| |
|

This overlay will guide you through the buttons:

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । वने वसेत्तु नियतो यथावद्विजितैन्द्रियः ॥ ६.१॥
एवम् गृहाश्रमे स्थित्वा विधिवत् स्नातकः द्विजः । वने वसेत् तु नियतः यथावत् विजित-ऐन्द्रियः ॥ ६।१॥
evam gṛhāśrame sthitvā vidhivat snātakaḥ dvijaḥ . vane vaset tu niyataḥ yathāvat vijita-aindriyaḥ .. 6.1..
6.1. A twice-born Snataka, who has thus lived according to the law in the order of householders, may, taking a firm resolution and keeping his organs in subjection, dwell in the forest, duly (observing the rules given below).
गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ६.२॥
गृहस्थः तु यथा पश्येत् वली-पलितम् आत्मनः । अपत्यस्य एव च अपत्यम् तदा अरण्यम् समाश्रयेत् ॥ ६।२॥
gṛhasthaḥ tu yathā paśyet valī-palitam ātmanaḥ . apatyasya eva ca apatyam tadā araṇyam samāśrayet .. 6.2..
6.2. When a householder sees his (skin) wrinkled, and (his hair) white, and. the sons of his sons, then he may resort to the forest.
संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ६.३॥
संत्यज्य ग्राम्यम् आहारम् सर्वम् च एव परिच्छदम् । पुत्रेषु भार्याम् निक्षिप्य वनम् गच्छेत् सह एव वा ॥ ६।३॥
saṃtyajya grāmyam āhāram sarvam ca eva paricchadam . putreṣu bhāryām nikṣipya vanam gacchet saha eva vā .. 6.3..
6.3. Abandoning all food raised by cultivation, and all his belongings, he may depart into the forest, either committing his wife to his sons, or accompanied by her.
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निष्क्रम्य निवसेन्नियतेन्द्रियः ॥ ६.४॥
अग्निहोत्रम् समादाय गृह्यम् च अग्नि-परिच्छदम् । ग्रामात् अरण्यम् निष्क्रम्य निवसेत् नियत-इन्द्रियः ॥ ६।४॥
agnihotram samādāya gṛhyam ca agni-paricchadam . grāmāt araṇyam niṣkramya nivaset niyata-indriyaḥ .. 6.4..
6.4. Taking with him the sacred fire and the implements required for domestic (sacrifices), he may go forth from the village into the forest and reside there, duly controlling his senses.
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ ६.५॥
मुनि-अन्नैः विविधैः मेध्यैः शाक-मूल-फलेन वा । एतान् एव महायज्ञान् निर्वपेत् विधि-पूर्वकम् ॥ ६।५॥
muni-annaiḥ vividhaiḥ medhyaiḥ śāka-mūla-phalena vā . etān eva mahāyajñān nirvapet vidhi-pūrvakam .. 6.5..
6.5. Let him offer those five great sacrifices according to the rule, with various kinds of pure food fit for ascetics, or with herbs, roots, and fruit.
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ ६.६॥
वसीत चर्म चीरम् वा सायम् स्नायात् प्रगे तथा । जटाः च बिभृयात् नित्यम् श्मश्रु-लोम-नखानि च ॥ ६।६॥
vasīta carma cīram vā sāyam snāyāt prage tathā . jaṭāḥ ca bibhṛyāt nityam śmaśru-loma-nakhāni ca .. 6.6..
6.6. Let him wear a skin or a tattered garment; let him bathe in the evening or in the morning; and let him always wear (his hair in) braids, the hair on his body, his beard, and his nails (being unclipped).
यद्भक्षः स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः । अब्मूलफलभिक्षाभिरर्चयेद: आश्रमागतं ॥ ६.७॥
यद्-भक्षः स्यात् ततस् दद्यात् बलिम् भिक्षाम् च शक्तितः । अप्-मूल-फल-भिक्षाभिः अर्चयेत् आश्रम-आगतम् ॥ ६।७॥
yad-bhakṣaḥ syāt tatas dadyāt balim bhikṣām ca śaktitaḥ . ap-mūla-phala-bhikṣābhiḥ arcayet āśrama-āgatam .. 6.7..
6.7. Let him perform the Bali-offering with such food as he eats, and give alms according to his ability; let him honour those who come to his hermitage with alms consisting of water, roots, and fruit.
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ ६.८॥
स्वाध्याये नित्य-युक्तः स्यात् दान्तः मैत्रः समाहितः । दाता नित्यम् अनादाता सर्व-भूत-अनुकम्पकः ॥ ६।८॥
svādhyāye nitya-yuktaḥ syāt dāntaḥ maitraḥ samāhitaḥ . dātā nityam anādātā sarva-bhūta-anukampakaḥ .. 6.8..
6.8. Let him be always industrious in privately reciting the Veda; let him be patient of hardships, friendly (towards all), of collected mind, ever liberal and never a receiver of gifts, and compassionate towards all living creatures.
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९॥
वैतानिकम् च जुहुयात् अग्निहोत्रम् यथाविधि । दर्शम् अस्कन्दयन् पर्व पौर्णमासम् च योगतः ॥ ६।९॥
vaitānikam ca juhuyāt agnihotram yathāvidhi . darśam askandayan parva paurṇamāsam ca yogataḥ .. 6.9..
6.9. Let him offer, according to the law, the Agnihotra with three sacred fires, never omitting the new-moon and full-moon sacrifices at the proper time.
दर्शेष्ट्य् आग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दाक्षस्यायनं च ॥ ६.१०॥
दर्श-इष्टि आग्रयणम् च एव चातुर्मास्यानि च आहरेत् । तुरायणम् च क्रमशस् दाक्षस्यायनम् च ॥ ६।१०॥
darśa-iṣṭi āgrayaṇam ca eva cāturmāsyāni ca āharet . turāyaṇam ca kramaśas dākṣasyāyanam ca .. 6.10..
6.10. Let him also offer the Nakshatreshti, the Agrayana, and the Katurmasya (sacrifices), as well as the Turayana and likewise the Dakshayana, in due order.
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवत्निर्वपेत्पृथक् ॥ ६.११॥
वासन्त-शारदैः मेध्यैः मुनि-अन्नैः स्वयम् आहृतैः । पुरोडाशान् चरून् च एव विधिवत् निर्वपेत् पृथक् ॥ ६।११॥
vāsanta-śāradaiḥ medhyaiḥ muni-annaiḥ svayam āhṛtaiḥ . puroḍāśān carūn ca eva vidhivat nirvapet pṛthak .. 6.11..
6.11. With pure grains, fit for ascetics, which grow in spring and in autumn, and which he himself has collected, let him severally prepare the sacrificial cakes (purodasa) and the boiled messes (karu), as the law directs.
देवताभ्यस्तु तधुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ ६.१२॥
देवताभ्यः तु तत् हुत्वा वन्यम् मेध्यतरम् हविः । शेषम् आत्मनि युञ्जीत लवणम् च स्वयम् कृतम् ॥ ६।१२॥
devatābhyaḥ tu tat hutvā vanyam medhyataram haviḥ . śeṣam ātmani yuñjīta lavaṇam ca svayam kṛtam .. 6.12..
6.12. Having offered those most pure sacrificial viands, consisting of the produce of the forest, he may use the remainder for himself, (mixed with) salt prepared by himself.
स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसम्भवान् ॥ ६.१३॥
स्थल-ज-औदक-शाकानि पुष्प-मूल-फलानि च । मेध्य-वृक्ष-उद्भवान् यद्यात् स्नेहान् च फल-सम्भवान् ॥ ६।१३॥
sthala-ja-audaka-śākāni puṣpa-mūla-phalāni ca . medhya-vṛkṣa-udbhavān yadyāt snehān ca phala-sambhavān .. 6.13..
6.13. Let him eat vegetables that grow on dry land or in water, flowers, roots, and fruits, the productions of pure trees, and oils extracted from forest-fruits.
वर्जयेन् मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥ ६.१४॥
वर्जयेत् मधु मांसम् च भौमानि कवकानि च । भूस्तृणम् शिग्रुकम् च एव श्लेश्मातक-फलानि च ॥ ६।१४॥
varjayet madhu māṃsam ca bhaumāni kavakāni ca . bhūstṛṇam śigrukam ca eva śleśmātaka-phalāni ca .. 6.14..
6.14. Let him avoid honey, flesh, and mushrooms growing on the ground (or elsewhere, the vegetables called) Bhustrina, and Sigruka, and the Sleshmantaka fruit.
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५॥
त्यजेत् आश्वयुजे मासि मुनि-अन्नम् पूर्व-सञ्चितम् । जीर्णानि च एव वासांसि शाक-मूल-फलानि च ॥ ६।१५॥
tyajet āśvayuje māsi muni-annam pūrva-sañcitam . jīrṇāni ca eva vāsāṃsi śāka-mūla-phalāni ca .. 6.15..
6.15. Let him throw away in the month of Asvina the food of ascetics, which he formerly collected, likewise his worn-out clothes and his vegetables, roots, and fruit.
न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् । न ग्रामजातान्यार्तोऽपि पुष्पानि च फलानि च ॥ ६.१६॥
न फालकृष्टम् अश्नीयात् उत्सृष्टम् अपि केन चित् । न ग्राम-जातानि आर्तः अपि पुष्पानि च फलानि च ॥ ६।१६॥
na phālakṛṣṭam aśnīyāt utsṛṣṭam api kena cit . na grāma-jātāni ārtaḥ api puṣpāni ca phalāni ca .. 6.16..
6.16. Let him not eat anything (grown on) ploughed (land), though it may have been thrown away by somebody, nor roots and fruit grown in a village, though (he may be) tormented (by hunger).
अग्निपक्वाशनो वा स्यात्कालपक्वभुजेव वा । अश्मकुट्टो भवेद्वाऽपि दन्तोलूखलिकोऽपि वा ॥ ६.१७॥
अग्नि-पक्व-अशनः वा स्यात् काल-पक्व-भुजा इव वा । अश्मकुट्टः भवेत् वा अपि दन्तोलूखलिकः अपि वा ॥ ६।१७॥
agni-pakva-aśanaḥ vā syāt kāla-pakva-bhujā iva vā . aśmakuṭṭaḥ bhavet vā api dantolūkhalikaḥ api vā .. 6.17..
6.17. He may eat either what has been cooked with fire, or what has been ripened by time; he either may use a stone for grinding, or his teeth may be his mortar.
सद्यः प्रक्षालको वा स्यान् माससञ्चयिकोऽपि वा । षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ ६.१८॥
सद्यस् प्रक्षालकः वा स्यात् मास-सञ्चयिकः अपि वा । षष्-मास-निचयः वा स्यात् समा-निचयः एव वा ॥ ६।१८॥
sadyas prakṣālakaḥ vā syāt māsa-sañcayikaḥ api vā . ṣaṣ-māsa-nicayaḥ vā syāt samā-nicayaḥ eva vā .. 6.18..
6.18. He may either at once (after his daily meal) cleanse (his vessel for collecting food), or lay up a store sufficient for a month, or gather what suffices for six months or for a year.
नक्तं चान्नं समश्नीयाद्दिवा वाऽहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाऽप्यष्टमकालिकः ॥ ६.१९॥
नक्तम् च अन्नम् समश्नीयात् दिवा वा आहृत्य शक्तितः । चतुर्थकालिकः वा स्यात् स्यात् वा अपि अष्टमकालिकः ॥ ६।१९॥
naktam ca annam samaśnīyāt divā vā āhṛtya śaktitaḥ . caturthakālikaḥ vā syāt syāt vā api aṣṭamakālikaḥ .. 6.19..
6.19. Having collected food according to his ability, he may either eat at night (only), or in the day-time (only), or at every fourth meal-time, or at every eighth.
चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाऽप्यश्नीयाद्यवागूं क्वथितां सकृत् ॥ ६.२०॥
चान्द्रायण-विधानैः वा शुक्ल-कृष्णे च वर्तयेत् । पक्ष-अन्तयोः वा अपि अश्नीयात् यवागूम् क्वथिताम् सकृत् ॥ ६।२०॥
cāndrāyaṇa-vidhānaiḥ vā śukla-kṛṣṇe ca vartayet . pakṣa-antayoḥ vā api aśnīyāt yavāgūm kvathitām sakṛt .. 6.20..
6.20. Or he may live according to the rule of the lunar penance (Kandrayana, daily diminishing the quantity of his food) in the bright (half of the month) and (increasing it) in the dark (half); or he may eat on the last days of each fortnight, once (a day only), boiled barley-gruel.
पुष्पमूलफलैर्वाऽपि केवलैर्वर्तयेत्सदा । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ ६.२१॥
पुष्प-मूल-फलैः वा अपि केवलैः वर्तयेत् सदा । काल-पक्वैः स्वयम् शीर्णैः वैखानस-मते स्थितः ॥ ६।२१॥
puṣpa-mūla-phalaiḥ vā api kevalaiḥ vartayet sadā . kāla-pakvaiḥ svayam śīrṇaiḥ vaikhānasa-mate sthitaḥ .. 6.21..
6.21. Or he may constantly subsist on flowers, roots, and fruit alone, which have been ripened by time and have fallen spontaneously, following the rule of the (Institutes) of Vikhanas.
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥ ६.२२॥
भूमौ विपरिवर्तेत तिष्ठेत् वा प्रपदैः दिनम् । स्थान-आसनाभ्याम् विहरेत् सवनेषु उपयन् अपः ॥ ६।२२॥
bhūmau viparivarteta tiṣṭhet vā prapadaiḥ dinam . sthāna-āsanābhyām viharet savaneṣu upayan apaḥ .. 6.22..
6.22. Let him either roll about on the ground, or stand during the day on tiptoe, (or) let him alternately stand and sit down; going at the Savanas (at sunrise, at midday, and at sunset) to water in the forest (in order to bathe).
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ ६.२३॥
ग्रीष्मे पञ्चतपाः तु स्यात् वर्षासु अभ्र-अवकाशिकः । आर्द्र-वासाः तु हेमन्ते क्रमशस् वर्धयन् तपः ॥ ६।२३॥
grīṣme pañcatapāḥ tu syāt varṣāsu abhra-avakāśikaḥ . ārdra-vāsāḥ tu hemante kramaśas vardhayan tapaḥ .. 6.23..
6.23. In summer let him expose himself to the heat of five fires, during the rainy season live under the open sky, and in winter be dressed in wet clothes, (thus) gradually increasing (the rigour of) his austerities.
उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् । तपस्चरंश्चोग्रतरं शोषयेद्देहमात्मनः ॥ ६.२४॥
उपस्पृशन् त्रिषवणम् पितॄन् देवान् च तर्पयेत् । तपः चरन् च उग्रतरम् शोषयेत् देहम् आत्मनः ॥ ६।२४॥
upaspṛśan triṣavaṇam pitṝn devān ca tarpayet . tapaḥ caran ca ugrataram śoṣayet deham ātmanaḥ .. 6.24..
6.24. When he bathes at the three Savanas (sunrise, midday, and sunset), let him offer libations of water to the manes and the gods, and practising harsher and harsher austerities, let him dry up his bodily frame.
अग्नीनात्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान् मुनिर्मूलफलाशनः ॥ ६.२५॥
अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि । अनग्निः अनिकेतः स्यात् मुनिः मूल-फल-अशनः ॥ ६।२५॥
agnīn ātmani vaitānān samāropya yathāvidhi . anagniḥ aniketaḥ syāt muniḥ mūla-phala-aśanaḥ .. 6.25..
6.25. Having reposited the three sacred fires in himself, according to the prescribed rule, let him live without a fire, without a house, wholly silent, subsisting on roots and fruit,
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराऽऽशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ ६.२६॥
अप्रयत्नः सुख-अर्थेषु ब्रह्मचारी धरा-आशयः । शरणेषु अममः च एव वृक्ष-मूल-निकेतनः ॥ ६।२६॥
aprayatnaḥ sukha-artheṣu brahmacārī dharā-āśayaḥ . śaraṇeṣu amamaḥ ca eva vṛkṣa-mūla-niketanaḥ .. 6.26..
6.26. Making no effort (to procure) things that give pleasure, chaste, sleeping on the bare ground, not caring for any shelter, dwelling at the roots of trees.
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ६.२७॥
तापसेषु एव विप्रेषु यात्रिकम् भैक्षम् आहरेत् । गृहमेधिषु च अन्येषु द्विजेषु वन-वासिषु ॥ ६।२७॥
tāpaseṣu eva vipreṣu yātrikam bhaikṣam āharet . gṛhamedhiṣu ca anyeṣu dvijeṣu vana-vāsiṣu .. 6.27..
6.27. From Brahmanas (who live as) ascetics, let him receive alms, (barely sufficient) to support life, or from other householders of the twice-born (castes) who reside in the forest.
ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ६.२८॥
ग्रामात् आहृत्य वा अश्नीयात् अष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेन एव पाणिना शकलेन वा ॥ ६।२८॥
grāmāt āhṛtya vā aśnīyāt aṣṭau grāsān vane vasan . pratigṛhya puṭena eva pāṇinā śakalena vā .. 6.28..
6.28. Or (the hermit) who dwells in the forest may bring (food) from a village, receiving it either in a hollow dish (of leaves), in (his naked) hand, or in a broken earthen dish, and may eat eight mouthfuls.
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ ६.२९॥
एताः च अन्याः च सेवेत दीक्षाः विप्रः वने वसन् । विविधाः च औपनिषदीः आत्म-संसिद्धये श्रुतीः ॥ ६।२९॥
etāḥ ca anyāḥ ca seveta dīkṣāḥ vipraḥ vane vasan . vividhāḥ ca aupaniṣadīḥ ātma-saṃsiddhaye śrutīḥ .. 6.29..
6.29. These and other observances must a Brahmana who dwells in the forest diligently practise, and in order to attain complete (union with) the (supreme) Soul, (he must study) the various sacred texts contained in the Upanishads,
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ६.३०॥
ऋषिभिः ब्राह्मणैः च एव गृहस्थैः एव सेविताः । विद्या-तपः-विवृद्धि-अर्थम् शरीरस्य च शुद्धये ॥ ६।३०॥
ṛṣibhiḥ brāhmaṇaiḥ ca eva gṛhasthaiḥ eva sevitāḥ . vidyā-tapaḥ-vivṛddhi-artham śarīrasya ca śuddhaye .. 6.30..
6.30. (As well as those rites and texts) which have been practised and studied by the sages (Rishis), and by Brahmana householders, in order to increase their knowledge (of Brahman), and their austerity, and in order to sanctify their bodies;
अपराजितां वाऽस्थाय व्रजेद्दिशमजिह्मगः । आ निपातात्शरीरस्य युक्तो वार्यनिलाशनः ॥ ६.३१॥
अपराजिताम् वा आस्थाय व्रजेत् दिशम् अ जिह्म-गः । आ निपातात् शरीरस्य युक्तः वारि-अनिल-अशनः ॥ ६।३१॥
aparājitām vā āsthāya vrajet diśam a jihma-gaḥ . ā nipātāt śarīrasya yuktaḥ vāri-anila-aśanaḥ .. 6.31..
6.31. Or let him walk, fully determined and going straight on, in a north-easterly direction, subsisting on water and air, until his body sinks to rest.
आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ६.३२॥
आसाम् महा-ऋषि-चर्याणाम् त्यक्त्वा अन्यतमया तनुम् । वीत-शोक-भयः विप्रः ब्रह्म-लोके महीयते ॥ ६।३२॥
āsām mahā-ṛṣi-caryāṇām tyaktvā anyatamayā tanum . vīta-śoka-bhayaḥ vipraḥ brahma-loke mahīyate .. 6.32..
6.32. A Brahmana, having got rid of his body by one of those modes practised by the great sages, is exalted in the world of Brahman, free from sorrow and fear.
वनेषु च विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३॥
वनेषु च विहृत्य एवम् तृतीयम् भागम् आयुषः । चतुर्थम् आयुषः भागम् त्यक्वा सङ्गान् परिव्रजेत् ॥ ६।३३॥
vaneṣu ca vihṛtya evam tṛtīyam bhāgam āyuṣaḥ . caturtham āyuṣaḥ bhāgam tyakvā saṅgān parivrajet .. 6.33..
6.33. But having thus passed the third part of (a man’s natural term of) life in the forest, he may live as an ascetic during the fourth part of his existence, after abandoning all attachment to worldly objects.
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४॥
आश्रमात् आश्रमम् गत्वा हुत-होमः जित-इन्द्रियः । भिक्षा-बलि-परिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६।३४॥
āśramāt āśramam gatvā huta-homaḥ jita-indriyaḥ . bhikṣā-bali-pariśrāntaḥ pravrajan pretya vardhate .. 6.34..
6.34. He who after passing from order to order, after offering sacrifices and subduing his senses, becomes, tired with (giving) alms and offerings of food, an ascetic, gains bliss after death.
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ६.३५॥
ऋणानि त्रीणि अपाकृत्य मनः मोक्षे निवेशयेत् । अन् अपाकृत्य मोक्षम् तु सेवमानः व्रजति अधस् ॥ ६।३५॥
ṛṇāni trīṇi apākṛtya manaḥ mokṣe niveśayet . an apākṛtya mokṣam tu sevamānaḥ vrajati adhas .. 6.35..
6.35. When he has paid the three debts, let him apply his mind to (the attainment of) final liberation; he who seeks it without having paid (his debts) sinks downwards.
अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६॥
अधीत्य विधिवत् वेदान् पुत्रान् च उत्पाद्य धर्मतः । इष्ट्वा च शक्तितस् यज्ञैः मनः मोक्षे निवेशयेत् ॥ ६।३६॥
adhītya vidhivat vedān putrān ca utpādya dharmataḥ . iṣṭvā ca śaktitas yajñaiḥ manaḥ mokṣe niveśayet .. 6.36..
6.36. Having studied the Vedas in accordance with the rule, having begat sons according to the sacred law, and having offered sacrifices according to his ability, he may direct his mind to (the attainment of) final liberation.
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । तथा प्रजां अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ ६.३७॥
अन् अधीत्य द्विजः वेदान् अन् उत्पाद्य तथा सुतान् । तथा प्रजाम् अन् इष्ट्वा च एव यज्ञैः च मोक्षम् इच्छन् व्रजति अधस् ॥ ६।३७॥
an adhītya dvijaḥ vedān an utpādya tathā sutān . tathā prajām an iṣṭvā ca eva yajñaiḥ ca mokṣam icchan vrajati adhas .. 6.37..
6.37. A twice-born man who seeks final liberation, without having studied the Vedas, without having begotten sons, and without having offered sacrifices, sinks downwards.
प्राजापत्यं निरुप्येष्टिं सार्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८॥
प्राजापत्यम् निरुप्य इष्टिम् सार्ववेदस-दक्षिणाम् । आत्मनि अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहात् ॥ ६।३८॥
prājāpatyam nirupya iṣṭim sārvavedasa-dakṣiṇām . ātmani agnīn samāropya brāhmaṇaḥ pravrajet gṛhāt .. 6.38..
6.38. Having performed the Ishti, sacred to the Lord of creatures (Pragapati), where (he gives) all his property as the sacrificial fee, having reposited the sacred fires in himself, a Brahmana may depart from his house (as an ascetic).
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ६.३९॥
यः दत्त्वा सर्व-भूतेभ्यः प्रव्रजति अभयम् गृहात् । तस्य तेजः-मयाः लोकाः भवन्ति ब्रह्म-वादिनः ॥ ६।३९॥
yaḥ dattvā sarva-bhūtebhyaḥ pravrajati abhayam gṛhāt . tasya tejaḥ-mayāḥ lokāḥ bhavanti brahma-vādinaḥ .. 6.39..
6.39. Worlds, radiant in brilliancy, become (the portion) of him who recites (the texts regarding) Brahman and departs from his house (as an ascetic), after giving a promise of safety to all created beings.
यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४०॥
यस्मात् अणु अपि भूतानाम् द्विजात् न उत्पद्यते भयम् । तस्य देहात् विमुक्तस्य भयम् न अस्ति कुतश्चन ॥ ६।४०॥
yasmāt aṇu api bhūtānām dvijāt na utpadyate bhayam . tasya dehāt vimuktasya bhayam na asti kutaścana .. 6.40..
6.40. For that twice-born man, by whom not the smallest danger even is caused to created beings, there will be no danger from any (quarter), after he is freed from his body.
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१॥
अगारात् अभिनिष्क्रान्तः पवित्र-उपचितः मुनिः । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६।४१॥
agārāt abhiniṣkrāntaḥ pavitra-upacitaḥ muniḥ . samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet .. 6.41..
6.41. Departing from his house fully provided with the means of purification (Pavitra), let him wander about absolutely silent, and caring nothing for enjoyments that may be offered (to him).
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् । सिद्धम् एकस्य सम्पश्यन्न जहाति न हीयते ॥ ६.४२॥
एकः एव चरेत् नित्यम् सिद्धि-अर्थम् असहायवान् । सिद्धम् एकस्य सम्पश्यन् न जहाति न हीयते ॥ ६।४२॥
ekaḥ eva caret nityam siddhi-artham asahāyavān . siddham ekasya sampaśyan na jahāti na hīyate .. 6.42..
6.42. Let him always wander alone, without any companion, in order to attain (final liberation), fully understanding that the solitary (man, who) neither forsakes nor is forsaken, gains his end.
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् । उपेक्षकोऽसाङ्कुसुको मुनिर्भावसमाहितः ॥ ६.४३॥
अनग्निः अनिकेतः स्यात् ग्रामम् अन्न-अर्थम् आश्रयेत् । उपेक्षकः असाङ्कुसुकः मुनिः भाव-समाहितः ॥ ६।४३॥
anagniḥ aniketaḥ syāt grāmam anna-artham āśrayet . upekṣakaḥ asāṅkusukaḥ muniḥ bhāva-samāhitaḥ .. 6.43..
6.43. He shall neither possess a fire, nor a dwelling, he may go to a village for his food, (he shall be) indifferent to everything, firm of purpose, meditating (and) concentrating his mind on Brahman.
कपालं वृक्षमूलानि कुचैलंमसहायता । समता चैव सर्वस्मिन्नेतत्मुक्तस्य लक्षणम् ॥ ६.४४॥
कपालम् वृक्ष-मूलानि । सम-ता च एव सर्वस्मिन् एतत् मुक्तस्य लक्षणम् ॥ ६।४४॥
kapālam vṛkṣa-mūlāni . sama-tā ca eva sarvasmin etat muktasya lakṣaṇam .. 6.44..
6.44. A potsherd (instead of an alms-bowl), the roots of trees (for a dwelling), coarse worn-out garments, life in solitude and indifference towards everything, are the marks of one who has attained liberation.
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ६.४५॥
न अभिनन्देत मरणम् न अभिनन्देत जीवितम् । कालम् एव प्रतीक्षेत निर्वेशम् भृतकः यथा ॥ ६।४५॥
na abhinandeta maraṇam na abhinandeta jīvitam . kālam eva pratīkṣeta nirveśam bhṛtakaḥ yathā .. 6.45..
6.45. Let him not desire to die, let him not desire to live; let him wait for (his appointed) time, as a servant (waits) for the payment of his wages.
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६॥
दृष्टि-पूतम् न्यसेत् पादम् वस्त्र-पूतम् जलम् पिबेत् । सत्य-पूताम् वदेत् वाचम् मनः-पूतम् समाचरेत् ॥ ६।४६॥
dṛṣṭi-pūtam nyaset pādam vastra-pūtam jalam pibet . satya-pūtām vadet vācam manaḥ-pūtam samācaret .. 6.46..
6.46. Let him put down his foot purified by his sight, let him drink water purified by (straining with) a cloth, let him utter speech purified by truth, let him keep his heart pure.
अतिवादांस्तितिक्षेत नावमन्येत कं चन । न चैमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७॥
अतिवादान् तितिक्षेत न अवमन्येत कम् चन । न च एमम् देहम् आश्रित्य वैरम् कुर्वीत केन चित् ॥ ६।४७॥
ativādān titikṣeta na avamanyeta kam cana . na ca emam deham āśritya vairam kurvīta kena cit .. 6.47..
6.47. Let him patiently bear hard words, let him not insult anybody, and let him not become anybody’s enemy for the sake of this (perishable) body.
क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ६.४८॥
क्रुद्धि-अन्तम् न प्रतिक्रुध्येत् आक्रुष्टः कुशलम् वदेत् । सप्त-द्वार-अवकीर्णाम् च न वाचम् अनृताम् वदेत् ॥ ६।४८॥
kruddhi-antam na pratikrudhyet ākruṣṭaḥ kuśalam vadet . sapta-dvāra-avakīrṇām ca na vācam anṛtām vadet .. 6.48..
6.48. Against an angry man let him not in return show anger, let him bless when he is cursed, and let him not utter speech, devoid of truth, scattered at the seven gates.
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ६.४९॥
अध्यात्म-रतिः आसीनः निरपेक्षः निरामिषः । आत्मना एव सहायेन सुख-अर्थी विचरेत् इह ॥ ६।४९॥
adhyātma-ratiḥ āsīnaḥ nirapekṣaḥ nirāmiṣaḥ . ātmanā eva sahāyena sukha-arthī vicaret iha .. 6.49..
6.49. Delighting in what refers to the Soul, sitting (in the postures prescribed by the Yoga), independent (of external help), entirely abstaining from sensual enjoyments, with himself for his only companion, he shall live in this world, desiring the bliss (of final liberation).
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ ६.५०॥
न च उत्पात-निमित्ताभ्याम् न नक्षत्र-अङ्ग-विद्यया । न अनुशासन-वादाभ्याम् भिक्षाम् लिप्सेत कर्हि चित् ॥ ६।५०॥
na ca utpāta-nimittābhyām na nakṣatra-aṅga-vidyayā . na anuśāsana-vādābhyām bhikṣām lipseta karhi cit .. 6.50..
6.50. Neither by (explaining) prodigies and omens, nor by skill in astrology and palmistry, nor by giving advice and by the exposition (of the Sastras), let him ever seek to obtain alms.
न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णं भिक्षुकैर्वाऽन्यैरगारमुपसंव्रजेत् ॥ ६.५१॥
न तापसैः ब्राह्मणैः वा वयोभिः अपि वा श्वभिः । आकीर्णम् भिक्षुकैः वा अन्यैः अगारम् उपसंव्रजेत् ॥ ६।५१॥
na tāpasaiḥ brāhmaṇaiḥ vā vayobhiḥ api vā śvabhiḥ . ākīrṇam bhikṣukaiḥ vā anyaiḥ agāram upasaṃvrajet .. 6.51..
6.51. Let him not (in order to beg) go near a house filled with hermits, Brahmanas, birds, dogs, or other mendicants.
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ ६.५२॥
कॢप्त-केश-नख-श्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेत् नियतः नित्यम् सर्व-भूतानि अपीडयन् ॥ ६।५२॥
kḷpta-keśa-nakha-śmaśruḥ pātrī daṇḍī kusumbhavān . vicaret niyataḥ nityam sarva-bhūtāni apīḍayan .. 6.52..
6.52. His hair, nails, and beard being clipped, carrying an alms-bowl, a staff, and a water-pot, let him continually wander about, controlling himself and not hurting any creature.
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ६.५३॥
अ तैजसानि पात्राणि तस्य स्युः निर्व्रणानि च । तेषाम् अद्भिः स्मृतम् शौचम् चमसानाम् इव अध्वरे ॥ ६।५३॥
a taijasāni pātrāṇi tasya syuḥ nirvraṇāni ca . teṣām adbhiḥ smṛtam śaucam camasānām iva adhvare .. 6.53..
6.53. His vessels shall not be made of metal, they shall be free from fractures; it is ordained that they shall be cleansed with water, like (the cups, called) Kamasa, at a sacrifice.
अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । एताणि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत् ॥ ६.५४॥
अलाबुम् दारु-पात्रम् च मृण्मयम् वैदलम् तथा । एताणि यति-पात्राणि मनुः स्वायम्भुवः अब्रवीत् ॥ ६।५४॥
alābum dāru-pātram ca mṛṇmayam vaidalam tathā . etāṇi yati-pātrāṇi manuḥ svāyambhuvaḥ abravīt .. 6.54..
6.54. A gourd, a wooden bowl, an earthen (dish), or one made of split cane, Manu, the son of Svayambhu, has declared (to be) vessels (suitable) for an ascetic.
एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ६.५५॥
एक-कालम् चरेत् भैक्षम् न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तः हि यतिः विषयेषु अपि सज्जति ॥ ६।५५॥
eka-kālam caret bhaikṣam na prasajjeta vistare . bhaikṣe prasaktaḥ hi yatiḥ viṣayeṣu api sajjati .. 6.55..
6.55. Let him go to beg once (a day), let him not be eager to obtain a large quantity (of alms); for an ascetic who eagerly seeks alms, attaches himself also to sensual enjoyments.
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६॥
विधूमे सन्न-मुसले व्यङ्गारे भुक्तवत्-जने । वृत्ते शराव-सम्पाते भिक्षाम् नित्यम् यतिः चरेत् ॥ ६।५६॥
vidhūme sanna-musale vyaṅgāre bhuktavat-jane . vṛtte śarāva-sampāte bhikṣām nityam yatiḥ caret .. 6.56..
6.56. When no smoke ascends from (the kitchen), when the pestle lies motionless, when the embers have been extinguished, when the people have finished their meal, when the remnants in the dishes have been removed, let the ascetic always go to beg.
अलाभे न विषदी स्यात्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यात्मात्रासङ्गाद्विनिर्गतः ॥ ६.५७॥
अलाभे न विषदी स्यात् लाभे च एव न हर्षयेत् । प्राण-यात्रिक-मात्रः स्यात् मात्रा-सङ्गात् विनिर्गतः ॥ ६।५७॥
alābhe na viṣadī syāt lābhe ca eva na harṣayet . prāṇa-yātrika-mātraḥ syāt mātrā-saṅgāt vinirgataḥ .. 6.57..
6.57. Let him not be sorry when he obtains nothing, nor rejoice when he obtains (something), let him (accept) so much only as will sustain life, let him not care about the (quality of his) utensils.
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ ६.५८॥
अभिपूजित-लाभान् तु जुगुप्सेत एव सर्वशस् । अभिपूजित-लाभैः च यतिः मुक्तः अपि बध्यते ॥ ६।५८॥
abhipūjita-lābhān tu jugupseta eva sarvaśas . abhipūjita-lābhaiḥ ca yatiḥ muktaḥ api badhyate .. 6.58..
6.58. Let him disdain all (food) obtained in consequence of humble salutations, (for) even an ascetic who has attained final liberation, is bound (with the fetters of the Samsara) by accepting (food given) in consequence of humble salutations.
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९॥
अल्प-अन्न-अभ्यवहारेण रहः-स्थान-आसनेन च । ह्रियमाणानि विषयैः इन्द्रियाणि निवर्तयेत् ॥ ६।५९॥
alpa-anna-abhyavahāreṇa rahaḥ-sthāna-āsanena ca . hriyamāṇāni viṣayaiḥ indriyāṇi nivartayet .. 6.59..
6.59. By eating little, and by standing and sitting in solitude, let him restrain his senses, if they are attracted by sensual objects.
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६.६०॥
इन्द्रियाणाम् निरोधेन राग-द्वेष-क्षयेण च । अहिंसया च भूतानाम् अमृत-त्वाय कल्पते ॥ ६।६०॥
indriyāṇām nirodhena rāga-dveṣa-kṣayeṇa ca . ahiṃsayā ca bhūtānām amṛta-tvāya kalpate .. 6.60..
6.60. By the restraint of his senses, by the destruction of love and hatred, and by the abstention from injuring the creatures, he becomes fit for immortality.
अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥ ६.६१॥
अवेक्षेत गतीः नॄणाम् कर्म-दोष-समुद्भवाः । निरये च एव पतनम् यातनाः च यम-क्षये ॥ ६।६१॥
avekṣeta gatīḥ nṝṇām karma-doṣa-samudbhavāḥ . niraye ca eva patanam yātanāḥ ca yama-kṣaye .. 6.61..
6.61. Let him reflect on the transmigrations of men, caused by their sinful deeds, on their falling into hell, and on the torments in the world of Yama,
विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ६.६२॥
विप्रयोगम् प्रियैः च एव संयोगम् च तथा अप्रियैः । जरया च अभिभवनम् व्याधिभिः च उपपीडनम् ॥ ६।६२॥
viprayogam priyaiḥ ca eva saṃyogam ca tathā apriyaiḥ . jarayā ca abhibhavanam vyādhibhiḥ ca upapīḍanam .. 6.62..
6.62. On the separation from their dear ones, on their union with hated men, on their being overpowered by age and being tormented with diseases,
देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् । योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ ६.६३॥
देहात् उत्क्रमणम् च अस्मात् पुनर् गर्भे च सम्भवम् । योनि-कोटि-सहस्रेषु सृतीः च अस्य अन्तरात्मनः ॥ ६।६३॥
dehāt utkramaṇam ca asmāt punar garbhe ca sambhavam . yoni-koṭi-sahasreṣu sṛtīḥ ca asya antarātmanaḥ .. 6.63..
6.63. On the departure of the individual soul from this body and its new birth in (another) womb, and on its wanderings through ten thousand millions of existences,
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६.६४॥
अधर्म-प्रभवम् च एव दुःख-योगम् शरीरिणाम् । धर्म-अर्थ-प्रभवम् च एव सुख-संयोगम् अक्षयम् ॥ ६।६४॥
adharma-prabhavam ca eva duḥkha-yogam śarīriṇām . dharma-artha-prabhavam ca eva sukha-saṃyogam akṣayam .. 6.64..
6.64. On the infliction of pain on embodied (spirits), which is caused by demerit, and the gain of eternal bliss, which is caused by the attainment of their highest aim, (gained through) spiritual merit.
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु चैवोपपत्तिम् उत्तमेष्वधमेषु च ॥ ६.६५॥
सूक्ष्म-ताम् च अन्ववेक्षेत योगेन परमात्मनः । देहेषु च एव उपपत्तिम् उत्तमेषु अधमेषु च ॥ ६।६५॥
sūkṣma-tām ca anvavekṣeta yogena paramātmanaḥ . deheṣu ca eva upapattim uttameṣu adhameṣu ca .. 6.65..
6.65. By deep meditation let him recognise the subtile nature of the supreme Soul, and its presence in all organisms, both the highest and the lowest.
भूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६॥
भूषितः अपि चरेत् धर्मम् यत्र तत्र आश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गम् धर्म-कारणम् ॥ ६।६६॥
bhūṣitaḥ api caret dharmam yatra tatra āśrame rataḥ . samaḥ sarveṣu bhūteṣu na liṅgam dharma-kāraṇam .. 6.66..
6.66. To whatever order he may be attached, let him, though blemished (by a want of the external marks), fulfil his duty, equal-minded towards all creatures; (for) the external mark (of the order) is not the cause of (the acquisition of) merit.
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६.६७॥
फलम् कतक-वृक्षस्य यदि अपि अम्बु-प्रसादकम् । न नाम-ग्रहणात् एव तस्य वारि प्रसीदति ॥ ६।६७॥
phalam kataka-vṛkṣasya yadi api ambu-prasādakam . na nāma-grahaṇāt eva tasya vāri prasīdati .. 6.67..
6.67. Though the fruit of the Kataka tree (the clearing-nut) makes water clear, yet the (latter) does not become limpid in consequence of the mention of the (fruit’s) name.
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८॥
संरक्षण-अर्थम् जन्तूनाम् रात्रौ अहनि वा सदा । शरीरस्य अत्यये च एव समीक्ष्य वसुधाम् चरेत् ॥ ६।६८॥
saṃrakṣaṇa-artham jantūnām rātrau ahani vā sadā . śarīrasya atyaye ca eva samīkṣya vasudhām caret .. 6.68..
6.68. In order to preserve living creatures, let him always by day and by night, even with pain to his body, walk, carefully scanning the ground.
अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ ६.६९॥
अह्ना रात्र्या च यान् जन्तून् हिनस्ति अज्ञानतः यतिः । तेषाम् स्नात्वा विशुद्धि-अर्थम् प्राणायामान् षट् आचरेत् ॥ ६।६९॥
ahnā rātryā ca yān jantūn hinasti ajñānataḥ yatiḥ . teṣām snātvā viśuddhi-artham prāṇāyāmān ṣaṭ ācaret .. 6.69..
6.69. In order to expiate (the death) of those creatures which he unintentionally injures by day or by night, an ascetic shall bathe and perform six suppressions of the breath.
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ६.७०॥
प्राणायामाः ब्राह्मणस्य त्रयः अपि विधिवत् कृताः । व्याहृति-प्रणवैः युक्ताः विज्ञेयम् परमम् तपः ॥ ६।७०॥
prāṇāyāmāḥ brāhmaṇasya trayaḥ api vidhivat kṛtāḥ . vyāhṛti-praṇavaiḥ yuktāḥ vijñeyam paramam tapaḥ .. 6.70..
6.70. Three suppressions of the breath even, performed according to the rule, and accompanied with the (recitation of the) Vyahritis and of the syllable Om, one must know to be the highest (form of) austerity for every Brahmana.
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१॥
दह्यन्ते ध्मायमानानाम् धातूनाम् हि यथा मलाः । तथा इन्द्रियाणाम् दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६।७१॥
dahyante dhmāyamānānām dhātūnām hi yathā malāḥ . tathā indriyāṇām dahyante doṣāḥ prāṇasya nigrahāt .. 6.71..
6.71. For as the impurities of metallic ores, melted in the blast (of a furnace), are consumed, even so the taints of the organs are destroyed through the suppression of the breath.
प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२॥
प्राणायामैः दहेत् दोषान् धारणाभिः च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेन अनीश्वरान् गुणान् ॥ ६।७२॥
prāṇāyāmaiḥ dahet doṣān dhāraṇābhiḥ ca kilbiṣam . pratyāhāreṇa saṃsargān dhyānena anīśvarān guṇān .. 6.72..
6.72. Let him destroy the taints through suppressions of the breath, (the production of) sin by fixed attention, all sensual attachments by restraining (his senses and organs), and all qualities that are not lordly by meditation.
उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः । ध्यानयोगेन सम्पश्येद्गतिमस्यान्तरात्मनः ॥ ६.७३॥
उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः । ध्यान-योगेन सम्पश्येत् गतिम् अस्य अन्तरात्मनः ॥ ६।७३॥
uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ . dhyāna-yogena sampaśyet gatim asya antarātmanaḥ .. 6.73..
6.73. Let him recognise by the practice of meditation the progress of the individual soul through beings of various kinds, (a progress) hard to understand for unregenerate men.
सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ ६.७४॥
सम्यक् दर्शन-सम्पन्नः कर्मभिः न निबध्यते । दर्शनेन विहीनः तु संसारम् प्रतिपद्यते ॥ ६।७४॥
samyak darśana-sampannaḥ karmabhiḥ na nibadhyate . darśanena vihīnaḥ tu saṃsāram pratipadyate .. 6.74..
6.74. He who possesses the true insight (into the nature of the world), is not fettered by his deeds; but he who is destitute of that insight, is drawn into the circle of births and deaths.
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः । तपसश्चरणैश्चौग्रैः साधयन्तीह तत्पदम् ॥ ६.७५॥
अहिंसया इन्द्रिय-असङ्गैः वैदिकैः च एव कर्मभिः । तपसः चरणैः च औग्रैः साधयन्ति इह तत् पदम् ॥ ६।७५॥
ahiṃsayā indriya-asaṅgaiḥ vaidikaiḥ ca eva karmabhiḥ . tapasaḥ caraṇaiḥ ca augraiḥ sādhayanti iha tat padam .. 6.75..
6.75. By not injuring any creatures, by detaching the senses (from objects of enjoyment), by the rites prescribed in the Veda, and by rigorously practising austerities, (men) gain that state (even) in this (world).
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ६.७६॥
अस्थि-स्थूणम् स्नायु-युतम् मांस-शोणित-लेपनम् । चर्म-अवनद्धम् दुर्गन्धि पूर्णम् मूत्र-पुरीषयोः ॥ ६।७६॥
asthi-sthūṇam snāyu-yutam māṃsa-śoṇita-lepanam . carma-avanaddham durgandhi pūrṇam mūtra-purīṣayoḥ .. 6.76..
6.76 Let him quit this dwelling, composed of the five elements, where the bones are the beams, which is held together by tendons (instead of cords), where the flesh and the blood are the mortar,
जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ६.७७॥
जरा-शोक-समाविष्टम् रोग-आयतनम् आतुरम् । रजस्वलम् अनित्यम् च भूतावासम् इमम् त्यजेत् ॥ ६।७७॥
jarā-śoka-samāviṣṭam roga-āyatanam āturam . rajasvalam anityam ca bhūtāvāsam imam tyajet .. 6.77..
6.77. which is thatched with the skin, which is foul-smelling, filled with urine and ordure, infested by old age and sorrow, the seat of disease, harassed by pain, gloomy with passion, and perishable.
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ६.७८॥
नदी-कूलम् यथा वृक्षः वृक्षम् वा शकुनिः यथा । तथा त्यजन् इमम् देहम् कृच्छ्रात् ग्राहात् विमुच्यते ॥ ६।७८॥
nadī-kūlam yathā vṛkṣaḥ vṛkṣam vā śakuniḥ yathā . tathā tyajan imam deham kṛcchrāt grāhāt vimucyate .. 6.78..
6.78. He who leaves this body, (be it by necessity) as a tree (that is torn from) the river-bank, or (freely) like a bird (that) quits a tree, is freed from the misery (of this world, dreadful like) a shark.
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९॥
प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् । विसृज्य ध्यान-योगेन ब्रह्म अभ्येति सनातनम् ॥ ६।७९॥
priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam . visṛjya dhyāna-yogena brahma abhyeti sanātanam .. 6.79..
6.79. Making over (the merit of his own) good actions to his friends and (the guilt of) his evil deeds to his enemies, he attains the eternal Brahman by the practice of meditation.
यदा भावेन भवति सर्वभावेषु निःस्पृहः । तदा सुखमवाप्नोति प्रेत्य चैह च शाश्वतम् ॥ ६.८०॥
यदा भावेन भवति सर्व-भावेषु निःस्पृहः । तदा सुखम् अवाप्नोति प्रेत्य च एह च शाश्वतम् ॥ ६।८०॥
yadā bhāvena bhavati sarva-bhāveṣu niḥspṛhaḥ . tadā sukham avāpnoti pretya ca eha ca śāśvatam .. 6.80..
6.80. When by the disposition (of his heart) he becomes indifferent to all objects, he obtains eternal happiness both in this world and after death.
अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान् शनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ६.८१॥
अनेन विधिना सर्वान् त्यक्त्वा सङ्गान् शनैस् शनैस् । सर्व-द्वन्द्व-विनिर्मुक्तः ब्रह्मणि एव अवतिष्ठते ॥ ६।८१॥
anena vidhinā sarvān tyaktvā saṅgān śanais śanais . sarva-dvandva-vinirmuktaḥ brahmaṇi eva avatiṣṭhate .. 6.81..
6.81. He who has in this manner gradually given up all attachments and is freed from all the pairs (of opposites), reposes in Brahman alone.\
ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् । न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते ॥ ६.८२॥
ध्यानिकम् सर्वम् एव एतत् यत् एतत् अभिशब्दितम् । न हि अनध्यात्मविद् कश्चिद् क्रिया-फलम् उपाश्नुते ॥ ६।८२॥
dhyānikam sarvam eva etat yat etat abhiśabditam . na hi anadhyātmavid kaścid kriyā-phalam upāśnute .. 6.82..
6.82. All that has been declared (above) depends on meditation; for he who is not proficient in the knowledge of that which refers to the Soul reaps not the full reward of the performance of rites.
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३॥
अधियज्ञम् ब्रह्म जपेत् आधिदैविकम् एव च । आध्यात्मिकम् च सततम् वेदान्त-अभिहितम् च यत् ॥ ६।८३॥
adhiyajñam brahma japet ādhidaivikam eva ca . ādhyātmikam ca satatam vedānta-abhihitam ca yat .. 6.83..
6.83. Let him constantly recite (those texts of) the Veda which refer to the sacrifice, (those) referring to the deities, and (those) which treat of the Soul and are contained in the concluding portions of the Veda (Vedanta).
इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ६.८४॥
इदम् शरणम् अज्ञानाम् इदम् एव विजानताम् । इदम् अन्विच्छताम् स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ ६।८४॥
idam śaraṇam ajñānām idam eva vijānatām . idam anvicchatām svargam idam ānantyam icchatām .. 6.84..
6.84. That is the refuge of the ignorant, and even that (the refuse) of those who know (the meaning of the Veda); that is (the protection) of those who seek (bliss in) heaven and of those who seek endless (beatitude).
अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयैह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५॥
अनेन क्रम-योगेन परिव्रजति यः द्विजः । स विधूय एह पाप्मानम् परम् ब्रह्म अधिगच्छति ॥ ६।८५॥
anena krama-yogena parivrajati yaḥ dvijaḥ . sa vidhūya eha pāpmānam param brahma adhigacchati .. 6.85..
6.85. A twice-born man who becomes an ascetic, after the successive performance of the above-mentioned acts, shakes off sin here below and reaches the highest Brahman.
एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ६.८६॥
एष धर्मः अनुशिष्टः वः यतीनाम् नियत-आत्मनाम् । वेदसंन्यासिकानाम् तु कर्म-योगम् निबोधत ॥ ६।८६॥
eṣa dharmaḥ anuśiṣṭaḥ vaḥ yatīnām niyata-ātmanām . vedasaṃnyāsikānām tu karma-yogam nibodhata .. 6.86..
6.86. Thus the law (valid) for self-restrained ascetics has been explained to you; now listen to the (particular) duties of those who give up (the rites prescribed by) the Veda.
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ६.८७॥
ब्रह्मचारी गृहस्थः च वानप्रस्थः यतिः तथा । एते गृहस्थ-प्रभवाः चत्वारः पृथक् आश्रमाः ॥ ६।८७॥
brahmacārī gṛhasthaḥ ca vānaprasthaḥ yatiḥ tathā . ete gṛhastha-prabhavāḥ catvāraḥ pṛthak āśramāḥ .. 6.87..
6.87. The student, the householder, the hermit, and the ascetic, these (constitute) four separate orders, which all spring from (the order of) householders.
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८॥
सर्वे अपि क्रमशस् तु एते यथाशास्त्रम् निषेविताः । यथा उक्त-कारिणम् विप्रम् नयन्ति परमाम् गतिम् ॥ ६।८८॥
sarve api kramaśas tu ete yathāśāstram niṣevitāḥ . yathā ukta-kāriṇam vipram nayanti paramām gatim .. 6.88..
6.88. But all (or) even (any of) these orders, assumed successively in accordance with the Institutes (of the sacred law), lead the Brahmana who acts by the preceding (rules) to the highest state.
सर्वेषामपि चैतेषां वेदश्रुतिविधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ ६.८९॥
सर्वेषाम् अपि च एतेषाम् वेद-श्रुति-विधानतः । गृहस्थः उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ६।८९॥
sarveṣām api ca eteṣām veda-śruti-vidhānataḥ . gṛhasthaḥ ucyate śreṣṭhaḥ sa trīn etān bibharti hi .. 6.89..
6.89. And in accordance with the precepts of the Veda and of the Smriti, the housekeeper is declared to be superior to all of them; for he supports the other three.
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९०॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथा एव आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६।९०॥
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim . tathā eva āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim .. 6.90..
6.90. As all rivers, both great and small, find a resting-place in the ocean, even so men of all orders find protection with householders
चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१॥
चतुर्भिः अपि च एव एतैः नित्यम् आश्रमिभिः द्विजैः । दश-लक्षणकः धर्मः सेवितव्यः प्रयत्नतः ॥ ६।९१॥
caturbhiḥ api ca eva etaiḥ nityam āśramibhiḥ dvijaiḥ . daśa-lakṣaṇakaḥ dharmaḥ sevitavyaḥ prayatnataḥ .. 6.91..
6.91. By twice-born men belonging to (any of) these four orders, the tenfold law must be ever carefully obeyed.
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२॥
धृतिः क्षमा दमः अस्तेयम् शौचम् इन्द्रिय-निग्रहः । धीः विद्या सत्यम् अक्रोधः दशकम् धर्म-लक्षणम् ॥ ६।९२॥
dhṛtiḥ kṣamā damaḥ asteyam śaucam indriya-nigrahaḥ . dhīḥ vidyā satyam akrodhaḥ daśakam dharma-lakṣaṇam .. 6.92..
6.92. Contentment, forgiveness, self-control, abstention from unrighteously appropriating anything, (obedience to the rules of) purification, coercion of the organs, wisdom, knowledge (of the supreme Soul), truthfulness, and abstention from anger, (form) the tenfold law.
दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३॥
दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य च अनुवर्तन्ते ते यान्ति परमाम् गतिम् ॥ ६।९३॥
daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate . adhītya ca anuvartante te yānti paramām gatim .. 6.93..
6.93. Those Brahmanas who thoroughly study the tenfold law, and after studying obey it, enter the highest state.
दशलक्षणकं धर्ममनुतिष्ठन् समाहितः । वेदान्तं विधिवत्श्रुत्वा संन्यसेदनृणो द्विजः ॥ ६.९४॥
दश-लक्षणकम् धर्मम् अनुतिष्ठन् समाहितः । वेदान्तम् विधिवत् श्रुत्वा संन्यसेत् अनृणः द्विजः ॥ ६।९४॥
daśa-lakṣaṇakam dharmam anutiṣṭhan samāhitaḥ . vedāntam vidhivat śrutvā saṃnyaset anṛṇaḥ dvijaḥ .. 6.94..
6.94. A twice-born man who, with collected mind, follows the tenfold law and has paid his (three) debts, may, after learning the Vedanta according to the prescribed rule, become an ascetic.
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५॥
संन्यस्य सर्व-कर्माणि कर्म-दोषान् अपानुदन् । नियतः वेदम् अभ्यस्य पुत्र-ऐश्वर्ये सुखम् वसेत् ॥ ६।९५॥
saṃnyasya sarva-karmāṇi karma-doṣān apānudan . niyataḥ vedam abhyasya putra-aiśvarye sukham vaset .. 6.95..
6.95. Having given up (the performance of) all rites, throwing off the guilt of his (sinful) acts, subduing his organs and having studied the Veda, he may live at his ease under the protection of his son.
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥ ६.९६॥
एवम् संन्यस्य कर्माणि स्व-कार्य-परमः अस्पृहः । संन्यासेन अपहत्य एनः प्राप्नोति परमम् गतिम् ॥ ६।९६॥
evam saṃnyasya karmāṇi sva-kārya-paramaḥ aspṛhaḥ . saṃnyāsena apahatya enaḥ prāpnoti paramam gatim .. 6.96..
6.96. He who has thus given up (the performance of) all rites, who is solely intent on his own (particular) object, (and) free from desires, destroys his guilt by his renunciation and obtains the highest state.
एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७॥
एष वः अभिहितः धर्मः ब्राह्मणस्य चतुर्विधः । पुण्यः अक्षय-फलः प्रेत्य राज्ञाम् धर्मम् निबोधत ॥ ६।९७॥
eṣa vaḥ abhihitaḥ dharmaḥ brāhmaṇasya caturvidhaḥ . puṇyaḥ akṣaya-phalaḥ pretya rājñām dharmam nibodhata .. 6.97..
6.97. Thus the fourfold holy law of Brahmanas, which after death (yields) imperishable rewards, has been declared to you; now learn the duty of kings.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In