| |
|

This overlay will guide you through the buttons:

श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् । इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ ५.१॥
श्रुत्वा एतान् ऋषयः धर्मान् स्नातकस्य यथा उदितान् । इदम् ऊचुः महात्मानम् अनल-प्रभवम् भृगुम् ॥ ५।१॥
śrutvā etān ṛṣayaḥ dharmān snātakasya yathā uditān . idam ūcuḥ mahātmānam anala-prabhavam bhṛgum .. 5.1..
5.1. The sages, having heard the duties of a Snataka thus declared, spoke to great-souled Bhrigu, who sprang from fire:
एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् । कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२॥
एवम् यथा उक्तम् विप्राणाम् स्वधर्मम् अनुतिष्ठताम् । कथम् मृत्युः प्रभवति वेद-शास्त्र-विदाम् प्रभो ॥ ५।२॥
evam yathā uktam viprāṇām svadharmam anutiṣṭhatām . katham mṛtyuḥ prabhavati veda-śāstra-vidām prabho .. 5.2..
5.2. ’How can Death have power over Brahmanas who know the sacred science, the Veda, (and) who fulfil their duties as they have been explained (by thee), O Lord? ’
स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः । श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ॥ ५.३॥
स तान् उवाच धर्म-आत्मा महा-ऋषीन् मानवः भृगुः । श्रूयताम् येन दोषेण मृत्युः विप्रान् जिघांसति ॥ ५।३॥
sa tān uvāca dharma-ātmā mahā-ṛṣīn mānavaḥ bhṛguḥ . śrūyatām yena doṣeṇa mṛtyuḥ viprān jighāṃsati .. 5.3..
5.3. Righteous Bhrigu, the son of Manu, (thus) answered the great sages: ’Hear, (in punishment) of what faults Death seeks to shorten the lives of Brahmanas!’
अनभ्यासेन वेदानामाचारस्य च वर्जनात् । आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ ५.४॥
अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् । आलस्यात् अन्न-दोषात् च मृत्युः विप्रान् जिघांसति ॥ ५।४॥
anabhyāsena vedānām ācārasya ca varjanāt . ālasyāt anna-doṣāt ca mṛtyuḥ viprān jighāṃsati .. 5.4..
5.4. ’Through neglect of the Veda-study, through deviation from the rule of conduct, through remissness (in the fulfilment of duties), and through faults (committed by eating forbidden) food, Death becomes eager to shorten the lives of Brahmanas.
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ ५.५॥
लशुनम् गृञ्जनम् च एव पलाण्डुम् कवकानि च । अभक्ष्याणि द्विजातीनाम् अमेध्य-प्रभवानि च ॥ ५।५॥
laśunam gṛñjanam ca eva palāṇḍum kavakāni ca . abhakṣyāṇi dvijātīnām amedhya-prabhavāni ca .. 5.5..
5.5. Garlic, leeks and onions, mushrooms and (all plants), springing from impure (substances), are unfit to be eaten by twice-born men.
लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६॥
लोहितान् वृक्ष-निर्यासान् व्रश्चन-प्रभवान् तथा । शेलुम् गव्यम् च पीयूषम् प्रयत्नेन विवर्जयेत् ॥ ५।६॥
lohitān vṛkṣa-niryāsān vraścana-prabhavān tathā . śelum gavyam ca pīyūṣam prayatnena vivarjayet .. 5.6..
5.6. One should carefully avoid red exudations from trees and (juices) flowing from incisions, the Selu (fruit), and the thickened milk of a cow (which she gives after calving).
वृथा कृसरसंयावं पायसापूपमेव च । अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ ५.७॥
वृथा कृसर-संयावम् पायस-अपूपम् एव च । अन् उपाकृत-मांसानि देव-अन्नानि हवींषि च ॥ ५।७॥
vṛthā kṛsara-saṃyāvam pāyasa-apūpam eva ca . an upākṛta-māṃsāni deva-annāni havīṃṣi ca .. 5.7..
5.7. Rice boiled with sesamum, wheat mixed with butter, milk and sugar, milk-rice and flour-cakes which are not prepared for a sacrifice, meat which has not been sprinkled with water while sacred texts were recited, food offered to the gods and sacrificial viands,
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ ५.८॥
अनिर्दशायाः गोः क्षीरम् औष्ट्रम् ऐकशफम् तथा । आविकम् सन्धिनी-क्षीरम् विवत्सायाः च गोः पयः ॥ ५।८॥
anirdaśāyāḥ goḥ kṣīram auṣṭram aikaśapham tathā . āvikam sandhinī-kṣīram vivatsāyāḥ ca goḥ payaḥ .. 5.8..
5.8. The milk of a cow (or other female animal) within ten days after her calving, that of camels, of one-hoofed animals, of sheep, of a cow in heat, or of one that has no calf with her,
आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ ५.९॥
आरण्यानाम् च सर्वेषाम् मृगाणाम् माहिषम् विना । स्त्री-क्षीरम् च एव वर्ज्यानि सर्व-शुक्तानि च एव हि ॥ ५।९॥
āraṇyānām ca sarveṣām mṛgāṇām māhiṣam vinā . strī-kṣīram ca eva varjyāni sarva-śuktāni ca eva hi .. 5.9..
5.9. (The milk) of all wild animals excepting buffalo-cows, that of women, and all (substances turned) sour must be avoided.
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् । यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ ५.१०॥
दधि भक्ष्यम् च शुक्तेषु सर्वम् च दधि-सम्भवम् । यानि च एव अभिषूयन्ते पुष्प-मूल-फलैः शुभैः ॥ ५।१०॥
dadhi bhakṣyam ca śukteṣu sarvam ca dadhi-sambhavam . yāni ca eva abhiṣūyante puṣpa-mūla-phalaiḥ śubhaiḥ .. 5.10..
5.10. Among (things turned) sour, sour milk, and all (food) prepared of it may be eaten, likewise what is extracted from pure flowers, roots, and fruit.
क्रव्यादः शकुनीन् सर्वान्तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चेकशफान् टिट्टिभं च विवर्जयेत् ॥ ५.११॥
क्रव्यादः शकुनीन् सर्वान् तथा ग्राम-निवासिनः । अ निर्दिष्टान् च इकशफान् टिट्टिभम् च विवर्जयेत् ॥ ५।११॥
kravyādaḥ śakunīn sarvān tathā grāma-nivāsinaḥ . a nirdiṣṭān ca ikaśaphān ṭiṭṭibham ca vivarjayet .. 5.11..
5.11. Let him avoid all carnivorous birds and those living in villages, and one-hoofed animals which are not specially permitted (to be eaten), and the Tittibha (Parra Jacana),
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥ ५.१२॥
कलविङ्कम् प्लवम् हंसम् चक्राह्वम् ग्राम-कुक्कुटम् । सारसम् रज्जुदालम् च दात्यूहम् शुक-सारिके ॥ ५।१२॥
kalaviṅkam plavam haṃsam cakrāhvam grāma-kukkuṭam . sārasam rajjudālam ca dātyūham śuka-sārike .. 5.12..
5.12. The sparrow, the Plava, the Hamsa, the Brahmani duck, the village-cock, the Sarasa crane, the Raggudala, the woodpecker, the parrot, and the starling
प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् । प्रतुदान्निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥ ५.१३॥
प्रतुदान् जालपादान् च कोयष्टि-नखविष्किरान् । प्रतुदान् निमज्जतः च मत्स्य-आदान् सौनम् वल्लूरम् एव च ॥ ५।१३॥
pratudān jālapādān ca koyaṣṭi-nakhaviṣkirān . pratudān nimajjataḥ ca matsya-ādān saunam vallūram eva ca .. 5.13..
5.13. Those which feed striking with their beaks, web-footed birds, the Koyashti, those which scratch with their toes, those which dive and live on fish, meat from a slaughter-house and dried meat,
बकं चैव बलाकां च काकोलं खञ्जरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ ५.१४॥
बकम् च एव बलाकाम् च काकोलम् खञ्जरीटकम् । मत्स्य-आदान् विड्वराहान् च मत्स्यान् एव च सर्वशस् ॥ ५।१४॥
bakam ca eva balākām ca kākolam khañjarīṭakam . matsya-ādān viḍvarāhān ca matsyān eva ca sarvaśas .. 5.14..
5.14. The Baka and the Balaka crane, the raven, the Khangaritaka, (animals) that eat fish, village-pigs, and all kinds of fishes.
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस्तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५॥
यः यस्य मांसम् अश्नाति स तद्-मांस-आदः उच्यते । मत्स्य-आदः सर्व-मांस-आदः तस्मात् मत्स्यान् विवर्जयेत् ॥ ५।१५॥
yaḥ yasya māṃsam aśnāti sa tad-māṃsa-ādaḥ ucyate . matsya-ādaḥ sarva-māṃsa-ādaḥ tasmāt matsyān vivarjayet .. 5.15..
5.15. He who eats the flesh of any (animal) is called the eater of the flesh of that (particular creature), he who eats fish is an eater of every (kind of) flesh; let him therefore avoid fish.
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ ५.१६॥
पाठीन-रोहितौ आद्यौ नियुक्तौ हव्य-कव्ययोः । राजीवाः सिंहतुण्डाः च स शल्काः च एव सर्वशस् ॥ ५।१६॥
pāṭhīna-rohitau ādyau niyuktau havya-kavyayoḥ . rājīvāḥ siṃhatuṇḍāḥ ca sa śalkāḥ ca eva sarvaśas .. 5.16..
5.16. (But the fish called) Pathina and (that called) Rohita may be eaten, if used for offerings to the gods or to the manes; (one may eat) likewise Ragivas, Simhatundas, and Sasalkas on all (occasions).
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ ५.१७॥
न भक्षयेत् एकचरान् अज्ञातान् च मृग-द्विजान् । भक्ष्येषु अपि समुद्दिष्टान् सर्वान् पञ्चनखान् तथा ॥ ५।१७॥
na bhakṣayet ekacarān ajñātān ca mṛga-dvijān . bhakṣyeṣu api samuddiṣṭān sarvān pañcanakhān tathā .. 5.17..
5.17. Let him not eat solitary or unknown beasts and birds, though they may fall under (the categories of) eatable (creatures), nor any five-toed (animals).
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ ५.१८॥
श्वाविधम् शल्यकम् गोधाम् खड्ग-कूर्म-शशान् तथा । भक्ष्यान् पञ्चनखेषु आहुः अन् उष्ट्रान् च एकतोदतः ॥ ५।१८॥
śvāvidham śalyakam godhām khaḍga-kūrma-śaśān tathā . bhakṣyān pañcanakheṣu āhuḥ an uṣṭrān ca ekatodataḥ .. 5.18..
5.18. The porcupine, the hedgehog, the iguana, the rhinoceros, the tortoise, and the hare they declare to be eatable; likewise those (domestic animals) that have teeth in one jaw only, excepting camels.
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥ ५.१९॥
छत्राकम् विड्वराहम् च लशुनम् ग्राम-कुक्कुटम् । पलाण्डुम् गृञ्जनम् च एव मत्या जग्ध्वा पतेत् द्विजः ॥ ५।१९॥
chatrākam viḍvarāham ca laśunam grāma-kukkuṭam . palāṇḍum gṛñjanam ca eva matyā jagdhvā patet dvijaḥ .. 5.19..
5.19. A twice-born man who knowingly eats mushrooms, a village-pig, garlic, a village-cock, onions, or leeks, will become an outcast.
अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायाणं वाऽपि शेषेषूपवसेदहः ॥ ५.२०॥
अमत्या एतानि षड् जग्ध्वा कृच्छ्रम् सान्तपनम् चरेत् । यतिचान्द्रायाणम् वा अपि शेषेषु उपवसेत् अहर् ॥ ५।२०॥
amatyā etāni ṣaḍ jagdhvā kṛcchram sāntapanam caret . yaticāndrāyāṇam vā api śeṣeṣu upavaset ahar .. 5.20..
5.20. He who unwittingly partakes of (any of) these six, shall perform a Samtapana (Krikkhra) or the lunar penance (Kandrayana) of ascetics; in case (he who has eaten) any other (kind of forbidden food) he shall fast for one day (and a night ).
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ५.२१॥
संवत्सरस्य एकम् अपि चरेत् कृच्छ्रम् द्विजोत्तमः । अज्ञात-भुक्त-शुद्धि-अर्थम् ज्ञातस्य तु विशेषतः ॥ ५।२१॥
saṃvatsarasya ekam api caret kṛcchram dvijottamaḥ . ajñāta-bhukta-śuddhi-artham jñātasya tu viśeṣataḥ .. 5.21..
5.21. Once a year a Brahmana must perform a Krikkhra penance, in order to atone for unintentionally eating (forbidden food) but for intentionally (eating forbidden food he must perform the penances prescribed) specially.
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ ५.२२॥
यज्ञ-अर्थम् ब्राह्मणैः वध्याः प्रशस्ताः मृग-पक्षिणः । भृत्यानाम् च एव वृत्ति-अर्थम् अगस्त्यः हि आचरत् पुरा ॥ ५।२२॥
yajña-artham brāhmaṇaiḥ vadhyāḥ praśastāḥ mṛga-pakṣiṇaḥ . bhṛtyānām ca eva vṛtti-artham agastyaḥ hi ācarat purā .. 5.22..
5.22. Beasts and birds recommended (for consumption) may be slain by Brahmanas for sacrifices, and in order to feed those whom they are bound to maintain; for Agastya did this of old.
बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वृषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ ५.२३॥
बभूवुः हि पुरोडाशाः भक्ष्याणाम् मृग-पक्षिणाम् । पुराणेषु ऋषि-यज्ञेषु ब्रह्म-क्षत्र-सवेषु च ॥ ५।२३॥
babhūvuḥ hi puroḍāśāḥ bhakṣyāṇām mṛga-pakṣiṇām . purāṇeṣu ṛṣi-yajñeṣu brahma-kṣatra-saveṣu ca .. 5.23..
5.23. For in ancient (times) the sacrificial cakes were (made of the flesh) of eatable beasts and birds at the sacrifices offered by Brahmanas and Kshatriyas.
यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ ५.२४॥
यत् किम् चित्-स्नेह-संयुक्तम् भक्ष्यम् भोज्यम् अगर्हितम् । तत् पर्युषितम् अपि आद्यम् हविः-शेषम् च यत् भवेत् ॥ ५।२४॥
yat kim cit-sneha-saṃyuktam bhakṣyam bhojyam agarhitam . tat paryuṣitam api ādyam haviḥ-śeṣam ca yat bhavet .. 5.24..
5.24. All lawful hard or soft food may be eaten, though stale, (after having been) mixed with fatty (substances), and so may the remains of sacrificial viands.
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः । यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ ५.२५॥
चिर-स्थितम् अपि तु आद्यम् अस्नेह-अक्तम् द्विजातिभिः । यव-गोधूम-जम् सर्वम् पयसः च एव विक्रिया ॥ ५।२५॥
cira-sthitam api tu ādyam asneha-aktam dvijātibhiḥ . yava-godhūma-jam sarvam payasaḥ ca eva vikriyā .. 5.25..
5.25. But all preparations of barley and wheat, as well as preparations of milk, may be eaten by twice-born men without being mixed with fatty (substances), though they may have stood for a long time.
एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः । मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ ५.२६॥
एतत् उक्तम् द्विजातीनाम् भक्ष्य-अभक्ष्यम् अशेषतस् । मांसस्य अतस् प्रवक्ष्यामि विधिम् भक्षण-वर्जने ॥ ५।२६॥
etat uktam dvijātīnām bhakṣya-abhakṣyam aśeṣatas . māṃsasya atas pravakṣyāmi vidhim bhakṣaṇa-varjane .. 5.26..
5.26. Thus has the food, allowed and forbidden to twice-born men, been fully described; I will now propound the rules for eating and avoiding meat.
प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ ५.२७॥
प्रोक्षितम् भक्षयेत् मांसम् ब्राह्मणानाम् च काम्यया । यथाविधि नियुक्तः तु प्राणानाम् एव च अत्यये ॥ ५।२७॥
prokṣitam bhakṣayet māṃsam brāhmaṇānām ca kāmyayā . yathāvidhi niyuktaḥ tu prāṇānām eva ca atyaye .. 5.27..
5.27. One may eat meat when it has been sprinkled with water, while Mantras were recited, when Brahmanas desire (one’s doing it), when one is engaged (in the performance of a rite) according to the law, and when one’s life is in danger.
प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८॥
प्राणस्य अन्नम् इदम् सर्वम् प्रजापतिः अकल्पयत् । स्थावरम् जङ्गमम् च एव सर्वम् प्राणस्य भोजनम् ॥ ५।२८॥
prāṇasya annam idam sarvam prajāpatiḥ akalpayat . sthāvaram jaṅgamam ca eva sarvam prāṇasya bhojanam .. 5.28..
5.28. The Lord of creatures (Pragapati) created this whole (world to be) the sustenance of the vital spirit; both the immovable and the movable (creation is) the food of the vital spirit.
चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः । अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ ५.२९॥
चराणाम् अन्नम् अचराः दंष्ट्रिणाम् अपि अदंष्ट्रिणः । अहस्ताः च स हस्तानाम् शूराणाम् च एव भीरवः ॥ ५।२९॥
carāṇām annam acarāḥ daṃṣṭriṇām api adaṃṣṭriṇaḥ . ahastāḥ ca sa hastānām śūrāṇām ca eva bhīravaḥ .. 5.29..
5.29. What is destitute of motion is the food of those endowed with locomotion; (animals) without fangs (are the food) of those with fangs, those without hands of those who possess hands, and the timid of the bold.
नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्य्ऽहन्यपि । धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥ ५.३०॥
न अत्ता दुष्यति अद्-अन्नाद्यान् प्राणिनः अहनि अहनि अपि । धात्रा एव सृष्टाः हि आद्याः च प्राणिनः अत्तारः एव च ॥ ५।३०॥
na attā duṣyati ad-annādyān prāṇinaḥ ahani ahani api . dhātrā eva sṛṣṭāḥ hi ādyāḥ ca prāṇinaḥ attāraḥ eva ca .. 5.30..
5.30. The eater who daily even devours those destined to be his food, commits no sin; for the creator himself created both the eaters and those who are to be eaten (for those special purposes).
यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः । अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ ५.३१॥
यज्ञाय जग्धिः मांसस्य इति एष दैवः विधिः स्मृतः । अतस् अन्यथा प्रवृत्तिः तु राक्षसः विधिः उच्यते ॥ ५।३१॥
yajñāya jagdhiḥ māṃsasya iti eṣa daivaḥ vidhiḥ smṛtaḥ . atas anyathā pravṛttiḥ tu rākṣasaḥ vidhiḥ ucyate .. 5.31..
5.31. ’The consumption of meat (is befitting) for sacrifices,’ that is declared to be a rule made by the gods; but to persist (in using it) on other (occasions) is said to be a proceeding worthy of Rakshasas.
क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा । देवान् पितॄंश्चार्चयित्वा खादन् मांसं न दुष्यति ॥ ५.३२॥
क्रीत्वा स्वयम् वा अपि उत्पाद्य पर-उपकृतम् एव वा । देवान् पितॄन् च अर्चयित्वा खादन् मांसम् न दुष्यति ॥ ५।३२॥
krītvā svayam vā api utpādya para-upakṛtam eva vā . devān pitṝn ca arcayitvā khādan māṃsam na duṣyati .. 5.32..
5.32. He who eats meat, when he honours the gods and manes, commits no sin, whether he has bought it, or himself has killed (the animal), or has received it as a present from others.
नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः । जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ ५.३३॥
न अद्यात् अविधिना मांसम् विधि-ज्ञः अनापदि द्विजः । जग्ध्वा हि अविधिना मांसम् प्रेतः तैः अद्यते अवशः ॥ ५।३३॥
na adyāt avidhinā māṃsam vidhi-jñaḥ anāpadi dvijaḥ . jagdhvā hi avidhinā māṃsam pretaḥ taiḥ adyate avaśaḥ .. 5.33..
5.33. A twice-born man who knows the law, must not eat meat except in conformity with the law; for if he has eaten it unlawfully, he will, unable to save himself, be eaten after death by his (victims).
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ५.३४॥
न तादृशम् भवति एनः मृग-हन्तुः धन-अर्थिनः । यादृशम् भवति प्रेत्य वृथामांसानि खादतः ॥ ५।३४॥
na tādṛśam bhavati enaḥ mṛga-hantuḥ dhana-arthinaḥ . yādṛśam bhavati pretya vṛthāmāṃsāni khādataḥ .. 5.34..
5.34. After death the guilt of one who slays deer for gain is not as (great) as that of him who eats meat for no (sacred) purpose.
नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥ ५.३५॥
नियुक्तः तु यथान्यायम् यः मांसम् न अत्ति मानवः । स प्रेत्य पशु-ताम् याति सम्भवान् एकविंशतिम् ॥ ५।३५॥
niyuktaḥ tu yathānyāyam yaḥ māṃsam na atti mānavaḥ . sa pretya paśu-tām yāti sambhavān ekaviṃśatim .. 5.35..
5.35. But a man who, being duly engaged (to officiate or to dine at a sacred rite), refuses to eat meat, becomes after death an animal during twenty-one existences.
असंस्कृतान् पशून् मन्त्रैर्नाद्याद्विप्रः कदा चन । मन्त्रैस्तु संस्कृतानद्यात्शाश्वतं विधिमास्थितः ॥ ५.३६॥
अ संस्कृतान् पशून् मन्त्रैः न अद्यात् विप्रः कदा चन । मन्त्रैः तु संस्कृतान् अद्यात् शाश्वतम् विधिम् आस्थितः ॥ ५।३६॥
a saṃskṛtān paśūn mantraiḥ na adyāt vipraḥ kadā cana . mantraiḥ tu saṃskṛtān adyāt śāśvatam vidhim āsthitaḥ .. 5.36..
5.36. A Brahmana must never eat (the flesh of animals unhallowed by Mantras; but, obedient to the primeval law, he may eat it, consecrated with Vedic texts.
कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदा चन ॥ ५.३७॥
कुर्यात् घृतपशुम् सङ्गे कुर्यात् पिष्टपशुम् तथा । न तु एव तु वृथा हन्तुम् पशुम् इच्छेत् कदा चन ॥ ५।३७॥
kuryāt ghṛtapaśum saṅge kuryāt piṣṭapaśum tathā . na tu eva tu vṛthā hantum paśum icchet kadā cana .. 5.37..
5.37. If he has a strong desire (for meat) he may make an animal of clarified butter or one of flour, (and eat that); but let him never seek to destroy an animal without a (lawful) reason.
यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५.३८॥
यावन्ति पशु-रोमाणि तावत्-कृत्वस् ह मारणम् । वृथा पशु-घ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५।३८॥
yāvanti paśu-romāṇi tāvat-kṛtvas ha māraṇam . vṛthā paśu-ghnaḥ prāpnoti pretya janmani janmani .. 5.38..
5.38. As many hairs as the slain beast has, so often indeed will he who killed it without a (lawful) reason suffer a violent death in future births.
यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ५.३९॥
यज्ञ-अर्थम् पशवः सृष्टाः स्वयम् एव स्वयम्भुवा । यज्ञः अस्य भूत्यै सर्वस्य तस्मात् यज्ञे वधः अ वधः ॥ ५।३९॥
yajña-artham paśavaḥ sṛṣṭāḥ svayam eva svayambhuvā . yajñaḥ asya bhūtyai sarvasya tasmāt yajñe vadhaḥ a vadhaḥ .. 5.39..
5.39. Svayambhu (the Self-existent) himself created animals for the sake of sacrifices; sacrifices (have been instituted) for the good of this whole (world); hence the slaughtering (of beasts) for sacrifices is not slaughtering (in the ordinary sense of the word).
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ॥ ५.४०॥
ओषध्यः पशवः वृक्षाः तिर्यञ्चः पक्षिणः तथा । यज्ञ-अर्थम् निधनम् प्राप्ताः प्राप्नुवन्ति उत्सृतीः पुनर् ॥ ५।४०॥
oṣadhyaḥ paśavaḥ vṛkṣāḥ tiryañcaḥ pakṣiṇaḥ tathā . yajña-artham nidhanam prāptāḥ prāpnuvanti utsṛtīḥ punar .. 5.40..
5.40. Herbs, trees, cattle, birds, and (other) animals that have been destroyed for sacrifices, receive (being reborn) higher existences.
मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रैत्यब्रवीन् मनुः ॥ ५.४१॥
मधुपर्के च यज्ञे च पितृ-दैवत-कर्मणि । अत्र एव पशवः हिंस्याः न अन्यत्र एति अब्रवीत् मनुः ॥ ५।४१॥
madhuparke ca yajñe ca pitṛ-daivata-karmaṇi . atra eva paśavaḥ hiṃsyāḥ na anyatra eti abravīt manuḥ .. 5.41..
5.41. On offering the honey-mixture (to a guest), at a sacrifice and at the rites in honour of the manes, but on these occasions only, may an animal be slain; that (rule) Manu proclaimed.
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः । आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ॥ ५.४२॥
एषु अर्थेषु पशून् हिंसन् वेद-तत्त्व-अर्थ-विद् द्विजः । आत्मानम् च पशुम् च एव गमयति उत्तमम् गतिम् ॥ ५।४२॥
eṣu artheṣu paśūn hiṃsan veda-tattva-artha-vid dvijaḥ . ātmānam ca paśum ca eva gamayati uttamam gatim .. 5.42..
5.42. A twice-born man who, knowing the true meaning of the Veda, slays an animal for these purposes, causes both himself and the animal to enter a most blessed state.
गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ५.४३॥
गृहे गुरौ अरण्ये वा निवसन् आत्मवान् द्विजः । न अ वेद-विहिताम् हिंसाम् आपदि अपि समाचरेत् ॥ ५।४३॥
gṛhe gurau araṇye vā nivasan ātmavān dvijaḥ . na a veda-vihitām hiṃsām āpadi api samācaret .. 5.43..
5.43. A twice-born man of virtuous disposition, whether he dwells in (his own) house, with a teacher, or in the forest, must never, even in times of distress, cause an injury (to any creature) which is not sanctioned by the Veda.
या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ५.४४॥
या वेद-विहिता हिंसा नियता अस्मिन् चराचरे । अहिंसाम् एव ताम् विद्यात् वेदात् धर्मः हि निर्बभौ ॥ ५।४४॥
yā veda-vihitā hiṃsā niyatā asmin carācare . ahiṃsām eva tām vidyāt vedāt dharmaḥ hi nirbabhau .. 5.44..
5.44. Know that the injury to moving creatures and to those destitute of motion, which the Veda has prescribed for certain occasions, is no injury at all; for the sacred law shone forth from the Veda.
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखैच्छया । स जीवांश्च मृतश्चैव न क्व चित्सुखमेधते ॥ ५.४५॥
यः अहिंसकानि भूतानि हिनस्ति आत्म-सुख-ऐच्छया । स जीवान् च मृतः च एव न क्व चित् सुखम् एधते ॥ ५।४५॥
yaḥ ahiṃsakāni bhūtāni hinasti ātma-sukha-aicchayā . sa jīvān ca mṛtaḥ ca eva na kva cit sukham edhate .. 5.45..
5.45. He who injures innoxious beings from a wish to (give) himself pleasure, never finds happiness, neither living nor dead.
यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ५.४६॥
यः बन्धन-वध-क्लेशान् प्राणिनाम् न चिकीर्षति । स सर्वस्य हित-प्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ ५।४६॥
yaḥ bandhana-vadha-kleśān prāṇinām na cikīrṣati . sa sarvasya hita-prepsuḥ sukham atyantam aśnute .. 5.46..
5.46. He who does not seek to cause the sufferings of bonds and death to living creatures, (but) desires the good of all (beings), obtains endless bliss.
यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन ॥ ५.४७॥
यत् ध्यायति यत् कुरुते रतिम् बध्नाति यत्र च । तत् अवाप्नोति अयत्नेन यः हिनस्ति न किम् चन ॥ ५।४७॥
yat dhyāyati yat kurute ratim badhnāti yatra ca . tat avāpnoti ayatnena yaḥ hinasti na kim cana .. 5.47..
5.47. He who does not injure any (creature), attains without an effort what he thinks of, what he undertakes, and what he fixes his mind on.
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् । न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ॥ ५.४८॥
न अ कृत्वा प्राणिनाम् हिंसाम् मांसम् उत्पद्यते क्व चित् । न च प्राणि-वधः स्वर्ग्यः तस्मात् मांसम् विवर्जयेत् ॥ ५।४८॥
na a kṛtvā prāṇinām hiṃsām māṃsam utpadyate kva cit . na ca prāṇi-vadhaḥ svargyaḥ tasmāt māṃsam vivarjayet .. 5.48..
5.48. Meat can never be obtained without injury to living creatures, and injury to sentient beings is detrimental to (the attainment of) heavenly bliss; let him therefore shun (the use of) meat.
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९॥
समुत्पत्तिम् च मांसस्य वध-बन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्व-मांसस्य भक्षणात् ॥ ५।४९॥
samutpattim ca māṃsasya vadha-bandhau ca dehinām . prasamīkṣya nivarteta sarva-māṃsasya bhakṣaṇāt .. 5.49..
5.49. Having well considered the (disgusting) origin of flesh and the (cruelty of) fettering and slaying corporeal beings, let him entirely abstain from eating flesh.
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । न लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५.५०॥
न भक्षयति यः मांसम् विधिम् हित्वा पिशाच-वत् । न लोके प्रिय-ताम् याति व्याधिभिः च न पीड्यते ॥ ५।५०॥
na bhakṣayati yaḥ māṃsam vidhim hitvā piśāca-vat . na loke priya-tām yāti vyādhibhiḥ ca na pīḍyate .. 5.50..
5.50. He who, disregarding the rule (given above), does not eat meat like a Pisaka, becomes dear to men, and will not be tormented by diseases.
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ५.५१॥
अनुमन्ता विशसिता निहन्ता क्रय-विक्रयी । संस्कर्ता च उपहर्ता च खादकः च इति घातकाः ॥ ५।५१॥
anumantā viśasitā nihantā kraya-vikrayī . saṃskartā ca upahartā ca khādakaḥ ca iti ghātakāḥ .. 5.51..
5.51. He who permits (the slaughter of an animal), he who cuts it up, he who kills it, he who buys or sells (meat), he who cooks it, he who serves it up, and he who eats it, (must all be considered as) the slayers (of the animal).
स्वमांसं परमांसेन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ ५.५२॥
स्व-मांसम् पर-मांसेन यः वर्धयितुम् इच्छति । अन् अभ्यर्च्य पितॄन् देवान् ततस् अन्यः ना अस्ति अपुण्य-कृत् ॥ ५।५२॥
sva-māṃsam para-māṃsena yaḥ vardhayitum icchati . an abhyarcya pitṝn devān tatas anyaḥ nā asti apuṇya-kṛt .. 5.52..
5.52. There is no greater sinner than that (man) who, though not worshipping the gods or the manes, seeks to increase (the bulk of) his own flesh by the flesh of other (beings).
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५.५३॥
वर्षे वर्षे अश्वमेधेन यः यजेत शतम् समाः । मांसानि च न खादेत् यः तयोः पुण्य-फलम् समम् ॥ ५।५३॥
varṣe varṣe aśvamedhena yaḥ yajeta śatam samāḥ . māṃsāni ca na khādet yaḥ tayoḥ puṇya-phalam samam .. 5.53..
5.53. He who during a hundred years annually offers a horse-sacrifice, and he who entirely abstains from meat, obtain the same reward for their meritorious (conduct).
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यत्मांसपरिवर्जनात् ॥ ५.५४॥
फल-मूल-अशनैः मेध्यैः मुनि-अन्नानाम् च भोजनैः । न तत् फलम् अवाप्नोति यत् मांस-परिवर्जनात् ॥ ५।५४॥
phala-mūla-aśanaiḥ medhyaiḥ muni-annānām ca bhojanaiḥ . na tat phalam avāpnoti yat māṃsa-parivarjanāt .. 5.54..
5.54. By subsisting on pure fruit and roots, and by eating food fit for ascetics (in the forest), one does not gain (so great) a reward as by entirely avoiding (the use of) flesh.
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतत्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५.५५॥
माम् स भक्षयिता अमुत्र यस्य मांसम् इह अद्मि अहम् । एतत् मांसस्य मांस-त्वम् प्रवदन्ति मनीषिणः ॥ ५।५५॥
mām sa bhakṣayitā amutra yasya māṃsam iha admi aham . etat māṃsasya māṃsa-tvam pravadanti manīṣiṇaḥ .. 5.55..
5.55. ’Me he (mam sah)’ will devour in the next (world), whose flesh I eat in this (life); the wise declare this (to be) the real meaning of the word ’flesh’ (mamsah).
न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ ५.५६॥
न मांस-भक्षणे दोषः न मद्ये न च मैथुने । प्रवृत्तिः एषा भूतानाम् निवृत्तिः तु महा-फला ॥ ५।५६॥
na māṃsa-bhakṣaṇe doṣaḥ na madye na ca maithune . pravṛttiḥ eṣā bhūtānām nivṛttiḥ tu mahā-phalā .. 5.56..
5.56. There is no sin in eating meat, in (drinking) spirituous liquor, and in carnal intercourse, for that is the natural way of created beings, but abstention brings great rewards.
प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५.५७॥
प्रेत-शुद्धिम् प्रवक्ष्यामि द्रव्य-शुद्धिम् तथा एव च । चतुर्णाम् अपि वर्णानाम् यथावत् अनुपूर्वशस् ॥ ५।५७॥
preta-śuddhim pravakṣyāmi dravya-śuddhim tathā eva ca . caturṇām api varṇānām yathāvat anupūrvaśas .. 5.57..
5.57. I will now in due order explain the purification for the dead and the purification of things as they are prescribed for the four castes (varna).
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथौच्यते ॥ ५.५८॥
दन्त-जाते अनुजाते च कृत-चूडे च संस्थिते । अशुद्धाः बान्धवाः सर्वे सूतके च तथा उच्यते ॥ ५।५८॥
danta-jāte anujāte ca kṛta-cūḍe ca saṃsthite . aśuddhāḥ bāndhavāḥ sarve sūtake ca tathā ucyate .. 5.58..
5.58. When (a child) dies that has teethed, or that before teething has received (the sacrament of) the tonsure (Kudakarana) or (of the initiation), all relatives (become) impure, and on the birth (of a child) the same (rule) is prescribed.
दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्सञ्चयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ ५.५९॥
दश-अहम् शावम् आशौचम् सपिण्डेषु विधीयते । अर्वाक् सञ्चयनात् अस्थ्नाम् त्रि-अहम् एक-अहम् एव वा ॥ ५।५९॥
daśa-aham śāvam āśaucam sapiṇḍeṣu vidhīyate . arvāk sañcayanāt asthnām tri-aham eka-aham eva vā .. 5.59..
5.59. It is ordained (that) among Sapindas the impurity on account of a death (shall last) ten days, (or) until the bones have been collected, (or) three days or one day only.
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ५.६०॥
सपिण्ड-ता तु पुरुषे सप्तमे विनिवर्तते । समानोदक-भावः तु जन्म-नाम्नोः अवेदने ॥ ५।६०॥
sapiṇḍa-tā tu puruṣe saptame vinivartate . samānodaka-bhāvaḥ tu janma-nāmnoḥ avedane .. 5.60..
5.60. But the Sapinda-relationship ceases with the seventh person (in the ascending and descending lines), the Samanodaka-relationship when the (common) origin and the (existence of a common family)-name are no (longer) known.
यथैदं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यात्निपुणं शुद्धिमिच्छताम् ॥ ५.६१॥
यथा एदम् शावम् आशौचम् सपिण्डेषु विधीयते । जनने अपि एवम् एव स्यात् निपुणम् शुद्धिम् इच्छताम् ॥ ५।६१॥
yathā edam śāvam āśaucam sapiṇḍeṣu vidhīyate . janane api evam eva syāt nipuṇam śuddhim icchatām .. 5.61..
5.61. As this impurity on account of a death is prescribed for (all) Sapindas, even so it shall be (held) on a birth by those who desire to be absolutely pure.
सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ५.६२॥
सर्वेषाम् शावम् आशौचम् माता-पित्रोः तु सूतकम् । सूतकम् मातुः एव स्यात् उपस्पृश्य पिता शुचिः ॥ ५।६२॥
sarveṣām śāvam āśaucam mātā-pitroḥ tu sūtakam . sūtakam mātuḥ eva syāt upaspṛśya pitā śuciḥ .. 5.62..
5.62. (Or while) the impurity on account of a death is common to all (Sapindas), that caused by a birth (falls) on the parents alone; (or) it shall fall on the mother alone, and the father shall become pure by bathing;
निरस्य तु पुमांशुक्रमुपस्पृस्यैव शुध्यति । बैजिकादभिसम्बन्धादनुरुन्ध्यादघं त्र्यहम् ॥ ५.६३॥
निरस्य तु पुमान् शुक्रम् उपस्पृस्य एव शुध्यति । बैजिकात् अभिसम्बन्धात् अनुरुन्ध्यात् अघम् त्रि-अहम् ॥ ५।६३॥
nirasya tu pumān śukram upaspṛsya eva śudhyati . baijikāt abhisambandhāt anurundhyāt agham tri-aham .. 5.63..
5.63. But a man, having spent his strength, is purified merely by bathing; after begetting a child (on a remarried female), he shall retain the impurity during three days.
अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ ५.६४॥
अह्ना च एकेन रात्र्या च त्रिरात्रैः एव च त्रिभिः । शव-स्पृशः विशुध्यन्ति त्रि-अहात् उदक-दायिनः ॥ ५।६४॥
ahnā ca ekena rātryā ca trirātraiḥ eva ca tribhiḥ . śava-spṛśaḥ viśudhyanti tri-ahāt udaka-dāyinaḥ .. 5.64..
5.64. Those who have touched a corpse are purified after one day and night (added to) three periods of three days; those who give libations of water, after three days.
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ५.६५॥
गुरोः प्रेतस्य शिष्यः तु पितृमेधम् समाचरन् । प्रेत-आहारैः समम् तत्र दश-रात्रेण शुध्यति ॥ ५।६५॥
guroḥ pretasya śiṣyaḥ tu pitṛmedham samācaran . preta-āhāraiḥ samam tatra daśa-rātreṇa śudhyati .. 5.65..
5.65. A pupil who performs the Pitrimedha for his deceased teacher, becomes also pure after ten days, just like those who carry the corpse out (to the burial-ground).
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६६॥
रात्रिभिः मास-तुल्याभिः गर्भस्रावे विशुध्यति । रजसि उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५।६६॥
rātribhiḥ māsa-tulyābhiḥ garbhasrāve viśudhyati . rajasi uparate sādhvī snānena strī rajasvalā .. 5.66..
5.66. (A woman) is purified on a miscarriage in as many (days and) nights as months (elapsed after conception), and a menstruating female becomes pure by bathing after the menstrual secretion has ceased (to flow).
नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता । निर्वृत्तमुण्डकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ ५.६७॥
नृणाम् अकृत-चूडानाम् विशुद्धिः नैशिकी स्मृता । निर्वृत्त-मुण्डकानाम् तु त्रि-रात्रात् शुद्धिः इष्यते ॥ ५।६७॥
nṛṇām akṛta-cūḍānām viśuddhiḥ naiśikī smṛtā . nirvṛtta-muṇḍakānām tu tri-rātrāt śuddhiḥ iṣyate .. 5.67..
5.67. (On the death) of children whose tonsure (Kudakarman) has not been performed, the (Sapindas) are declared to become pure in one (day and) night; (on the death) of those who have received the tonsure (but not the initiation, the law) ordains (that) the purification (takes place) after three days.
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनादृते ॥ ५.६८॥
ऊन-द्वि-वार्षिकम् प्रेतम् निदध्युः बान्धवाः बहिस् । अलङ्कृत्य शुचौ भूमौ अस्थिसञ्चयनात् ऋते ॥ ५।६८॥
ūna-dvi-vārṣikam pretam nidadhyuḥ bāndhavāḥ bahis . alaṅkṛtya śucau bhūmau asthisañcayanāt ṛte .. 5.68..
5.68. A child that has died before the completion of its second year, the relatives shall carry out (of the village), decked (with flowers, and bury it) in pure ground, without collecting the bones (afterwards).
नास्य कार्योऽग्निसंस्कारो न च कार्यौदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षपेत त्र्यहमेव च ॥ ५.६९॥
न अस्य कार्यः अग्निसंस्कारः न च कार्या औदक-क्रिया । अरण्ये काष्ठ-वत् त्यक्त्वा क्षपेत त्रि-अहम् एव च ॥ ५।६९॥
na asya kāryaḥ agnisaṃskāraḥ na ca kāryā audaka-kriyā . araṇye kāṣṭha-vat tyaktvā kṣapeta tri-aham eva ca .. 5.69..
5.69. Such (a child) shall not be burnt with fire, and no libations of water shall be offered to it; leaving it like a (log of) wood in the forest, (the relatives) shall remain impure during three days only.
नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥ ५.७०॥
न अ त्रिवर्षस्य कर्तव्या बान्धवैः उदकक्रिया । जात-दन्तस्य वा कुर्युः नाम्नि वा अपि कृते सति ॥ ५।७०॥
na a trivarṣasya kartavyā bāndhavaiḥ udakakriyā . jāta-dantasya vā kuryuḥ nāmni vā api kṛte sati .. 5.70..
5.70. The relatives shall not offer libations to (a child) that has not reached the third year; but if it had teeth, or the ceremony of naming it (Namakarman) had been performed, (the offering of water is) optional.
सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकौदकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ ५.७१॥
सब्रह्मचारिणी एक-अहम् अतीते क्षपणम् स्मृतम् । जन्मनि एक-औदकानाम् तु त्रि-रात्रात् शुद्धिः इष्यते ॥ ५।७१॥
sabrahmacāriṇī eka-aham atīte kṣapaṇam smṛtam . janmani eka-audakānām tu tri-rātrāt śuddhiḥ iṣyate .. 5.71..
5.71. If a fellow-student has died, the Smriti prescribes an impurity of one day; on a birth the purification of the Samanodakas is declared (to take place) after three (days and) nights.
स्त्रीणामसंस्कृतानां तु त्र्यहात्शुध्यन्ति बान्धवाः । यथौक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ ५.७२॥
स्त्रीणाम् असंस्कृतानाम् तु त्रि-अहात् शुध्यन्ति बान्धवाः । यथा उक्तेन एव कल्पेन शुध्यन्ति तु सनाभयः ॥ ५।७२॥
strīṇām asaṃskṛtānām tu tri-ahāt śudhyanti bāndhavāḥ . yathā uktena eva kalpena śudhyanti tu sanābhayaḥ .. 5.72..
5.72. (On the death) of females (betrothed but) not married (the bridegroom and his) relatives are purified after three days, and the paternal relatives become pure according to the same rule.
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ ॥ ५.७३॥
अ क्षार-लवण-अन्नाः स्युः निमज्जेयुः च ते त्रि-अहम् । मांस-अशनम् च न अश्नीयुः शयीरन् च पृथक् क्षितौ ॥ ५।७३॥
a kṣāra-lavaṇa-annāḥ syuḥ nimajjeyuḥ ca te tri-aham . māṃsa-aśanam ca na aśnīyuḥ śayīran ca pṛthak kṣitau .. 5.73..
5.73. Let (mourners) eat food without factitious salt, bathe during three days, abstain from meat, and sleep separate on the ground.
संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः । असंनिधावयं ज्ञेयो विधिः सम्बन्धिबान्धवैः ॥ ५.७४॥
संनिधौ एष वै कल्पः शाव-आशौचस्य कीर्तितः । असंनिधौ अयम् ज्ञेयः विधिः सम्बन्धि-बान्धवैः ॥ ५।७४॥
saṃnidhau eṣa vai kalpaḥ śāva-āśaucasya kīrtitaḥ . asaṃnidhau ayam jñeyaḥ vidhiḥ sambandhi-bāndhavaiḥ .. 5.74..
5.74. The above rule regarding impurity on account of a death has been prescribed (for cases where the kinsmen live) near (the deceased); (Sapinda) kinsmen and (Samanodaka) relatives must know the following rule (to refer to cases where deceased lived) at a distance (from them).
विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यत्शेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ५.७५॥
विगतम् तु विदेश-स्थम् शृणुयात् यः हि अनिर्दशम् । यत् शेषम् दश-रात्रस्य तावत् एव अशुचिः भवेत् ॥ ५।७५॥
vigatam tu videśa-stham śṛṇuyāt yaḥ hi anirdaśam . yat śeṣam daśa-rātrasya tāvat eva aśuciḥ bhavet .. 5.75..
5.75. He who may hear that (a relative) residing in a distant country has died, before ten (days after his death have elapsed), shall be impure for the remainder of the period of ten (days and) nights only.
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ ५.७६॥
अतिक्रान्ते दश-अहे च त्रि-रात्रम् अशुचिः भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वा एव अपः विशुध्यति ॥ ५।७६॥
atikrānte daśa-ahe ca tri-rātram aśuciḥ bhavet . saṃvatsare vyatīte tu spṛṣṭvā eva apaḥ viśudhyati .. 5.76..
5.76. If the ten days have passed, he shall be impure during three (days and) nights; but if a year has elapsed (since the occurrence of the death), he becomes pure merely by bathing.
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ ५.७७॥
निर्दशम् ज्ञाति-मरणम् श्रुत्वा पुत्रस्य जन्म च । स वासाः जलम् आप्लुत्य शुद्धः भवति मानवः ॥ ५।७७॥
nirdaśam jñāti-maraṇam śrutvā putrasya janma ca . sa vāsāḥ jalam āplutya śuddhaḥ bhavati mānavaḥ .. 5.77..
5.77. A man who hears of a (Sapinda) relative’s death, or of the birth of a son after the ten days (of impurity have passed), becomes pure by bathing, dressed in his garments.
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥ ५.७८॥
बाले देश-अन्तर-स्थे च पृथक् पिण्डे च संस्थिते । स वासाः जलम् आप्लुत्य सद्यस् एव विशुध्यति ॥ ५।७८॥
bāle deśa-antara-sthe ca pṛthak piṇḍe ca saṃsthite . sa vāsāḥ jalam āplutya sadyas eva viśudhyati .. 5.78..
5.78. If an infant (that has not teethed), or a (grownup relative who is) not a Sapinda, die in a distant country, one becomes at once pure after bathing in one’s clothes.
अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । चेत्स्यातांतावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ ५.७९॥
अन्तर् दश-अहे स्याताम् चेद् पुनर् मरण-जन्मनी । चेद् स्याताम् तावत् स्यात् अशुचिः विप्रः यावत् तत् स्यात् अनिर्दशम् ॥ ५।७९॥
antar daśa-ahe syātām ced punar maraṇa-janmanī . ced syātām tāvat syāt aśuciḥ vipraḥ yāvat tat syāt anirdaśam .. 5.79..
5.79. If within the ten days (of impurity) another birth or death happens, a Brahmana shall remain impure only until the (first) period of ten days has expired.
त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति । तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥ ५.८०॥
त्रि-रात्रम् आहुः आशौचम् आचार्ये संस्थिते सति । तस्य पुत्रे च पत्न्याम् च दिवारात्रम् इति स्थितिः ॥ ५।८०॥
tri-rātram āhuḥ āśaucam ācārye saṃsthite sati . tasya putre ca patnyām ca divārātram iti sthitiḥ .. 5.80..
5.80. They declare that, when the teacher (akarya) has died, the impurity (lasts) three days; if the (teacher’s) son or wife (is dead, it lasts) a day and a night; that is a settled (rule).
श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ ५.८१॥
श्रोत्रिये तु उपसम्पन्ने त्रि-रात्रम् अशुचिः भवेत् । मातुले पक्षिणीम् रात्रिम् शिष्य-ऋत्विज्-बान्धवेषु च ॥ ५।८१॥
śrotriye tu upasampanne tri-rātram aśuciḥ bhavet . mātule pakṣiṇīm rātrim śiṣya-ṛtvij-bāndhaveṣu ca .. 5.81..
5.81. For a Srotriya who resides with (him out of affection), a man shall be impure for three days; for a maternal uncle, a pupil, an officiating priest, or a maternal relative, for one night together with the preceding and following days.
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः । अश्रोत्रिये त्वहः कृत्स्नां मनूचाने तथा गुरौ ॥ ५.८२॥
प्रेते राजनि सज्योतिः यस्य स्यात् विषये स्थितः । अश्रोत्रिये तु अहर् कृत्स्नाम् मनूचाने तथा गुरौ ॥ ५।८२॥
prete rājani sajyotiḥ yasya syāt viṣaye sthitaḥ . aśrotriye tu ahar kṛtsnām manūcāne tathā gurau .. 5.82..
5.82. If the king in whose realm he resides is dead, (he shall be impure) as long as the light (of the sun or stars shines), but for (an intimate friend) who is not a Srotriya (the impurity lasts) for a whole day, likewise for a Guru who knows the Veda and the Angas.
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ५.८३॥
शुद्ध्ये इद् विप्रः दश-अहेन द्वादश-अहेन भूमिपः । वैश्यः पञ्चदश-अहेन शूद्रः मासेन शुध्यति ॥ ५।८३॥
śuddhye id vipraḥ daśa-ahena dvādaśa-ahena bhūmipaḥ . vaiśyaḥ pañcadaśa-ahena śūdraḥ māsena śudhyati .. 5.83..
5.83. A Brahmana shall be pure after ten days, a Kshatriya after twelve, a Vaisya after fifteen, and a Sudra is purified after a month.
न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः । न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ५.८४॥
न वर्धयेत् अघ-अहानि प्रत्यूहेत् न अग्निषु क्रियाः । न च तत् कर्म कुर्वाणः सनाभ्यः अपि अशुचिः भवेत् ॥ ५।८४॥
na vardhayet agha-ahāni pratyūhet na agniṣu kriyāḥ . na ca tat karma kurvāṇaḥ sanābhyaḥ api aśuciḥ bhavet .. 5.84..
5.84. Let him not (unnecessarily) lengthen the period of impurity, nor interrupt the rites to be performed with the sacred fires; for he who performs that (Agnihotra) rite will not be impure, though (he be) a (Sapinda) relative.
दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८५॥
दिवाकीर्तिम् उदक्याम् च पतितम् सूतिकाम् तथा । शवम् तद्-स्पृष्टिनम् च एव स्पृष्ट्वा स्नानेन शुध्यति ॥ ५।८५॥
divākīrtim udakyām ca patitam sūtikām tathā . śavam tad-spṛṣṭinam ca eva spṛṣṭvā snānena śudhyati .. 5.85..
5.85. When he has touched a Kandala, a menstruating woman, an outcast, a woman in childbed, a corpse, or one who has touched a (corpse), he becomes pure by bathing.
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान् मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥ ५.८६॥
आचम्य प्रयतः नित्यम् जपेत् अशुचि-दर्शने । सौरान् मन्त्रान् यथोत्साहम् पावमानीः च शक्तितस् ॥ ५।८६॥
ācamya prayataḥ nityam japet aśuci-darśane . saurān mantrān yathotsāham pāvamānīḥ ca śaktitas .. 5.86..
5.86. He who has purified himself by sipping water shall, on seeing any impure (thing or person), always mutter the sacred texts, addressed to Surya, and the Pavamani (verses).
नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ ५.८७॥
नारम् स्पृष्ट्वा अस्थि स स्नेहम् स्नात्वा विप्रः विशुध्यति । आचम्य एव तु निःस्नेहम् गाम् आलभ्य अर्कम् ईक्ष्य वा ॥ ५।८७॥
nāram spṛṣṭvā asthi sa sneham snātvā vipraḥ viśudhyati . ācamya eva tu niḥsneham gām ālabhya arkam īkṣya vā .. 5.87..
5.87. A Brahmana who has touched a human bone to which fat adheres, becomes pure by bathing; if it be free from fat, by sipping water and by touching (afterwards) a cow or looking at the sun.
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ५.८८॥
आदिष्टी न उदकम् कुर्यात् आ व्रतस्य समापनात् । समाप्ते तु उदकम् कृत्वा त्रि-रात्रेण एव शुध्यति ॥ ५।८८॥
ādiṣṭī na udakam kuryāt ā vratasya samāpanāt . samāpte tu udakam kṛtvā tri-rātreṇa eva śudhyati .. 5.88..
5.88. He who has undertaken the performance of a vow shall not pour out libations (to the dead) until the vow has been completed; but when he has offered water after its completion, he becomes pure in three days only.
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ॥आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ५.८९॥
वृथा सङ्कर-जातानाम् प्रव्रज्यासु च तिष्ठताम् ॥आत्मनः त्यागिनाम् च एव निवर्तेत उदकक्रिया ॥ ५।८९॥
vṛthā saṅkara-jātānām pravrajyāsu ca tiṣṭhatām ..ātmanaḥ tyāginām ca eva nivarteta udakakriyā .. 5.89..
5.89. Libations of water shall not be offered to those who (neglect the prescribed rites and may be said to) have been born in vain, to those born in consequence of an illegal mixture of the castes, to those who are ascetics (of heretical sects), and to those who have committed suicide,
पाषण्डमाश्रितानां च चरन्तीनां च कामतः । गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ ५.९०॥
पाषण्डम् आश्रितानाम् च चरन्तीनाम् च कामतः । गर्भ-भर्तृ-द्रुहाम् च एव सुरापीनाम् च योषिताम् ॥ ५।९०॥
pāṣaṇḍam āśritānām ca carantīnām ca kāmataḥ . garbha-bhartṛ-druhām ca eva surāpīnām ca yoṣitām .. 5.90..
5.90. To women who have joined a heretical sect, who through lust live (with many men), who have caused an abortion, have killed their husbands, or drink spirituous liquor
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ५.९१॥
आचार्यम् स्वम् उपाध्यायम् पितरम् मातरम् गुरुम् । निर्हृत्य तु व्रती प्रेतात् न व्रतेन वियुज्यते ॥ ५।९१॥
ācāryam svam upādhyāyam pitaram mātaram gurum . nirhṛtya tu vratī pretāt na vratena viyujyate .. 5.91..
5.91. A student does not break his vow by carrying out (to the place of cremation) his own dead teacher (akarya), sub-teacher (upadhyaya), father, mother, or Guru.
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमौत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ ५.९२॥
दक्षिणेन मृतम् शूद्रम् पुर-द्वारेण निर्हरेत् । पश्चिम-औत्तर-पूर्वैः तु यथायोगम् द्विजन्मनः ॥ ५।९२॥
dakṣiṇena mṛtam śūdram pura-dvāreṇa nirharet . paścima-auttara-pūrvaiḥ tu yathāyogam dvijanmanaḥ .. 5.92..
5.92. Let him carry out a dead Sudra by the southern gate of the town, but (the corpses of) twice-born men, as is proper, by the western, northern, or eastern (gates).
न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् । ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ ५.९३॥
न राज्ञाम् अघ-दोषः अस्ति व्रतिनाम् न च सत्त्रिणाम् । ऐन्द्रम् स्थानम् उपासीनाः ब्रह्म-भूताः हि ते सदा ॥ ५।९३॥
na rājñām agha-doṣaḥ asti vratinām na ca sattriṇām . aindram sthānam upāsīnāḥ brahma-bhūtāḥ hi te sadā .. 5.93..
5.93. The taint of impurity does not fall on kings, and those engaged in the performance of a vow, or of a Sattra; for the (first are) seated on the throne of Indra, and the (last two are) ever pure like Brahman.
राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ५.९४॥
राज्ञः महात्मिके स्थाने सद्यःशौचम् विधीयते । प्रजानाम् परिरक्षा-अर्थम् आसनम् च अत्र कारणम् ॥ ५।९४॥
rājñaḥ mahātmike sthāne sadyaḥśaucam vidhīyate . prajānām parirakṣā-artham āsanam ca atra kāraṇam .. 5.94..
5.94. For a king, on the throne of magnanimity, immediate purification is prescribed, and the reason for that is that he is seated (there) for the protection of (his) subjects.
डिम्बाहवहतानां च विद्युता पार्थिवेन च । गोब्राह्मणस्य चेवार्थे यस्य चैच्छति पार्थिवः ॥ ५.९५॥
डिम्ब-आहव-हतानाम् च विद्युता पार्थिवेन च । गो-ब्राह्मणस्य च इव अर्थे यस्य च एच्छति पार्थिवः ॥ ५।९५॥
ḍimba-āhava-hatānām ca vidyutā pārthivena ca . go-brāhmaṇasya ca iva arthe yasya ca ecchati pārthivaḥ .. 5.95..
5.95. (The same rule applies to the kinsmen) of those who have fallen in a riot or a battle, (of those who have been killed) by lightning or by the king, and (of those who perished fighting) for cows and Brahmanas, and to those whom the king wishes (to be pure).
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ ५.९६॥
सोम-अग्नि-अर्क-अनिल-इन्द्राणाम् वित्त-अप्पत्योः यमस्य च । अष्टानाम् लोकपालानाम् वपुः धारयते नृपः ॥ ५।९६॥
soma-agni-arka-anila-indrāṇām vitta-appatyoḥ yamasya ca . aṣṭānām lokapālānām vapuḥ dhārayate nṛpaḥ .. 5.96..
5.96. A king is an incarnation of the eight guardian deities of the world, the Moon, the Fire, the Sun, the Wind, Indra, the Lords of wealth and water (Kubera and Varuna), and Yama.
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥ ५.९७॥
लोकेश-अधिष्ठितः राजा न अस्य आशौचम् विधीयते । शौच-आशौचम् हि मर्त्यानाम् लोकेभ्यः प्रभव-अप्ययौ ॥ ५।९७॥
lokeśa-adhiṣṭhitaḥ rājā na asya āśaucam vidhīyate . śauca-āśaucam hi martyānām lokebhyaḥ prabhava-apyayau .. 5.97..
5.97. Because the king is pervaded by those lords of the world, no impurity is ordained for him; for purity and impurity of mortals is caused and removed by (those) lords of the world.
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस्तथाऽशौचमिति स्थितिः ॥ ५.९८॥
उद्यतैः आहवे शस्त्रैः क्षत्र-धर्म-हतस्य च । सद्यस् संतिष्ठते यज्ञः तथा अशौचम् इति स्थितिः ॥ ५।९८॥
udyataiḥ āhave śastraiḥ kṣatra-dharma-hatasya ca . sadyas saṃtiṣṭhate yajñaḥ tathā aśaucam iti sthitiḥ .. 5.98..
5.98. By him who is slain in battle with brandished weapons according to the law of the Kshatriyas, a (Srauta) sacrifice is instantly completed, and so is the period of impurity (caused by his death); that is a settled rule.
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ ५.९९॥
विप्रः शुध्यति अपः स्पृष्ट्वा क्षत्रियः वाहन-आयुधम् । वैश्यः प्रतोदम् रश्मीन् वा यष्टिम् शूद्रः कृत-क्रियः ॥ ५।९९॥
vipraḥ śudhyati apaḥ spṛṣṭvā kṣatriyaḥ vāhana-āyudham . vaiśyaḥ pratodam raśmīn vā yaṣṭim śūdraḥ kṛta-kriyaḥ .. 5.99..
5.99. (At the end of the period of impurity) a Brahmana who has performed the necessary rites, becomes pure by touching water, a Kshatriya by touching the animal on which he rides, and his weapons, a Vaisya by touching his goad or the nose-string (of his oxen), a Sudra by touching his staff.
एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ५.१००॥
एतत् वः अभिहितम् शौचम् सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेत-शुद्धिम् निबोधत ॥ ५।१००॥
etat vaḥ abhihitam śaucam sapiṇḍeṣu dvijottamāḥ . asapiṇḍeṣu sarveṣu preta-śuddhim nibodhata .. 5.100..
5.100. Thus the purification (required) on (the death of) Sapindas has been explained to you, O best of twice- born men; hear now the manner in which men are purified on the death of any (relative who is) not a Sapinda.
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ ५.१०१॥
असपिण्डम् द्विजम् प्रेतम् विप्रः निर्हृत्य बन्धु-वत् । विशुध्यति त्रि-रात्रेण मातुः आप्तान् च बान्धवान् ॥ ५।१०१॥
asapiṇḍam dvijam pretam vipraḥ nirhṛtya bandhu-vat . viśudhyati tri-rātreṇa mātuḥ āptān ca bāndhavān .. 5.101..
5.101. A Brahmana, having carried out a dead Brahmana who is not a Sapinda, as (if he were) a (near) relative, or a near relative of his mother, becomes pure after three days;
यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥ ५.१०२॥
यदि अन्नम् अत्ति तेषाम् तु दश-अहेन एव शुध्यति । अनदान् अन्नम् अह्ना एव न चेद् तस्मिन् गृहे वसेत् ॥ ५।१०२॥
yadi annam atti teṣām tu daśa-ahena eva śudhyati . anadān annam ahnā eva na ced tasmin gṛhe vaset .. 5.102..
5.102. But if he eats the food of the (Sapindas of the deceased), he is purified in ten days, (but) in one day, if he does not eat their food nor dwells in their house.
अनुगम्येच्छया प्रेतं ज्ञातिम अज्ञातिमेव वा। स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुद्ध्यति ॥ ५.१०३॥
अनुगम्य इच्छया प्रेतम् ज्ञातिम् अज्ञातिम् एव वा। स्नात्वा स चैलम् स्पृष्ट्वा अग्निम् घृतम् प्राश्य विशुद्धि-अति ॥ ५।१०३॥
anugamya icchayā pretam jñātim ajñātim eva vā. snātvā sa cailam spṛṣṭvā agnim ghṛtam prāśya viśuddhi-ati .. 5.103..
5.103. Having voluntarily followed a corpse, whether (that of) a paternal kinsman or (of) a stranger, he becomes pure by bathing, dressed in his clothes, by touching fire and eating clarified butter.
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । अस्वर्ग्या ह्याहुतिः सा स्यात्शूद्रसंस्पर्शदूषिता ॥ ५.१०४॥
न विप्रम् स्वेषु तिष्ठत्सु मृतम् शूद्रेण नाययेत् । अस्वर्ग्या हि आहुतिः सा स्यात् शूद्र-संस्पर्श-दूषिता ॥ ५।१०४॥
na vipram sveṣu tiṣṭhatsu mṛtam śūdreṇa nāyayet . asvargyā hi āhutiḥ sā syāt śūdra-saṃsparśa-dūṣitā .. 5.104..
5.104. Let him not allow a dead Brahmana to be carried out by a Sudra, while men of the same caste are at hand; for that burnt-offering which is defiled by a Sudra’s touch is detrimental to (the deceased’s passage to) heaven.
ज्ञानं तपोऽग्निराहारो मृत्मनो वार्युपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५॥
ज्ञानम् तपः अग्निः आहारः मृद्-मनः वारि उपाञ्जनम् । वायुः कर्म अर्क-कालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५।१०५॥
jñānam tapaḥ agniḥ āhāraḥ mṛd-manaḥ vāri upāñjanam . vāyuḥ karma arka-kālau ca śuddheḥ kartṝṇi dehinām .. 5.105..
5.105. The knowledge (of Brahman) austerities, fire, (holy) food, earth, (restraint of) the internal organ, water, smearing (with cowdung), the wind, sacred rites, the sun, and time are the purifiers of corporeal (beings).
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ ५.१०६॥
सर्वेषाम् एव शौचानाम् अर्थ-शौचम् परम् स्मृतम् । यः अर्थे शुचिः हि स शुचिः न मृद्-वारि-शुचिः शुचिः ॥ ५।१०६॥
sarveṣām eva śaucānām artha-śaucam param smṛtam . yaḥ arthe śuciḥ hi sa śuciḥ na mṛd-vāri-śuciḥ śuciḥ .. 5.106..
5.106. Among all modes of purification, purity in (the acquisition of) wealth is declared to be the best; for he is pure who gains wealth with clean hands, not he who purifies himself with earth and water.
क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०७॥
क्षान्त्या शुद्ध्यन्ति विद्वांसः दानेन अकार्य-कारिणः । प्रच्छन्न-पापाः जप्येन तपसा वेद-वित्तमाः ॥ ५।१०७॥
kṣāntyā śuddhyanti vidvāṃsaḥ dānena akārya-kāriṇaḥ . pracchanna-pāpāḥ japyena tapasā veda-vittamāḥ .. 5.107..
5.107. The learned are purified by a forgiving disposition, those who have committed forbidden actions by liberality, secret sinners by muttering (sacred texts), and those who best know the Veda by austerities.
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ५.१०८॥
मृद्-तोयैः शुध्यते शोध्यम् नदी वेगेन शुध्यति । रजसा स्त्री मनः-दुष्टा संन्यासेन द्विजोत्तमाः ॥ ५।१०८॥
mṛd-toyaiḥ śudhyate śodhyam nadī vegena śudhyati . rajasā strī manaḥ-duṣṭā saṃnyāsena dvijottamāḥ .. 5.108..
5.108. By earth and water is purified what ought to be made pure, a river by its current, a woman whose thoughts have been impure by the menstrual secretion, a Brahmana by abandoning the world (samnyasa).
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ ५.१०९॥
अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्या-तपोभ्याम् भूत-आत्मा बुद्धिः ज्ञानेन शुद्धि-अति ॥ ५।१०९॥
adbhiḥ gātrāṇi śudhyanti manaḥ satyena śudhyati . vidyā-tapobhyām bhūta-ātmā buddhiḥ jñānena śuddhi-ati .. 5.109..
5.109. The body is cleansed by water, the internal organ is purified by truthfulness, the individual soul by sacred learning and austerities, the intellect by (true) knowledge.
एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ ५.११०॥
एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । नानाविधानाम् द्रव्याणाम् शुद्धेः शृणुत निर्णयम् ॥ ५।११०॥
eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ . nānāvidhānām dravyāṇām śuddheḥ śṛṇuta nirṇayam .. 5.110..
5.110. Thus the precise rules for the purification of the body have been declared to you; hear now the decision (of the law) regarding the purification of the various (inanimate) things.
तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ ५.१११॥
तैजसानाम् मणीनाम् च सर्वस्य अश्म-मयस्य च । भस्मना अद्भिः मृदा च एव शुद्धिः उक्ता मनीषिभिः ॥ ५।१११॥
taijasānām maṇīnām ca sarvasya aśma-mayasya ca . bhasmanā adbhiḥ mṛdā ca eva śuddhiḥ uktā manīṣibhiḥ .. 5.111..
5.111. The wise ordain that all (objects) made of metal, gems, and anything made of stone are to be cleansed with ashes, earth, and water.
निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति । अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.११२॥
निर्लेपम् काञ्चनम् भाण्डम् अद्भिः एव विशुद्धि-अति । अब्जम् अश्म-मयम् च एव राजतम् च अनुपस्कृतम् ॥ ५।११२॥
nirlepam kāñcanam bhāṇḍam adbhiḥ eva viśuddhi-ati . abjam aśma-mayam ca eva rājatam ca anupaskṛtam .. 5.112..
5.112. A golden vessel which shows no stains, becomes pure with water alone, likewise what is produced in water (as shells and coral), what is made of stone, and a silver (vessel) not enchased.
अपामग्नेश्च संयोगाधैमं रौप्यं च निर्बभौ । तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११३॥
अपाम् अग्नेः च संयोगात् हैमम् रौप्यम् च निर्बभौ । तस्मात् तयोः स्व-योन्या एव निर्णेकः गुणवत्तरः ॥ ५।११३॥
apām agneḥ ca saṃyogāt haimam raupyam ca nirbabhau . tasmāt tayoḥ sva-yonyā eva nirṇekaḥ guṇavattaraḥ .. 5.113..
5.113. From the union of water and fire arose the glittering gold and silver; those two, therefore, are best purified by (the elements) from which they sprang.
ताम्रायस्कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११४॥
ताम्र-आयस्कांस्य-रैत्यानाम् त्रपुणः सीसकस्य च । शौचम् यथार्हम् कर्तव्यम् क्षार-अम्ल-उदक-वारिभिः ॥ ५।११४॥
tāmra-āyaskāṃsya-raityānām trapuṇaḥ sīsakasya ca . śaucam yathārham kartavyam kṣāra-amla-udaka-vāribhiḥ .. 5.114..
5.114. Copper, iron, brass, pewter, tin, and lead must be cleansed, as may be suitable (for each particular case), by alkaline (substances), acids or water.
द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११५॥
द्रवाणाम् च एव सर्वेषाम् शुद्धिः उत्पवनम् स्मृतम् । प्रोक्षणम् संहतानाम् च दारवाणाम् च तक्षणम् ॥ ५।११५॥
dravāṇām ca eva sarveṣām śuddhiḥ utpavanam smṛtam . prokṣaṇam saṃhatānām ca dāravāṇām ca takṣaṇam .. 5.115..
5.115. The purification prescribed for all (sorts of) liquids is by passing two blades of Kusa grass through them, for solid things by sprinkling (them with water), for (objects) made of wood by planing them.
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ५.११६॥
मार्जनम् यज्ञ-पात्राणाम् पाणिना यज्ञ-कर्मणि । चमसानाम् ग्रहाणाम् च शुद्धिः प्रक्षालनेन तु ॥ ५।११६॥
mārjanam yajña-pātrāṇām pāṇinā yajña-karmaṇi . camasānām grahāṇām ca śuddhiḥ prakṣālanena tu .. 5.116..
5.116. At sacrifices the purification of (the Soma cups called) Kamasas and Grahas, and of (other) sacrificial vessels (takes place) by rubbing (them) with the hand, and (afterwards) rinsing (them with water).
चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा । स्फ्यशूर्पशकटानां च मुसलौलूखलस्य च ॥ ५.११७॥
चरूणाम् स्रुच्-स्रुवाणाम् च शुद्धिः उष्णेन वारिणा । स्फ्य-शूर्प-शकटानाम् च मुसल-औलूखलस्य च ॥ ५।११७॥
carūṇām sruc-sruvāṇām ca śuddhiḥ uṣṇena vāriṇā . sphya-śūrpa-śakaṭānām ca musala-aulūkhalasya ca .. 5.117..
5.117. The Karu and (the spoons called) Sruk and Sruva must be cleaned with hot water, likewise (the wooden sword, called) Sphya, the winnowing-basket (Surpa), the cart (for bringing the grain), the pestle and the mortar.
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ५.११८॥
अद्भिः तु प्रोक्षणम् शौचम् बहूनाम् धान्य-वाससाम् । प्रक्षालनेन तु अल्पानाम् अद्भिः शौचम् विधीयते ॥ ५।११८॥
adbhiḥ tu prokṣaṇam śaucam bahūnām dhānya-vāsasām . prakṣālanena tu alpānām adbhiḥ śaucam vidhīyate .. 5.118..
5.118. The manner of purifying large quantities of grain and of cloth is to sprinkle them with water; but the purification of small quantities is prescribed (to take place) by washing them.
चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च । शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते ॥ ५.११९॥
चैल-वत् चर्मणाम् शुद्धिः वैदलानाम् तथा एव च । शाक-मूल-फलानाम् च धान्य-वत् शुद्धिः इष्यते ॥ ५।११९॥
caila-vat carmaṇām śuddhiḥ vaidalānām tathā eva ca . śāka-mūla-phalānām ca dhānya-vat śuddhiḥ iṣyate .. 5.119..
5.119. Skins and (objects) made of split cane must be cleaned like clothes; vegetables, roots, and fruit like grain;
कौशेयाविकयोरूषैः कुतपानामरिष्टकैः । श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ५.१२०॥
कौशेय-आविकया ऊरूषैः कुतपानाम् अरिष्टकैः । श्रीफलैः अंशुपट्टानाम् क्षौमाणाम् गौरसर्षपैः ॥ ५।१२०॥
kauśeya-āvikayā ūrūṣaiḥ kutapānām ariṣṭakaiḥ . śrīphalaiḥ aṃśupaṭṭānām kṣaumāṇām gaurasarṣapaiḥ .. 5.120..
5.120. Silk and woollen stuffs with alkaline earth; blankets with pounded Arishta (fruit); Amsupattas with Bel fruit; linen cloth with (a paste of) yellow mustard.
क्षौमवत्शङ्खशृङ्गाणामस्थिदन्तमयस्य च । शुद्धिर्विजानता कार्या गोमूत्रेणौदकेन वा ॥ ५.१२१॥
क्षौम-वत् शङ्ख-शृङ्गाणाम् अस्थि-दन्त-मयस्य च । शुद्धिः विजानता कार्या गो-मूत्रेण औदकेन वा ॥ ५।१२१॥
kṣauma-vat śaṅkha-śṛṅgāṇām asthi-danta-mayasya ca . śuddhiḥ vijānatā kāryā go-mūtreṇa audakena vā .. 5.121..
5.121. A man who knows (the law) must purify conch-shells, horn, bone and ivory, like linen cloth, or with a mixture of cow’s urine and water.
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति । मार्जनौपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् ॥ ५.१२२॥
प्रोक्षणात् तृण-काष्ठम् च पलालम् च एव शुध्यति । मार्जन-औपाञ्जनैः वेश्म पुनःपाकेन मृण्मयम् ॥ ५।१२२॥
prokṣaṇāt tṛṇa-kāṣṭham ca palālam ca eva śudhyati . mārjana-aupāñjanaiḥ veśma punaḥpākena mṛṇmayam .. 5.122..
5.122. Grass, wood, and straw become pure by being sprinkled (with water), a house by sweeping and smearing (it with cowdung or whitewash), an earthen (vessel) by a second burning.
मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृत्मयम् ॥ ५.१२३॥
मद्यैः मूत्रैः पुरीषैः वा ष्ठीवनैः पूय-शोणितैः । संस्पृष्टम् न एव पुनःपाकेन मृद्-मयम् ॥ ५।१२३॥
madyaiḥ mūtraiḥ purīṣaiḥ vā ṣṭhīvanaiḥ pūya-śoṇitaiḥ . saṃspṛṣṭam na eva punaḥpākena mṛd-mayam .. 5.123..
5.123. An earthen vessel which has been defiled by spirituous liquor, urine, ordure, saliva, pus or blood cannot be purified by another burning.
संमार्जनौपाञ्जनेन सेकेनौल्लेखनेन च । गवां च परिवासेन भूमिः शुद्ध्यति पञ्चभिः ॥ ५.१२४॥
संमार्जन-औपाञ्जनेन सेकेन औल्लेखनेन च । गवाम् च परिवासेन भूमिः शुद्धि-अति पञ्चभिः ॥ ५।१२४॥
saṃmārjana-aupāñjanena sekena aullekhanena ca . gavām ca parivāsena bhūmiḥ śuddhi-ati pañcabhiḥ .. 5.124..
5.124. Land is purified by (the following) five (modes, viz.) by sweeping, by smearing (it with cowdung), by sprinkling (it with cows’ urine or milk), by scraping, and by cows staying (on it during a day and night).
पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् । दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ ५.१२५॥
पक्षि-जग्धम् गवा घ्रातम् अवधूतम् अवक्षुतम् । दूषितम् केश-कीटैः च मृद्-प्रक्षेपेण शुध्यति ॥ ५।१२५॥
pakṣi-jagdham gavā ghrātam avadhūtam avakṣutam . dūṣitam keśa-kīṭaiḥ ca mṛd-prakṣepeṇa śudhyati .. 5.125..
5.125. (Food) which has been pecked at by birds, smelt at by cows, touched (with the foot), sneezed on, or defiled by hair or insects, becomes pure by scattering earth (over it).
यावन्नापेत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः । तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ५.१२६॥
यावत् न अपेति अमेध्य-अक्तात् गन्धः लेपः च तद्-कृतः । तावत् मृद्-वारि च आदेयम् सर्वासु द्रव्य-शुद्धिषु ॥ ५।१२६॥
yāvat na apeti amedhya-aktāt gandhaḥ lepaḥ ca tad-kṛtaḥ . tāvat mṛd-vāri ca ādeyam sarvāsu dravya-śuddhiṣu .. 5.126..
5.126. As long as the (foul) smell does not leave an (object) defiled by impure substances, and the stain caused by them (does not disappear), so long must earth and water be applied in cleansing (inanimate) things.
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ५.१२७॥
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । अदृष्टम् अद्भिः निर्णिक्तम् यत् च वाचा प्रशस्यते ॥ ५।१२७॥
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan . adṛṣṭam adbhiḥ nirṇiktam yat ca vācā praśasyate .. 5.127..
5.127. The gods declared three things (to be) pure to Brahmanas, that (on which) no (taint is) visible, what has been washed with water, and what has been commended (as pure) by the word (of a Brahmana).
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ ५.१२८॥
आपः शुद्धाः भूमि-गताः वैतृष्ण्यम् यासु गोः भवेत् । अ व्याप्ताः चेद् अमेध्येन गन्ध-वर्ण-रस-अन्विताः ॥ ५।१२८॥
āpaḥ śuddhāḥ bhūmi-gatāḥ vaitṛṣṇyam yāsu goḥ bhavet . a vyāptāḥ ced amedhyena gandha-varṇa-rasa-anvitāḥ .. 5.128..
5.128. Water, sufficient (in quantity) in order to slake the thirst of a cow, possessing the (proper) smell, colour, and taste, and unmixed with impure substances, is pure, if it is collected on (pure) ground.
नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ ५.१२९॥
नित्यम् शुद्धः कारु-हस्तः पण्यम् यत् च प्रसारितम् । ब्रह्मचारि-गतम् भैक्ष्यम् नित्यम् मेध्यम् इति स्थितिः ॥ ५।१२९॥
nityam śuddhaḥ kāru-hastaḥ paṇyam yat ca prasāritam . brahmacāri-gatam bhaikṣyam nityam medhyam iti sthitiḥ .. 5.129..
5.129. The hand of an artisan is always pure, so is (every vendible commodity) exposed for sale in the market, and food obtained by begging which a student holds (in his hand) is always fit for use; that is a settled rule.
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ ५.१३०॥
नित्यम् आस्यम् शुचि स्त्रीणाम् शकुनिः फल-पातने । प्रस्रवे च शुचिः वत्सः श्वा मृग-ग्रहणे शुचिः ॥ ५।१३०॥
nityam āsyam śuci strīṇām śakuniḥ phala-pātane . prasrave ca śuciḥ vatsaḥ śvā mṛga-grahaṇe śuciḥ .. 5.130..
5.130. The mouth of a woman is always pure, likewise a bird when he causes a fruit to fall; a calf is pure on the flowing of the milk, and a dog when he catches a deer.
श्वभिर्हतस्य यन् मांसं शुचि तन् मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ ५.१३१॥
श्वभिः हतस्य यत् मांसम् शुचि तत् मनुः अब्रवीत् । क्रव्याद्भिः च हतस्य अन्यैः चण्डाल-आद्यैः च दस्युभिः ॥ ५।१३१॥
śvabhiḥ hatasya yat māṃsam śuci tat manuḥ abravīt . kravyādbhiḥ ca hatasya anyaiḥ caṇḍāla-ādyaiḥ ca dasyubhiḥ .. 5.131..
5.131. Manu has declared that the flesh (of an animal) killed by dogs is pure, likewise (that) of a (beast) slain by carnivorous (animals) or by men of low caste (Dasyu), such as Kandalas.
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ ५.१३२॥
ऊर्ध्वम् नाभेः यानि खानि तानि मेध्यानि सर्वशस् । यानि अधस् तानि अमेध्यानि देहात् च एव मलाः च्युताः ॥ ५।१३२॥
ūrdhvam nābheḥ yāni khāni tāni medhyāni sarvaśas . yāni adhas tāni amedhyāni dehāt ca eva malāḥ cyutāḥ .. 5.132..
5.132. All those cavities (of the body) which lie above the navel are pure, (but) those which are below the navel are impure, as well as excretions that fall from the body.
मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३३॥
मक्षिकाः विप्रुषः छायाः गौः अश्वः सूर्य-रश्मयः । रजः भूः वायुः अग्निः च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५।१३३॥
makṣikāḥ vipruṣaḥ chāyāḥ gauḥ aśvaḥ sūrya-raśmayaḥ . rajaḥ bhūḥ vāyuḥ agniḥ ca sparśe medhyāni nirdiśet .. 5.133..
5.133. Flies, drops of water, a shadow, a cow, a horse, the rays of the sun, dust, earth, the wind, and fire one must know to be pure to the touch.
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् । दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ ५.१३४॥
विष्-मूत्र-उत्सर्ग-शुद्धि-अर्थम् मृद्-वारि आदेयम् अर्थ-वत् । दैहिकानाम् मलानाम् च शुद्धिषु द्वादशसु अपि ॥ ५।१३४॥
viṣ-mūtra-utsarga-śuddhi-artham mṛd-vāri ādeyam artha-vat . daihikānām malānām ca śuddhiṣu dvādaśasu api .. 5.134..
5.134. In order to cleanse (the organs) by which urine and faeces are ejected, earth and water must be used, as they may be required, likewise in removing the (remaining ones among) twelve impurities of the body.
वसा शुक्रमसृग्मज्जा मूत्रविड्घ्राणकर्णविट् । श्लेश्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ५.१३५॥
वसा शुक्रम् असृक् मज्जा मूत्र-विश्-घ्राण-कर्ण-विष् । श्लेश्म अश्रु दूषिका स्वेदः द्वादशा एते नृणाम् मलाः ॥ ५।१३५॥
vasā śukram asṛk majjā mūtra-viś-ghrāṇa-karṇa-viṣ . śleśma aśru dūṣikā svedaḥ dvādaśā ete nṛṇām malāḥ .. 5.135..
5.135. Oily exudations, semen, blood, (the fatty substance of the) brain, urine, faeces, the mucus of the nose, ear-wax, phlegm, tears, the rheum of the eyes, and sweat are the twelve impurities of human (bodies).
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ ५.१३६॥
एका लिङ्गे गुदे तिस्रः तथा एकत्र करे दश । उभयोः सप्त दातव्याः मृदः शुद्धिम् अभीप्सता ॥ ५।१३६॥
ekā liṅge gude tisraḥ tathā ekatra kare daśa . ubhayoḥ sapta dātavyāḥ mṛdaḥ śuddhim abhīpsatā .. 5.136..
5.136. He who desires to be pure, must clean the organ by one (application of) earth, the anus by (applying earth) three (times), the (left) hand alone by (applying it) ten (times), and both (hands) by (applying it) seven (times).
एतत्शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ ५.१३७॥
एतत् शौचम् गृहस्थानाम् द्विगुणम् ब्रह्मचारिणाम् । त्रिगुणम् स्यात् वनस्थानाम् यतीनाम् तु चतुर्गुणम् ॥ ५।१३७॥
etat śaucam gṛhasthānām dviguṇam brahmacāriṇām . triguṇam syāt vanasthānām yatīnām tu caturguṇam .. 5.137..
5.137. Such is the purification ordained for householders; (it shall be) double for students, treble for hermits, but quadruple for ascetics.
कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् । वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ ५.१३८॥
कृत्वा मूत्रम् पुरीषम् वा खानि आचान्तः उपस्पृशेत् । वेदम् अध्येष्यमाणः च अन्नम् अश्नन् च सर्वदा ॥ ५।१३८॥
kṛtvā mūtram purīṣam vā khāni ācāntaḥ upaspṛśet . vedam adhyeṣyamāṇaḥ ca annam aśnan ca sarvadā .. 5.138..
5.138. When he has voided urine or faeces, let him, after sipping water, sprinkle the cavities, likewise when he is going to recite the Veda, and always before he takes food.
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत्सकृत् ॥ ५.१३९॥
त्रिस् आचामेत् अपः पूर्वम् द्विस् प्रमृज्यात् ततस् मुखम् । शरीरम् शौचम् इच्छन् हि स्त्री शूद्रः तु सकृत् सकृत् ॥ ५।१३९॥
tris ācāmet apaḥ pūrvam dvis pramṛjyāt tatas mukham . śarīram śaucam icchan hi strī śūdraḥ tu sakṛt sakṛt .. 5.139..
5.139. Let him who desires bodily purity first sip water three times, and then twice wipe his mouth; but a woman and a Sudra (shall perform each act) once (only).
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । वैश्यवत्शौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ ५.१४०॥
शूद्राणाम् मासिकम् कार्यम् वपनम् न्याय-वर्तिनाम् । वैश्य-वत् शौच-कल्पः च द्विज-उच्छिष्टम् च भोजनम् ॥ ५।१४०॥
śūdrāṇām māsikam kāryam vapanam nyāya-vartinām . vaiśya-vat śauca-kalpaḥ ca dvija-ucchiṣṭam ca bhojanam .. 5.140..
5.140. Sudras who live according to the law, shall each month shave (their heads); their mode of purification (shall be) the same as that of Vaisyas, and their food the fragments of an Aryan’s meal.
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ ५.१४१॥
न उच्छिष्टम् कुर्वते मुख्याः विप्रुषः अङ्गम् न यान्ति याः । न श्मश्रूणि गतानि आस्यम् न दन्त-अन्तर् अधिष्ठितम् ॥ ५।१४१॥
na ucchiṣṭam kurvate mukhyāḥ vipruṣaḥ aṅgam na yānti yāḥ . na śmaśrūṇi gatāni āsyam na danta-antar adhiṣṭhitam .. 5.141..
5.141. Drops (of water) from the mouth which do not fall on a limb, do not make (a man) impure, nor the hair of the moustache entering the mouth, nor what adheres to the teeth.
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भौमिकैस्ते समा ज्ञेया न तैरा अप्रयतो भवेत् ॥ ५.१४२॥
स्पृशन्ति बिन्दवः पादौ ये आचामयतः परान् । भौमिकैः ते समाः ज्ञेयाः न अप्रयतः भवेत् ॥ ५।१४२॥
spṛśanti bindavaḥ pādau ye ācāmayataḥ parān . bhaumikaiḥ te samāḥ jñeyāḥ na aprayataḥ bhavet .. 5.142..
5.142. Drops which trickle on the feet of him who offers water for sipping to others, must be considered as equal to (water collected on the ground; they render him not impure.
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन । अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ५.१४३॥
उच्छिष्टेन तु संस्पृष्टः द्रव्य-हस्तः कथम् चन । अ निधाय एव तत् द्रव्यम् आचान्तः शुचि-ताम् इयात् ॥ ५।१४३॥
ucchiṣṭena tu saṃspṛṣṭaḥ dravya-hastaḥ katham cana . a nidhāya eva tat dravyam ācāntaḥ śuci-tām iyāt .. 5.143..
5.143. He who, while carrying anything in any manner, is touched by an impure (person or thing), shall become pure, if he performs an ablution, without putting down that object.
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ॥ ५.१४४॥
वान्तः विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् । आचामेत् एव भुक्त्वा अन्नम् स्नानम् मैथुनिनः स्मृतम् ॥ ५।१४४॥
vāntaḥ viriktaḥ snātvā tu ghṛtaprāśanam ācaret . ācāmet eva bhuktvā annam snānam maithuninaḥ smṛtam .. 5.144..
5.144. He who has vomited or purged shall bathe, and afterwards eat clarified butter; but if (the attack comes on) after he has eaten, let him only sip water; bathing is prescribed for him who has had intercourse with a woman.
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्यौक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥ ५.१४५॥
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्य ओक्त्वा अनृतानि च । पीत्वा अपः अध्येष्यमाणः च आचामेत् प्रयतः अपि सन् ॥ ५।१४५॥
suptvā kṣutvā ca bhuktvā ca niṣṭhīvya oktvā anṛtāni ca . pītvā apaḥ adhyeṣyamāṇaḥ ca ācāmet prayataḥ api san .. 5.145..
5.145. Though he may be (already) pure, let him sip water after sleeping, sneezing, eating, spitting, telling untruths, and drinking water, likewise when he is going to study the Veda.
एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ ५.१४६॥
एष शौच-विधिः कृत्स्नः द्रव्य-शुद्धिः तथा एव च । उक्तः वः सर्व-वर्णानाम् स्त्रीणाम् धर्मान् निबोधत ॥ ५।१४६॥
eṣa śauca-vidhiḥ kṛtsnaḥ dravya-śuddhiḥ tathā eva ca . uktaḥ vaḥ sarva-varṇānām strīṇām dharmān nibodhata .. 5.146..
5.146. Thus the rules of personal purification for men of all castes, and those for cleaning (inanimate) things, have been fully declared to you: hear now the duties of women.
बालया वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्तव्यं किं चिद्कार्यं गृहेष्वपि ॥ ५.१४७॥
बालया वा युवत्या वा वृद्धया वा अपि योषिता । न स्वातन्त्र्येण कर्तव्यम् किम् चित् कार्यम् गृहेषु अपि ॥ ५।१४७॥
bālayā vā yuvatyā vā vṛddhayā vā api yoṣitā . na svātantryeṇa kartavyam kim cit kāryam gṛheṣu api .. 5.147..
5.147. By a girl, by a young woman, or even by an aged one, nothing must be done independently, even in her own house.
बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥ ५.१४८॥
बाल्ये पितुः वशे तिष्ठेत् पाणिग्राहस्य यौवने । पुत्राणाम् भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्र-ताम् ॥ ५।१४८॥
bālye pituḥ vaśe tiṣṭhet pāṇigrāhasya yauvane . putrāṇām bhartari prete na bhajet strī svatantra-tām .. 5.148..
5.148. In childhood a female must be subject to her father, in youth to her husband, when her lord is dead to her sons; a woman must never be independent.
पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद्विरहमात्मनः । एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ ५.१४९॥
पित्रा भर्त्रा सुतैः वा अपि न इच्छेत् विरहम् आत्मनः । एषाम् हि विरहेण स्त्री गर्ह्ये कुर्यात् उभे कुले ॥ ५।१४९॥
pitrā bhartrā sutaiḥ vā api na icchet viraham ātmanaḥ . eṣām hi viraheṇa strī garhye kuryāt ubhe kule .. 5.149..
5.149. She must not seek to separate herself from her father, husband, or sons; by leaving them she would make both (her own and her husband’s) families contemptible.
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१५०॥
सदा प्रहृष्टया भाव्यम् गृह-कार्ये च दक्षया । सु संस्कृत-उपस्करया व्यये च अमुक्तहस्तया ॥ ५।१५०॥
sadā prahṛṣṭayā bhāvyam gṛha-kārye ca dakṣayā . su saṃskṛta-upaskarayā vyaye ca amuktahastayā .. 5.150..
5.150. She must always be cheerful, clever in (the management of her) household affairs, careful in cleaning her utensils, and economical in expenditure.
यस्मै दद्यात्पिता त्वेनां भ्राता वाऽनुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१५१॥
यस्मै दद्यात् पिता तु एनाम् भ्राता वा अनुमते पितुः । तम् शुश्रूषेत जीवन्तम् संस्थितम् च न लङ्घयेत् ॥ ५।१५१॥
yasmai dadyāt pitā tu enām bhrātā vā anumate pituḥ . tam śuśrūṣeta jīvantam saṃsthitam ca na laṅghayet .. 5.151..
5.151. Him to whom her father may give her, or her brother with the father’s permission, she shall obey as long as he lives, and when he is dead, she must not insult (his memory).
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ ५.१५२॥
मङ्गल-अर्थम् स्वस्त्ययनम् यज्ञः च आसाम् प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानम् स्वाम्य-कारणम् ॥ ५।१५२॥
maṅgala-artham svastyayanam yajñaḥ ca āsām prajāpateḥ . prayujyate vivāhe tu pradānam svāmya-kāraṇam .. 5.152..
5.152. For the sake of procuring good fortune to (brides), the recitation of benedictory texts (svastyayana), and the sacrifice to the Lord of creatures (Pragapati) are used at weddings; (but) the betrothal (by the father or guardian) is the cause of (the husband’s) dominion (over his wife).
अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः । सुखस्य नित्यं दातैह परलोके च योषितः ॥ ५.१५३॥
अनृतौ ऋतु-काले च मन्त्र-संस्कार-कृत् पतिः । सुखस्य नित्यम् दाता इह पर-लोके च योषितः ॥ ५।१५३॥
anṛtau ṛtu-kāle ca mantra-saṃskāra-kṛt patiḥ . sukhasya nityam dātā iha para-loke ca yoṣitaḥ .. 5.153..
5.153. The husband who wedded her with sacred texts, always gives happiness to his wife, both in season and out of season, in this world and in the next.
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ ५.१५४॥
विशीलः काम-वृत्तः वा गुणैः वा परिवर्जितः । उपचार्यः स्त्रिया साध्व्या सततम् देव-वत् पतिः ॥ ५।१५४॥
viśīlaḥ kāma-vṛttaḥ vā guṇaiḥ vā parivarjitaḥ . upacāryaḥ striyā sādhvyā satatam deva-vat patiḥ .. 5.154..
5.154. Though destitute of virtue, or seeking pleasure (elsewhere), or devoid of good qualities, (yet) a husband must be constantly worshipped as a god by a faithful wife.
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्य उपोषितम्। पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ ५.१५५॥
न अस्ति स्त्रीणाम् पृथक् यज्ञः न व्रतम् न आप्यः उपोषितम्। पतिम् शुश्रूषते येन तेन स्वर्गे महीयते ॥ ५।१५५॥
na asti strīṇām pṛthak yajñaḥ na vratam na āpyaḥ upoṣitam. patim śuśrūṣate yena tena svarge mahīyate .. 5.155..
5.155. No sacrifice, no vow, no fast must be performed by women apart (from their husbands); if a wife obeys her husband, she will for that (reason alone) be exalted in heaven.
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकमभीप्सन्ती नाचरेत्किं चिदप्रियम् ॥ ५.१५६॥
पाणिग्राहस्य साध्वी स्त्री जीवतः वा मृतस्य वा । पति-लोकम् अभीप्सन्ती ना आचरेत् किम् चित् अप्रियम् ॥ ५।१५६॥
pāṇigrāhasya sādhvī strī jīvataḥ vā mṛtasya vā . pati-lokam abhīpsantī nā ācaret kim cit apriyam .. 5.156..
5.156. A faithful wife, who desires to dwell (after death) with her husband, must never do anything that might displease him who took her hand, whether he be alive or dead.
कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ ५.१५७॥
कामम् तु क्षपयेत् देहम् पुष्प-मूल-फलैः शुभैः । न तु नाम अपि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ ५।१५७॥
kāmam tu kṣapayet deham puṣpa-mūla-phalaiḥ śubhaiḥ . na tu nāma api gṛhṇīyāt patyau prete parasya tu .. 5.157..
5.157. At her pleasure let her emaciate her body by (living on) pure flowers, roots, and fruit; but she must never even mention the name of another man after her husband has died.
आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ ५.१५८॥
आसीत आमरणात् क्षान्ता नियता ब्रह्मचारिणी । यः धर्मः एकपत्नीनाम् काङ्क्षन्ती तम् अनुत्तमम् ॥ ५।१५८॥
āsīta āmaraṇāt kṣāntā niyatā brahmacāriṇī . yaḥ dharmaḥ ekapatnīnām kāṅkṣantī tam anuttamam .. 5.158..
5.158. Until death let her be patient (of hardships), self-controlled, and chaste, and strive (to fulfil) that most excellent duty which (is prescribed) for wives who have one husband only.
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ ५.१५९॥
अनेकानि सहस्राणि कुमार-ब्रह्मचारिणाम् । दिवम् गतानि विप्राणाम् अ कृत्वा कुल-संततिम् ॥ ५।१५९॥
anekāni sahasrāṇi kumāra-brahmacāriṇām . divam gatāni viprāṇām a kṛtvā kula-saṃtatim .. 5.159..
5.159. Many thousands of Brahmanas who were chaste from their youth, have gone to heaven without continuing their race.
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥ ५.१६०॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गम् गच्छति अपुत्रा अपि यथा ते ब्रह्मचारिणः ॥ ५।१६०॥
mṛte bhartari sādhvī strī brahmacarye vyavasthitā . svargam gacchati aputrā api yathā te brahmacāriṇaḥ .. 5.160..
5.160. A virtuous wife who after the death of her husband constantly remains chaste, reaches heaven, though she have no son, just like those chaste men.
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ ५.१६१॥
अपत्य-लोभ-आद्या तु स्त्री भर्तारम् अतिवर्तते । सा इह निन्दाम् अवाप्नोति पर-लोकात् च हीयते ॥ ५।१६१॥
apatya-lobha-ādyā tu strī bhartāram ativartate . sā iha nindām avāpnoti para-lokāt ca hīyate .. 5.161..
5.161. But a woman who from a desire to have offspring violates her duty towards her (deceased) husband, brings on herself disgrace in this world, and loses her place with her husband (in heaven).
नान्योत्पन्ना प्रजाऽस्तीह न चान्यस्य परिग्रहे । न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते ॥ ५.१६२॥
न अन्य-उत्पन्ना प्रजा अस्ति इह न च अन्यस्य परिग्रहे । न द्वितीयः च साध्वीनाम् क्व चित् भर्ता उपदिश्यते ॥ ५।१६२॥
na anya-utpannā prajā asti iha na ca anyasya parigrahe . na dvitīyaḥ ca sādhvīnām kva cit bhartā upadiśyate .. 5.162..
5.162. Offspring begotten by another man is here not (considered lawful), nor (does offspring begotten) on another man’s wife (belong to the begetter), nor is a second husband anywhere prescribed for virtuous women.
पतिं हित्वाऽवकृष्टं स्वमुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्वैति चौच्यते ॥ ५.१६३॥
पतिम् हित्वा अवकृष्टम् स्वम् उत्कृष्टम् या निषेवते । निन्द्या एव सा भवेत् लोके परपूर्वा एति च उच्यते ॥ ५।१६३॥
patim hitvā avakṛṣṭam svam utkṛṣṭam yā niṣevate . nindyā eva sā bhavet loke parapūrvā eti ca ucyate .. 5.163..
5.163. She who cohabits with a man of higher caste, forsaking her own husband who belongs to a lower one, will become contemptible in this world, and is called a remarried woman (parapurva).
व्यभिचारे तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ ५.१६४॥
व्यभिचारे तु भर्तुः स्त्री लोके प्राप्नोति निन्द्य-ताम् । शृगाल-योनिम् प्राप्नोति पाप-रोगैः च पीड्यते ॥ ५।१६४॥
vyabhicāre tu bhartuḥ strī loke prāpnoti nindya-tām . śṛgāla-yonim prāpnoti pāpa-rogaiḥ ca pīḍyate .. 5.164..
5.164. By violating her duty towards her husband, a wife is disgraced in this world, (after death) she enters the womb of a jackal, and is tormented by diseases (the punishment of) her sin.
पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६५॥
पतिम् या न अभिचरति मनः-वाच्-देह-संयता । सा भर्तृ-लोकम् आप्नोति सद्भिः साध्वी इति च उच्यते ॥ ५।१६५॥
patim yā na abhicarati manaḥ-vāc-deha-saṃyatā . sā bhartṛ-lokam āpnoti sadbhiḥ sādhvī iti ca ucyate .. 5.165..
5.165. She who, controlling her thoughts, words, and deeds, never slights her lord, resides (after death) with her husband (in heaven), and is called a virtuous (wife).
अनेन नारी वृत्तेन मनोवाग्देहसंयता । इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ ५.१६६॥
अनेन नारी वृत्तेन मनः-वाच्-देह-संयता । इह अग्र्याम् कीर्तिम् आप्नोति पति-लोकम् परत्र च ॥ ५।१६६॥
anena nārī vṛttena manaḥ-vāc-deha-saṃyatā . iha agryām kīrtim āpnoti pati-lokam paratra ca .. 5.166..
5.166. In reward of such conduct, a female who controls her thoughts, speech, and actions, gains in this (life) highest renown, and in the next (world) a place near her husband.
एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् । दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७॥
एवम् वृत्ताम् सवर्णाम् स्त्रीम् द्विजातिः पूर्व-मारिणीम् । दाहयेत् अग्निहोत्रेण यज्ञ-पात्रैः च धर्म-विद् ॥ ५।१६७॥
evam vṛttām savarṇām strīm dvijātiḥ pūrva-māriṇīm . dāhayet agnihotreṇa yajña-pātraiḥ ca dharma-vid .. 5.167..
5.167. A twice-born man, versed in the sacred law, shall burn a wife of equal caste who conducts herself thus and dies before him, with (the sacred fires used for) the Agnihotra, and with the sacrificial implements.
भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥ ५.१६८॥
भार्यायै पूर्व-मारिण्यै दत्त्वा अग्नीन् अन्त्यकर्मणि । पुनर् दारक्रियाम् कुर्यात् पुनराधानम् एव च ॥ ५।१६८॥
bhāryāyai pūrva-māriṇyai dattvā agnīn antyakarmaṇi . punar dārakriyām kuryāt punarādhānam eva ca .. 5.168..
5.168. Having thus, at the funeral, given the sacred fires to his wife who dies before him, he may marry again, and again kindle (the fires).
अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९॥
अनेन विधिना नित्यम् पञ्चयज्ञान् न हापयेत् । द्वितीयम् आयुषः भागम् कृतदारः गृहे वसेत् ॥ ५।१६९॥
anena vidhinā nityam pañcayajñān na hāpayet . dvitīyam āyuṣaḥ bhāgam kṛtadāraḥ gṛhe vaset .. 5.169..
5.169. (Living) according to the (preceding) rules, he must never neglect the five (great) sacrifices, and, having taken a wife, he must dwell in (his own) house during the second period of his life.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In