ४।२०६॥
aślīkam etat sādhūnām yatra juhvati amī haviḥ . aślīlam pratīpam etat devānām tasmāt tat parivarjayet .. 4.206..
4.206. When those persons offer sacrificial viands in the fire, it is unlucky for holy (men) it displeases the gods; let him therefore avoid it.
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन । केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ ४.२०७॥
मत्त-क्रुद्ध-आतुराणाम् च न भुञ्जीत कदा चन । केश-कीट-अवपन्नम् च पदा स्पृष्टम् च कामतः ॥ ४।२०७॥
matta-kruddha-āturāṇām ca na bhuñjīta kadā cana . keśa-kīṭa-avapannam ca padā spṛṣṭam ca kāmataḥ .. 4.207..
4.207. Let him never eat (food given) by intoxicated, angry, or sick (men), nor that in which hair or insects are found, nor what has been touched intentionally with the foot,
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया । पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ ४.२०८॥
भ्रूण-घ्न-अवेक्षितम् च एव संस्पृष्टम् च अपि उदक्यया । पतत्रिणा अवलीढम् च शुना संस्पृष्टम् एव च ॥ ४।२०८॥
bhrūṇa-ghna-avekṣitam ca eva saṃspṛṣṭam ca api udakyayā . patatriṇā avalīḍham ca śunā saṃspṛṣṭam eva ca .. 4.208..
4.208. Nor that at which the slayer of a learned Brahmana has looked, nor that which has been touched by a menstruating woman, nor that which has been pecked at by birds or touched by a dog,
गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ ४.२०९॥
गवा च अन्नम् उपघ्रातम् घुष्टान्नम् च विशेषतः । गण-अन्नम् गणिका-अन्नम् च विदुषा च जुगुप्सितम् ॥ ४।२०९॥
gavā ca annam upaghrātam ghuṣṭānnam ca viśeṣataḥ . gaṇa-annam gaṇikā-annam ca viduṣā ca jugupsitam .. 4.209..
4.209. Nor food at which a cow has smelt, nor particularly that which has been offered by an invitation to all comers, nor that (given) by a multitude or by harlots, nor that which is declared to be had by a learned (man),
स्तेनगायनयोश्चान्नं तक्ष्ह्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४.२१०॥
स्तेन-गायनयोः च अन्नम् तक्ष्ह्णः वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४।२१०॥
stena-gāyanayoḥ ca annam takṣhṇaḥ vārdhuṣikasya ca . dīkṣitasya kadaryasya baddhasya nigaḍasya ca .. 4.210..
4.210. Nor the food (given) by a thief, a musician, a carpenter, a usurer, one who has been initiated (for the performance of a Srauta sacrifice), a miser, one bound with fetters,
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ ४.२११॥
अभिशस्तस्य षण्ढस्य पुंश्चल्याः दाम्भिकस्य च । शुक्तम् पर्युषितम् च एव शूद्रस्य उच्छिष्टम् एव च ॥ ४।२११॥
abhiśastasya ṣaṇḍhasya puṃścalyāḥ dāmbhikasya ca . śuktam paryuṣitam ca eva śūdrasya ucchiṣṭam eva ca .. 4.211..
4.211. By one accused of a mortal sin (Abhisasta), a hermaphrodite, an unchaste woman, or a hypocrite, nor (any sweet thing) that has turned sour, nor what has been kept a whole night, nor (the food) of a Sudra, nor the leavings (of another man),
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥ ४.२१२॥
चिकित्सकस्य मृगयोः क्रूरस्य उच्छिष्ट-भोजिनः । उग्र-अन्नम् सूतिका-अन्नम् च पर्याचान्तम् अनिर्दशम् ॥ ४।२१२॥
cikitsakasya mṛgayoḥ krūrasya ucchiṣṭa-bhojinaḥ . ugra-annam sūtikā-annam ca paryācāntam anirdaśam .. 4.212..
4.212. Nor (the food given) by a physician, a hunter, a cruel man, one who eats the fragments (of another’s meal), nor the food of an Ugra, nor that prepared for a woman in childbed, nor that (given at a dinner) where (a guest rises) prematurely (and) sips water, nor that (given by a woman) whose ten days of impurity have not elapsed,
अनर्चितं वृथामांसमवीरायाश्च योषितः । द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ ४.२१३॥
अनर्चितम् वृथामांसम् अवीरायाः च योषितः । द्विषत्-अन्नम् नगरी-अन्नम् पतित-अन्नम् अवक्षुतम् ॥ ४।२१३॥
anarcitam vṛthāmāṃsam avīrāyāḥ ca yoṣitaḥ . dviṣat-annam nagarī-annam patita-annam avakṣutam .. 4.213..
4.213. Nor (food) given without due respect, nor (that which contains) meat eaten for no sacred purpose, nor (that given) by a female who has no male (relatives), nor the food of an enemy, nor that (given) by the lord of a town, nor that (given) by outcasts, nor that on which anybody has sneezed;
पिशुनानृतिनोश्चान्नं क्रतुविक्रयकस्य च ॥ । शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ ४.२१४॥
पिशुन-अनृतिनोः च अन्नम् क्रतु-विक्रयकस्य च ॥ । शैलूष-तुन्नवाय-अन्नम् कृतघ्नस्य अन्नम् एव च ॥ ४।२१४॥
piśuna-anṛtinoḥ ca annam kratu-vikrayakasya ca .. . śailūṣa-tunnavāya-annam kṛtaghnasya annam eva ca .. 4.214..
4.214. Nor the food (given) by an informer, by one who habitually tells falsehoods, or by one who sells (the rewards for) sacrifices, nor the food (given) by an actor, a tailor, or an ungrateful (man),
कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ ४.२१५॥
कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुः वेणस्य शस्त्र-विक्रयिणः तथा ॥ ४।२१५॥
karmārasya niṣādasya raṅgāvatārakasya ca . suvarṇakartuḥ veṇasya śastra-vikrayiṇaḥ tathā .. 4.215..
4.215. By a blacksmith, a Nishada, a stage-player, a goldsmith, a basket-maker, or a dealer in weapons,
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥ ४.२१६॥
श्ववताम् शौण्डिकानाम् च चैल-निर्णेजकस्य च । रजकस्य नृशंसस्य यस्य च उपपतिः गृहे ॥ ४।२१६॥
śvavatām śauṇḍikānām ca caila-nirṇejakasya ca . rajakasya nṛśaṃsasya yasya ca upapatiḥ gṛhe .. 4.216..
4.216. By trainers of hunting dogs, publicans, a washerman, a dyer, a pitiless (man), and a man in whose house (lives) a paramour (of his wife),
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ ४.२१७॥
मृष्यन्ति ये च उपपतिम् स्त्री-जितानाम् च सर्वशस् । अनिर्दशम् च प्रेत-अन्नम् अतुष्टि-करम् एव च ॥ ४।२१७॥
mṛṣyanti ye ca upapatim strī-jitānām ca sarvaśas . anirdaśam ca preta-annam atuṣṭi-karam eva ca .. 4.217..
4.217. Nor (the food given) by those who knowingly bear with paramours (of their wives), and by those who in all matters are ruled by women, nor food (given by men) whose ten days of impurity on account of a death have not passed, nor that which is unpalatable.
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ ४.२१८॥
राज-अन्नम् तेजः आदत्ते शूद्र-अन्नम् ब्रह्मवर्चसम् । आयुः सुवर्णकार-अन्नम् यशः चर्मावकर्तिनः ॥ ४।२१८॥
rāja-annam tejaḥ ādatte śūdra-annam brahmavarcasam . āyuḥ suvarṇakāra-annam yaśaḥ carmāvakartinaḥ .. 4.218..
4.218. The food of a king impairs his vigour, the food of a Sudra his excellence in sacred learning, the food of a goldsmith his longevity, that of a leather-cutter his fame;
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ४.२१९॥
कारुका-अन्नम् प्रजाम् हन्ति बलम् निर्णेजकस्य च । गण-अन्नम् गणिका-अन्नम् च लोकेभ्यः परिकृन्तति ॥ ४।२१९॥
kārukā-annam prajām hanti balam nirṇejakasya ca . gaṇa-annam gaṇikā-annam ca lokebhyaḥ parikṛntati .. 4.219..
4.219. The food of an artisan destroys his offspring, that of a washerman his (bodily) strength; the food of a multitude and of harlots excludes him from (the higher) worlds.
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ४.२२०॥
पूयम् चिकित्सकस्य अन्नम् पुंश्चल्याः तु अन्नम् इन्द्रियम् । विष्ठा वार्धुषिकस्य अन्नम् शस्त्र-विक्रयिणः मलम् ॥ ४।२२०॥
pūyam cikitsakasya annam puṃścalyāḥ tu annam indriyam . viṣṭhā vārdhuṣikasya annam śastra-vikrayiṇaḥ malam .. 4.220..
4.220. The food of a physician (is as vile as) pus, that of an unchaste woman (equal to) semen, that of a usurer (as vile as) ordure, and that of a dealer in weapons (as bad as) dirt.
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ ४.२२१॥
ये एते अन्ये तु अभोज्य-अन्नाः क्रमशस् परिकीर्तिताः । तेषाम् त्वच्-अस्थि-रोमाणि वदन्ति अन्नम् मनीषिणः ॥ ४।२२१॥
ye ete anye tu abhojya-annāḥ kramaśas parikīrtitāḥ . teṣām tvac-asthi-romāṇi vadanti annam manīṣiṇaḥ .. 4.221..
4.221. The food of those other persons who have been successively enumerated as such whose food must not be eaten, the wise declare (to be as impure as) skin, bones, and hair.
भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वाऽचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ ४.२२२॥
भुक्त्वा अतस् अन्यतमस्य अन्नम् अमत्या क्षपणम् त्रि-अहम् । मत्या भुक्त्वा अ चरेत् कृच्छ्रम् रेतः-विष्-मूत्रम् एव च ॥ ४।२२२॥
bhuktvā atas anyatamasya annam amatyā kṣapaṇam tri-aham . matyā bhuktvā a caret kṛcchram retaḥ-viṣ-mūtram eva ca .. 4.222..
4.222. If he has unwittingly eaten the food of one of those, (he must) fast for three days; if he has eaten it intentionally, or (has swallowed) semen, ordure, or urine, he must perform a Krikkhra penance.
नाद्यात्शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ ४.२२३॥
न अद्यात् शूद्रस्य पक्व-अन्नम् विद्वान् अश्राद्धिनः द्विजः । आददीत आमम् एव अस्मात् अवृत्तौ एक-रात्रिकम् ॥ ४।२२३॥
na adyāt śūdrasya pakva-annam vidvān aśrāddhinaḥ dvijaḥ . ādadīta āmam eva asmāt avṛttau eka-rātrikam .. 4.223..
4.223. A Brahmana who knows (the law) must not eat cooked food (given) by a Sudra who performs no Sraddhas; but, on failure of (other) means of subsistence, he may accept raw (grain), sufficient for one night (and day).
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ ४.२२४॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमांसित्वा उभयम् देवाः समम् अन्नम् अकल्पयन् ॥ ४।२२४॥
śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ . mīmāṃsitvā ubhayam devāḥ samam annam akalpayan .. 4.224..
4.224. The gods, having considered (the respective merits) of a niggardly Srotriya and of a liberal usurer, declared the food of both to be equal (in quality).
तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ ४.२२५॥
तान् प्रजापतिः आह एत्य मा कृध्वम् विषमम् समम् । श्रद्धा-पूतम् वदान्यस्य हतम् अश्रद्धया इतरत् ॥ ४।२२५॥
tān prajāpatiḥ āha etya mā kṛdhvam viṣamam samam . śraddhā-pūtam vadānyasya hatam aśraddhayā itarat .. 4.225..
4.225. The Lord of created beings (Pragapati) came and spake to them, ’Do not make that equal, which is unequal. The food of that liberal (usurer) is purified by faith; (that of the) of the) other (man) is defiled by a want of faith.’
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ ४.२२६॥
श्रद्धया इष्टम् च पूर्तम् च नित्यम् कुर्यात् अतन्द्रितः । श्रद्धा-कृते हि अक्षये ते भवतः स्वागतैः धनैः ॥ ४।२२६॥
śraddhayā iṣṭam ca pūrtam ca nityam kuryāt atandritaḥ . śraddhā-kṛte hi akṣaye te bhavataḥ svāgataiḥ dhanaiḥ .. 4.226..
4.226. Let him, without tiring, always offer sacrifices and perform works of charity with faith; for offerings and charitable works made with faith and with lawfully-earned money, (procure) endless rewards.
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् । परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ ४.२२७॥
दान-धर्मम् निषेवेत नित्यम् ऐष्टिक-पौर्तिकम् । परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ ४।२२७॥
dāna-dharmam niṣeveta nityam aiṣṭika-paurtikam . parituṣṭena bhāvena pātram āsādya śaktitaḥ .. 4.227..
4.227. Let him always practise, according to his ability, with a cheerful heart, the duty of liberality, both by sacrifices and by charitable works, if he finds a worthy recipient (for his gifts.)
यत्किं चिदपि दातव्यं याचितेनानसूयया । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ ४.२२८॥
यत् किम् चित् अपि दातव्यम् याचितेन अनसूयया । उत्पत्स्यते हि तत् पात्रम् यत् तारयति सर्वतस् ॥ ४।२२८॥
yat kim cit api dātavyam yācitena anasūyayā . utpatsyate hi tat pātram yat tārayati sarvatas .. 4.228..
4.228. If he is asked, let him always give something, be it ever so little, without grudging; for a worthy recipient will (perhaps) be found who saves him from all (guilt).
वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४.२२९॥
वारि-दः तृप्तिम् आप्नोति सुखम् अक्षयम् अन्न-दः । तिल-प्रदः प्रजाम् इष्टाम् दीप-दः चक्षुः उत्तमम् ॥ ४।२२९॥
vāri-daḥ tṛptim āpnoti sukham akṣayam anna-daḥ . tila-pradaḥ prajām iṣṭām dīpa-daḥ cakṣuḥ uttamam .. 4.229..
4.229. A giver of water obtains the satisfaction (of his hunger and thirst), a giver of food imperishable happiness, a giver of sesamum desirable offspring, a giver of a lamp a most excellent eyesight.
भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ ४.२३०॥
भूमि-दः भूमिम् आप्नोति दीर्घम् आयुः हिरण्य-दः । गृह-दः अग्र्याणि वेश्मानि रूप्य-दः रूपम् उत्तमम् ॥ ४।२३०॥
bhūmi-daḥ bhūmim āpnoti dīrgham āyuḥ hiraṇya-daḥ . gṛha-daḥ agryāṇi veśmāni rūpya-daḥ rūpam uttamam .. 4.230..
4.230. A giver of land obtains land, a giver of gold long life, a giver of a house most excellent mansions, a giver of silver (rupya) exquisite beauty (rupa),
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ ४.२३१॥
वासः-दः चन्द्र-सालोक्यम् अश्वि-सालोक्यम् अश्व-दः । अनडुहः श्रियम् पुष्टाम् गो-दः ब्रध्नस्य विष्टपम् ॥ ४।२३१॥
vāsaḥ-daḥ candra-sālokyam aśvi-sālokyam aśva-daḥ . anaḍuhaḥ śriyam puṣṭām go-daḥ bradhnasya viṣṭapam .. 4.231..
4.231. A giver of a garment a place in the world of the moon, a giver of a horse (asva) a place in the world of the Asvins, a giver of a draught-ox great good fortune, a giver of a cow the world of the sun;
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ ४.२३२॥
यान-शय्या-प्रदः भार्याम् ऐश्वर्यम् अभय-प्रदः । धान्य-दः शाश्वतम् सौख्यम् ब्रह्म-दः ब्रह्म-सार्ष्टिताम् ॥ ४।२३२॥
yāna-śayyā-pradaḥ bhāryām aiśvaryam abhaya-pradaḥ . dhānya-daḥ śāśvatam saukhyam brahma-daḥ brahma-sārṣṭitām .. 4.232..
4.232. A giver of a carriage or of a bed a wife, a giver of protection supreme dominion, a giver of grain eternal bliss, a giver of the Veda (brahman) union with Brahman;
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । वार्यन्नगोमहीवासस्। तिलकाञ्चनसर्पिषाम् ॥ ४.२३३॥
सर्वेषाम् एव दानानाम् ब्रह्म-दानम् विशिष्यते । वारि-अन्न-गो-मही-वासः। तिल-काञ्चन-सर्पिषाम् ॥ ४।२३३॥
sarveṣām eva dānānām brahma-dānam viśiṣyate . vāri-anna-go-mahī-vāsaḥ. tila-kāñcana-sarpiṣām .. 4.233..
4.233. The gift of the Veda surpasses all other gifts, water, food, cows, land, clothes, sesamum, gold, and clarified butter.
येन येन तु भावेन यद्यद्दानं प्रयच्छति । तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ ४.२३४॥
येन येन तु भावेन यत् यत् दानम् प्रयच्छति । तत् तत् तेन एव भावेन प्राप्नोति प्रतिपूजितः ॥ ४।२३४॥
yena yena tu bhāvena yat yat dānam prayacchati . tat tat tena eva bhāvena prāpnoti pratipūjitaḥ .. 4.234..
4.234. For whatever purpose (a man) bestows any gift, for that same purpose he receives (in his next birth) with due honour its (reward).
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ४.२३५॥
यः अर्चितम् प्रतिगृह्णाति ददाति अर्चितम् एव वा । तौ उभौ गच्छतः स्वर्गम् नरकम् तु विपर्यये ॥ ४।२३५॥
yaḥ arcitam pratigṛhṇāti dadāti arcitam eva vā . tau ubhau gacchataḥ svargam narakam tu viparyaye .. 4.235..
4.235. Both he who respectfully receives (a gift), and he who respectfully bestows it, go to heaven; in the contrary case (they both fall) into hell.
न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । नार्तोऽप्यपवदेद्विप्रान्न दत्वा परिकीर्तयेत् ॥ ४.२३६॥
न विस्मयेत तपसा वदेत् इष्ट्वा च न अनृतम् । न आर्तः अपि अपवदेत् विप्रान् न द-त्वा परिकीर्तयेत् ॥ ४।२३६॥
na vismayeta tapasā vadet iṣṭvā ca na anṛtam . na ārtaḥ api apavadet viprān na da-tvā parikīrtayet .. 4.236..
4.236. Let him not be proud of his austerities; let him not utter a falsehood after he has offered a sacrifice; let him not speak ill of Brahmanas, though he be tormented (by them); when he has bestowed (a gift), let him not boast of it.
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ ४.२३७॥
यज्ञः अनृतेन क्षरति तपः क्षरति विस्मयात् । आयुः विप्र-अपवादेन दानम् च परिकीर्तनात् ॥ ४।२३७॥
yajñaḥ anṛtena kṣarati tapaḥ kṣarati vismayāt . āyuḥ vipra-apavādena dānam ca parikīrtanāt .. 4.237..
4.237. By falsehood a sacrifice becomes vain, by self-complacency (the reward for) austerities is lost, longevity by speaking evil of Brahmanas, and (the reward of) a gift by boasting.
धर्मं शनैः सञ्चिनुयाद् वल्मीकमिव पुत्तिकाः । परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ ४.२३८॥
धर्मम् शनैस् सञ्चिनुयात् वल्मीकम् इव पुत्तिकाः । पर-लोक-सहाय-अर्थम् सर्व-भूतानि अपीडयन् ॥ ४।२३८॥
dharmam śanais sañcinuyāt valmīkam iva puttikāḥ . para-loka-sahāya-artham sarva-bhūtāni apīḍayan .. 4.238..
4.238. Giving no pain to any creature, let him slowly accumulate spiritual merit, for the sake (of acquiring) a companion to the next world, just as the white ant (gradually raises its) hill.
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ ४.२३९॥
न अमुत्र हि सहाय-अर्थम् पिता माता च तिष्ठतः । न पुत्र-दारम् न ज्ञातिः धर्मः तिष्ठति केवलः ॥ ४।२३९॥
na amutra hi sahāya-artham pitā mātā ca tiṣṭhataḥ . na putra-dāram na jñātiḥ dharmaḥ tiṣṭhati kevalaḥ .. 4.239..
4.239. For in the next world neither father, nor mother, nor wife, nor sons, nor relations stay to be his companions; spiritual merit alone remains (with him).
एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ ४.२४०॥
एकः प्रजायते जन्तुः एकः एव प्रलीयते । एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ ४।२४०॥
ekaḥ prajāyate jantuḥ ekaḥ eva pralīyate . ekaḥ anubhuṅkte sukṛtam ekaḥ eva ca duṣkṛtam .. 4.240..
4.240. Single is each being born; single it dies; single it enjoys (the reward of its) virtue; single (it suffers the punishment of its) sin.
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ ४.२४१॥
मृतम् शरीरम् उत्सृज्य काष्ठ-लोष्ट-समम् क्षितौ । विमुखाः बान्धवाः यान्ति धर्मः तम् अनुगच्छति ॥ ४।२४१॥
mṛtam śarīram utsṛjya kāṣṭha-loṣṭa-samam kṣitau . vimukhāḥ bāndhavāḥ yānti dharmaḥ tam anugacchati .. 4.241..
4.241. Leaving the dead body on the ground like a log of wood, or a clod of earth, the relatives depart with averted faces; but spiritual merit follows the (soul).
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनुयात्शनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ ४.२४२॥
तस्मात् धर्मम् सहाय-अर्थम् नित्यम् सञ्चिनुयात् शनैस् । धर्मेण हि सहायेन तमः तरति दुस्तरम् ॥ ४।२४२॥
tasmāt dharmam sahāya-artham nityam sañcinuyāt śanais . dharmeṇa hi sahāyena tamaḥ tarati dustaram .. 4.242..
4.242. Let him therefore always slowly accumulate spiritual merit, in order (that it may be his) companion (after death); for with merit as his companion he will traverse a gloom difficult to traverse.
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ ४.२४३॥
धर्म-प्रधानम् पुरुषम् तपसा हत-किल्बिषम् । पर-लोकम् नयति आशु भास्वन्तम् ख-शरीरिणम् ॥ ४।२४३॥
dharma-pradhānam puruṣam tapasā hata-kilbiṣam . para-lokam nayati āśu bhāsvantam kha-śarīriṇam .. 4.243..
4.243. (That companion) speedily conducts the man who is devoted to duty and effaces his sins by austerities, to the next world, radiant and clothed with an ethereal body.
उत्तमैरुत्तमैर्नित्यं सम्भन्धान् चरेत्सह । निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ ४.२४४॥
उत्तमैः उत्तमैः नित्यम् सम्भन्धान् चरेत् सह । निनीषुः कुलम् उत्कर्षम् अधमान् अधमान् त्यजेत् ॥ ४।२४४॥
uttamaiḥ uttamaiḥ nityam sambhandhān caret saha . ninīṣuḥ kulam utkarṣam adhamān adhamān tyajet .. 4.244..
4.244. Let him, who desires to raise his race, ever form connexions with the most excellent (men), and shun all low ones.
उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ४.२४५॥
उत्तमान् उत्तमान् एव गच्छन् हीनान् तु वर्जयन् । ब्राह्मणः श्रेष्ठ-ताम् एति प्रत्यवायेन शूद्र-ताम् ॥ ४।२४५॥
uttamān uttamān eva gacchan hīnān tu varjayan . brāhmaṇaḥ śreṣṭha-tām eti pratyavāyena śūdra-tām .. 4.245..
4.245. A Brahmana who always connects himself with the most excellent (ones), and shuns all inferior ones, (himself) becomes most distinguished; by an opposite conduct he becomes a Sudra.
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् । अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः ॥ ४.२४६॥
दृढकारी मृदुः दान्तः क्रूर-आचारैः असंवसान् । अहिंस्रः दम-दानाभ्याम् जयेत् स्वर्गम् तथाव्रतः ॥ ४।२४६॥
dṛḍhakārī mṛduḥ dāntaḥ krūra-ācāraiḥ asaṃvasān . ahiṃsraḥ dama-dānābhyām jayet svargam tathāvrataḥ .. 4.246..
4.246. He who is persevering, gentle, (and) patient, shuns the company of men of cruel conduct, and does no injury (to living creatures), gains, if he constantly lives in that manner, by controlling his organs and by liberality, heavenly bliss.
एधौदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ ४.२४७॥
एध-औदकम् मूल-फलम् अन्नम् अभ्युद्यतम् च यत् । सर्वतस् प्रतिगृह्णीयात् मधु अथ अभय-दक्षिणाम् ॥ ४।२४७॥
edha-audakam mūla-phalam annam abhyudyatam ca yat . sarvatas pratigṛhṇīyāt madhu atha abhaya-dakṣiṇām .. 4.247..
4.247. He may accept from any (man), fuel, water, roots, fruit, food offered without asking, and honey, likewise a gift (which consists in) a promise of protection.
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ ४.२४८॥
आहृत-अभ्युद्यताम् भिक्षाम् पुरस्तात् अ प्रचोदिताम् । मेने प्रजापतिः ग्राह्याम् अपि दुष्कृत-कर्मणः ॥ ४।२४८॥
āhṛta-abhyudyatām bhikṣām purastāt a pracoditām . mene prajāpatiḥ grāhyām api duṣkṛta-karmaṇaḥ .. 4.248..
4.248. The Lord of created beings (Pragapati) has declared that alms freely offered and brought (by the giver himself) may be accepted even from a sinful man, provided (the gift) had not been (asked for or) promised beforehand.
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ ४.२४९॥
न अश्नन्ति पितरः तस्य दश-वर्षाणि पञ्च च ॥न च हव्यम् वहति अग्निः यः ताम् अभ्यवमन्यते ॥ ४।२४९॥
na aśnanti pitaraḥ tasya daśa-varṣāṇi pañca ca ..na ca havyam vahati agniḥ yaḥ tām abhyavamanyate .. 4.249..
4.249. During fifteen years the manes do not eat (the food) of that man who disdains a (freely-offered gift), nor does the fire carry his offerings (to the gods).
शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि । धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५०॥
शय्याम् गृहान् कुशान् गन्धान् अपः पुष्पम् मणीन् दधि । धानाः मत्स्यान् पयः मांसम् शाकम् च एव न निर्णुदेत् ॥ ४।२५०॥
śayyām gṛhān kuśān gandhān apaḥ puṣpam maṇīn dadhi . dhānāḥ matsyān payaḥ māṃsam śākam ca eva na nirṇudet .. 4.250..
4.250. A couch, a house, Kusa grass, perfumes, water, flowers, jewels, sour milk, grain, fish, sweet milk, meat, and vegetables let him not reject, (if they are voluntarily offered.)
गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ ४.२५१॥
गुरून् भृत्यान् च उज्जिहीर्षन् अर्चिष्यन् देवता-अतिथीन् । सर्वतस् प्रतिगृह्णीयात् न तु तृप्येत् स्वयम् ततस् ॥ ४।२५१॥
gurūn bhṛtyān ca ujjihīrṣan arciṣyan devatā-atithīn . sarvatas pratigṛhṇīyāt na tu tṛpyet svayam tatas .. 4.251..
4.251. He who desires to relieve his Gurus and those whom he is bound to maintain, or wishes to honour the gods and guests, may accept (gifts) from anybody; but he must not satisfy his (own hunger) with such (presents).
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥ ४.२५२॥
गुरुषु तु अभ्यतीतेषु विना वा तैः गृहे वसन् । आत्मनः वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥ ४।२५२॥
guruṣu tu abhyatīteṣu vinā vā taiḥ gṛhe vasan . ātmanaḥ vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā .. 4.252..
4.252. But if his Gurus are dead, or if he lives separate from them in (another) house, let him, when he seeks a subsistence, accept (presents) from good men alone.
आर्धिकः कुलमित्रं च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥ ४.२५३॥
आर्धिकः कुल-मित्रम् च गोपालः दास-नापितौ । एते शूद्रेषु भोज्य-अन्नाः याः च आत्मानम् निवेदयेत् ॥ ४।२५३॥
ārdhikaḥ kula-mitram ca gopālaḥ dāsa-nāpitau . ete śūdreṣu bhojya-annāḥ yāḥ ca ātmānam nivedayet .. 4.253..
4.253. His labourer in tillage, a friend of his family, his cow-herd, his slave, and his barber are, among Sudras, those whose food he may eat, likewise (a poor man) who offers himself (to be his slave).
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । यथा चौपचरेदेनं तथाऽत्मानं निवेदयेत् ॥ ४.२५४॥
यादृशः अस्य भवेत् आत्मा यादृशम् च चिकीर्षितम् । यथा च औपचरेत् एनम् तथा आत्मानम् निवेदयेत् ॥ ४।२५४॥
yādṛśaḥ asya bhavet ātmā yādṛśam ca cikīrṣitam . yathā ca aupacaret enam tathā ātmānam nivedayet .. 4.254..
4.254. As his character is, as the work is which he desires to perform, and as the manner is in which he means to serve, even so (a voluntary slave) must offer himself.
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ४.२५५॥
यः अन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते । स पाप-कृत्तमः लोके स्तेनः आत्म-अपहारकः ॥ ४।२५५॥
yaḥ anyathā santam ātmānam anyathā satsu bhāṣate . sa pāpa-kṛttamaḥ loke stenaḥ ātma-apahārakaḥ .. 4.255..
4.255. He who describes himself to virtuous (men), in a manner contrary to truth, is the most sinful (wretch) in this world; he is a thief who makes away with his own self.
वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ ४.२५६॥
वाचि अर्थाः नियताः सर्वे वाच्-मूलाः वाच्-विनिःसृताः । तान् तु यः स्तेनयेत् वाचम् स सर्व-स्तेय-कृत् नरः ॥ ४।२५६॥
vāci arthāḥ niyatāḥ sarve vāc-mūlāḥ vāc-viniḥsṛtāḥ . tān tu yaḥ stenayet vācam sa sarva-steya-kṛt naraḥ .. 4.256..
4.256. All things (have their nature) determined by speech; speech is their root, and from speech they proceed; but he who is dishonest with respect to speech, is dishonest in everything.
महर्षिपितृदेवानां गत्वाऽनृण्यं यथाविधि । पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम आस्थितः ॥ ४.२५७॥
महा-ऋषि-पितृ-देवानाम् गत्वा आ अनृण्यम् यथाविधि । पुत्रे सर्वम् समासज्य वसेत् माध्यस्थ्यमे आस्थितः ॥ ४।२५७॥
mahā-ṛṣi-pitṛ-devānām gatvā ā anṛṇyam yathāvidhi . putre sarvam samāsajya vaset mādhyasthyame āsthitaḥ .. 4.257..
4.257. When he has paid, according to the law, his debts to the great sages, to the manes, and to the gods, let him make over everything to his son and dwell (in his house), not caring for any worldly concerns.
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनि । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ ४.२५८॥
एकाकी चिन्तयेत् नित्यम् विविक्ते हितम् आत्मनि । एकाकी चिन्तयानः हि परम् श्रेयः अधिगच्छति ॥ ४।२५८॥
ekākī cintayet nityam vivikte hitam ātmani . ekākī cintayānaḥ hi param śreyaḥ adhigacchati .. 4.258..
4.258. Alone let him constantly meditate in solitude on that which is salutary for his soul; for he who meditates in solitude attains supreme bliss.
एषौदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ ४.२५९॥
एषा औदिता गृहस्थस्य वृत्तिः विप्रस्य शाश्वती । स्नातक-व्रत-कल्पः च सत्त्व-वृद्धि-करः शुभः ॥ ४।२५९॥
eṣā auditā gṛhasthasya vṛttiḥ viprasya śāśvatī . snātaka-vrata-kalpaḥ ca sattva-vṛddhi-karaḥ śubhaḥ .. 4.259..
4.259. Thus have been declared the means by which a Brahmana householder must always subsist, and the summary of the ordinances for a Snataka, which cause an increase of holiness and are praiseworthy.
अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ ४.२६०॥
अनेन विप्रः वृत्तेन वर्तयन् वेद-शास्त्र-विद् । व्यपेत-कल्मषः नित्यम् ब्रह्म-लोके महीयते ॥ ४।२६०॥
anena vipraḥ vṛttena vartayan veda-śāstra-vid . vyapeta-kalmaṣaḥ nityam brahma-loke mahīyate .. 4.260..
4.260. A Brahmana who, being learned in the lore of the Vedas, conducts himself in this manner and daily destroys his sins, will be exalted in Brahman’s world.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In