| |
|

This overlay will guide you through the buttons:

पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१॥
पुरुषस्य स्त्रियाः च एव धर्मे वर्त्मनि तिष्ठतोः । धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९।१॥
puruṣasya striyāḥ ca eva dharme vartmani tiṣṭhatoḥ . dharmye saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān .. 9.1..
9.1. I will now propound the eternal laws for a husband and his wife who keep to the path of duty, whether they be united or separated.
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२॥
अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैः दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्याः आत्मनः वशे ॥ ९।२॥
asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svaiḥ divāniśam . viṣayeṣu ca sajjantyaḥ saṃsthāpyāḥ ātmanaḥ vaśe .. 9.2..
9.2. Day and night woman must be kept in dependence by the males (of) their (families), and, if they attach themselves to sensual enjoyments, they must be kept under one’s control.
पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ९.३॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्राः न स्त्री स्वातन्त्र्यम् अर्हति ॥ ९।३॥
pitā rakṣati kaumāre bhartā rakṣati yauvane . rakṣanti sthavire putrāḥ na strī svātantryam arhati .. 9.3..
9.3. Her father protects (her) in childhood, her husband protects (her) in youth, and her sons protect (her) in old age; a woman is never fit for independence.
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः । मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ९.४॥
काले अ दाता पिता वाच्यः वाच्यः च अन् उपयन् पतिः । मृते भर्तरि पुत्रः तु वाच्यः मातुः अरक्षिता ॥ ९।४॥
kāle a dātā pitā vācyaḥ vācyaḥ ca an upayan patiḥ . mṛte bhartari putraḥ tu vācyaḥ mātuḥ arakṣitā .. 9.4..
9.4. Reprehensible is the father who gives not (his daughter in marriage) at the proper time; reprehensible is the husband who approaches not (his wife in due season), and reprehensible is the son who does not protect his mother after her husband has died.
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रिया रक्ष्या विशेषतः । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ ९.५॥
सूक्ष्मेभ्यः अपि प्रसङ्गेभ्यः स्त्रियाः रक्ष्याः विशेषतः । द्वयोः हि कुलयोः शोकम् आवहेयुः अरक्षिताः ॥ ९।५॥
sūkṣmebhyaḥ api prasaṅgebhyaḥ striyāḥ rakṣyāḥ viśeṣataḥ . dvayoḥ hi kulayoḥ śokam āvaheyuḥ arakṣitāḥ .. 9.5..
9.5. Women must particularly be guarded against evil inclinations, however trifling (they may appear); for, if they are not guarded, they will bring sorrow on two families.
इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ ९.६॥
इमम् हि सर्व-वर्णानाम् पश्यन्तः धर्मम् उत्तमम् । यतन्ते रक्षितुम् भार्याम् भर्तारः दुर्बलाः अपि ॥ ९।६॥
imam hi sarva-varṇānām paśyantaḥ dharmam uttamam . yatante rakṣitum bhāryām bhartāraḥ durbalāḥ api .. 9.6..
9.6. Considering that the highest duty of all castes, even weak husbands (must) strive to guard their wives.
स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च । स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ ९.७॥
स्वाम् प्रसूतिम् चरित्रम् च कुलम् आत्मानम् एव च । स्वम् च धर्मम् प्रयत्नेन जायाम् रक्षन् हि रक्षति ॥ ९।७॥
svām prasūtim caritram ca kulam ātmānam eva ca . svam ca dharmam prayatnena jāyām rakṣan hi rakṣati .. 9.7..
9.7. He who carefully guards his wife, preserves (the purity of) his offspring, virtuous conduct, his family, himself, and his (means of acquiring) merit.
पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वैह जायते । जायायास्तधि जायात्वं यदस्यां जायते पुनः ॥ ९.८॥
पतिः भार्याम् सम्प्रविश्य गर्भः भूत्वा इह जायते । जायायाः तधि जाया-त्वम् यत् अस्याम् जायते पुनर् ॥ ९।८॥
patiḥ bhāryām sampraviśya garbhaḥ bhūtvā iha jāyate . jāyāyāḥ tadhi jāyā-tvam yat asyām jāyate punar .. 9.8..
9.8. The husband, after conception by his wife, becomes an embryo and is born again of her; for that is the wifehood of a wife (gaya), that he is born (gayate) again by her.
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥ ९.९॥
यादृशम् भजते हि स्त्री सुतम् सूते तथाविधम् । तस्मात् प्रजा-विशुद्धि-अर्थम् स्त्रियम् रक्षेत् प्रयत्नतः ॥ ९।९॥
yādṛśam bhajate hi strī sutam sūte tathāvidham . tasmāt prajā-viśuddhi-artham striyam rakṣet prayatnataḥ .. 9.9..
9.9. As the male is to whom a wife cleaves, even so is the son whom she brings forth; let him therefore carefully guard his wife, in order to keep his offspring pure.
न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ ९.१०॥
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैः उपाय-योगैः तु शक्याः ताः परिरक्षितुम् ॥ ९।१०॥
na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum . etaiḥ upāya-yogaiḥ tu śakyāḥ tāḥ parirakṣitum .. 9.10..
9.10. No man can completely guard women by force; but they can be guarded by the employment of the (following) expedients:
अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ ९.११॥
अर्थस्य सङ्ग्रहे च एनाम् व्यये च एव नियोजयेत् । शौचे धर्मे अन्न-पक्त्याम् च पारिणाह्यस्य वेक्षणे ॥ ९।११॥
arthasya saṅgrahe ca enām vyaye ca eva niyojayet . śauce dharme anna-paktyām ca pāriṇāhyasya vekṣaṇe .. 9.11..
9.11. Let the (husband) employ his (wife) in the collection and expenditure of his wealth, in keeping (everything) clean, in (the fulfilment of) religious duties, in the preparation of his food, and in looking after the household utensils.
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ ९.१२॥
अरक्षिताः गृहे रुद्धाः पुरुषैः आप्त-कारिभिः । आत्मानम् आत्मना याः तु रक्षेयुः ताः सु रक्षिताः ॥ ९।१२॥
arakṣitāḥ gṛhe ruddhāḥ puruṣaiḥ āpta-kāribhiḥ . ātmānam ātmanā yāḥ tu rakṣeyuḥ tāḥ su rakṣitāḥ .. 9.12..
9.12. Women, confined in the house under trustworthy and obedient servants, are not (well) guarded; but those who of their own accord keep guard over themselves, are well guarded.
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ ९.१३॥
पानम् दुर्जन-संसर्गः पत्या च विरहः अटनम् । स्वप्नः अन्य-गेह-वासः च नारी-संदूषणानि षड् ॥ ९।१३॥
pānam durjana-saṃsargaḥ patyā ca virahaḥ aṭanam . svapnaḥ anya-geha-vāsaḥ ca nārī-saṃdūṣaṇāni ṣaḍ .. 9.13..
9.13. Drinking (spirituous liquor), associating with wicked people, separation from the husband, rambling abroad, sleeping (at unseasonable hours), and dwelling in other men’s houses, are the six causes of the ruin of women.
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ ९.१४॥
न एताः रूपम् परीक्षन्ते न आसाम् वयसि संस्थितिः । सुरूपम् वा विरूपम् वा पुमान् इति एव भुञ्जते ॥ ९।१४॥
na etāḥ rūpam parīkṣante na āsām vayasi saṃsthitiḥ . surūpam vā virūpam vā pumān iti eva bhuñjate .. 9.14..
9.14. Women do not care for beauty, nor is their attention fixed on age; (thinking), ’(It is enough that) he is a man,’ they give themselves to the handsome and to the ugly.
पौंश्चल्याच्चलचित्ताच्च नैःस्नेह्याच् स्वभावतः । रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ ९.१५॥
पौंश्चल्यात् चल-चित्तात् च नैःस्नेह्यात् स्वभावतः । रक्षिताः यत्नतः अपि इह भर्तृषु एताः विकुर्वते ॥ ९।१५॥
pauṃścalyāt cala-cittāt ca naiḥsnehyāt svabhāvataḥ . rakṣitāḥ yatnataḥ api iha bhartṛṣu etāḥ vikurvate .. 9.15..
9.15. Through their passion for men, through their mutable temper, through their natural heartlessness, they become disloyal towards their husbands, however carefully they may be guarded in this (world).
एवं स्वभावं ज्ञात्वाऽसां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ ९.१६॥
एवम् स्वभावम् ज्ञात्वा असाम् प्रजापति-निसर्ग-जम् । परमम् यत्नम् आतिष्ठेत् पुरुषः रक्षणम् प्रति ॥ ९।१६॥
evam svabhāvam jñātvā asām prajāpati-nisarga-jam . paramam yatnam ātiṣṭhet puruṣaḥ rakṣaṇam prati .. 9.16..
9.16. Knowing their disposition, which the Lord of creatures laid in them at the creation, to be such, (every) man should most strenuously exert himself to guard them.
शय्याऽऽसनमलङ्कारं कामं क्रोधमः अनार्यतां । द्रोग्धृभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ ९.१७॥
शय्या-आसनम् अलङ्कारम् कामम् क्रोधम् अः अनार्य-ताम् । द्रोग्धृ-भावम् कुचर्याम् च स्त्रीभ्यः मनुः अकल्पयत् ॥ ९।१७॥
śayyā-āsanam alaṅkāram kāmam krodham aḥ anārya-tām . drogdhṛ-bhāvam kucaryām ca strībhyaḥ manuḥ akalpayat .. 9.17..
9.17. (When creating them) Manu allotted to women (a love of their) bed, (of their) seat and (of) ornament, impure desires, wrath, dishonesty, malice, and bad conduct.
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियो अनृतमिति स्थितिः ॥ ९.१८॥
न अस्ति स्त्रीणाम् क्रिया मन्त्रैः इति धर्मे व्यवस्थितिः । निरिन्द्रियाः हि अमन्त्राः च स्त्रियः अनृतम् इति स्थितिः ॥ ९।१८॥
na asti strīṇām kriyā mantraiḥ iti dharme vyavasthitiḥ . nirindriyāḥ hi amantrāḥ ca striyaḥ anṛtam iti sthitiḥ .. 9.18..
9.18. For women no (sacramental) rite (is performed) with sacred texts, thus the law is settled; women (who are) destitute of strength and destitute of (the knowledge of) Vedic texts, (are as impure as) falsehood (itself), that is a fixed rule.
तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ ९.१९॥
तथा च श्रुतयः बह्व्यः निगीताः निगमेषु अपि । स्वालक्षण्य-परीक्षा-अर्थम् तासाम् शृणुत निष्कृतीः ॥ ९।१९॥
tathā ca śrutayaḥ bahvyaḥ nigītāḥ nigameṣu api . svālakṣaṇya-parīkṣā-artham tāsām śṛṇuta niṣkṛtīḥ .. 9.19..
9.19. And to this effect many sacred texts are sung also in the Vedas, in order to (make) fully known the true disposition (of women); hear (now those texts which refer to) the expiation of their (sins).
यन् मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन् मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥ ९.२०॥
यत् मे माता प्रलुलुभे विचरन्ती अपतिव्रता । तत् मे रेतः पिता वृङ्क्ताम् इति अस्य एतत् निदर्शनम् ॥ ९।२०॥
yat me mātā pralulubhe vicarantī apativratā . tat me retaḥ pitā vṛṅktām iti asya etat nidarśanam .. 9.20..
9.20. ’If my mother, going astray and unfaithful, conceived illicit desires, may my father keep that seed from me,’ that is the scriptural text.
ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ ९.२१॥
ध्यायति अनिष्टम् यत् किम् चित् पाणिग्राहस्य चेतसा । तस्य एष व्यभिचारस्य निह्नवः सम्यक् उच्यते ॥ ९।२१॥
dhyāyati aniṣṭam yat kim cit pāṇigrāhasya cetasā . tasya eṣa vyabhicārasya nihnavaḥ samyak ucyate .. 9.21..
9.21. If a woman thinks in her heart of anything that would pain her husband, the (above-mentioned text) is declared (to be a means for) completely removing such infidelity.
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेणैव निम्नगा ॥ ९.२२॥
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेण एव निम्नगा ॥ ९।२२॥
yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi . tādṛgguṇā sā bhavati samudreṇa eva nimnagā .. 9.22..
9.22. Whatever be the qualities of the man with whom a woman is united according to the law, such qualities even she assumes, like a river (united) with the ocean.
अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ ९.२३॥
अक्षमाला वसिष्ठेन संयुक्ता अधम-योनि-जा । शारङ्गी मन्दपालेन जगाम अभ्यर्हणीय-ताम् ॥ ९।२३॥
akṣamālā vasiṣṭhena saṃyuktā adhama-yoni-jā . śāraṅgī mandapālena jagāma abhyarhaṇīya-tām .. 9.23..
9.23. Akshamala, a woman of the lowest birth, being united to Vasishtha and Sarangi, (being united) to Mandapala, became worthy of honour.
एताश्चान्याश्च लोकेऽस्मिन्न अवकृष्टप्रसूतयः । उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥ ९.२४॥
एताः च अन्याः च लोके अस्मिन् न अवकृष्ट-प्रसूतयः । उत्कर्षम् योषितः प्राप्ताः स्वैः स्वैः भर्तृ-गुणैः शुभैः ॥ ९।२४॥
etāḥ ca anyāḥ ca loke asmin na avakṛṣṭa-prasūtayaḥ . utkarṣam yoṣitaḥ prāptāḥ svaiḥ svaiḥ bhartṛ-guṇaiḥ śubhaiḥ .. 9.24..
9.24. These and other females of low birth have attained eminence in this world by the respective good qualities of their husbands.
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । प्रेत्यैह च सुखोदर्कान् प्रजाधर्मान्निबोधत ॥ ९.२५॥
एषा उदिता लोकयात्रा नित्यम् स्त्रीपुंसयोः शुभा । प्रेत्य इह च सुख-उदर्कान् प्रजा-धर्मान् निबोधत ॥ ९।२५॥
eṣā uditā lokayātrā nityam strīpuṃsayoḥ śubhā . pretya iha ca sukha-udarkān prajā-dharmān nibodhata .. 9.25..
9.25. Thus has been declared the ever pure popular usage (which regulates the relations) between husband and wife; hear (next) the laws concerning children which are the cause of happiness in this world and after death.
प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ ९.२६॥
प्रजन-अर्थम् महाभागाः पूजा-अर्हाः गृह-दीप्तयः । स्त्रियः श्रियः च गेहेषु न विशेषः अस्ति कश्चन ॥ ९।२६॥
prajana-artham mahābhāgāḥ pūjā-arhāḥ gṛha-dīptayaḥ . striyaḥ śriyaḥ ca geheṣu na viśeṣaḥ asti kaścana .. 9.26..
9.26. Between wives (striyah) who (are destined) to bear children, who secure many blessings, who are worthy of worship and irradiate (their) dwellings, and between the goddesses of fortune (sriyah, who reside) in the houses (of men), there is no difference whatsoever.
उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यर्थं स्त्री निबन्धनम् ॥ ९.२७॥
उत्पादनम् अपत्यस्य जातस्य परिपालनम् । प्रत्यहम् लोकयात्रायाः प्रत्यर्थम् स्त्री निबन्धनम् ॥ ९।२७॥
utpādanam apatyasya jātasya paripālanam . pratyaham lokayātrāyāḥ pratyartham strī nibandhanam .. 9.27..
9.27. The production of children, the nurture of those born, and the daily life of men, (of these matters) woman is visibly the cause.
अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराऽधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ ९.२८॥
अपत्यम् धर्म-कार्याणि शुश्रूषा रतिः उत्तमा । दार-अधीनः तथा स्वर्गः पितॄणाम् आत्मनः च ह ॥ ९।२८॥
apatyam dharma-kāryāṇi śuśrūṣā ratiḥ uttamā . dāra-adhīnaḥ tathā svargaḥ pitṝṇām ātmanaḥ ca ha .. 9.28..
9.28. Offspring, (the due performance on religious rites, faithful service, highest conjugal happiness and heavenly bliss for the ancestors and oneself, depend on one’s wife alone.
पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीइति चोच्यते ॥ ९.२९॥
पतिम् या न अभिचरति मनः-वाच्-देह-संयता । सा भर्तृ-लोकान् आप्नोति सद्भिः साध्वी इति च उच्यते ॥ ९।२९॥
patim yā na abhicarati manaḥ-vāc-deha-saṃyatā . sā bhartṛ-lokān āpnoti sadbhiḥ sādhvī iti ca ucyate .. 9.29..
9.29. She who, controlling her thoughts, speech, and acts, violates not her duty towards her lord, dwells with him (after death) in heaven, and in this world is called by the virtuous a faithful (wife, sadhvi)
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ ९.३०॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्य-ताम् । शृगाल-योनिम् च आप्नोति पाप-रोगैः च पीड्यते ॥ ९।३०॥
vyabhicārāt tu bhartuḥ strī loke prāpnoti nindya-tām . śṛgāla-yonim ca āpnoti pāpa-rogaiḥ ca pīḍyate .. 9.30..
9.30. But for disloyalty to her husband a wife is censured among men, and (in her next life) she is born in the womb of a jackal and tormented by diseases, the punishment of her sin.
पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः । विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ९.३१॥
पुत्रम् प्रत्युदितम् सद्भिः पूर्वजैः च महा-ऋषिभिः । विश्वजन्यम् इमम् पुण्यम् उपन्यासम् निबोधत ॥ ९।३१॥
putram pratyuditam sadbhiḥ pūrvajaiḥ ca mahā-ṛṣibhiḥ . viśvajanyam imam puṇyam upanyāsam nibodhata .. 9.31..
9.31. Listen (now) to the following holy discussion, salutary to all men, which the virtuous (of the present day) and the ancient great sages have held concerning male offspring.
भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ॥ ९.३२॥
भर्तुः पुत्रम् विजानन्ति श्रुति-द्वैधम् तु कर्तरि । आहुः उत्पादकम् के चित् अपरे क्षेत्रिणम् विदुः ॥ ९।३२॥
bhartuḥ putram vijānanti śruti-dvaidham tu kartari . āhuḥ utpādakam ke cit apare kṣetriṇam viduḥ .. 9.32..
9.32. They (all) say that the male issue (of a woman) belongs to the lord, but with respect to the (meaning of the term) lord the revealed texts differ; some call the begetter (of the child the lord), others declare (that it is) the owner of the soil
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात्सम्भवः सर्वदेहिनाम् ॥ ९.३३॥
क्षेत्र-भूता स्मृता नारी बीज-भूतः स्मृतः पुमान् । क्षेत्र-बीज-समायोगात् सम्भवः सर्व-देहिनाम् ॥ ९।३३॥
kṣetra-bhūtā smṛtā nārī bīja-bhūtaḥ smṛtaḥ pumān . kṣetra-bīja-samāyogāt sambhavaḥ sarva-dehinām .. 9.33..
9.33. By the sacred tradition the woman is declared to be the soil, the man is declared to be the seed; the production of all corporeal beings (takes place) through the union of the soil with the seed.
विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ९.३४॥
विशिष्टम् कुत्र चित् बीजम् स्त्री-योनिः तु एव कुत्र चित् । उभयम् तु समम् यत्र सा प्रसूतिः प्रशस्यते ॥ ९।३४॥
viśiṣṭam kutra cit bījam strī-yoniḥ tu eva kutra cit . ubhayam tu samam yatra sā prasūtiḥ praśasyate .. 9.34..
9.34. In some cases the seed is more distinguished, and in some the womb of the female; but when both are equal, the offspring is most highly esteemed.
बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते । सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ ९.३५॥
बीजस्य च एव योन्याः च बीजम् उत्कृष्टम् उच्यते । सर्व-भूत-प्रसूतिः हि बीज-लक्षण-लक्षिता ॥ ९।३५॥
bījasya ca eva yonyāḥ ca bījam utkṛṣṭam ucyate . sarva-bhūta-prasūtiḥ hi bīja-lakṣaṇa-lakṣitā .. 9.35..
9.35. On comparing the seed and the receptacle (of the seed), the seed is declared to be more important; for the offspring of all created beings is marked by the characteristics of the seed.
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥ ९.३६॥
यादृशम् तु उप्यते बीजम् क्षेत्रे काल-उपपादिते । तादृश् रोहति तत् तस्मिन् बीजम् स्वैः व्यञ्जितम् गुणैः ॥ ९।३६॥
yādṛśam tu upyate bījam kṣetre kāla-upapādite . tādṛś rohati tat tasmin bījam svaiḥ vyañjitam guṇaiḥ .. 9.36..
9.36. Whatever (kind on seed is sown in a field, prepared in due season, (a plant) of that same kind, marked with the peculiar qualities of the seed, springs up in it.
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते । न च योनिगुणान् कांश्चिद्बीजं पुष्यति पुष्टिषु ॥ ९.३७॥
इयम् भूमिः हि भूतानाम् शाश्वती योनिः उच्यते । न च योनि-गुणान् कांश्चिद् बीजम् पुष्यति पुष्टिषु ॥ ९।३७॥
iyam bhūmiḥ hi bhūtānām śāśvatī yoniḥ ucyate . na ca yoni-guṇān kāṃścid bījam puṣyati puṣṭiṣu .. 9.37..
9.37. This earth, indeed, is called the primeval womb of created beings; but the seed develops not in its development any properties of the womb.
भूमावप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥ ९.३८॥
भूमौ अपि एक-केदारे काल-उप्तानि कृषीवलैः । नाना रूपाणि जायन्ते बीजानि इह स्वभावतः ॥ ९।३८॥
bhūmau api eka-kedāre kāla-uptāni kṛṣīvalaiḥ . nānā rūpāṇi jāyante bījāni iha svabhāvataḥ .. 9.38..
9.38. In this world seeds of different kinds, sown at the proper time in the land, even in one field, come forth (each) according to its kind.
व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ ९.३९॥
व्रीहयः शालयः मुद्गाः तिलाः माषाः तथा यवाः । यथाबीजम् प्ररोहन्ति लशुनान् ईक्षवः तथा ॥ ९।३९॥
vrīhayaḥ śālayaḥ mudgāḥ tilāḥ māṣāḥ tathā yavāḥ . yathābījam prarohanti laśunān īkṣavaḥ tathā .. 9.39..
9.39. The rice (called) vrihi and (that called) sali, mudga-beans, sesamum, masha-beans, barley, leeks, and sugar-cane, (all) spring up according to their seed.
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते । उप्यते यधि यद्बीजं तत्तदेव प्ररोहति ॥ ९.४०॥
अन्यत् उप्तम् जातम् अन्यत् इति एतत् न उपपद्यते । उप्यते यधि यत् बीजम् तत् तत् एव प्ररोहति ॥ ९।४०॥
anyat uptam jātam anyat iti etat na upapadyate . upyate yadhi yat bījam tat tat eva prarohati .. 9.40..
9.40. That one (plant) should be sown and another be produced cannot happen; whatever seed is sown, (a plant of) that kind even comes forth.
तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना । आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ९.४१॥
तत् प्राज्ञेन विनीतेन ज्ञान-विज्ञान-वेदिना । आयुष्कामेन वप्तव्यम् न जातु पर-योषिति ॥ ९।४१॥
tat prājñena vinītena jñāna-vijñāna-vedinā . āyuṣkāmena vaptavyam na jātu para-yoṣiti .. 9.41..
9.41. Never therefore must a prudent well-trained man, who knows the Veda and its Angas and desires long life, cohabit with another’s wife.
अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२॥
अत्र गाथाः वायु-गीताः कीर्तयन्ति । यथा बीजम् न वप्तव्यम् पुंसा पर-परिग्रहे ॥ ९।४२॥
atra gāthāḥ vāyu-gītāḥ kīrtayanti . yathā bījam na vaptavyam puṃsā para-parigrahe .. 9.42..
9.42. With respect to this (matter), those acquainted with the past recite some stanzas, sung by Vayu (the Wind, to show) that seed must not be sown by (any) man on that which belongs to another.
नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः । तथा नश्यति वै क्षिप्तं बीजं परपरिग्रहे ॥ ९.४३॥
नश्यति इषुः यथा विद्धः खे विद्धम् अनुविध्यतः । तथा नश्यति वै क्षिप्तम् बीजम् पर-परिग्रहे ॥ ९।४३॥
naśyati iṣuḥ yathā viddhaḥ khe viddham anuvidhyataḥ . tathā naśyati vai kṣiptam bījam para-parigrahe .. 9.43..
9.43. As the arrow, shot by (a hunter) who afterwards hits a wounded (deer) in the wound (made by another), is shot in vain, even so the seed, sown on what belongs to another, is quickly lost (to the sower).
पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ॥ ९.४४॥
पृथोः अपि इमाम् पृथिवीम् भार्याम् पूर्वविदः विदुः । स्थाणुच्छेदस्य केदारम् आहुः मृगम् ॥ ९।४४॥
pṛthoḥ api imām pṛthivīm bhāryām pūrvavidaḥ viduḥ . sthāṇucchedasya kedāram āhuḥ mṛgam .. 9.44..
9.44. (Sages) who know the past call this earth (prithivi) even the wife of Prithu; they declare a field to belong to him who cleared away the timber, and a deer to him who (first) wounded it.
एतावानेव पुरुषो यत्जायाऽत्मा प्रजैति ह । विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥ ९.४५॥
एतावान् एव पुरुषः यत् जाया आत्मा प्रजा एति ह । विप्राः प्राहुः तथा च एतत् यः भर्ता सा स्मृता अङ्गना ॥ ९।४५॥
etāvān eva puruṣaḥ yat jāyā ātmā prajā eti ha . viprāḥ prāhuḥ tathā ca etat yaḥ bhartā sā smṛtā aṅganā .. 9.45..
9.45. He only is a perfect man who consists (of three persons united), his wife, himself, and his offspring; thus (says the Veda), and (learned) Brahmanas propound this (maxim) likewise, ’The husband is declared to be one with the wife.
न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् ॥ ९.४६॥
न निष्क्रय-विसर्गाभ्याम् भर्तुः भार्या विमुच्यते । एवम् धर्मम् विजानीमः प्राक् प्रजापति-निर्मितम् ॥ ९।४६॥
na niṣkraya-visargābhyām bhartuḥ bhāryā vimucyate . evam dharmam vijānīmaḥ prāk prajāpati-nirmitam .. 9.46..
9.46. Neither by sale nor by repudiation is a wife released from her husband; such we know the law to be, which the Lord of creatures (Pragapati) made of old.
सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददामीति त्रीण्येतानि सतां सकृत् ॥ ९.४७॥
सकृत् अंशः निपतति सकृत् कन्या प्रदीयते । सकृत् आह ददामि इति त्रीणि एतानि सताम् सकृत् ॥ ९।४७॥
sakṛt aṃśaḥ nipatati sakṛt kanyā pradīyate . sakṛt āha dadāmi iti trīṇi etāni satām sakṛt .. 9.47..
9.47. Once is the partition (of the inheritance) made, (once is) a maiden given in marriage, (and) once does (a man) say,’ I will give;’ each of those three (acts is done) once only.
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ ९.४८॥
यथा गो-अश्व-उष्ट्र-दासीषु महिषी-अजा-अविकासु च । न उत्पादकः प्रजा-भागी तथा एव अन्य-अङ्गनासु अपि ॥ ९।४८॥
yathā go-aśva-uṣṭra-dāsīṣu mahiṣī-ajā-avikāsu ca . na utpādakaḥ prajā-bhāgī tathā eva anya-aṅganāsu api .. 9.48..
9.48. As with cows, mares, female camels, slave-girls, buffalo-cows, she-goats, and ewes, it is not the begetter (or his owner) who obtains the offspring, even thus (it is) with the wives of others.
येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥ ९.४९॥
ये अक्षेत्रिणः बीजवन्तः पर-क्षेत्र-प्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलम् क्व चित् ॥ ९।४९॥
ye akṣetriṇaḥ bījavantaḥ para-kṣetra-pravāpiṇaḥ . te vai sasyasya jātasya na labhante phalam kva cit .. 9.49..
9.49. Those who, having no property in a field, but possessing seed-corn, sow it in another’s soil, do indeed not receive the grain of the crop which may spring up.
यदन्यगोषु वृषभो वत्सानां जनयेत्शतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥ ९.५०॥
यत् अन्य-गोषु वृषभः वत्सानाम् जनयेत् शतम् । गोमिनाम् एव ते वत्साः मोघम् स्कन्दितम् आर्षभम् ॥ ९।५०॥
yat anya-goṣu vṛṣabhaḥ vatsānām janayet śatam . gominām eva te vatsāḥ mogham skanditam ārṣabham .. 9.50..
9.50. If (one man’s) bull were to beget a hundred calves on another man’s cows, they would belong to the owner of the cows; in vain would the bull have spent his strength.
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥ ९.५१॥
तथा एव अक्षेत्रिणः बीजम् पर-क्षेत्र-प्रवापिणः । कुर्वन्ति क्षेत्रिणाम् अर्थम् न बीजी लभते फलम् ॥ ९।५१॥
tathā eva akṣetriṇaḥ bījam para-kṣetra-pravāpiṇaḥ . kurvanti kṣetriṇām artham na bījī labhate phalam .. 9.51..
9.51. Thus men who have no marital property in women, but sow their seed in the soil of others, benefit the owner of the woman; but the giver of the seed reaps no advantage.
फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी ॥ ९.५२॥
फलम् तु अन् अभिसंधाय क्षेत्रिणाम् बीजिनाम् तथा । प्रत्यक्षम् क्षेत्रिणाम् अर्थः बीजात् योनिः गरीयसी ॥ ९।५२॥
phalam tu an abhisaṃdhāya kṣetriṇām bījinām tathā . pratyakṣam kṣetriṇām arthaḥ bījāt yoniḥ garīyasī .. 9.52..
9.52. If no agreement with respect to the crop has been made between the owner of the field and the owner of the seed, the benefit clearly belongs to the owner of the field; the receptacle is more important than the seed.
क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत्प्रदीयते । तस्यैह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ९.५३॥
क्रिया-अभ्युपगमात् तु एतत् बीज-अर्थम् यत् प्रदीयते । तस्य इह भागिनौ दृष्टौ बीजी क्षेत्रिकः एव च ॥ ९।५३॥
kriyā-abhyupagamāt tu etat bīja-artham yat pradīyate . tasya iha bhāginau dṛṣṭau bījī kṣetrikaḥ eva ca .. 9.53..
9.53. But if by a special contract (a field) is made over (to another) for sowing, then the owner of the seed and the owner of the soil are both considered in this world as sharers of the (crop).
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम्॥ ९.५४॥
ओघ-वात-आहृतम् बीजम् यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्य एव तत् बीजम् न बीजी लभते फलम्॥ ९।५४॥
ogha-vāta-āhṛtam bījam yasya kṣetre prarohati . kṣetrikasya eva tat bījam na bījī labhate phalam.. 9.54..
9.54. If seed be carried by water or wind into somebody’s field and germinates (there), the (plant sprung from that) seed belongs even to the owner of the field, the owner of the seed does not receive the crop.
एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च । विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ९.५५॥
एष धर्मः गवाश्वस्य दासी-उष्ट्र-अजाविकस्य च । विहङ्ग-महिषीणाम् च विज्ञेयः प्रसवम् प्रति ॥ ९।५५॥
eṣa dharmaḥ gavāśvasya dāsī-uṣṭra-ajāvikasya ca . vihaṅga-mahiṣīṇām ca vijñeyaḥ prasavam prati .. 9.55..
9.55. Know that such is the law concerning the offspring of cows, mares, slave-girls, female camels, she-goats, and ewes, as well as of females of birds and buffalo-cows.
एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ ९.५६॥
एतत् वः सार-फल्गु-त्वम् बीज-योन्योः प्रकीर्तितम् । अतस् परम् प्रवक्ष्यामि योषिताम् धर्मम् आपदि ॥ ९।५६॥
etat vaḥ sāra-phalgu-tvam bīja-yonyoḥ prakīrtitam . atas param pravakṣyāmi yoṣitām dharmam āpadi .. 9.56..
9.56. Thus the comparative importance of the seed and of the womb has been declared to you; I will next propound the law (applicable) to women in times of misfortune.
भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा । यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९.५७॥
भ्रातुः ज्येष्ठस्य भार्या या गुरु-पत्नी-अनुजस्य सा । यवीयसः तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९।५७॥
bhrātuḥ jyeṣṭhasya bhāryā yā guru-patnī-anujasya sā . yavīyasaḥ tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā .. 9.57..
9.57. The wife of an elder brother is for his younger (brother) the wife of a Guru; but the wife of the younger is declared (to be) the daughter-in-law of the elder.
ज्येष्ठो यवीयसो भार्यां यवीयान् वाऽग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ९.५८॥
ज्येष्ठः यवीयसः भार्याम् यवीयान् वा अग्रज-स्त्रियम् । पतितौ भवतः गत्वा नियुक्तौ अपि अनापदि ॥ ९।५८॥
jyeṣṭhaḥ yavīyasaḥ bhāryām yavīyān vā agraja-striyam . patitau bhavataḥ gatvā niyuktau api anāpadi .. 9.58..
9.58. An elder (brother) who approaches the wife of the younger, and a younger (brother who approaches) the wife of the elder, except in times of misfortune, both become outcasts, even though (they were duly) authorised.
देवराद्वा सपिण्डाद्वा स्त्रिया सम्यक्नियुक्तया । प्रजेप्सिताऽऽधिगन्तव्या संतानस्य परिक्षये ॥ ९.५९॥
देवरात् वा सपिण्डात् वा स्त्रिया सम्यक् नियुक्तया । संतानस्य परिक्षये ॥ ९।५९॥
devarāt vā sapiṇḍāt vā striyā samyak niyuktayā . saṃtānasya parikṣaye .. 9.59..
9.59. On failure of issue (by her husband) a woman who has been authorised, may obtain, (in the) proper (manner prescribed), the desired offspring by (cohabitation with) a brother-in-law or (with some other) Sapinda (of the husband).
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथं चन ॥ ९.६०॥
विधवायाम् नियुक्तः तु घृत-अक्तः वाग्यतः निशि । एकम् उत्पादयेत् पुत्रम् न द्वितीयम् कथम् चन ॥ ९।६०॥
vidhavāyām niyuktaḥ tu ghṛta-aktaḥ vāgyataḥ niśi . ekam utpādayet putram na dvitīyam katham cana .. 9.60..
9.60. He (who is) appointed to (cohabit with) the widow shall (approach her) at night anointed with clarified butter and silent, (and) beget one son, by no means a second.
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ ९.६१॥
द्वितीयम् एके प्रजनम् मन्यन्ते स्त्रीषु तद्-विदः । अनिर्वृत्तम् नियोग-अर्थम् पश्यन्तः धर्मतः तयोः ॥ ९।६१॥
dvitīyam eke prajanam manyante strīṣu tad-vidaḥ . anirvṛttam niyoga-artham paśyantaḥ dharmataḥ tayoḥ .. 9.61..
9.61. Some (sages), versed in the law, considering the purpose of the appointment not to have been attained by those two (on the birth of the first), think that a second (son) may be lawfully procreated on (such) women.
विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । निवृत्ते गुरुवत्च स्नुषावत्च वर्तेयातां परस्परम् ॥ ९.६२॥
विधवायाम् नियोग-अर्थे निर्वृत्ते तु यथाविधि । निवृत्ते गुरु-वत् च स्नुषा-वत् च वर्तेयाताम् परस्परम् ॥ ९।६२॥
vidhavāyām niyoga-arthe nirvṛtte tu yathāvidhi . nivṛtte guru-vat ca snuṣā-vat ca varteyātām parasparam .. 9.62..
9.62. But when the purpose of the appointment to (cohabit with) the widow bas been attained in accordance with the law, those two shall behave towards each other like a father and a daughter-in-law.
नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३॥
नियुक्तौ यौ विधिम् हित्वा वर्तेयाताम् तु कामतः । तौ उभौ पतितौ स्याताम् स्नुषा-ग-गुरुतल्प-गौ ॥ ९।६३॥
niyuktau yau vidhim hitvā varteyātām tu kāmataḥ . tau ubhau patitau syātām snuṣā-ga-gurutalpa-gau .. 9.63..
9.63. If those two (being thus) appointed deviate from the rule and act from carnal desire, they will both become outcasts, (as men) who defile the bed of a daughter-in-law or of a Guru.
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ ९.६४॥
न अन्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जानाः धर्मम् हन्युः सनातनम् ॥ ९।६४॥
na anyasmin vidhavā nārī niyoktavyā dvijātibhiḥ . anyasmin hi niyuñjānāḥ dharmam hanyuḥ sanātanam .. 9.64..
9.64. By twice-born men a widow must not be appointed to (cohabit with) any other (than her husband); for they who appoint (her) to another (man), will violate the eternal law.
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥ ९.६५॥
न उद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । न विवाह-विधौ उक्तम् विधवा-वेदनम् पुनर् ॥ ९।६५॥
na udvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit . na vivāha-vidhau uktam vidhavā-vedanam punar .. 9.65..
9.65. In the sacred texts which refer to marriage the appointment (of widows) is nowhere mentioned, nor is the re-marriage of widows prescribed in the rules concerning marriage.
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ ९.६६॥
अयम् द्विजैः हि विद्वद्भिः पशुधर्मः विगर्हितः । मनुष्याणाम् अपि प्रोक्तः वेने राज्यम् प्रशासति ॥ ९।६६॥
ayam dvijaiḥ hi vidvadbhiḥ paśudharmaḥ vigarhitaḥ . manuṣyāṇām api proktaḥ vene rājyam praśāsati .. 9.66..
9.66. This practice which is reprehended by the learned of the twice-born castes as fit for cattle is said (to have occurred) even among men, while Vena ruled.
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥ ९.६७॥
स महीम् अखिलाम् भुञ्जन् राजर्षि-प्रवरः पुरा । वर्णानाम् सङ्करम् चक्रे काम-उपहत-चेतनः ॥ ९।६७॥
sa mahīm akhilām bhuñjan rājarṣi-pravaraḥ purā . varṇānām saṅkaram cakre kāma-upahata-cetanaḥ .. 9.67..
9.67. That chief of royal sages who formerly possessed the whole world, caused a confusion of the castes (varna), his intellect being destroyed by lust.
ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ ९.६८॥
ततस् प्रभृति यः मोहात् प्रमीत-पतिकाम् स्त्रियम् । नियोजयति अपत्य-अर्थम् तम् विगर्हन्ति साधवः ॥ ९।६८॥
tatas prabhṛti yaḥ mohāt pramīta-patikām striyam . niyojayati apatya-artham tam vigarhanti sādhavaḥ .. 9.68..
9.68. Since that (time) the virtuous censure that (man) who in his folly appoints a woman, whose husband died, to (bear) children (to another man).
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ ९.६९॥
यस्याः कन्यायाः वाचा सत्ये कृते पतिः । ताम् अनेन विधानेन निजः विन्देत देवरः ॥ ९।६९॥
yasyāḥ kanyāyāḥ vācā satye kṛte patiḥ . tām anena vidhānena nijaḥ vindeta devaraḥ .. 9.69..
9.69. If the (future) husband of a maiden dies after troth verbally plighted, her brother-in-law shall wed her according to the following rule.
यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेता प्रसवात्सकृत्सकृदृतावृतौ ॥ ९.७०॥
यथाविधि अधिगम्य एनाम् शुक्ल-वस्त्राम् शुचि-व्रताम् । मिथस् भजेत आ प्रसवात् सकृत् सकृत् ऋतौ ऋतौ ॥ ९।७०॥
yathāvidhi adhigamya enām śukla-vastrām śuci-vratām . mithas bhajeta ā prasavāt sakṛt sakṛt ṛtau ṛtau .. 9.70..
9.70. Having, according to the rule, espoused her (who must be) clad in white garments and be intent on purity, he shall approach her once in each proper season until issue (be had).
न दत्त्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ ९.७१॥
न दत्त्वा कस्य चित् कन्याम् पुनर् दद्यात् विचक्षणः । दत्त्वा पुनर् प्रयच्छन् हि प्राप्नोति पुरुष-अनृतम् ॥ ९।७१॥
na dattvā kasya cit kanyām punar dadyāt vicakṣaṇaḥ . dattvā punar prayacchan hi prāpnoti puruṣa-anṛtam .. 9.71..
9.71. Let no prudent man, after giving his daughter to one (man), give her again to another; for he who gives (his daughter) whom he had before given, incurs (the guilt of) speaking falsely regarding a human being.
विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ ९.७२॥
विधिवत् प्रतिगृह्य अपि त्यजेत् कन्याम् विगर्हिताम् । व्याधिताम् विप्रदुष्टाम् वा छद्मना च उपपादिताम् ॥ ९।७२॥
vidhivat pratigṛhya api tyajet kanyām vigarhitām . vyādhitām vipraduṣṭām vā chadmanā ca upapāditām .. 9.72..
9.72. Though (a man) may have accepted a damsel in due form, he may abandon (her if she be) blemished, diseased, or deflowered, and (if she have been) given with fraud.
यस्तु दोषवतीं कन्यामनाख्यायौपपादयेत् । तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥ ९.७३॥
यः तु दोषवतीम् कन्याम् अन् आख्याय उपपादयेत् । तस्य तत् वितथम् कुर्यात् कन्यादातुः दुरात्मनः ॥ ९।७३॥
yaḥ tu doṣavatīm kanyām an ākhyāya upapādayet . tasya tat vitatham kuryāt kanyādātuḥ durātmanaḥ .. 9.73..
9.73. If anybody gives away a maiden possessing blemishes without declaring them, (the bridegroom) may annul that (contract) with the evil-minded giver.
विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥ ९.७४॥
विधाय वृत्तिम् भार्यायाः प्रवसेत् कार्यवान् नरः । अवृत्ति-कर्शिता हि स्त्री प्रदुष्येत् स्थितिमती अपि ॥ ९।७४॥
vidhāya vṛttim bhāryāyāḥ pravaset kāryavān naraḥ . avṛtti-karśitā hi strī praduṣyet sthitimatī api .. 9.74..
9.74. A man who has business (abroad) may depart after securing a maintenance for his wife; for a wife, even though virtuous, may be corrupted if she be distressed by want of subsistence.
विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता । प्रोषिते त्वविधायैव जीवेत्शिल्पैरगर्हितैः ॥ ९.७५॥
विधाय प्रोषिते वृत्तिम् जीवेत् नियमम् आस्थिता । प्रोषिते तु अ विधाय एव जीवेत् शिल्पैः अगर्हितैः ॥ ९।७५॥
vidhāya proṣite vṛttim jīvet niyamam āsthitā . proṣite tu a vidhāya eva jīvet śilpaiḥ agarhitaiḥ .. 9.75..
9.75. If (the husband) went on a journey after providing (for her), the wife shall subject herself to restraints in her daily life; but if he departed without providing (for her), she may subsist by blameless manual work.
प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः । विद्यार्थं षट् यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥ ९.७६॥
प्रोषितः धर्म-कार्य-अर्थम् प्रतीक्ष्यः अष्टौ नरः समाः । विद्या-अर्थम् षट् यशः-अर्थम् वा काम-अर्थम् त्रीन् तु वत्सरान् ॥ ९।७६॥
proṣitaḥ dharma-kārya-artham pratīkṣyaḥ aṣṭau naraḥ samāḥ . vidyā-artham ṣaṭ yaśaḥ-artham vā kāma-artham trīn tu vatsarān .. 9.76..
9.76. If the husband went abroad for some sacred duty, (she) must wait for him eight years, if (he went) to (acquire) learning or fame six (years), if (he went) for pleasure three years.
संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । द्विषाणांऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ९.७७॥
संवत्सरम् प्रतीक्षेत द्विषन्तीम् योषितम् पतिः । द्विषाणाम् ऊर्ध्वम् संवत्सरात् तु एनाम् दायम् हृत्वा न संवसेत् ॥ ९।७७॥
saṃvatsaram pratīkṣeta dviṣantīm yoṣitam patiḥ . dviṣāṇām ūrdhvam saṃvatsarāt tu enām dāyam hṛtvā na saṃvaset .. 9.77..
9.77. For one year let a husband bear with a wife who hates him; but after (the lapse of) a year let him deprive her of her property and cease to cohabit with her.
अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥ ९.७८॥
अतिक्रामेत् प्रमत्तम् या मत्तम् रोग-आर्तम् एव वा । सा त्रीन् मासान् परित्याज्या विभूषण-परिच्छदा ॥ ९।७८॥
atikrāmet pramattam yā mattam roga-ārtam eva vā . sā trīn māsān parityājyā vibhūṣaṇa-paricchadā .. 9.78..
9.78. She who shows disrespect to (a husband) who is addicted to (some evil) passion, is a drunkard, or diseased, shall be deserted for three months (and be) deprived of her ornaments and furniture.
उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् । न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ॥ ९.७९॥
उन्मत्तम् पतितम् क्लीबम् अबीजम् पाप-रोगिणम् । न त्यागः अस्ति द्विषन्त्याः च न च दाय-अपवर्तनम् ॥ ९।७९॥
unmattam patitam klībam abījam pāpa-rogiṇam . na tyāgaḥ asti dviṣantyāḥ ca na ca dāya-apavartanam .. 9.79..
9.79. But she who shows aversion towards a mad or outcast (husband), a eunuch, one destitute of manly strength, or one afflicted with such diseases as punish crimes, shall neither be cast off nor be deprived of her property.
मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥ ९.८०॥
मद्यप-असत्य-वृत्ता च प्रतिकूला च या भवेत् । व्याधिता वा अधिवेत्तव्या हिंस्रा अर्थ-घ्नी च सर्वदा ॥ ९।८०॥
madyapa-asatya-vṛttā ca pratikūlā ca yā bhavet . vyādhitā vā adhivettavyā hiṃsrā artha-ghnī ca sarvadā .. 9.80..
9.80. She who drinks spirituous liquor, is of bad conduct, rebellious, diseased, mischievous, or wasteful, may at any time be superseded (by another wife).
वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ ९.८१॥
वन्ध्या अष्टमे अधिवेद्या अब्दे दशमे तु मृत-प्रजा । एकादशे स्त्री-जननी सद्यस् तु अप्रिय-वादिनी ॥ ९।८१॥
vandhyā aṣṭame adhivedyā abde daśame tu mṛta-prajā . ekādaśe strī-jananī sadyas tu apriya-vādinī .. 9.81..
9.81. A barren wife may be superseded in the eighth year, she whose children (all) die in the tenth, she who bears only daughters in the eleventh, but she who is quarrelsome without delay.
या रोगिणी स्यात्तु हिता सम्पन्ना चैव शीलतः । साऽनुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ ९.८२॥
या रोगिणी स्यात् तु हिता सम्पन्ना च एव शीलतः । सा अनुज्ञाप्य अधिवेत्तव्या न अवमान्या च कर्हि चित् ॥ ९।८२॥
yā rogiṇī syāt tu hitā sampannā ca eva śīlataḥ . sā anujñāpya adhivettavyā na avamānyā ca karhi cit .. 9.82..
9.82. But a sick wife who is kind (to her husband) and virtuous in her conduct, may be superseded (only) with her own consent and must never be disgraced.
अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ ९.८३॥
अधिविन्ना तु या नारी निर्गच्छेत् रुषिता गृहात् । सा सद्यस् संनिरोद्धव्या त्याज्या वा कुल-संनिधौ ॥ ९।८३॥
adhivinnā tu yā nārī nirgacchet ruṣitā gṛhāt . sā sadyas saṃniroddhavyā tyājyā vā kula-saṃnidhau .. 9.83..
9.83. A wife who, being superseded, in anger departs from (her husband’s) house, must either be instantly confined or cast off in the presence of the family.
प्रतिषेधे पिबेद्या तु मद्यमभ्युदयेष्वपि । प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४॥
प्रतिषेधे पिबेत् या तु मद्यम् अभ्युदयेषु अपि । प्रेक्षासमाजम् गच्छेत् वा सा दण्ड्या कृष्णलानि षट् ॥ ९।८४॥
pratiṣedhe pibet yā tu madyam abhyudayeṣu api . prekṣāsamājam gacchet vā sā daṇḍyā kṛṣṇalāni ṣaṭ .. 9.84..
9.84. But she who, though having been forbidden, drinks spirituous liquor even at festivals, or goes to public spectacles or assemblies, shall be fined six krishnalas.
यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः । तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च ॥ ९.८५॥
यदि स्वाः च अपराः च एव विन्देरन् योषितः द्विजाः । तासाम् वर्ण-क्रमेण स्यात् ज्येष्ठ्यम् पूजा च वेश्म च ॥ ९।८५॥
yadi svāḥ ca aparāḥ ca eva vinderan yoṣitaḥ dvijāḥ . tāsām varṇa-krameṇa syāt jyeṣṭhyam pūjā ca veśma ca .. 9.85..
9.85. If twice-born men wed women of their own and of other (lower castes), the seniority, honour, and habitation of those (wives) must be (settled) according to the order of the castes (varna).
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा स्वैव कुर्यात्सर्वेषां नास्वजातिः कथं चन ॥ ९.८६॥
भर्तुः शरीर-शुश्रूषाम् धर्म-कार्यम् च नैत्यकम् । स्वा स्वा एव कुर्यात् सर्वेषाम् न अस्वजातिः कथम् चन ॥ ९।८६॥
bhartuḥ śarīra-śuśrūṣām dharma-kāryam ca naityakam . svā svā eva kuryāt sarveṣām na asvajātiḥ katham cana .. 9.86..
9.86. Among all (twice-born men) the wife of equal caste alone, not a wife of a different caste by any means, shall personally attend her husband and assist him in his daily sacred rites.
यस्तु तत्कारयेन् मोहात्सजात्या स्थितयाऽन्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ ९.८७॥
यः तु तत् कारयेत् मोहात् सजात्या स्थितया अन्यया । यथा ब्राह्मणचाण्डालः पूर्व-दृष्टः तथा एव सः ॥ ९।८७॥
yaḥ tu tat kārayet mohāt sajātyā sthitayā anyayā . yathā brāhmaṇacāṇḍālaḥ pūrva-dṛṣṭaḥ tathā eva saḥ .. 9.87..
9.87. But he who foolishly causes that (duty) to be performed by another, while his wife of equal caste is alive, is declared by the ancients (to be) as (despicable) as a Kandala (sprung from the) Brahmana (caste).
उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ९.८८॥
उत्कृष्टाय अभिरूपाय वराय सदृशाय च । अप्राप्ताम् अपि ताम् तस्मै कन्याम् दद्यात् यथाविधि ॥ ९।८८॥
utkṛṣṭāya abhirūpāya varāya sadṛśāya ca . aprāptām api tām tasmai kanyām dadyāt yathāvidhi .. 9.88..
9.88. To a distinguished, handsome suitor (of) equal (caste) should (a father) give his daughter in accordance with the prescribed rule, though she have not attained (the proper age).
काममामरणात्तिष्ठेद्गृहे कन्यार्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हि चित् ॥ ९.८९॥
कामम् आ मरणात् तिष्ठेत् गृहे कन्या ऋतुमती अपि । न च एव एनाम् प्रयच्छेत् तु गुण-हीनाय कर्हि चित् ॥ ९।८९॥
kāmam ā maraṇāt tiṣṭhet gṛhe kanyā ṛtumatī api . na ca eva enām prayacchet tu guṇa-hīnāya karhi cit .. 9.89..
9.89. (But) the maiden, though marriageable, should rather stop in (the father’s) house until death, than that he should ever give her to a man destitute of good qualities.
त्रीणि वर्षाण्युदीक्षेत कुमार्यर्तुमती सती । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ९.९०॥
त्रीणि वर्षाणि उदीक्षेत कुमारी अर्तुमती सती । ऊर्ध्वम् तु कालात् एतस्मात् विन्देत सदृशम् पतिम् ॥ ९।९०॥
trīṇi varṣāṇi udīkṣeta kumārī artumatī satī . ūrdhvam tu kālāt etasmāt vindeta sadṛśam patim .. 9.90..
9.90. Three years let a damsel wait, though she be marriageable; but after that time let her choose for herself a bridegroom (of) equal (caste and rank).
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किं चिदवाप्नोति न च यं साऽधिगच्छति ॥ ९.९१॥
अ दीयमाना भर्तारम् अधिगच्छेत् यदि स्वयम् । न एनः किम् चित् अवाप्नोति न च यम् सा अधिगच्छति ॥ ९।९१॥
a dīyamānā bhartāram adhigacchet yadi svayam . na enaḥ kim cit avāpnoti na ca yam sā adhigacchati .. 9.91..
9.91. If, being not given in marriage, she herself seeks a husband, she incurs no guilt, nor (does) he whom she weds.
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९.९२॥
अलङ्कारम् न आददीत पित्र्यम् कन्या स्वयंवरा । मातृकम् भ्रातृ-दत्तम् वा स्तेना स्यात् यदि तम् हरेत् ॥ ९।९२॥
alaṅkāram na ādadīta pitryam kanyā svayaṃvarā . mātṛkam bhrātṛ-dattam vā stenā syāt yadi tam haret .. 9.92..
9.92. A maiden who choses for herself, shall not take with her any ornaments, given by her father or her mother, or her brothers; if she carries them away, it will be theft.
पित्रे न दद्यात्शुल्कं तु कन्यां ऋतुमतीं हरन् । स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥ ९.९३॥
पित्रे न दद्यात् शुल्कम् तु कन्याम् ऋतुमतीम् हरन् । स च स्वाम्यात् अतिक्रामेत् ऋतूनाम् प्रतिरोधनात् ॥ ९।९३॥
pitre na dadyāt śulkam tu kanyām ṛtumatīm haran . sa ca svāmyāt atikrāmet ṛtūnām pratirodhanāt .. 9.93..
9.93. But he who takes (to wife) a marriageable damsel, shall not pay any nuptial fee to her father; for the (latter) will lose his dominion over her in consequence of his preventing (the legitimate result of the appearance of) her enemies.
त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ ९.९४॥
त्रिंशत्-वर्षः वहेत् कन्याम् हृद्याम् द्वादश-वार्षिकीम् । त्रि-अष्ट-वर्षः अष्ट-वर्षाम् वा धर्मे सीदति सत्वरः ॥ ९।९४॥
triṃśat-varṣaḥ vahet kanyām hṛdyām dvādaśa-vārṣikīm . tri-aṣṭa-varṣaḥ aṣṭa-varṣām vā dharme sīdati satvaraḥ .. 9.94..
9.94. A man, aged thirty years, shall marry a maiden of twelve who pleases him, or a man of twenty-four a girl eight years of age; if (the performance of) his duties would (otherwise) be impeded, (he must marry) sooner.
देवदत्तां पतिर्भार्यां विन्दते नेच्छयाऽत्मनः । तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ ९.९५॥
देव-दत्ताम् पतिः भार्याम् विन्दते न इच्छया आत्मनः । ताम् साध्वीम् बिभृयात् नित्यम् देवानाम् प्रियम् आचरन् ॥ ९।९५॥
deva-dattām patiḥ bhāryām vindate na icchayā ātmanaḥ . tām sādhvīm bibhṛyāt nityam devānām priyam ācaran .. 9.95..
9.95. The husband receives his wife from the gods, (he does not wed her) according to his own will; doing what is agreeable to the gods, he must always support her (while she is) faithful.
प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः । तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ ९.९६॥
प्रजन-अर्थम् स्त्रियः सृष्टाः संतान-अर्थम् च मानवः । तस्मात् साधारणः धर्मः श्रुतौ पत्न्या सह उदितः ॥ ९।९६॥
prajana-artham striyaḥ sṛṣṭāḥ saṃtāna-artham ca mānavaḥ . tasmāt sādhāraṇaḥ dharmaḥ śrutau patnyā saha uditaḥ .. 9.96..
9.96. To be mothers were women created, and to be fathers men; religious rites, therefore, are ordained in the Veda to be performed (by the husband) together with the wife.
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ ९.९७॥
कन्यायाम् दत्तशुल्कायाम् म्रियेत यदि शुल्क-दः । देवराय प्रदातव्या यदि कन्या अनुमन्यते ॥ ९।९७॥
kanyāyām dattaśulkāyām mriyeta yadi śulka-daḥ . devarāya pradātavyā yadi kanyā anumanyate .. 9.97..
9.97. If, after the nuptial fee has been paid for a maiden, the giver of the fee dies, she shall be given in marriage to his brother, in case she consents.
आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ ९.९८॥
आददीत न शूद्रः अपि शुल्कम् दुहितरम् ददन् । शुल्कम् हि गृह्णन् कुरुते छन्नम् दुहितृ-विक्रयम् ॥ ९।९८॥
ādadīta na śūdraḥ api śulkam duhitaram dadan . śulkam hi gṛhṇan kurute channam duhitṛ-vikrayam .. 9.98..
9.98. Even a Sudra ought not to take a nuptial fee, when he gives away his daughter; for he who takes a fee sell his daughter, covering (the transaction by another name).
एतत्तु न परे चक्रुर्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ ९.९९॥
एतत् तु न परे चक्रुः न अपरे जातु साधवः । यत् अन्यस्य प्रतिज्ञाय पुनर् अन्यस्य दीयते ॥ ९।९९॥
etat tu na pare cakruḥ na apare jātu sādhavaḥ . yat anyasya pratijñāya punar anyasya dīyate .. 9.99..
9.99. Neither ancients nor moderns who were good men have done such (a deed) that, after promising (a daughter) to one man, they have her to another;
नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु । शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ ९.१००॥
न अनुशुश्रुम जातु एतत् पूर्वेषु अपि हि जन्मसु । शुल्क-संज्ञेन मूल्येन छन्नम् दुहितृ-विक्रयम् ॥ ९।१००॥
na anuśuśruma jātu etat pūrveṣu api hi janmasu . śulka-saṃjñena mūlyena channam duhitṛ-vikrayam .. 9.100..
9.100. Nor, indeed, have we heard, even in former creations, of such (a thing as) the covert sale of a daughter for a fixed price, called a nuptial fee.
अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ ९.१०१॥
अन्योन्यस्य अव्यभिचारः भवेत् आमरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ ९।१०१॥
anyonyasya avyabhicāraḥ bhavet āmaraṇāntikaḥ . eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ .. 9.101..
9.101. ’Let mutual fidelity continue until death,’ this may be considered as the summary of the highest law for husband and wife.
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नातिचरेतां तौ वियुक्तावितरेतरम् ॥ ९.१०२॥
तथा नित्यम् यतेयाताम् स्त्री-पुंसौ तु कृत-क्रियौ । यथा न अतिचरेताम् तौ वियुक्तौ इतरेतरम् ॥ ९।१०२॥
tathā nityam yateyātām strī-puṃsau tu kṛta-kriyau . yathā na aticaretām tau viyuktau itaretaram .. 9.102..
9.102. Let man and woman, united in marriage, constantly exert themselves, that (they may not be) disunited (and) may not violate their mutual fidelity.
एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥ ९.१०३॥
एष स्त्रीपुंसयोः उक्तः धर्मः वः रति-संहितः । आपदि अपत्य-प्राप्तिः च दाय-धर्मम् निबोधत ॥ ९।१०३॥
eṣa strīpuṃsayoḥ uktaḥ dharmaḥ vaḥ rati-saṃhitaḥ . āpadi apatya-prāptiḥ ca dāya-dharmam nibodhata .. 9.103..
9.103. Thus has been declared to you the law for a husband and his wife, which is intimately connected with conjugal happiness, and the manner of raising offspring in times of calamity; learn (now the law concerning) the division of the inheritance.
ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ ९.१०४॥
ऊर्ध्वम् पितुः च मातुः च समेत्य भ्रातरः समम् । भजेरन् पैतृकम् रिक्थम् अनीशाः ते हि जीवतोः ॥ ९।१०४॥
ūrdhvam pituḥ ca mātuḥ ca sametya bhrātaraḥ samam . bhajeran paitṛkam riktham anīśāḥ te hi jīvatoḥ .. 9.104..
9.104. After the death of the father and of the mother, the brothers, being assembled, may divide among themselves in equal shares the paternal (and the maternal) estate; for, they have no power (over it) while the parents live
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ९.१०५॥
ज्येष्ठः एव तु गृह्णीयात् पित्र्यम् धनम् अशेषतस् । शेषाः तम् उपजीवेयुः यथा एव पितरम् तथा ॥ ९।१०५॥
jyeṣṭhaḥ eva tu gṛhṇīyāt pitryam dhanam aśeṣatas . śeṣāḥ tam upajīveyuḥ yathā eva pitaram tathā .. 9.105..
9.105. (Or) the eldest alone may take the whole paternal estate, the others shall live under him just as (they lived) under their father
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ ९.१०६॥
ज्येष्ठेन जात-मात्रेण पुत्री भवति मानवः । पितॄणाम् अनृणः च एव स तस्मात् सर्वम् अर्हति ॥ ९।१०६॥
jyeṣṭhena jāta-mātreṇa putrī bhavati mānavaḥ . pitṝṇām anṛṇaḥ ca eva sa tasmāt sarvam arhati .. 9.106..
9.106. Immediately on the birth of his first-born a man is (called) the father of a son and is freed from the debt to the manes; that (son), therefore, is worthy (to receive) the whole estate.
यस्मिनृणं संनयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ ९.१०७॥
यस्मिन् ऋणम् संनयति येन च आनन्त्यम् अश्नुते । सः एव धर्म-जः पुत्रः काम-जान् इतरान् विदुः ॥ ९।१०७॥
yasmin ṛṇam saṃnayati yena ca ānantyam aśnute . saḥ eva dharma-jaḥ putraḥ kāma-jān itarān viduḥ .. 9.107..
9.107. That son alone on whom he throws his debt and through whom he obtains immortality, is begotten for (the fulfilment of) the law; all the rest they consider the offspring of desire.
पितेव पालयेत्पूत्रान् ज्येष्ठो भ्रातॄन् यवीयसः । पुत्रवत्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८॥
पिता इव पालयेत् पूत्रान् ज्येष्ठः भ्रातॄन् यवीयसः । पुत्र-वत् च अपि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ ९।१०८॥
pitā iva pālayet pūtrān jyeṣṭhaḥ bhrātṝn yavīyasaḥ . putra-vat ca api varteran jyeṣṭhe bhrātari dharmataḥ .. 9.108..
9.108. As a father (supports) his sons, so let the eldest support his younger brothers, and let them also in accordance with the law behave towards their eldest brother as sons (behave towards their father).
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ॥ ९.१०९॥
ज्येष्ठः कुलम् वर्धयति विनाशयति वा पुनर् । ज्येष्ठः पूज्यतमः लोके ज्येष्ठः सद्भिः अगर्हितः ॥ ९।१०९॥
jyeṣṭhaḥ kulam vardhayati vināśayati vā punar . jyeṣṭhaḥ pūjyatamaḥ loke jyeṣṭhaḥ sadbhiḥ agarhitaḥ .. 9.109..
9.109. The eldest (son) makes the family prosperous or, on the contrary, brings it to ruin; the eldest (is considered) among men most worthy of honour, the eldest is not treated with disrespect by the virtuous.
यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातैव स पितैव सः । अज्येष्ठवृत्तिर्यस्तु स्यात्स सम्पूज्यस्तु बन्धुवत् ॥ ९.११०॥
यः ज्येष्ठः ज्येष्ठवृत्तिः स्यात् माता एव स पिता एव सः । अज्येष्ठवृत्तिः यः तु स्यात् स सम्पूज्यः तु बन्धु-वत् ॥ ९।११०॥
yaḥ jyeṣṭhaḥ jyeṣṭhavṛttiḥ syāt mātā eva sa pitā eva saḥ . ajyeṣṭhavṛttiḥ yaḥ tu syāt sa sampūjyaḥ tu bandhu-vat .. 9.110..
9.110. If the eldest brother behaves as an eldest brother (ought to do), he (must be treated) like a mother and like a father; but if he behaves in a manner unworthy of an eldest brother, he should yet be honoured like a kinsman.
एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया ॥ ९.१११॥
एवम् सह वसेयुः वा पृथक् वा धर्म-काम्यया । पृथक् विवर्धते धर्मः तस्मात् धर्म्या पृथक्क्रिया ॥ ९।१११॥
evam saha vaseyuḥ vā pṛthak vā dharma-kāmyayā . pṛthak vivardhate dharmaḥ tasmāt dharmyā pṛthakkriyā .. 9.111..
9.111. Either let them thus live together, or apart, if (each) desires (to gain) spiritual merit; for (by their living) separate (their) merit increases, hence separation is meritorious.
ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ९.११२॥
ज्येष्ठस्य विंशः उद्धारः सर्व-द्रव्यात् च यत् वरम् । ततस् अर्धम् मध्यमस्य स्यात् तुरीयम् तु यवीयसः ॥ ९।११२॥
jyeṣṭhasya viṃśaḥ uddhāraḥ sarva-dravyāt ca yat varam . tatas ardham madhyamasya syāt turīyam tu yavīyasaḥ .. 9.112..
9.112. The additional share (deducted) for the eldest shall be one-twentieth (of the estate) and the best of all chattels, for the middlemost half of that, but for the youngest one-fourth.
ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ॥ ९.११३॥
ज्येष्ठः च एव कनिष्ठः च संहरेताम् यथा उदितम् । ये अन्ये ज्येष्ठ-कनिष्ठाभ्याम् तेषाम् स्यात् मध्यमम् धनम् ॥ ९।११३॥
jyeṣṭhaḥ ca eva kaniṣṭhaḥ ca saṃharetām yathā uditam . ye anye jyeṣṭha-kaniṣṭhābhyām teṣām syāt madhyamam dhanam .. 9.113..
9.113. Both the eldest and the youngest shall take (their shares) according to (the rule just) stated (each of) those who are between the eldest and the youngest, shall have the share (prescribed for the) middlemost.
सर्वेषां धनजातानामाददीताग्र्यमग्रजः । यच्च सातिशयं किं चिद्दशतश्चाप्नुयाद्वरम् ॥ ९.११४॥
सर्वेषाम् धन-जातानाम् आददीत अग्र्यम् अग्रजः । यत् च सातिशयम् किम् चित् दशतः च आप्नुयात् वरम् ॥ ९।११४॥
sarveṣām dhana-jātānām ādadīta agryam agrajaḥ . yat ca sātiśayam kim cit daśataḥ ca āpnuyāt varam .. 9.114..
9.114. Among the goods of every kind the eldest shall take the best (article), and (even a single chattel) which is particularly good, as well as the best of ten (animals).
उद्धारो न दशस्वस्ति सम्पन्नानां स्वकर्मसु । यत्किं चिदेव देयं तु ज्यायसे मानवर्धनम् ॥ ९.११५॥
उद्धारः न दश-स्वस्ति सम्पन्नानाम् स्व-कर्मसु । यत् किम् चित् एव देयम् तु ज्यायसे मान-वर्धनम् ॥ ९।११५॥
uddhāraḥ na daśa-svasti sampannānām sva-karmasu . yat kim cit eva deyam tu jyāyase māna-vardhanam .. 9.115..
9.115. But among (brothers) equally skilled in their occupations, there is no additional share, (consisting of the best animal) among ten; some trifle only shall be given to the eldest as a token of respect.
एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् । उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ॥ ९.११६॥
एवम् समुद्धृत-उद्धारे समान्-अंशान् प्रकल्पयेत् । उद्धारे अन् उद्धृते तु एषाम् इयम् स्यात् अंश-कल्पना ॥ ९।११६॥
evam samuddhṛta-uddhāre samān-aṃśān prakalpayet . uddhāre an uddhṛte tu eṣām iyam syāt aṃśa-kalpanā .. 9.116..
9.116. If additional shares are thus deducted, one must allot equal shares (out of the residue to each); but if no deduction is made, the allotment of the shares among them shall be (made) in the following manner.
एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः । अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥ ९.११७॥
एक-अधिकम् हरेत् ज्येष्ठः पुत्रः अध्यर्धम् ततस् अनुजः । अंशम् अंशम् इति धर्मः व्यवस्थितः ॥ ९।११७॥
eka-adhikam haret jyeṣṭhaḥ putraḥ adhyardham tatas anujaḥ . aṃśam aṃśam iti dharmaḥ vyavasthitaḥ .. 9.117..
9.117. Let the eldest son take one share in excess, the (brother) born next after him one (share) and a half, the younger ones one share each; thus the law is settled.
स्वाभ्यः स्वाभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥ ९.११८॥
स्वाभ्यः स्वाभ्यः तु कन्याभ्यः प्रदद्युः भ्रातरः पृथक् । स्वात् स्वात् अंशात् चतुर्भागम् पतिताः स्युः अदित्सवः ॥ ९।११८॥
svābhyaḥ svābhyaḥ tu kanyābhyaḥ pradadyuḥ bhrātaraḥ pṛthak . svāt svāt aṃśāt caturbhāgam patitāḥ syuḥ aditsavaḥ .. 9.118..
9.118. But to the maiden (sisters) the brothers shall severally give (portions) out of their shares, each out of his share one-fourth part; those who refuse to give (it), will become outcasts.
अजाविकं चैकशफं न जातु विषमं भजेत् । अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ ९.११९॥
अजाविकम् च एकशफम् न जातु विषमम् भजेत् । अजाविकम् तु विषमम् ज्येष्ठस्य एव विधीयते ॥ ९।११९॥
ajāvikam ca ekaśapham na jātu viṣamam bhajet . ajāvikam tu viṣamam jyeṣṭhasya eva vidhīyate .. 9.119..
9.119. Let him never divide (the value of) a single goat or sheep, or a (single beast) with uncloven hoofs; it is prescribed (that) a single goat or sheep (remaining after an equal division, belongs) to the eldest alone.
यवीयान्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥ ९.१२०॥
यवीयान् ज्येष्ठभार्यायाम् पुत्रम् उत्पादयेत् यदि । समः तत्र विभागः स्यात् इति धर्मः व्यवस्थितः ॥ ९।१२०॥
yavīyān jyeṣṭhabhāryāyām putram utpādayet yadi . samaḥ tatra vibhāgaḥ syāt iti dharmaḥ vyavasthitaḥ .. 9.120..
9.120. If a younger brother begets a son on the wife of the elder, the division must then be made equally; this the law is settled.
उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ॥ ९.१२१॥
उपसर्जनम् प्रधानस्य धर्मतः न उपपद्यते । पिता प्रधानम् प्रजने तस्मात् धर्मेण तम् भजेत् ॥ ९।१२१॥
upasarjanam pradhānasya dharmataḥ na upapadyate . pitā pradhānam prajane tasmāt dharmeṇa tam bhajet .. 9.121..
9.121. The representative (the son begotten on the wife) is not invested with the right of the principal (the eldest brother to an additional share); the principal (became) a father on the procreation (of a son by his younger brother); hence one should give a share to the (son begotten on the wife of the elder brother) according to the rule (stated above).
पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् ॥ ९.१२२॥
पुत्रः कनिष्ठः ज्येष्ठायाम् कनिष्ठायाम् च पूर्वजः । कथम् तत्र विभागः स्यात् इति चेद् संशयः भवेत् ॥ ९।१२२॥
putraḥ kaniṣṭhaḥ jyeṣṭhāyām kaniṣṭhāyām ca pūrvajaḥ . katham tatra vibhāgaḥ syāt iti ced saṃśayaḥ bhavet .. 9.122..
9.122. If there be a doubt, how the division shall be made, in case the younger son is born of the elder wife and the elder son of the younger wife,
एकं वृषभमुद्धारं संहरेत स पूर्वजः । ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥ ९.१२३॥
एकम् वृषभम् उद्धारम् संहरेत स पूर्वजः । ततस् अपरे ज्येष्ठ-वृषाः तद्-ऊनानाम् स्व-मातृतः ॥ ९।१२३॥
ekam vṛṣabham uddhāram saṃhareta sa pūrvajaḥ . tatas apare jyeṣṭha-vṛṣāḥ tad-ūnānām sva-mātṛtaḥ .. 9.123..
9.123. (Then the son) born of the first wife shall take as his additional share one (most excellent) bull; the next best bulls (shall belong) to those (who are) inferior on account of their mothers.
ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः । ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥ ९.१२४॥
ज्येष्ठः तु जातः ज्येष्ठायाम् हरेत् वृषभषोडशाः । ततस् स्व-मातृतः शेषाः भजेरन् इति धारणा ॥ ९।१२४॥
jyeṣṭhaḥ tu jātaḥ jyeṣṭhāyām haret vṛṣabhaṣoḍaśāḥ . tatas sva-mātṛtaḥ śeṣāḥ bhajeran iti dhāraṇā .. 9.124..
9.124. But the eldest (son, being) born of the eldest wife, shall receive fifteen cows and a bull, the other sons may then take shares according to (the seniority of) their mothers; that is a settled rule.
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ॥ ९.१२५॥
सदृश-स्त्रीषु जातानाम् पुत्राणाम् अविशेषतः । न मातृतः ज्यैष्ठ्यम् अस्ति जन्मतः ज्यैष्ठ्यम् उच्यते ॥ ९।१२५॥
sadṛśa-strīṣu jātānām putrāṇām aviśeṣataḥ . na mātṛtaḥ jyaiṣṭhyam asti janmataḥ jyaiṣṭhyam ucyate .. 9.125..
9.125. Between sons born of wives equal (in caste) (and) without (any other) distinction no seniority in right of the mother exists; seniority is declared (to be) according to birth.
जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ ९.१२६॥
जन्म-ज्येष्ठेन च आह्वानम् सुब्रह्मण्यासु अपि स्मृतम् । यमयोः च एव गर्भेषु जन्मतः ज्येष्ठ-ता स्मृता ॥ ९।१२६॥
janma-jyeṣṭhena ca āhvānam subrahmaṇyāsu api smṛtam . yamayoḥ ca eva garbheṣu janmataḥ jyeṣṭha-tā smṛtā .. 9.126..
9.126. And with respect to the Subrahmanya (texts) also it is recorded that the invocation (of Indra shall be made) by the first-born, of twins likewise, (conceived at one time) in the wombs (of their mothers) the seniority is declared (to depend) on (actual) birth.
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन् मम स्यात्स्वधाकरम् ॥ ९.१२७॥
अपुत्रः अनेन विधिना सुताम् कुर्वीत पुत्रिकाम् । यत् अपत्यम् भवेत् अस्याम् तत् मम स्यात् स्वधाकरम् ॥ ९।१२७॥
aputraḥ anena vidhinā sutām kurvīta putrikām . yat apatyam bhavet asyām tat mama syāt svadhākaram .. 9.127..
9.127. He who has no son may make his daughter in the following manner an appointed daughter (putrika, saying to her husband), ’The (male) child, born of her, shall perform my funeral rites.’
अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः । विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ ९.१२८॥
अनेन तु विधानेन पुरा चक्रे अथ पुत्रिकाः । विवृद्धि-अर्थम् स्व-वंशस्य स्वयम् दक्षः प्रजापतिः ॥ ९।१२८॥
anena tu vidhānena purā cakre atha putrikāḥ . vivṛddhi-artham sva-vaṃśasya svayam dakṣaḥ prajāpatiḥ .. 9.128..
9.128. According to this rule Daksha, himself, lord of created beings, formerly made (all his female offspring) appointed daughters in order to multiply his race.
ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ ९.१२९॥
ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीत-आत्मा सप्तविंशतिम् ॥ ९।१२९॥
dadau sa daśa dharmāya kaśyapāya trayodaśa . somāya rājñe satkṛtya prīta-ātmā saptaviṃśatim .. 9.129..
9.129. He gave ten to Dharma, thirteen to Kasyapa, twenty-seven to King Soma, honouring (them) with an affectionate heart.
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ ९.१३०॥
यथा एव आत्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्याम् आत्मनि तिष्ठन्त्याम् कथम् अन्यः धनम् हरेत् ॥ ९।१३०॥
yathā eva ātmā tathā putraḥ putreṇa duhitā samā . tasyām ātmani tiṣṭhantyām katham anyaḥ dhanam haret .. 9.130..
9.130. A son is even (as) oneself, (such) a daughter is equal to a son; how can another (heir) take the estate, while such (an appointed daughter who is even) oneself, lives?
मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः । दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ ९.१३१॥
मातुः तु यौतकम् यत् स्यात् कुमारी-भागः एव सः । दौहित्रः एव च हरेत् अपुत्रस्य अखिलम् धनम् ॥ ९।१३१॥
mātuḥ tu yautakam yat syāt kumārī-bhāgaḥ eva saḥ . dauhitraḥ eva ca haret aputrasya akhilam dhanam .. 9.131..
9.131. But whatever may be the separate property of the mother, that is the share of the unmarried daughter alone; and the son of an (appointed) daughter shall take the whole estate of (his maternal grandfather) who leaves no son.
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च ॥ ९.१३२॥
दौहित्रः हि अखिलम् रिक्थम् अपुत्रस्य पितुः हरेत् । सः एव दद्यात् द्वौ पिण्डौ पित्रे मातामहाय च ॥ ९।१३२॥
dauhitraḥ hi akhilam riktham aputrasya pituḥ haret . saḥ eva dadyāt dvau piṇḍau pitre mātāmahāya ca .. 9.132..
9.132. The son of an (appointed) daughter, indeed, shall (also) take the estate of his (own) father, who leaves no (other) son; he shall (then) present two funeral cakes to his own father and to his maternal grandfather.
पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥ ९.१३३॥
पौत्र-दौहित्रयोः लोके न विशेषः अस्ति धर्मतः । तयोः हि माता-पितरौ सम्भूतौ तस्य देहतः ॥ ९।१३३॥
pautra-dauhitrayoḥ loke na viśeṣaḥ asti dharmataḥ . tayoḥ hi mātā-pitarau sambhūtau tasya dehataḥ .. 9.133..
9.133. Between a son’s son and the son of an (appointed) daughter there is no difference, neither with respect to worldly matters nor to sacred duties; for their father and mother both sprang from the body of the same (man).
पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्यात्ज्येष्ठता नास्ति हि स्त्रियाः ॥ ९.१३४॥
पुत्रिकायाम् कृतायाम् तु यदि पुत्रः अनुजायते । समः तत्र विभागः स्यात् ज्येष्ठ-ता न अस्ति हि स्त्रियाः ॥ ९।१३४॥
putrikāyām kṛtāyām tu yadi putraḥ anujāyate . samaḥ tatra vibhāgaḥ syāt jyeṣṭha-tā na asti hi striyāḥ .. 9.134..
9.134. But if, after a daughter has been appointed, a son be born (to her father), the division (of the inheritance) must in that (case) be equal; for there is no right of primogeniture for a woman.
अपुत्रायां मृतायां तु पुत्रिकायां कथं चन । धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ ९.१३५॥
अपुत्रायाम् मृतायाम् तु पुत्रिकायाम् कथम् चन । धनम् तत् पुत्रिका-भर्ता हरेत एव अ विचारयन् ॥ ९।१३५॥
aputrāyām mṛtāyām tu putrikāyām katham cana . dhanam tat putrikā-bhartā hareta eva a vicārayan .. 9.135..
9.135. But if an appointed daughter by accident dies without (leaving) a son, the husband of the appointed daughter may, without hesitation, take that estate.
अकृता वा कृता वाऽपि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ ९.१३६॥
अ कृता वा कृता वा अपि यम् विन्देत् सदृशात् सुतम् । पौत्री मातामहः तेन दद्यात् पिण्डम् हरेत् धनम् ॥ ९।१३६॥
a kṛtā vā kṛtā vā api yam vindet sadṛśāt sutam . pautrī mātāmahaḥ tena dadyāt piṇḍam haret dhanam .. 9.136..
9.136. Through that son whom (a daughter), either not appointed or appointed, may bear to (a husband) of equal (caste), his maternal grandfather (has) a son’s son; he shall present the funeral cake and take the estate.
पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ९.१३७॥
पुत्रेण लोकान् जयति पौत्रेण आनन्त्यम् अश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्य आप्नोति विष्टपम् ॥ ९।१३७॥
putreṇa lokān jayati pautreṇa ānantyam aśnute . atha putrasya pautreṇa bradhnasya āpnoti viṣṭapam .. 9.137..
9.137. Through a son he conquers the worlds, through a son’s son he obtains immortality, but through his son’s grandson he gains the world of the sun.
पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ९.१३८॥
पुत्-नाम्नः नरकात् यस्मात् त्रायते पितरम् सुतः । तस्मात् पुत्रः इति प्रोक्तः स्वयम् एव स्वयम्भुवा ॥ ९।१३८॥
put-nāmnaḥ narakāt yasmāt trāyate pitaram sutaḥ . tasmāt putraḥ iti proktaḥ svayam eva svayambhuvā .. 9.138..
9.138. Because a son delivers (trayate) his father from the hell called Put, he was therefore called put-tra (a deliverer from Put) by the Self-existent (Svayambhu) himself.
पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९॥
पौत्र-दौहित्रयोः लोके विशेषः न उपपद्यते । दौहित्रः अपि हि अमुत्र एनम् संतारयति पौत्र-वत् ॥ ९।१३९॥
pautra-dauhitrayoḥ loke viśeṣaḥ na upapadyate . dauhitraḥ api hi amutra enam saṃtārayati pautra-vat .. 9.139..
9.139. Between a son’s son and the son of a daughter there exists in this world no difference; for even the son of a daughter saves him (who has no sons) in the next world, like the son’s son.
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ ९.१४०॥
मातुः प्रथमतस् पिण्डम् निर्वपेत् पुत्रिका-सुतः । द्वितीयम् तु पितुः तस्याः तृतीयम् तत् पितुः पितुः ॥ ९।१४०॥
mātuḥ prathamatas piṇḍam nirvapet putrikā-sutaḥ . dvitīyam tu pituḥ tasyāḥ tṛtīyam tat pituḥ pituḥ .. 9.140..
9.140. Let the son of an appointed daughter first present a funeral cake to his mother, the second to her father, the funeral to his father’s father.
उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । स हरेतैव तद्रिक्थं सम्प्राप्तोऽप्यन्यगोत्रतः ॥ ९.१४१॥
उपपन्नः गुणैः सर्वैः पुत्रः यस्य तु दत्त्रिमः । स हरेत एव तद्-रिक्थम् सम्प्राप्तः अपि अन्य-गोत्रतः ॥ ९।१४१॥
upapannaḥ guṇaiḥ sarvaiḥ putraḥ yasya tu dattrimaḥ . sa hareta eva tad-riktham samprāptaḥ api anya-gotrataḥ .. 9.141..
9.141. Of the man who has an adopted (Datrima) son possessing all good qualities, that same (son) shall take the inheritance, though brought from another family.
गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः क्व चित् । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ ९.१४२॥
गोत्र-रिक्थे जनयितुः न हरेत् दत्त्रिमः क्व चित् । गोत्र-रिक्थ-अनुगः पिण्डः व्यपैति ददतः स्वधा ॥ ९।१४२॥
gotra-rikthe janayituḥ na haret dattrimaḥ kva cit . gotra-riktha-anugaḥ piṇḍaḥ vyapaiti dadataḥ svadhā .. 9.142..
9.142. An adopted son shall never take the family (name) and the estate of his natural father; the funeral cake follows the family (name) and the estate, the funeral offerings of him who gives (his son in adoption) cease (as far as that son is concerned).
अनियुक्तासुतश्चैव पुत्रिण्याऽप्तश्च देवरात् । उभौ तौ नार्हतो भागं जारजातककामजौ ॥ ९.१४३॥
अ नियुक्त-अ सुतः च एव पुत्रिण्या आप्तः च देवरात् । उभौ तौ न अर्हतः भागम् जार-जातक-काम-जौ ॥ ९।१४३॥
a niyukta-a sutaḥ ca eva putriṇyā āptaḥ ca devarāt . ubhau tau na arhataḥ bhāgam jāra-jātaka-kāma-jau .. 9.143..
9.143. The son of a wife, not appointed (to have issue by another), and he whom (an appointed female, already) the mother of a son, bears to her brother-in-law, are both unworthy of a share, (one being) the son of an adulterer and (the other) produced through (mere) lust.
नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः । नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ ९.१४४॥
नियुक्तायाम् अपि पुमान् नार्याम् जातः अविधानतः । न एव अर्हः पैतृकम् रिक्थम् पतित-उत्पादितः हि सः ॥ ९।१४४॥
niyuktāyām api pumān nāryām jātaḥ avidhānataḥ . na eva arhaḥ paitṛkam riktham patita-utpāditaḥ hi saḥ .. 9.144..
9.144. Even the male (child) of a female (duly) appointed, not begotten according to the rule (given above), is unworthy of the paternal estate; for he was procreated by an outcast.
हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः ॥ ९.१४५॥
हरेत् तत्र नियुक्तायाम् जातः पुत्रः यथा औरसः । क्षेत्रिकस्य तु तत् बीजम् धर्मतः प्रसवः च सः ॥ ९।१४५॥
haret tatra niyuktāyām jātaḥ putraḥ yathā aurasaḥ . kṣetrikasya tu tat bījam dharmataḥ prasavaḥ ca saḥ .. 9.145..
9.145. A son (legally) begotten on such an appointed female shall inherit like a legitimate son of the body; for that seed and the produce belong, according to the law, to the owner of the soil.
धनं यो बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ ९.१४६॥
धनम् यः बिभृयात् भ्रातुः मृतस्य स्त्रियम् एव च । सः अपत्यम् भ्रातुः उत्पाद्य दद्यात् तस्य एव तत् धनम् ॥ ९।१४६॥
dhanam yaḥ bibhṛyāt bhrātuḥ mṛtasya striyam eva ca . saḥ apatyam bhrātuḥ utpādya dadyāt tasya eva tat dhanam .. 9.146..
9.146. He who takes care of his deceased brother’s estate and of his widow, shall, after raising up a son for his brother, give that property even to that (son).
या नियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् । तं कामजमरिक्थीयं मिथ्यौत्पन्नं प्रचक्षते ॥ ९.१४७॥
या नियुक्ता अन्यतस् पुत्रम् देवरात् वा अपि अवाप्नुयात् । तम् काम-जम् अरिक्थीयम् मिथ्यौत्पन्नम् प्रचक्षते ॥ ९।१४७॥
yā niyuktā anyatas putram devarāt vā api avāpnuyāt . tam kāma-jam arikthīyam mithyautpannam pracakṣate .. 9.147..
9.147. If a woman (duly) appointed bears a son to her brother-in-law or to another (Sapinda), that (son, if he is) begotten through desire, they declare (to be) incapable of inheriting and to be produced in vain.
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु । बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ ९.१४८॥
एतत् विधानम् विज्ञेयम् विभागस्य एक-योनिषु । बह्वीषु च एकजातानाम् नाना स्त्रीषु निबोधत ॥ ९।१४८॥
etat vidhānam vijñeyam vibhāgasya eka-yoniṣu . bahvīṣu ca ekajātānām nānā strīṣu nibodhata .. 9.148..
9.148. The rules (given above) must be understood (to apply) to a distribution among sons of women of the same (caste); hear (now the law) concerning those begotten by one man on many wives of different (castes).
ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ ९.१४९॥
ब्राह्मणस्य आनुपूर्व्येण चतस्रः तु यदि स्त्रियः । तासाम् पुत्रेषु जातेषु विभागे अयम् विधिः स्मृतः ॥ ९।१४९॥
brāhmaṇasya ānupūrvyeṇa catasraḥ tu yadi striyaḥ . tāsām putreṣu jāteṣu vibhāge ayam vidhiḥ smṛtaḥ .. 9.149..
9.149. If there be four wives of a Brahmana in the direct order of the castes, the rule for the division (of the estate) among the sons born of them is as follows:
कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ ९.१५०॥
कीनाशः गोवृषः यानम् अलङ्कारः च वेश्म च । विप्रस्य औद्धारिकम् देयम् एक-अंशः च प्रधानतः ॥ ९।१५०॥
kīnāśaḥ govṛṣaḥ yānam alaṅkāraḥ ca veśma ca . viprasya auddhārikam deyam eka-aṃśaḥ ca pradhānataḥ .. 9.150..
9.150. The (slave) who tills (the field), the bull kept for impregnating cows, the vehicle, the ornaments, and the house shall be given as an additional portion to the Brahmana (son), and one most excellent share.
त्र्यंशं दायाधरेद्विप्रो द्वावंशौ क्षत्रियासुतः । वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ ९.१५१॥
त्रि-अंशम् दायाधरेत् विप्रः द्वौ अंशौ क्षत्रिया-सुतः । वैश्या-जः सार्धम् एव अंशम् अंशम् शूद्रा-सुतः हरेत् ॥ ९।१५१॥
tri-aṃśam dāyādharet vipraḥ dvau aṃśau kṣatriyā-sutaḥ . vaiśyā-jaḥ sārdham eva aṃśam aṃśam śūdrā-sutaḥ haret .. 9.151..
9.151. Let the son of the Brahmana (wife) take three shares of the (remainder of the) estate, the son of the Kshatriya two, the son of the Vaisya a share and a half, and the son of the Sudra may take one share.
सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ ९.१५२॥
सर्वम् वा रिक्थजातम् तत् दशधा परिकल्प्य च । धर्म्यम् विभागम् कुर्वीत विधिना अनेन धर्म-विद् ॥ ९।१५२॥
sarvam vā rikthajātam tat daśadhā parikalpya ca . dharmyam vibhāgam kurvīta vidhinā anena dharma-vid .. 9.152..
9.152. Or let him who knows the law make ten shares of the whole estate, and justly distribute them according to the following rule:
चतुरानंशान् हरेद्विप्रस्त्रीनंशान् क्षत्रियासुतः । वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ ९.१५३॥
चतुरान् अंशान् हरेत् विप्रः त्रीन् अंशान् क्षत्रिया-सुतः । वैश्या-पुत्रः हरेत् द्वि-अंशम् अंशम् शूद्रा-सुतः हरेत् ॥ ९।१५३॥
caturān aṃśān haret vipraḥ trīn aṃśān kṣatriyā-sutaḥ . vaiśyā-putraḥ haret dvi-aṃśam aṃśam śūdrā-sutaḥ haret .. 9.153..
9.153. The Brahmana (son) shall take four shares, son of the Kshatriya (wife) three, the son of the Vaisya shall have two parts, the son of the Sudra may take one share.
यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत्। नाधिकं दशमाद्दद्यात्शूद्रापुत्राय धर्मतः ॥ ९.१५४॥
यदि अपि स्यात् तु सत्-पुत्रः यदि अपुत्रः अपि वा भवेत्। न अधिकम् दशमात् दद्यात् शूद्रा-पुत्राय धर्मतः ॥ ९।१५४॥
yadi api syāt tu sat-putraḥ yadi aputraḥ api vā bhavet. na adhikam daśamāt dadyāt śūdrā-putrāya dharmataḥ .. 9.154..
9.154. Whether (a Brahmana) have sons or have no sons (by wives of the twice-born castes), the (heir) must, according to the law, give to the son of a Sudra (wife) no more than a tenth (part of his estate).
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥ ९.१५५॥
ब्राह्मण-क्षत्रिय-विशाम् शूद्रा-पुत्रः न रिक्थ-भाज् । यत् एव अस्य पिता दद्यात् तत् एव अस्य धनम् भवेत् ॥ ९।१५५॥
brāhmaṇa-kṣatriya-viśām śūdrā-putraḥ na riktha-bhāj . yat eva asya pitā dadyāt tat eva asya dhanam bhavet .. 9.155..
9.155. The son of a Brahmana, a Kshatriya, and a Vaisya by a Sudra (wife) receives no share of the inheritance; whatever his father may give to him, that shall be his property.
समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥ ९.१५६॥
सम-वर्णासु वा जाताः सर्वे पुत्राः द्विजन्मनाम् । उद्धारम् ज्यायसे दत्त्वा भजेरन् इतरे समम् ॥ ९।१५६॥
sama-varṇāsu vā jātāḥ sarve putrāḥ dvijanmanām . uddhāram jyāyase dattvā bhajeran itare samam .. 9.156..
9.156. All the sons of twice-born men, born of wives of the same caste, shall equally divide the estate, after the others have given to the eldest an additional share.
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ ९.१५७॥
शूद्रस्य तु सवर्णा एव न अन्या भार्या विधीयते । तस्याम् जाताः समांशाः स्युः यदि पुत्र-शतम् भवेत् ॥ ९।१५७॥
śūdrasya tu savarṇā eva na anyā bhāryā vidhīyate . tasyām jātāḥ samāṃśāḥ syuḥ yadi putra-śatam bhavet .. 9.157..
9.157. For a Sudra is ordained a wife of his own caste only (and) no other; those born of her shall have equal shares, even if there be a hundred sons.
पुत्रान् द्वादश यानाह नॄणां स्वायम्भुवो मनुः । तेषां षड् बन्धुदायादाः षडदायादबान्धवाः ॥ ९.१५८॥
पुत्रान् द्वादश यान् आह नॄणाम् स्वायम्भुवः मनुः । तेषाम् षट् बन्धु-दायादाः षष् अ दायाद-बान्धवाः ॥ ९।१५८॥
putrān dvādaśa yān āha nṝṇām svāyambhuvaḥ manuḥ . teṣām ṣaṭ bandhu-dāyādāḥ ṣaṣ a dāyāda-bāndhavāḥ .. 9.158..
9.158. Among the twelve sons of men whom Manu, sprung from the Self-existent (Svayambhu), enumerates, six are kinsmen and heirs, and six not heirs, (but) kinsmen.
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ ९.१५९॥
औरसः क्षेत्रजः च एव दत्तः कृत्रिमः एव च । गूढ-उत्पन्नः अपविद्धः च दायादाः बान्धवाः च षट् ॥ ९।१५९॥
aurasaḥ kṣetrajaḥ ca eva dattaḥ kṛtrimaḥ eva ca . gūḍha-utpannaḥ apaviddhaḥ ca dāyādāḥ bāndhavāḥ ca ṣaṭ .. 9.159..
9.159. The legitimate son of the body, the son begotten on a wife, the son adopted, the son made, the son secretly born, and the son cast off, (are) the six heirs and kinsmen.
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥ ९.१६०॥
कानीनः च सहोढः च क्रीतः पौनर्भवः तथा । स्वयंदत्तः च शौद्रः च षष्-अ दायाद-बान्धवाः ॥ ९।१६०॥
kānīnaḥ ca sahoḍhaḥ ca krītaḥ paunarbhavaḥ tathā . svayaṃdattaḥ ca śaudraḥ ca ṣaṣ-a dāyāda-bāndhavāḥ .. 9.160..
9.160. The son of an unmarried damsel, the son received with the wife, the son bought, the son begotten on a re- married woman, the son self-given, and the son of a Sudra female, (are) the six (who are) not heirs, (but) kinsmen.
यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम् । तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ ९.१६१॥
यादृशम् फलम् आप्नोति कु प्लवैः संतरन् जलम् । तादृशम् फलम् आप्नोति कु पुत्रैः संतरन् तमः ॥ ९।१६१॥
yādṛśam phalam āpnoti ku plavaiḥ saṃtaran jalam . tādṛśam phalam āpnoti ku putraiḥ saṃtaran tamaḥ .. 9.161..
9.161. Whatever result a man obtains who (tries to) cross a (sheet of) water in an unsafe boat, even that result obtains he who (tries to) pass the gloom (of the next world) with (the help of) bad (substitutes for a real) son.
यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नैतरः ॥ ९.१६२॥
यदि एकरिक्थिनौ स्याताम् औरस-क्षेत्रजौ सुतौ । यस्य यत् पैतृकम् रिक्थम् स तत् गृह्णीत न एतरः ॥ ९।१६२॥
yadi ekarikthinau syātām aurasa-kṣetrajau sutau . yasya yat paitṛkam riktham sa tat gṛhṇīta na etaraḥ .. 9.162..
9.162. If the two heirs of one man be a legitimate son of his body and a son begotten on his wife, each (of the two sons), to the exclusion of the other, shall take the estate of his (natural) father.
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम् ॥ ९.१६३॥
एकः एव औरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणाम् आनृशंस्य-अर्थम् प्रदद्यात् तु प्रजीवनम् ॥ ९।१६३॥
ekaḥ eva aurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ . śeṣāṇām ānṛśaṃsya-artham pradadyāt tu prajīvanam .. 9.163..
9.163. The legitimate son of the body alone (shall be) the owner of the paternal estate; but, in order to avoid harshness, let him allow a maintenance to the rest.
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥ ९.१६४॥
षष्ठम् तु क्षेत्रजस्य अंशम् प्रदद्यात् पैतृकात् धनात् । औरसः विभजन् दायम् पित्र्यम् पञ्चमम् एव वा ॥ ९।१६४॥
ṣaṣṭham tu kṣetrajasya aṃśam pradadyāt paitṛkāt dhanāt . aurasaḥ vibhajan dāyam pitryam pañcamam eva vā .. 9.164..
9.164. But when the legitimate son of the body divides the paternal estate, he shall give one-sixth or one-fifth part of his father’s property to the son begotten on the wife.
औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ ९.१६५॥
औरस-क्षेत्रजौ पुत्रौ पितृ-रिक्थस्य भागिनौ । दश अपरे तु क्रमशस् गोत्र-रिक्थ-अंशभागिनः ॥ ९।१६५॥
aurasa-kṣetrajau putrau pitṛ-rikthasya bhāginau . daśa apare tu kramaśas gotra-riktha-aṃśabhāginaḥ .. 9.165..
9.165. The legitimate son and the son of the wife (thus) share the father’s estate; but the other tell become members of the family, and inherit according to their order (each later named on failure of those named earlier).
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेधि यम् । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम् ॥ ९.१६६॥
स्व-क्षेत्रे संस्कृतायाम् तु यम् । तम् औरसम् विजानीयात् पुत्रम् प्राथमकल्पिकम् ॥ ९।१६६॥
sva-kṣetre saṃskṛtāyām tu yam . tam aurasam vijānīyāt putram prāthamakalpikam .. 9.166..
9.166. Him whom a man begets on his own wedded wife, let him know to be a legitimate son of the body (Aurasa), the first in rank.
यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ ९.१६७॥
यः तल्प-जः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायाम् स पुत्रः क्षेत्रजः स्मृतः ॥ ९।१६७॥
yaḥ talpa-jaḥ pramītasya klībasya vyādhitasya vā . svadharmeṇa niyuktāyām sa putraḥ kṣetrajaḥ smṛtaḥ .. 9.167..
9.167. He who was begotten according to the peculiar law (of the Niyoga) on the appointed wife of a dead man, of a eunuch, or of one diseased, is called a son begotten on a wife (Kshetraga).
माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ ९.१६८॥
माता पिता वा दद्याताम् यम् अद्भिः पुत्रम् आपदि । सदृशम् प्रीति-संयुक्तम् स ज्ञेयः दत्त्रिमः सुतः ॥ ९।१६८॥
mātā pitā vā dadyātām yam adbhiḥ putram āpadi . sadṛśam prīti-saṃyuktam sa jñeyaḥ dattrimaḥ sutaḥ .. 9.168..
9.168. That (boy) equal (by caste) whom his mother or his father affectionately give, (confirming the gift) with (a libation of) water, in times of distress (to a man) as his son, must be considered as an adopted son (Datrima).
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ ९.१६९॥
सदृशम् तु प्रकुर्यात् यम् गुण-दोष-विचक्षणम् । पुत्रम् पुत्र-गुणैः युक्तम् स विज्ञेयः च कृत्रिमः ॥ ९।१६९॥
sadṛśam tu prakuryāt yam guṇa-doṣa-vicakṣaṇam . putram putra-guṇaiḥ yuktam sa vijñeyaḥ ca kṛtrimaḥ .. 9.169..
9.169. But he is considered a son made (Kritrima) whom (a man) makes his son, (he being) equal (by caste), acquainted with (the distinctions between) right and wrong, (and) endowed with filial virtues.
उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ ९.१७०॥
उत्पद्यते गृहे यः तु न च ज्ञायेत कस्य सः । स गृहे गूढः उत्पन्नः तस्य स्यात् यस्य तल्पजः ॥ ९।१७०॥
utpadyate gṛhe yaḥ tu na ca jñāyeta kasya saḥ . sa gṛhe gūḍhaḥ utpannaḥ tasya syāt yasya talpajaḥ .. 9.170..
9.170. If (a child) be born in a man’s house and his father be not known, he is a son born secretly in the house (Gudhotpanna), and shall belong to him of whose wife he was born.
मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ ९.१७१॥
माता-पितृभ्याम् उत्सृष्टम् तयोः अन्यतरेण वा । यम् पुत्रम् परिगृह्णीयात् अपविद्धः सः उच्यते ॥ ९।१७१॥
mātā-pitṛbhyām utsṛṣṭam tayoḥ anyatareṇa vā . yam putram parigṛhṇīyāt apaviddhaḥ saḥ ucyate .. 9.171..
9.171. He whom (a man) receives as his son, (after he has been) deserted by his parents or by either of them, is called a son cast off (Apaviddha).
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ ९.१७२॥
पितृ-वेश्मनि कन्या तु यम् पुत्रम् जनयेत् रहः । तम् कानीनम् वदेत् नाम्ना वोढुः कन्या-समुद्भवम् ॥ ९।१७२॥
pitṛ-veśmani kanyā tu yam putram janayet rahaḥ . tam kānīnam vadet nāmnā voḍhuḥ kanyā-samudbhavam .. 9.172..
9.172. A son whom a damsel secretly bears in the house of her father, one shall name the son of an unmarried damsel (Kanina, and declare) such offspring of an unmarried girl (to belong) to him who weds her (afterwards).
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ ९.१७३॥
या गर्भिणी संस्क्रियते ज्ञाता अ ज्ञाता अपि वा सती । वोढुः स गर्भः भवति सहोढः इति च उच्यते ॥ ९।१७३॥
yā garbhiṇī saṃskriyate jñātā a jñātā api vā satī . voḍhuḥ sa garbhaḥ bhavati sahoḍhaḥ iti ca ucyate .. 9.173..
9.173. If one marries, either knowingly or unknowingly, a pregnant (bride), the child in her womb belongs to him who weds her, and is called (a son) received with the bride (Sahodha).
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ ९.१७४॥
क्रीणीयात् यः तु अपत्य-अर्थम् माता-पित्रोः यम् अन्तिकात् । स क्रीतकः सुतः तस्य सदृशः अ सदृशः अपि वा ॥ ९।१७४॥
krīṇīyāt yaḥ tu apatya-artham mātā-pitroḥ yam antikāt . sa krītakaḥ sutaḥ tasya sadṛśaḥ a sadṛśaḥ api vā .. 9.174..
9.174. If a man buys a (boy), whether equal or unequal (in good qualities), from his father and mother for the sake of having a son, that (child) is called a (son) bought (Kritaka).
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥ ९.१७५॥
या पत्या वा परित्यक्ता विधवा वा स्वया इच्छया । उत्पादयेत् पुनर् भूत्वा स पौनर्भवः उच्यते ॥ ९।१७५॥
yā patyā vā parityaktā vidhavā vā svayā icchayā . utpādayet punar bhūtvā sa paunarbhavaḥ ucyate .. 9.175..
9.175. If a woman abandoned by her husband, or a widow, of her own accord contracts a second marriage and bears (a son), he is called the son of a re-married woman (Paunarbhava).
सा चेदक्षतयोनिः स्याद्गतप्रत्यागताऽपि वा । पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ॥ ९.१७६॥
सा चेद् अक्षतयोनिः स्यात् गत-प्रत्यागता अपि वा । पौनर्भवेन भर्त्रा सा पुनर् संस्कारम् अर्हति ॥ ९।१७६॥
sā ced akṣatayoniḥ syāt gata-pratyāgatā api vā . paunarbhavena bhartrā sā punar saṃskāram arhati .. 9.176..
9.176. If she be (still) a virgin, or one who returned (to her first husband) after leaving him, she is worthy to again perform with her second (or first deserted) husband the (nuptial) ceremony.
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानमर्पयेद्यस्मै स्वयंदत्तस्तु स स्मृतः ॥ ९.१७७॥
माता-पितृ-विहीनः यः त्यक्तः वा स्यात् अकारणात् । आत्मानम् अर्पयेत् यस्मै स्वयंदत्तः तु स स्मृतः ॥ ९।१७७॥
mātā-pitṛ-vihīnaḥ yaḥ tyaktaḥ vā syāt akāraṇāt . ātmānam arpayet yasmai svayaṃdattaḥ tu sa smṛtaḥ .. 9.177..
9.177. He who, having lost his parents or being abandoned (by them) without (just) cause, gives himself to a (man), is called a son self-given (Svayamdatta).
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥ ९.१७८॥
यम् ब्राह्मणः तु शूद्रायाम् कामात् उत्पादयेत् सुतम् । स पारयन् एव शवः तस्मात् पारशवः स्मृतः ॥ ९।१७८॥
yam brāhmaṇaḥ tu śūdrāyām kāmāt utpādayet sutam . sa pārayan eva śavaḥ tasmāt pāraśavaḥ smṛtaḥ .. 9.178..
9.178. The son whom a Brahmana begets through lust on a Sudra female is, (though) alive (parayan), a corpse (sava), and hence called a Parasava (a living corpse).
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ ९.१७९॥
दास्याम् वा दास-दास्याम् वा यः शूद्रस्य सुतः भवेत् । सः अनुज्ञातः हरेत् अंशम् इति धर्मः व्यवस्थितः ॥ ९।१७९॥
dāsyām vā dāsa-dāsyām vā yaḥ śūdrasya sutaḥ bhavet . saḥ anujñātaḥ haret aṃśam iti dharmaḥ vyavasthitaḥ .. 9.179..
9.179. A son who is (begotten) by a Sudra on a female slave, or on the female slave of his slave, may, if permitted (by his father), take a share (of the inheritance); thus the law is settled.
क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान् मनीषिणः ॥ ९.१८०॥
क्षेत्रज-आदीन् सुतान् एतान् एकादश यथा उदितान् । पुत्र-प्रतिनिधीन् आहुः क्रिया-लोपात् मनीषिणः ॥ ९।१८०॥
kṣetraja-ādīn sutān etān ekādaśa yathā uditān . putra-pratinidhīn āhuḥ kriyā-lopāt manīṣiṇaḥ .. 9.180..
9.180. These eleven, the son begotten on the wife and the rest as enumerated (above), the wise call substitutes for a son, (taken) in order (to prevent) a failure of the (funeral) ceremonies.
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः । यस्य ते बीजतो जातास्तस्य ते नैतरस्य तु ॥ ९.१८१॥
ये एते अभिहिताः पुत्राः प्रसङ्गात् अन्य-बीज-जाः । यस्य ते बीजतः जाताः तस्य ते न एतरस्य तु ॥ ९।१८१॥
ye ete abhihitāḥ putrāḥ prasaṅgāt anya-bīja-jāḥ . yasya te bījataḥ jātāḥ tasya te na etarasya tu .. 9.181..
9.181. Those sons, who have been mentioned in connection with (the legitimate son of the body), being begotten by strangers, belong (in reality) to him from whose seed they sprang, but not to the other (man who took them).
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ९.१८२॥
भ्रातॄणाम् एकजातानाम् एकः चेद् पुत्रवान् भवेत् । सर्वान् तान् तेन पुत्रेण पुत्रिणः मनुः अब्रवीत् ॥ ९।१८२॥
bhrātṝṇām ekajātānām ekaḥ ced putravān bhavet . sarvān tān tena putreṇa putriṇaḥ manuḥ abravīt .. 9.182..
9.182. If among brothers, sprung from one (father), one have a son, Manu has declared them all to have male offspring through that son.
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ ९.१८३॥
सर्वासाम् एकपत्नीनाम् एका चेद् पुत्रिणी भवेत् । सर्वाः ताः तेन पुत्रेण प्राह पुत्रवतीः मनुः ॥ ९।१८३॥
sarvāsām ekapatnīnām ekā ced putriṇī bhavet . sarvāḥ tāḥ tena putreṇa prāha putravatīḥ manuḥ .. 9.183..
9.183. If among all the wives of one husband one have a son, Manu declares them all (to be) mothers of male children through that son.
श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ ९.१८४॥
श्रेयसः श्रेयसः अलाभे पापीयान् रिक्थम् अर्हति । बहवः चेद् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ ९।१८४॥
śreyasaḥ śreyasaḥ alābhe pāpīyān riktham arhati . bahavaḥ ced tu sadṛśāḥ sarve rikthasya bhāginaḥ .. 9.184..
9.184. On failure of each better (son), each next inferior (one) is worthy of the inheritance; but if there be many (of) equal (rank), they shall all share the estate.
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ ९.१८५॥
न भ्रातरः न पितरः पुत्राः रिक्थ-हराः पितुः । पिता हरेत् अपुत्रस्य रिक्थम् भ्रातरः एव च ॥ ९।१८५॥
na bhrātaraḥ na pitaraḥ putrāḥ riktha-harāḥ pituḥ . pitā haret aputrasya riktham bhrātaraḥ eva ca .. 9.185..
9.185. Not brothers, nor fathers, (but) sons take the paternal estate; but the father shall take the inheritance of (a son) who leaves no male issue, and his brothers.
त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥ ९.१८६॥
त्रयाणाम् उदकम् कार्यम् त्रिषु पिण्डः प्रवर्तते । चतुर्थः सम्प्रदाता एषाम् पञ्चमः न उपपद्यते ॥ ९।१८६॥
trayāṇām udakam kāryam triṣu piṇḍaḥ pravartate . caturthaḥ sampradātā eṣām pañcamaḥ na upapadyate .. 9.186..
9.186. To three (ancestors) water must be offered, to three the funeral cake is given, the fourth (descendant is) the giver of these (oblations), the fifth has no connection (with them).
अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ ९.१८७॥
अनन्तरः सपिण्ड-आद्यः तस्य तस्य धनम् भवेत् । अतस् ऊर्ध्वम् सकुल्यः स्यात् आचार्यः शिष्यः एव वा ॥ ९।१८७॥
anantaraḥ sapiṇḍa-ādyaḥ tasya tasya dhanam bhavet . atas ūrdhvam sakulyaḥ syāt ācāryaḥ śiṣyaḥ eva vā .. 9.187..
9.187. Always to that (relative within three degrees) who is nearest to the (deceased) Sapinda the estate shall belong; afterwards a Sakulya shall be (the heir, then) the spiritual teacher or the pupil.
सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ ९.१८८॥
सर्वेषाम् अपि अभावे तु ब्राह्मणाः रिक्थ-भागिनः । त्रैविद्याः शुचयः दान्ताः तथा धर्मः न हीयते ॥ ९।१८८॥
sarveṣām api abhāve tu brāhmaṇāḥ riktha-bhāginaḥ . traividyāḥ śucayaḥ dāntāḥ tathā dharmaḥ na hīyate .. 9.188..
9.188. But on failure of all (heirs) Brahmanas (shall) share the estate, (who are) versed the in the three Vedas, pure and self-controlled; thus the law is not violated.
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ ९.१८९॥
अहार्यम् ब्राह्मण-द्रव्यम् राज्ञा नित्यम् इति स्थितिः । इतरेषाम् तु वर्णानाम् सर्व-अभावे हरेत् नृपः ॥ ९।१८९॥
ahāryam brāhmaṇa-dravyam rājñā nityam iti sthitiḥ . itareṣām tu varṇānām sarva-abhāve haret nṛpaḥ .. 9.189..
9.189. The property of a Brahmana must never be taken by the king, that is a settled rule; but (the property of men) of other castes the king may take on failure of all (heirs).
संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत् ॥तत्र यद्रिक्थजातं स्यात्तत्तस्मिन् प्रतिपादयेत् ॥ ९.१९०॥
संस्थितस्य अनपत्यस्य सगोत्रात् पुत्रम् आहरेत् ॥तत्र यत् रिक्थजातम् स्यात् तत् तस्मिन् प्रतिपादयेत् ॥ ९।१९०॥
saṃsthitasya anapatyasya sagotrāt putram āharet ..tatra yat rikthajātam syāt tat tasmin pratipādayet .. 9.190..
9.190. (If the widow) of (a man) who died without leaving issue, raises up to him a son by a member of the family (Sagotra), she shall deliver to that (son) the whole property which belonged to the (deceased).
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नैतरः ॥ ९.१९१॥
द्वौ तु यौ विवदेयाताम् द्वाभ्याम् जातौ स्त्रिया धने । तयोः यत् यस्य पित्र्यम् स्यात् तत् स गृह्णीत न एतरः ॥ ९।१९१॥
dvau tu yau vivadeyātām dvābhyām jātau striyā dhane . tayoḥ yat yasya pitryam syāt tat sa gṛhṇīta na etaraḥ .. 9.191..
9.191. But if two (sons), begotten by two (different men), contend for the property (in the hands) of their mother, each shall take, to the exclusion of the other, what belonged to his father.
जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ ९.१९२॥
जनन्याम् संस्थितायाम् तु समम् सर्वे सहोदराः । भजेरन् मातृकम् रिक्थम् भगिन्यः च सनाभयः ॥ ९।१९२॥
jananyām saṃsthitāyām tu samam sarve sahodarāḥ . bhajeran mātṛkam riktham bhaginyaḥ ca sanābhayaḥ .. 9.192..
9.192. But when the mother has died, all the uterine brothers and the uterine sisters shall equally divide the mother’s estate.
यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनात्किं चित्प्रदेयं प्रीतिपूर्वकम् ॥ ९.१९३॥
याः तासाम् स्युः दुहितरः तासाम् अपि यथार्हतः । मातामह्याः धनात् किम् चित् प्रदेयम् प्रीति-पूर्वकम् ॥ ९।१९३॥
yāḥ tāsām syuḥ duhitaraḥ tāsām api yathārhataḥ . mātāmahyāḥ dhanāt kim cit pradeyam prīti-pūrvakam .. 9.193..
9.193. Even to the daughters of those (daughters) something should be given, as is seemly, out of the estate of their maternal grandmother, on the score of affection.
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड् विधं स्त्रीधनं स्मृतम् ॥ ९.१९४॥
अध्यग्नि अध्यावाहनिकम् दत्तम् च प्रीति-कर्मणि । भ्रातृ-मातृ-पितृ-प्राप्तम् षड् विधम् स्त्रीधनम् स्मृतम् ॥ ९।१९४॥
adhyagni adhyāvāhanikam dattam ca prīti-karmaṇi . bhrātṛ-mātṛ-pitṛ-prāptam ṣaḍ vidham strīdhanam smṛtam .. 9.194..
9.194. What (was given) before the (nuptial) fire, what (was given) on the bridal procession, what was given in token of love, and what was received from her brother, mother, or father, that is called the sixfold property of a woman.
अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ ९.१९५॥
अन्वाधेयम् च यत् दत्तम् पत्या प्रीतेन च एव यत् । पत्यौ जीवति वृत्तायाः प्रजायाः तत् धनम् भवेत् ॥ ९।१९५॥
anvādheyam ca yat dattam patyā prītena ca eva yat . patyau jīvati vṛttāyāḥ prajāyāḥ tat dhanam bhavet .. 9.195..
9.195. (Such property), as well as a gift subsequent and what was given (to her) by her affectionate husband, shall go to her offspring, (even) if she dies in the lifetime of her husband.
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्वसु । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ ९.१९६॥
ब्राह्म-दैव-आर्ष-गान्धर्व-प्राजापत्येषु यत् वसु । अप्रजायाम् अतीतायाम् भर्तुः एव तत् इष्यते ॥ ९।१९६॥
brāhma-daiva-ārṣa-gāndharva-prājāpatyeṣu yat vasu . aprajāyām atītāyām bhartuḥ eva tat iṣyate .. 9.196..
9.196. It is ordained that the property (of a woman married) according to the Brahma, the Daiva, the Arsha, the Gandharva, or the Pragapatya rite (shall belong) to her husband alone, if she dies without issue.
यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ ९.१९७॥
यत् तु अस्याः स्यात् धनम् दत्तम् विवाहेषु आसुर-आदिषु । अप्रजायाम् अतीतायाम् माता-पित्रोः तत् इष्यते ॥ ९।१९७॥
yat tu asyāḥ syāt dhanam dattam vivāheṣu āsura-ādiṣu . aprajāyām atītāyām mātā-pitroḥ tat iṣyate .. 9.197..
9.197. But it is prescribed that the property which may have been given to a (wife) on an Asura marriage or (one of the) other (blamable marriages, shall go) to her mother and to her father, if she dies without issue.
स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथं चन । ब्राह्मणी तधरेत्कन्या तदपत्यस्य वा भवेत् ॥ ९.१९८॥
स्त्रियाम् तु यत् भवेत् वित्तम् पित्रा दत्तम् कथम् चन । ब्राह्मणी तत् हरेत् कन्या तद्-अपत्यस्य वा भवेत् ॥ ९।१९८॥
striyām tu yat bhavet vittam pitrā dattam katham cana . brāhmaṇī tat haret kanyā tad-apatyasya vā bhavet .. 9.198..
9.198. Whatever property may have been given by her father to a wife (who has co-wives of different castes), that the daughter (of the) Brahmani (wife) shall take, or that (daughter’s) issue.
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् । स्वकादपि च वित्ताधि स्वस्य भर्तुरनाज्ञया ॥ ९.१९९॥
न निर्हारम् स्त्रियः कुर्युः कुटुम्बात् बहु-मध्य-गात् । स्वकात् अपि च वित्ता अधि स्वस्य भर्तुः अनाज्ञया ॥ ९।१९९॥
na nirhāram striyaḥ kuryuḥ kuṭumbāt bahu-madhya-gāt . svakāt api ca vittā adhi svasya bhartuḥ anājñayā .. 9.199..
9.199. Women should never make a hoard from (the property of) their families which is common to many, nor from their own (husbands’ particular) property without permission.
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ ९.२००॥
पत्यौ जीवति यः स्त्रीभिः अलङ्कारः धृतः भवेत् । न तम् भजेरन् दायादाः भजमानाः पतन्ति ते ॥ ९।२००॥
patyau jīvati yaḥ strībhiḥ alaṅkāraḥ dhṛtaḥ bhavet . na tam bhajeran dāyādāḥ bhajamānāḥ patanti te .. 9.200..
9.200. The ornaments which may have been worn by women during their husbands’ lifetime, his heirs shall not divide; those who divide them become outcasts.
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ॥ ९.२०१॥
अन् अंशौ क्लीब-पतितौ जात्यन्ध-बधिरौ तथा । उन्मत्त-जड-मूकाः च ये च के चित् निरिन्द्रियाः ॥ ९।२०१॥
an aṃśau klība-patitau jātyandha-badhirau tathā . unmatta-jaḍa-mūkāḥ ca ye ca ke cit nirindriyāḥ .. 9.201..
9.201. Eunuchs and outcasts, (persons) born blind or deaf, the insane, idiots and the dumb, as well as those deficient in any organ (of action or sensation), receive no share.
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ ९.२०२॥
सर्वेषाम् अपि तु न्याय्यम् दातुम् शक्त्या मनीषिणा । ग्रास-आच्छादनम् अत्यन्तम् पतितः हि अददान् भवेत् ॥ ९।२०२॥
sarveṣām api tu nyāyyam dātum śaktyā manīṣiṇā . grāsa-ācchādanam atyantam patitaḥ hi adadān bhavet .. 9.202..
9.202. But it is just that (a man) who knows (the law) should give even to all of them food and raiment without stint, according to his ability; he who gives it not will become all outcast.
यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथं चन । तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ ९.२०३॥
यदि अर्थिता तु दारैः स्यात् क्लीब-आदीनाम् कथम् चन । तेषाम् उत्पन्न-तन्तूनाम् अपत्यम् दायम् अर्हति ॥ ९।२०३॥
yadi arthitā tu dāraiḥ syāt klība-ādīnām katham cana . teṣām utpanna-tantūnām apatyam dāyam arhati .. 9.203..
9.203. If the eunuch and the rest should somehow or other desire to (take) wives, the offspring of such among them as have children is worthy of a share.
यत्किं चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ ९.२०४॥
यत् किम् चित् पितरि प्रेते धनम् ज्येष्ठः अधिगच्छति । भागः यवीयसाम् तत्र यदि विद्या-अनुपालिनः ॥ ९।२०४॥
yat kim cit pitari prete dhanam jyeṣṭhaḥ adhigacchati . bhāgaḥ yavīyasām tatra yadi vidyā-anupālinaḥ .. 9.204..
9.204. Whatever property the eldest (son) acquires (by his own exertion) after the father’s death, a share of that (shall belong) to his younger (brothers), provided they have made a due progress in learning.
अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ ९.२०५॥
अविद्यानाम् तु सर्वेषाम् ईहातः चेद् धनम् भवेत् । समः तत्र विभागः स्यात् अपित्र्ये इति धारणा ॥ ९।२०५॥
avidyānām tu sarveṣām īhātaḥ ced dhanam bhavet . samaḥ tatra vibhāgaḥ syāt apitrye iti dhāraṇā .. 9.205..
9.205. But if all of them, being unlearned, acquire property by their labour, the division of that shall be equal, (as it is) not property acquired by the father; that is a settled rule.
विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्र्यमोद्वाहिकं चैव माधुपर्किकमेव च ॥ ९.२०६॥
विद्या-धनम् तु यत् यस्य तत् तस्य एव धनम् भवेत् । मैत्र्यम-उद्वाहिकम् च एव माधुपर्किकम् एव च ॥ ९।२०६॥
vidyā-dhanam tu yat yasya tat tasya eva dhanam bhavet . maitryama-udvāhikam ca eva mādhuparkikam eva ca .. 9.206..
9.206. Property (acquired) by learning belongs solely to him to whom (it was given), likewise the gift of a friend, a present received on marriage or with the honey-mixture.
भ्रातॄणां यस्तु नैहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम् ॥ ९.२०७॥
भ्रातॄणाम् यः तु न एहेत धनम् शक्तः स्व-कर्मणा । स निर्भाज्यः स्वकात् अंशात् किम् चित् दत्त्वा उपजीवनम् ॥ ९।२०७॥
bhrātṝṇām yaḥ tu na eheta dhanam śaktaḥ sva-karmaṇā . sa nirbhājyaḥ svakāt aṃśāt kim cit dattvā upajīvanam .. 9.207..
9.207. But if one of the brothers, being able (to maintain himself) by his own occupation, does not desire (a share of the family) property, he may be made separate (by the others) receiving a trifle out of his share to live upon.
अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ ९.२०८॥
अनुपघ्नान् पितृ-द्रव्यम् श्रमेण यत् उपार्जितम् । स्वयम् ईहित-लब्धम् तत् न अकामः दातुम् अर्हति ॥ ९।२०८॥
anupaghnān pitṛ-dravyam śrameṇa yat upārjitam . svayam īhita-labdham tat na akāmaḥ dātum arhati .. 9.208..
9.208. What one (brother) may acquire by his labour without using the patrimony, that acquisition, (made solely) by his own effort, he shall not share unless by his own will (with his brothers).
पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ ९.२०९॥
पैतृकम् तु पिता द्रव्यम् अनवाप्तम् यत् आप्नुयात् । न तद्-पुत्रैः भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ ९।२०९॥
paitṛkam tu pitā dravyam anavāptam yat āpnuyāt . na tad-putraiḥ bhajet sārdham akāmaḥ svayam arjitam .. 9.209..
9.209. But if a father recovers lost ancestral property, he shall not divide it, unless by his own will, with his sons, (for it is) self-acquired (property).
विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ ९.२१०॥
विभक्ताः सह जीवन्तः विभजेरन् पुनर् यदि । समः तत्र विभागः स्यात् ज्यैष्ठ्यम् तत्र न विद्यते ॥ ९।२१०॥
vibhaktāḥ saha jīvantaḥ vibhajeran punar yadi . samaḥ tatra vibhāgaḥ syāt jyaiṣṭhyam tatra na vidyate .. 9.210..
9.210. If brothers, (once) divided and living (again) together (as coparceners), make a second partition, the division shall in that case be equal; in such a case there is no right of primogeniture.
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ ९.२११॥
येषाम् ज्येष्ठः कनिष्ठः वा । म्रियेत अन्यतरः वा अपि तस्य भागः न लुप्यते ॥ ९।२११॥
yeṣām jyeṣṭhaḥ kaniṣṭhaḥ vā . mriyeta anyataraḥ vā api tasya bhāgaḥ na lupyate .. 9.211..
9.211. If the eldest or the youngest (brother) is deprived of his share, or if either of them dies, his share is not lost (to his immediate heirs).
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ ९.२१२॥
सोदर्याः विभजेरन् तम् समेत्य सहिताः समम् । भ्रातरः ये च संसृष्टाः भगिन्यः च सनाभयः ॥ ९।२१२॥
sodaryāḥ vibhajeran tam sametya sahitāḥ samam . bhrātaraḥ ye ca saṃsṛṣṭāḥ bhaginyaḥ ca sanābhayaḥ .. 9.212..
9.212. His uterine brothers, having assembled together, shall equally divide it, and those brothers who were reunited (with him) and the uterine sisters.
यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातॄन् यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ ९.२१३॥
यः ज्येष्ठः विनिकुर्वीत लोभात् भ्रातॄन् यवीयसः । सः अ ज्येष्ठः स्यात् अ भागः च नियन्तव्यः च राजभिः ॥ ९।२१३॥
yaḥ jyeṣṭhaḥ vinikurvīta lobhāt bhrātṝn yavīyasaḥ . saḥ a jyeṣṭhaḥ syāt a bhāgaḥ ca niyantavyaḥ ca rājabhiḥ .. 9.213..
9.213. An eldest brother who through avarice may defraud the younger ones, shall no (longer hold the position of) the eldest, shall not receive an (eldest son’s additional) share, and shall be punished by the king.
सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत योतकम् ॥ ९.२१४॥
सर्वे एव विकर्म-स्थाः न अर्हन्ति भ्रातरः धनम् । न च अ दत्त्वा कनिष्ठेभ्यः ज्येष्ठः कुर्वीत योतकम् ॥ ९।२१४॥
sarve eva vikarma-sthāḥ na arhanti bhrātaraḥ dhanam . na ca a dattvā kaniṣṭhebhyaḥ jyeṣṭhaḥ kurvīta yotakam .. 9.214..
9.214. All brothers who habitually commit forbidden acts, are unworthy of (a share of) the property, and the eldest shall not make (anything his) separate property without giving (an equivalent) to his younger brothers.
भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथं चन ॥ ९.२१५॥
भ्रातॄणाम् अविभक्तानाम् यदि उत्थानम् भवेत् सह । न पुत्र-भागम् विषमम् पिता दद्यात् कथम् चन ॥ ९।२१५॥
bhrātṝṇām avibhaktānām yadi utthānam bhavet saha . na putra-bhāgam viṣamam pitā dadyāt katham cana .. 9.215..
9.215. If undivided brethren, (living with their father,) together make an exertion (for gain), the father shall on no account give to them unequal shares (on a division of the estate).
ऊर्ध्वं विभागात्जातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ ९.२१६॥
ऊर्ध्वम् विभागात् जातः तु पित्र्यम् एव हरेत् धनम् । संसृष्टाः तेन वा ये स्युः विभजेत स तैः सह ॥ ९।२१६॥
ūrdhvam vibhāgāt jātaḥ tu pitryam eva haret dhanam . saṃsṛṣṭāḥ tena vā ye syuḥ vibhajeta sa taiḥ saha .. 9.216..
9.216. But a son, born after partition, shall alone take the property of his father, or if any (of the other sons) be reunited with the (father), he shall share with them.
अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ ९.२१७॥
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् । मातरि अपि च वृत्तायाम् पितुः माता हरेत् धनम् ॥ ९।२१७॥
anapatyasya putrasya mātā dāyam avāpnuyāt . mātari api ca vṛttāyām pituḥ mātā haret dhanam .. 9.217..
9.217. A mother shall obtain the inheritance of a son (who dies) without leaving issue, and, if the mother be dead, the paternal grandmother shall take the estate.
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चाद्दृश्येत यत्किं चित्तत्सर्वं समतां नयेत् ॥ ९.२१८॥
ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चात् दृश्येत यत् किम् चित् तत् सर्वम् समताम् नयेत् ॥ ९।२१८॥
ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi . paścāt dṛśyeta yat kim cit tat sarvam samatām nayet .. 9.218..
9.218. And if, after all the debts and assets have been duly distributed according to the rule, any (property) be afterwards discovered, one must divide it equally.
वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ ९.२१९॥
वस्त्रम् पत्रम् अलङ्कारम् कृतान्नम् उदकम् स्त्रियः । योगक्षेमम् प्रचारम् च न विभाज्यम् प्रचक्षते ॥ ९।२१९॥
vastram patram alaṅkāram kṛtānnam udakam striyaḥ . yogakṣemam pracāram ca na vibhājyam pracakṣate .. 9.219..
9.219. A dress, a vehicle, ornaments, cooked food, water, and female (slaves), property destined for pious uses or sacrifices, and a pasture-ground, they declare to be indivisible.
अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ ९.२२०॥
अयम् उक्तः विभागः वः पुत्राणाम् च क्रिया-विधिः । क्रमशस् क्षेत्रज-आदीनाम् द्यूत-धर्मम् निबोधत ॥ ९।२२०॥
ayam uktaḥ vibhāgaḥ vaḥ putrāṇām ca kriyā-vidhiḥ . kramaśas kṣetraja-ādīnām dyūta-dharmam nibodhata .. 9.220..
9.220. The division (of the property) and the rules for allotting (shares) to the (several) sons, those begotten on a wife and the rest, in (due) order, have been thus declared to you; hear (now) the laws concerning gambling .
द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् । राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१॥
द्यूतम् समाह्वयम् च एव राजा राष्ट्रात् निवारयेत् । राज-अन्त-करणौ एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ ९।२२१॥
dyūtam samāhvayam ca eva rājā rāṣṭrāt nivārayet . rāja-anta-karaṇau etau dvau doṣau pṛthivīkṣitām .. 9.221..
9.221. Gambling and betting let the king exclude from his realm; those two vices cause the destruction of the kingdoms of princes.
प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ ९.२२२॥
प्रकाशम् एतत् तास्कर्यम् यत् देवन-समाह्वयौ । तयोः नित्यम् प्रतीघाते नृपतिः यत्नवान् भवेत् ॥ ९।२२२॥
prakāśam etat tāskaryam yat devana-samāhvayau . tayoḥ nityam pratīghāte nṛpatiḥ yatnavān bhavet .. 9.222..
9.222. Gambling and betting amount to open theft; the king shall always exert himself in suppressing both (of them).
अप्राणिभिर्यत्क्रियते तत्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ ९.२२३॥
अप्राणिभिः यत् क्रियते तत् लोके द्यूतम् उच्यते । प्राणिभिः क्रियते यः तु स विज्ञेयः समाह्वयः ॥ ९।२२३॥
aprāṇibhiḥ yat kriyate tat loke dyūtam ucyate . prāṇibhiḥ kriyate yaḥ tu sa vijñeyaḥ samāhvayaḥ .. 9.223..
9.223. When inanimate (things) are used (for staking money on them), that is called among men gambling (dyuta), when animate beings are used (for the same purpose), one must know that to be betting (samahvaya).
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥ ९.२२४॥
द्यूतम् समाह्वयम् च एव यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेत् राजा शूद्रान् च द्विजलिङ्गिनः ॥ ९।२२४॥
dyūtam samāhvayam ca eva yaḥ kuryāt kārayeta vā . tān sarvān ghātayet rājā śūdrān ca dvijaliṅginaḥ .. 9.224..
9.224. Let the king corporally punish all those (persons) who either gamble and bet or afford (an opportunity for it), likewise Sudras who assume the distinctive marks of twice-born (men).
कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् । विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ ९.२२५॥
कितवान् कुशीलवान् क्रूरान् पाषण्ड-स्थान् च मानवान् । विकर्म-स्थान् शौण्डिकान् च क्षिप्रम् निर्वासयेत् पुरात् ॥ ९।२२५॥
kitavān kuśīlavān krūrān pāṣaṇḍa-sthān ca mānavān . vikarma-sthān śauṇḍikān ca kṣipram nirvāsayet purāt .. 9.225..
9.225. Gamblers, dancers and singers, cruel men, men belonging to an heretical sect, those following forbidden occupations, and sellers of spirituous liquor, let him instantly banish from his town.
एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६॥
एते राष्ट्रे वर्तमानाः राज्ञः प्रच्छन्न-तस्कराः । विकर्म-क्रियया नित्यम् बाधन्ते भद्रिकाः प्रजाः ॥ ९।२२६॥
ete rāṣṭre vartamānāḥ rājñaḥ pracchanna-taskarāḥ . vikarma-kriyayā nityam bādhante bhadrikāḥ prajāḥ .. 9.226..
9.226. If such (persons who are) secret thieves, dwell in the realm of a king, they constantly harass his good subjects by their forbidden practices.
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् । तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ ९.२२७॥
द्यूतम् एतत् पुरा कल्पे दृष्टम् वैर-करम् महत् । तस्मात् द्यूतम् न सेवेत हास्य-अर्थम् अपि बुद्धिमान् ॥ ९।२२७॥
dyūtam etat purā kalpe dṛṣṭam vaira-karam mahat . tasmāt dyūtam na seveta hāsya-artham api buddhimān .. 9.227..
9.227. In a former Kalpa this (vice of) gambling has been seen to cause great enmity; a wise man, therefore, should not practise it even for amusement.
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ ९.२२८॥
प्रच्छन्नम् वा प्रकाशम् वा तत् निषेवेत यः नरः । तस्य दण्ड-विकल्पः स्यात् यथेष्टम् नृपतेः तथा ॥ ९।२२८॥
pracchannam vā prakāśam vā tat niṣeveta yaḥ naraḥ . tasya daṇḍa-vikalpaḥ syāt yatheṣṭam nṛpateḥ tathā .. 9.228..
9.228. On every man who addicts himself to that (vice) either secretly or openly, the king may inflict punishment according to his discretion.
क्षत्रविद्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्मणा गच्छेद्विप्रो दद्यात्शनैः शनैः ॥ ९.२२९॥
क्षत्र-विद् शूद्र-योनिः तु दण्डम् दातुम् अशक्नुवन् । आनृण्यम् कर्मणा गच्छेत् विप्रः दद्यात् शनैस् शनैस् ॥ ९।२२९॥
kṣatra-vid śūdra-yoniḥ tu daṇḍam dātum aśaknuvan . ānṛṇyam karmaṇā gacchet vipraḥ dadyāt śanais śanais .. 9.229..
9.229. But a Kshatriya, a Vaisya, and a Sudra who are unable to pay a fine, shall discharge the debt by labour; a Brahmana shall pay it by installments
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविदलरज्ज्वाद्यैर्विदध्यात्नृपतिर्दमम् ॥ ९.२३०॥
स्त्री-बाल-उन्मत्त-वृद्धानाम् दरिद्राणाम् च रोगिणाम् । शिफा-विदल-रज्जु-आद्यैः विदध्यात् नृपतिः दमम् ॥ ९।२३०॥
strī-bāla-unmatta-vṛddhānām daridrāṇām ca rogiṇām . śiphā-vidala-rajju-ādyaiḥ vidadhyāt nṛpatiḥ damam .. 9.230..
9.230. On women, infants, men of disordered mind, the poor and the sick, the king shall inflict punishment with a whip, a cane, or a rope and the like.
ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनौष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥ ९.२३१॥
ये नियुक्ताः तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धन-ओष्मणा पच्यमानाः तान् निःस्वान् कारयेत् नृपः ॥ ९।२३१॥
ye niyuktāḥ tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām . dhana-oṣmaṇā pacyamānāḥ tān niḥsvān kārayet nṛpaḥ .. 9.231..
9.231. But those appointed (to administer public) affairs, who, baked by the fire of wealth, mar the business of suitors, the king shall deprive of their property.
कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्द्विट्सेविनस्तथा ॥ ९.२३२॥
कूटशासन-कर्तॄन् च प्रकृतीनाम् च दूषकान् । स्त्री-बाल-ब्राह्मण-घ्नान् च हन्यात् द्विट्सेविनः तथा ॥ ९।२३२॥
kūṭaśāsana-kartṝn ca prakṛtīnām ca dūṣakān . strī-bāla-brāhmaṇa-ghnān ca hanyāt dviṭsevinaḥ tathā .. 9.232..
9.232. Forgers of royal edicts, those who corrupt his ministers, those who slay women, infants, or Brahmanas, and those who serve his enemies, the king shall put to death
तीरितं चानुशिष्टं च यत्र क्व चन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ ९.२३३॥
तीरितम् च अनुशिष्टम् च यत्र क्व चन यत् भवेत् । कृतम् तत् धर्मतः विद्यात् न तत् भूयस् निवर्तयेत् ॥ ९।२३३॥
tīritam ca anuśiṣṭam ca yatra kva cana yat bhavet . kṛtam tat dharmataḥ vidyāt na tat bhūyas nivartayet .. 9.233..
9.233. Whenever any (legal transaction) has been completed or (a punishment) been inflicted according to the law, he shall sanction it and not annul it.
अमात्यः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा । तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ ९.२३४॥ तं
अमात्यः प्राड्विवाकः वा यत् कुर्युः कार्यम् अन्यथा । तत् स्वयम् नृपतिः कुर्यात् तान् सहस्रम् च दण्डयेत् ॥ ९।२३४॥ तम्
amātyaḥ prāḍvivākaḥ vā yat kuryuḥ kāryam anyathā . tat svayam nṛpatiḥ kuryāt tān sahasram ca daṇḍayet .. 9.234.. tam
9.234. Whatever matter his ministers or the judge may settle improperly, that the king himself shall (re-) settle and fine (them) one thousand (panas).
ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः । एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ ९.२३५॥
ब्रह्म-हा च सुरापः च तस्करः गुरुतल्प-गः । एते सर्वे पृथक् ज्ञेयाः महापातकिनः नराः ॥ ९।२३५॥
brahma-hā ca surāpaḥ ca taskaraḥ gurutalpa-gaḥ . ete sarve pṛthak jñeyāḥ mahāpātakinaḥ narāḥ .. 9.235..
9.235. The slayer of a Brahmana, (A twice-born man) who drinks (the spirituous liquor called) Sura, he who steals (the gold of a Brahmana), and he who violates a Guru’s bed, must each and all be considered as men who committed mortal sins (mahapataka).
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६॥
चतुर्णाम् अपि च एतेषाम् प्रायश्चित्तम् अकुर्वताम् । शारीरम् धन-संयुक्तम् दण्डम् धर्म्यम् प्रकल्पयेत् ॥ ९।२३६॥
caturṇām api ca eteṣām prāyaścittam akurvatām . śārīram dhana-saṃyuktam daṇḍam dharmyam prakalpayet .. 9.236..
9.236. On those four even, if they do not perform a penance, let him inflict corporal punishment and fines in accordance with the law.
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । तस्करे श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ ९.२३७॥
गुरुतल्पे भगः कार्यः सुरा-पाने सुरा-ध्वजः । तस्करे श्वपदम् कार्यम् ब्रह्म-हण्य-शिराः पुमान् ॥ ९।२३७॥
gurutalpe bhagaḥ kāryaḥ surā-pāne surā-dhvajaḥ . taskare śvapadam kāryam brahma-haṇya-śirāḥ pumān .. 9.237..
9.237. For violating a Guru’s bed, (the mark of) a female part shall be (impressed on the forehead with a hot iron); for drinking (the spirituous liquor called) Sura, the sign of a tavern; for stealing (the gold of a Brahmana), a dog’s foot; for murdering a Brahmana, a headless corpse.
असम्भोज्या ह्यसंयाज्या असम्पाठ्याऽविवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ ९.२३८॥
अ सम्भोज्याः हि अ संयाज्याः अ सम्पाठ्य अ विवाहिनः । चरेयुः पृथिवीम् दीनाः सर्व-धर्म-बहिष्कृताः ॥ ९।२३८॥
a sambhojyāḥ hi a saṃyājyāḥ a sampāṭhya a vivāhinaḥ . careyuḥ pṛthivīm dīnāḥ sarva-dharma-bahiṣkṛtāḥ .. 9.238..
9.238. Excluded from all fellowship at meals, excluded from all sacrifices, excluded from instruction and from matrimonial alliances, abject and excluded from all religious duties, let them wander over (this) earth.
ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । निर्दया निर्नमस्कारास्तन् मनोरनुशासनम् ॥ ९.२३९॥
ज्ञाति-सम्बन्धिभिः तु एते त्यक्तव्याः कृत-लक्षणाः । निर्दयाः निर्नमस्काराः तत् मनोः अनुशासनम् ॥ ९।२३९॥
jñāti-sambandhibhiḥ tu ete tyaktavyāḥ kṛta-lakṣaṇāḥ . nirdayāḥ nirnamaskārāḥ tat manoḥ anuśāsanam .. 9.239..
9.239. Such (persons) who have been branded with (indelible) marks must be cast off by their paternal and maternal relations, and receive neither compassion nor a salutation; that is the teaching of Manu.
प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णा यथोदितम्म् । नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ ९.२४०॥
प्रायश्चित्तम् तु कुर्वाणाः पूर्वे वर्णाः यथा उदितम् । न अङ्क्याः राज्ञा ललाटे स्युः दाप्याः तु उत्तमसाहसम् ॥ ९।२४०॥
prāyaścittam tu kurvāṇāḥ pūrve varṇāḥ yathā uditam . na aṅkyāḥ rājñā lalāṭe syuḥ dāpyāḥ tu uttamasāhasam .. 9.240..
9.240. But (men of) all castes who perform the prescribed penances, must not be branded on the forehead by the king, but shall be made to pay the highest amercement.
आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥ ९.२४१॥
आगःसु ब्राह्मणस्य एव कार्यः मध्यमसाहसः । विवास्यः वा भवेत् राष्ट्रात् स द्रव्यः स परिच्छदः ॥ ९।२४१॥
āgaḥsu brāhmaṇasya eva kāryaḥ madhyamasāhasaḥ . vivāsyaḥ vā bhavet rāṣṭrāt sa dravyaḥ sa paricchadaḥ .. 9.241..
9.241. For (such) offences the middlemost amercement shall be inflicted on a Brahmana, or he may be banished from the realm, keeping his money and his chattels.
इतरे कृतवन्तस्तु पापान्येतान्यकामतः । सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ ९.२४२॥
इतरे कृतवन्तः तु पापानि एतानि अकामतः । सर्व-स्वहारम् अर्हन्ति कामतः तु प्रवासनम् ॥ ९।२४२॥
itare kṛtavantaḥ tu pāpāni etāni akāmataḥ . sarva-svahāram arhanti kāmataḥ tu pravāsanam .. 9.242..
9.242. But (men of) other (castes), who have unintentionally committed such crimes, ought to be deprived of their whole property; if (they committed them) intentionally, they shall be banished.
नाददीत नृपः साधुर्महापातकिनो धनम् । आददानस्तु तत्लोभात्तेन दोषेण लिप्यते ॥ ९.२४३॥
न आददीत नृपः साधुः महापातकिनः धनम् । आददानः तु तद्-लोभात् तेन दोषेण लिप्यते ॥ ९।२४३॥
na ādadīta nṛpaḥ sādhuḥ mahāpātakinaḥ dhanam . ādadānaḥ tu tad-lobhāt tena doṣeṇa lipyate .. 9.243..
9.243. A virtuous king must not take for himself the property of a man guilty of mortal sin; but if he takes it out of greed, he is tainted by that guilt (of the offender).
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४॥
अप्सु प्रवेश्य तम् दण्डम् वरुणाय उपपादयेत् । श्रुत-वृत्त-उपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९।२४४॥
apsu praveśya tam daṇḍam varuṇāya upapādayet . śruta-vṛtta-upapanne vā brāhmaṇe pratipādayet .. 9.244..
9.244. Having thrown such a fine into the water, let him offer it to Varuna, or let him bestow it on a learned and virtuous Brahmana.
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ९.२४५॥
ईशः दण्डस्य वरुणः राज्ञाम् दण्डधरः हि सः । ईशः सर्वस्य जगतः ब्राह्मणः वेदपारगः ॥ ९।२४५॥
īśaḥ daṇḍasya varuṇaḥ rājñām daṇḍadharaḥ hi saḥ . īśaḥ sarvasya jagataḥ brāhmaṇaḥ vedapāragaḥ .. 9.245..
9.245. Varuna is the lord of punishment, for he holds the sceptre even over kings; a Brahmana who has learnt the whole Veda is the lord of the whole world.
यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ ९.२४६॥
यत्र वर्जयते राजा पाप-कृद्भ्यः धन-आगमम् । तत्र कालेन जायन्ते मानवाः दीर्घ-जीविनः ॥ ९।२४६॥
yatra varjayate rājā pāpa-kṛdbhyaḥ dhana-āgamam . tatra kālena jāyante mānavāḥ dīrgha-jīvinaḥ .. 9.246..
9.246. In that (country), where the king avoids taking the property of (mortal) sinners, men are born in (due) time (and are) long-lived,
निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं च न जायते ॥ ९.२४७॥
निष्पद्यन्ते च सस्यानि यथा उप्तानि विशाम् पृथक् । बालाः च न प्रमीयन्ते विकृतम् च न जायते ॥ ९।२४७॥
niṣpadyante ca sasyāni yathā uptāni viśām pṛthak . bālāḥ ca na pramīyante vikṛtam ca na jāyate .. 9.247..
9.247. And the crops of the husbandmen spring up, each as it was sown, and the children die not, and no misshaped (offspring) is born.
ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् । हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ ९.२४८॥
ब्राह्मणान् बाधमानम् तु कामात् अवरवर्णजम् । हन्यात् चित्रैः वध-उपायैः उद्वेजन-करैः नृपः ॥ ९।२४८॥
brāhmaṇān bādhamānam tu kāmāt avaravarṇajam . hanyāt citraiḥ vadha-upāyaiḥ udvejana-karaiḥ nṛpaḥ .. 9.248..
9.248. But the king shall inflict on a base-born (Sudra), who intentionally gives pain to Brahmanas, various (kinds of) corporal punishment which cause terror.
यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥ ९.२४९॥
यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे । अधर्मः नृपतेः दृष्टः धर्मः तु विनियच्छतः ॥ ९।२४९॥
yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe . adharmaḥ nṛpateḥ dṛṣṭaḥ dharmaḥ tu viniyacchataḥ .. 9.249..
9.249. When a king punishes an innocent (man), his guilt is considered as great as when he sets free a guilty man; but (he acquires) merit when he punishes (justly).
उदितोऽयं विस्तरशो मिथो विवदमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ ९.२५०॥
उदितः अयम् विस्तरशः मिथस् विवदमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ ९।२५०॥
uditaḥ ayam vistaraśaḥ mithas vivadamānayoḥ . aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ .. 9.250..
9.250. Thus the (manner of) deciding suits (falling) under the eighteen titles, between two litigant parties, has been declared at length.
एवं धर्म्याणि कार्याणि सम्यक्कुर्वन् महीपतिः । देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ॥ ९.२५१॥
एवम् धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः । देशान् अलब्धान् लिप्सेत लब्धान् च परिपालयेत् ॥ ९।२५१॥
evam dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ . deśān alabdhān lipseta labdhān ca paripālayet .. 9.251..
9.251. A king who thus duly fulfils his duties in accordance with justice, may seek to gain countries which he has not yet gained, and shall duly protect them when he has gained them.
सम्यग्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ॥ ९.२५२॥
सम्यक् निविष्ट-देशः तु कृत-दुर्गः च शास्त्रतः । कण्टक-उद्धरणे नित्यम् आतिष्ठेत् यत्नम् उत्तमम् ॥ ९।२५२॥
samyak niviṣṭa-deśaḥ tu kṛta-durgaḥ ca śāstrataḥ . kaṇṭaka-uddharaṇe nityam ātiṣṭhet yatnam uttamam .. 9.252..
9.252. Having duly settled his country, and having built forts in accordance with the Institutes, he shall use his utmost exertions to remove (those men who are nocuous like) thorns.
रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ ९.२५३॥
रक्षनात् आर्य-वृत्तानाम् कण्टकानाम् च शोधनात् । नरेन्द्राः त्रिदिवम् यान्ति प्रजा-पालन-तत्पराः ॥ ९।२५३॥
rakṣanāt ārya-vṛttānām kaṇṭakānām ca śodhanāt . narendrāḥ tridivam yānti prajā-pālana-tatparāḥ .. 9.253..
9.253. By protecting those who live as (becomes) Aryans and by removing the thorns, kings, solely intent on guarding their subjects, reach heaven.
अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ ९.२५४॥
अशासान् तस्करान् यः तु बलिम् गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रम् स्वर्गात् च परिहीयते ॥ ९।२५४॥
aśāsān taskarān yaḥ tu balim gṛhṇāti pārthivaḥ . tasya prakṣubhyate rāṣṭram svargāt ca parihīyate .. 9.254..
9.254. The realm of that king who takes his share in kind, though he does not punish thieves, (will be) disturbed and he (will) lose heaven.
निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥ ९.२५५॥
निर्भयम् तु भवेत् यस्य राष्ट्रम् बाहु-बल-आश्रितम् । तस्य तत् वर्धते नित्यम् सिच्यमानः इव द्रुमः ॥ ९।२५५॥
nirbhayam tu bhavet yasya rāṣṭram bāhu-bala-āśritam . tasya tat vardhate nityam sicyamānaḥ iva drumaḥ .. 9.255..
9.255. But if his kingdom be secure, protected by the strength of his arm, it will constantly flourish like a (well)- watered tree.
द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ ९.२५६॥
द्विविधान् तस्करान् विद्यात् पर-द्रव्य-अपहारकान् । प्रकाशान् च अप्रकाशान् च चार-चक्षुः महीपतिः ॥ ९।२५६॥
dvividhān taskarān vidyāt para-dravya-apahārakān . prakāśān ca aprakāśān ca cāra-cakṣuḥ mahīpatiḥ .. 9.256..
9.256. Let the king who sees (everything) through his spies, discover the two sorts of thieves who deprive others of their property, both those who (show themselves) openly and those who (lie) concealed.
प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥ ९.२५७॥
प्रकाश-वञ्चकाः तेषाम् नाना पण्य-उपजीविनः । प्रच्छन्न-वञ्चकाः तु एते ये स्तेन-आटविक-आदयः ॥ ९।२५७॥
prakāśa-vañcakāḥ teṣām nānā paṇya-upajīvinaḥ . pracchanna-vañcakāḥ tu ete ye stena-āṭavika-ādayaḥ .. 9.257..
9.257. Among them, the open rogues (are those) who subsist by (cheating in the sale of) various marketable commodities, but the concealed rogues are burglars, robbers in forests, and so forth.
उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ॥ ९.२५८॥
उत्कोचकाः च उपधिकाः वञ्चकाः कितवाः तथा । मङ्गल-आदेश-वृत्ताः च भद्र-प्रेक्षणिकैः सह ॥ ९।२५८॥
utkocakāḥ ca upadhikāḥ vañcakāḥ kitavāḥ tathā . maṅgala-ādeśa-vṛttāḥ ca bhadra-prekṣaṇikaiḥ saha .. 9.258..
9.258. Those who take bribes, cheats and rogues, gamblers, those who live by teaching (the performance of) auspicious ceremonies, sanctimonious hypocrites, and fortune-tellers,
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ ९.२५९॥
असम्यक्कारिणः च एव महामात्राः चिकित्सकाः । शिल्प-उपचार-युक्ताः च निपुणाः पण्ययोषितः ॥ ९।२५९॥
asamyakkāriṇaḥ ca eva mahāmātrāḥ cikitsakāḥ . śilpa-upacāra-yuktāḥ ca nipuṇāḥ paṇyayoṣitaḥ .. 9.259..
9.259. Officials of high rank and physicians who act improperly, men living by showing their proficiency in arts, and clever harlots,
एवमाद्यान् विजानीयात्प्रकाशांल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ ९.२६०॥
एवमाद्यान् विजानीयात् प्रकाशान् लोककण्टकान् । निगूढ-चारिणः च अन्यान् अनार्य-अनार्य-लिङ्गिनः ॥ ९।२६०॥
evamādyān vijānīyāt prakāśān lokakaṇṭakān . nigūḍha-cāriṇaḥ ca anyān anārya-anārya-liṅginaḥ .. 9.260..
9.260. These and the like who show themselves openly, as well as others who walk in disguise (such as) non- Aryans who wear the marks of Aryans, he should know to be thorns (in the side of his people).
तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः । चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ ९.२६१॥
तान् विदित्वा सु चरितैः गूढैः तद्-कर्म-कारिभिः । चारैः च अनेक-संस्थानैः प्रोत्साद्य वशम् आनयेत् ॥ ९।२६१॥
tān viditvā su caritaiḥ gūḍhaiḥ tad-karma-kāribhiḥ . cāraiḥ ca aneka-saṃsthānaiḥ protsādya vaśam ānayet .. 9.261..
9.261. Having detected them by means of trustworthy persons, who, disguising themselves, (pretend) to follow the same occupations and by means of spies, wearing various disguises, he must cause them to be instigated (to commit offences), and bring them into his power.
तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥ ९.२६२॥
तेषाम् दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनम् राजा सम्यक् सार-अपराधतः ॥ ९।२६२॥
teṣām doṣān abhikhyāpya sve sve karmaṇi tattvataḥ . kurvīta śāsanam rājā samyak sāra-aparādhataḥ .. 9.262..
9.262. Then having caused the crimes, which they committed by their several actions, to be proclaimed in accordance with the facts, the king shall duly punish them according to their strength and their crimes.
न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ ९.२६३॥
न हि दण्डात् ऋते शक्यः कर्तुम् पाप-विनिग्रहः । स्तेनानाम् पाप-बुद्धीनाम् निभृतम् चरताम् क्षितौ ॥ ९।२६३॥
na hi daṇḍāt ṛte śakyaḥ kartum pāpa-vinigrahaḥ . stenānām pāpa-buddhīnām nibhṛtam caratām kṣitau .. 9.263..
9.263. For the wickedness of evil-minded thieves, who secretly prowl over this earth, cannot be restrained except by punishment.
सभाप्रपाऽपूपशालावेशमद्यान्नविक्रयाः । चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ ९.२६४॥
सभा-प्रपा-अपूप-शाला-वेश-मद्य-अन्न-विक्रयाः । चतुष्पथान् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ ९।२६४॥
sabhā-prapā-apūpa-śālā-veśa-madya-anna-vikrayāḥ . catuṣpathān caityavṛkṣāḥ samājāḥ prekṣaṇāni ca .. 9.264..
9.264. Assembly-houses, houses where water is distributed or cakes are sold, brothels, taverns and victualler’s shops, cross-roads, well-known trees, festive assemblies, and play-houses and concert-rooms
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ ९.२६५॥
जीर्ण-उद्यानानि अरण्यानि कारुका-आवेशनानि च । शून्यानि च अपि अगाराणि वनानि उपवनानि च ॥ ९।२६५॥
jīrṇa-udyānāni araṇyāni kārukā-āveśanāni ca . śūnyāni ca api agārāṇi vanāni upavanāni ca .. 9.265..
9.265. Old gardens, forests, the shops of artisans, empty dwellings, natural and artificial groves,
एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः । तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ ९.२६६॥
एवंविधान् नृपः देशान् गुल्मैः स्थावर-जङ्गमैः । तस्कर-प्रतिषेध-अर्थम् चारैः च अपि अनुचारयेत् ॥ ९।२६६॥
evaṃvidhān nṛpaḥ deśān gulmaiḥ sthāvara-jaṅgamaiḥ . taskara-pratiṣedha-artham cāraiḥ ca api anucārayet .. 9.266..
9.266. These and the like places the king shall cause to be guarded by companies of soldiers, both stationary and patrolling, and by spies, in order to keep away thieves.
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः । विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ ९.२६७॥
तद्-सहायैः अनुगतैः नाना कर्म-प्रवेदिभिः । विद्यात् उत्सादयेत् च एव निपुणैः पूर्व-तस्करैः ॥ ९।२६७॥
tad-sahāyaiḥ anugataiḥ nānā karma-pravedibhiḥ . vidyāt utsādayet ca eva nipuṇaiḥ pūrva-taskaraiḥ .. 9.267..
9.267. By the means of clever reformed thieves, who associate with such (rogues), follow them and know their various machinations, he must detect and destroy them.
भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ ९.२६८॥
भक्ष्य-भोज्य-उपदेशैः च ब्राह्मणानाम् च दर्शनैः । शौर्य-कर्म-अपदेशैः च कुर्युः तेषाम् समागमम् ॥ ९।२६८॥
bhakṣya-bhojya-upadeśaiḥ ca brāhmaṇānām ca darśanaiḥ . śaurya-karma-apadeśaiḥ ca kuryuḥ teṣām samāgamam .. 9.268..
9.268. Under the pretext of (offering them) various dainties, of introducing them to Brahmanas, and on the pretence of (showing them) feats of strength, the (spies) must make them meet (the officers of justice).
ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये । तान् प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान् ॥ ९.२६९॥
ये तत्र न उपसर्पेयुः मूल-प्रणिहिताः च ये । तान् प्रसह्य नृपः हन्यात् स मित्र-ज्ञाति-बान्धवान् ॥ ९।२६९॥
ye tatra na upasarpeyuḥ mūla-praṇihitāḥ ca ye . tān prasahya nṛpaḥ hanyāt sa mitra-jñāti-bāndhavān .. 9.269..
9.269. Those among them who do not come, and those who suspect the old (thieves employed by the king), the king shall attack by force and slay together with their friends, blood relations, and connexions.
न होढेन विना चौरं घातयेद्धार्मिको नृपः । सहोढं सोपकरणं घातयेदविचारयन् ॥ ९.२७०॥
न होढेन विना चौरम् घातयेत् धार्मिकः नृपः । सहोढम् स उपकरणम् घातयेत् अ विचारयन् ॥ ९।२७०॥
na hoḍhena vinā cauram ghātayet dhārmikaḥ nṛpaḥ . sahoḍham sa upakaraṇam ghātayet a vicārayan .. 9.270..
9.270. A just king shall not cause a thief to be put to death, (unless taken) with the stolen goods (in his possession); him who (is taken) with the stolen goods and the implements (of burglary), he may, without hesitation, cause to be slain.
ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः । भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ ९.२७१॥
ग्रामेषु अपि च ये के चित् चौराणाम् भक्त-दायकाः । भाण्डावकाशदाः च एव सर्वान् तान् अपि घातयेत् ॥ ९।२७१॥
grāmeṣu api ca ye ke cit caurāṇām bhakta-dāyakāḥ . bhāṇḍāvakāśadāḥ ca eva sarvān tān api ghātayet .. 9.271..
9.271. All those also who in villages give food to thieves or grant them room for (concealing their implements), he shall cause to be put to death.
राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । अभ्याघातेषु मध्यस्थाञ् शिष्याच्चौरानिव द्रुतम् ॥ ९.२७२॥
राष्ट्रेषु रक्षा-अधिकृतान् सामन्तान् च एव चोदितान् । अभ्याघातेषु मध्यस्थान् शिष्यात् चौरान् इव द्रुतम् ॥ ९।२७२॥
rāṣṭreṣu rakṣā-adhikṛtān sāmantān ca eva coditān . abhyāghāteṣu madhyasthān śiṣyāt caurān iva drutam .. 9.272..
9.272. Those who are appointed to guard provinces and his vassals who have been ordered (to help), he shall speedily punish like thieves, (if they remain) inactive in attacks (by robbers).
यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । दण्डेनैव तमप्योषेत्स्वकाद्धर्माधि विच्युतम् ॥ ९.२७३॥
यः च अपि धर्म-समयात् प्रच्युतः धर्म-जीवनः । दण्डेन एव तम् अपि ओषेत् स्वकात् धर्म-अधि विच्युतम् ॥ ९।२७३॥
yaḥ ca api dharma-samayāt pracyutaḥ dharma-jīvanaḥ . daṇḍena eva tam api oṣet svakāt dharma-adhi vicyutam .. 9.273..
9.273. Moreover if (a man), who subsists by (the fulfilment of) the law, departs from the established rule of the law, the (king) shall severely punish him by a fine, (because he) violated his duty.
ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ ९.२७४॥
ग्राम-घाते हिता-भङ्गे पथि मोष-अभिदर्शने । शक्तितः न अभिधावन्तः निर्वास्याः स परिच्छदाः ॥ ९।२७४॥
grāma-ghāte hitā-bhaṅge pathi moṣa-abhidarśane . śaktitaḥ na abhidhāvantaḥ nirvāsyāḥ sa paricchadāḥ .. 9.274..
9.274. Those who do not give assistance according to their ability when a village is being plundered, a dyke is being destroyed, or a highway robbery committed, shall be banished with their goods and chattels.
राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥ ९.२७५॥
राज्ञः कोश-अपहर्तॄन् च प्रतिकूलेषु च स्थितान् । घातयेत् विविधैः दण्डैः अरीणाम् च उपजापकान् ॥ ९।२७५॥
rājñaḥ kośa-apahartṝn ca pratikūleṣu ca sthitān . ghātayet vividhaiḥ daṇḍaiḥ arīṇām ca upajāpakān .. 9.275..
9.275. On those who rob the king’s treasury and those who persevere in opposing (his commands), he shall inflict various kinds of capital punishment, likewise on those who conspire with his enemies.
संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६॥
संधिम् छित्त्वा तु ये चौर्यम् रात्रौ कुर्वन्ति तस्कराः । तेषाम् छित्त्वा नृपः हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९।२७६॥
saṃdhim chittvā tu ye cauryam rātrau kurvanti taskarāḥ . teṣām chittvā nṛpaḥ hastau tīkṣṇe śūle niveśayet .. 9.276..
9.276. But the king shall cut off the hands of those robbers who, breaking into houses, commit thefts at night, and cause them to be impaled on a pointed stake.
अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ ९.२७७॥
अङ्गुलीः ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्त-चरणौ तृतीये वधम् अर्हति ॥ ९।२७७॥
aṅgulīḥ granthibhedasya chedayet prathame grahe . dvitīye hasta-caraṇau tṛtīye vadham arhati .. 9.277..
9.277. On the first conviction, let him cause two fingers of a cut-purse to be amputated; on the second, one hand and one foot; on the third, he shall suffer death.
अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् । संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ ९.२७८॥
अग्निदान् भक्त-दान् च एव तथा शस्त्र-अवकाश-दान् । संनिधातॄन् च मोषस्य हन्यात् चौरम् इव ईश्वरः ॥ ९।२७८॥
agnidān bhakta-dān ca eva tathā śastra-avakāśa-dān . saṃnidhātṝn ca moṣasya hanyāt cauram iva īśvaraḥ .. 9.278..
9.278. Those who give (to thieves) fire, food, arms, or shelter, and receivers of stolen goods, the ruler shall punish like thieves.
तडागभेदकं हन्यादप्सु शुद्धवधेन वा । यद्वाऽपि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम् ॥ ९.२७९॥
तडाग-भेदकम् हन्यात् अप्सु शुद्ध-वधेन वा । यत् वा अपि प्रतिसंस्कुर्यात् दाप्यः तु उत्तमसाहसम् ॥ ९।२७९॥
taḍāga-bhedakam hanyāt apsu śuddha-vadhena vā . yat vā api pratisaṃskuryāt dāpyaḥ tu uttamasāhasam .. 9.279..
9.279. Him who breaks (the dam of) a tank he shall slay (by drowning him) in water or by (some other) (mode of) capital punishment; or the offender may repair the (damage), but shall be made to pay the highest amercement.
कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥ ९.२८०॥
कोष्ठ-आगार-आयुध-आगार-देवता-आगार-भेदकान् । हस्ति-अश्व-रथ-हर्तॄन् च हन्यात् एव अ विचारयन् ॥ ९।२८०॥
koṣṭha-āgāra-āyudha-āgāra-devatā-āgāra-bhedakān . hasti-aśva-ratha-hartṝn ca hanyāt eva a vicārayan .. 9.280..
9.280. Those who break into a (royal) storehouse, an armoury, or a temple, and those who steal elephants, horses, or chariots, he shall slay without hesitation.
यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमं वाऽप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ॥ ९.२८१॥
यः तु पूर्व-निविष्टस्य तडागस्य उदकम् हरेत् । आगमम् वा अपि अपाम् भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥ ९।२८१॥
yaḥ tu pūrva-niviṣṭasya taḍāgasya udakam haret . āgamam vā api apām bhindyāt sa dāpyaḥ pūrvasāhasam .. 9.281..
9.281. But he who shall take away the water of a tank, made in ancient times, or shall cut off the supply of water, must be made to pay the first (or lowest) amercement.
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ ९.२८२॥
समुत्सृजेत् राजमार्गे यः तु अमेध्यम् अनापदि । स द्वौ कार्षापणौ दद्यात् अमेध्यम् च आशु शोधयेत् ॥ ९।२८२॥
samutsṛjet rājamārge yaḥ tu amedhyam anāpadi . sa dvau kārṣāpaṇau dadyāt amedhyam ca āśu śodhayet .. 9.282..
9.282. But he who, except in a case of extreme necessity, drops filth on the king’s high-road, shall pay two karshapanas and immediately remove (that) filth.
आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ ९.२८३॥
आपद्-गतः अथ वा वृद्धा गर्भिणी बालः एव वा । परिभाषणम् अर्हन्ति तत् च शोध्यम् इति स्थितिः ॥ ९।२८३॥
āpad-gataḥ atha vā vṛddhā garbhiṇī bālaḥ eva vā . paribhāṣaṇam arhanti tat ca śodhyam iti sthitiḥ .. 9.283..
9.283. But a person in urgent necessity, an aged man, a pregnant woman, or a child, shall be reprimanded and clean the (place); that is a settled rule.
चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ ९.२८४॥
चिकित्सकानाम् सर्वेषाम् मिथ्या प्रचरताम् दमः । अमानुषेषु प्रथमः मानुषेषु तु मध्यमः ॥ ९।२८४॥
cikitsakānām sarveṣām mithyā pracaratām damaḥ . amānuṣeṣu prathamaḥ mānuṣeṣu tu madhyamaḥ .. 9.284..
9.284. All physicians who treat (their patients) wrongly (shall pay) a fine; in the case of animals, the first (or lowest); in the case of human beings, the middlemost (amercement).
सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः । प्रतिकुर्याच्च तत्सर्वं पञ्च दद्यात्शतानि च ॥ ९.२८५॥
सङ्क्रम-ध्वज-यष्टीनाम् प्रतिमानाम् च भेदकः । प्रतिकुर्यात् च तत् सर्वम् पञ्च दद्यात् शतानि च ॥ ९।२८५॥
saṅkrama-dhvaja-yaṣṭīnām pratimānām ca bhedakaḥ . pratikuryāt ca tat sarvam pañca dadyāt śatāni ca .. 9.285..
9.285. He who destroys a bridge, the flag (of a temple or royal palace), a pole, or images, shall repair the whole (damage) and pay five hundred (panas).
अदूषितानां द्रव्याणां दूषणे भेदने तथा । मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ ९.२८६॥
अ दूषितानाम् द्रव्याणाम् दूषणे भेदने तथा । मणीनाम् अपवेधे च दण्डः प्रथम-साहसः ॥ ९।२८६॥
a dūṣitānām dravyāṇām dūṣaṇe bhedane tathā . maṇīnām apavedhe ca daṇḍaḥ prathama-sāhasaḥ .. 9.286..
9.286. For adulterating unadulterated commodities, and for breaking gems or for improperly boring (them), the fine is the first (or lowest) amercement.
समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा । समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा ॥ ९.२८७॥
समैः हि विषमम् यः तु चरेत् वै मूल्यतः अपि वा । समाप्नुयात् दमम् पूर्वम् नरः मध्यमम् एव वा ॥ ९।२८७॥
samaiḥ hi viṣamam yaḥ tu caret vai mūlyataḥ api vā . samāpnuyāt damam pūrvam naraḥ madhyamam eva vā .. 9.287..
9.287. But that man who behaves dishonestly to honest (customers) or cheats in his prices, shall be fined in the first or in the middlemost amercement.
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥ ९.२८८॥
बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् । दुःखिताः यत्र दृश्येरन् विकृताः पाप-कारिणः ॥ ९।२८८॥
bandhanāni ca sarvāṇi rājamārge niveśayet . duḥkhitāḥ yatra dṛśyeran vikṛtāḥ pāpa-kāriṇaḥ .. 9.288..
9.288. Let him place all prisons near a high-road, where the suffering and disfigured offenders can be seen.
प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ ९.२८९॥
प्राकारस्य च भेत्तारम् परिखाणाम् च पूरकम् । द्वाराणाम् च एव भङ्क्तारम् क्षिप्रम् एव प्रवासयेत् ॥ ९।२८९॥
prākārasya ca bhettāram parikhāṇām ca pūrakam . dvārāṇām ca eva bhaṅktāram kṣipram eva pravāsayet .. 9.289..
9.289. Him who destroys the wall (of a town), or fills up the ditch (round a town), or breaks a (town)- gate, he shall instantly banish.
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ ९.२९०॥
अभिचारेषु सर्वेषु कर्तव्यः द्विशतः दमः । मूलकर्मणि च अनाप्तैः कृत्यासु विविधासु च ॥ ९।२९०॥
abhicāreṣu sarveṣu kartavyaḥ dviśataḥ damaḥ . mūlakarmaṇi ca anāptaiḥ kṛtyāsu vividhāsu ca .. 9.290..
9.290. For all incantations intended to destroy life, for magic rites with roots (practised by persons) not related (to him against whom they are directed), and for various kinds of sorcery, a fine of two hundred (panas) shall be inflicted.
अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ॥ ९.२९१॥
अबीज-विक्रयी च एव बीज-उत्कृष्टा तथा एव च । मर्यादा-भेदकः च एव विकृतम् प्राप्नुयात् वधम् ॥ ९।२९१॥
abīja-vikrayī ca eva bīja-utkṛṣṭā tathā eva ca . maryādā-bhedakaḥ ca eva vikṛtam prāpnuyāt vadham .. 9.291..
9.291. He who sells (for seed-corn that which is) not seed-corn, he who takes up seed (already sown), and he who destroys a boundary (-mark), shall be punished by mutilation.
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदयेत्लवशः क्षुरैः ॥ ९.२९२॥
सर्व-कण्टक-पापिष्ठम् हेमकारम् तु पार्थिवः । प्रवर्तमानम् अन्याये छेदयेत् लवशस् क्षुरैः ॥ ९।२९२॥
sarva-kaṇṭaka-pāpiṣṭham hemakāram tu pārthivaḥ . pravartamānam anyāye chedayet lavaśas kṣuraiḥ .. 9.292..
9.292. But the king shall cause a goldsmith who behaves dishonestly, the most nocuous of all the thorns, to be cut to pieces with razors.
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३॥
सीता-द्रव्य-अपहरणे शस्त्राणाम् औषधस्य च । कालम् आसाद्य कार्यम् च राजा दण्डम् प्रकल्पयेत् ॥ ९।२९३॥
sītā-dravya-apaharaṇe śastrāṇām auṣadhasya ca . kālam āsādya kāryam ca rājā daṇḍam prakalpayet .. 9.293..
9.293. For the theft of agricultural implements, of arms and of medicines, let the king award punishment, taking into account the time (of the offence) and the use (of the object).
स्वाम्य्ऽमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ ९.२९४॥
स्वामी अमात्यौ पुरम् राष्ट्रम् कोश-दण्डौ सुहृद् तथा । सप्त प्रकृतयः हि एताः सप्त-अङ्गम् राज्यम् उच्यते ॥ ९।२९४॥
svāmī amātyau puram rāṣṭram kośa-daṇḍau suhṛd tathā . sapta prakṛtayaḥ hi etāḥ sapta-aṅgam rājyam ucyate .. 9.294..
9.294. The king and his minister, his capital, his realm, his treasury, his army, and his ally are the seven constituent parts (of a kingdom); (hence) a kingdom is said to have seven limbs (anga).
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ॥ ९.२९५॥
सप्तानाम् प्रकृतीनाम् तु राज्यस्य आसाम् यथाक्रमम् । पूर्वम् पूर्वम् गुरुतरम् जानीयात् व्यसनम् महत् ॥ ९।२९५॥
saptānām prakṛtīnām tu rājyasya āsām yathākramam . pūrvam pūrvam gurutaram jānīyāt vyasanam mahat .. 9.295..
9.295. But let him know (that) among these seven constituent parts of a kingdom (which have been enumerated) in due order, each earlier (named) is more important and (its destruction) the greater calamity.
सप्ताङ्गस्यैह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यात्न किं चिदतिरिच्यते ॥ ९.२९६॥
सप्त-अङ्गस्य एह राज्यस्य विष्टब्धस्य त्रिदण्ड-वत् । अन्योन्य-गुण-वैशेष्यात् न किम् चित् अतिरिच्यते ॥ ९।२९६॥
sapta-aṅgasya eha rājyasya viṣṭabdhasya tridaṇḍa-vat . anyonya-guṇa-vaiśeṣyāt na kim cit atiricyate .. 9.296..
9.296. Yet in a kingdom containing seven constituent parts, which is upheld like the triple staff (of an ascetic), there is no (single part) more important (than the others), by reason of the importance of the qualities of each for the others.
तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते । येन यत्साध्यते कार्यं तत्तस्मिंश्रेष्ठमुच्यते ॥ ९.२९७॥
तेषु तेषु तु कृत्येषु तत् तत् अङ्गम् विशिष्यते । येन यत् साध्यते कार्यम् तत् तस्मिन् श्रेष्ठम् उच्यते ॥ ९।२९७॥
teṣu teṣu tu kṛtyeṣu tat tat aṅgam viśiṣyate . yena yat sādhyate kāryam tat tasmin śreṣṭham ucyate .. 9.297..
9.297. For each part is particularly qualified for (the accomplishment of) certain objects, (and thus) each is declared to be the most important for that particular purpose which is effected by its means
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥ ९.२९८॥
चारेण उत्साह-योगेन क्रियया एव च कर्मणाम् । स्व-शक्तिम् पर-शक्तिम् च नित्यम् विद्यात् महीपतिः ॥ ९।२९८॥
cāreṇa utsāha-yogena kriyayā eva ca karmaṇām . sva-śaktim para-śaktim ca nityam vidyāt mahīpatiḥ .. 9.298..
9.298. By spies, by a (pretended) display of energy, and by carrying out (various) undertakings, let the king constantly ascertain his own and his enemy’s strength;
पीडनानि च सर्वाणि व्यसनानि तथैव च । आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥ ९.२९९॥
पीडनानि च सर्वाणि व्यसनानि तथा एव च । आरभेत ततस् कार्यम् सञ्चिन्त्य गुरुलाघवम् ॥ ९।२९९॥
pīḍanāni ca sarvāṇi vyasanāni tathā eva ca . ārabheta tatas kāryam sañcintya gurulāghavam .. 9.299..
9.299. Moreover, all calamities and vices; afterwards, when he has fully considered their relative importance, let him begin his operations.
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ ९.३००॥
आरभेत एव कर्माणि श्रान्तः श्रान्तः पुनर् पुनर् । कर्माणि आरभमाणम् हि पुरुषम् श्रीः निषेवते ॥ ९।३००॥
ārabheta eva karmāṇi śrāntaḥ śrāntaḥ punar punar . karmāṇi ārabhamāṇam hi puruṣam śrīḥ niṣevate .. 9.300..
9.300. (Though he be) ever so much tired (by repeated failures), let him begin his operations again and again; for fortune greatly favours the man who (strenuously) exerts himself in his undertakings.
कृतं त्रेतायुगं चैव द्वापरं कलिरेव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ ९.३०१॥
कृतम् त्रेता-युगम् च एव द्वापरम् कलिः एव च । राज्ञः वृत्तानि सर्वाणि राजा हि युगम् उच्यते ॥ ९।३०१॥
kṛtam tretā-yugam ca eva dvāparam kaliḥ eva ca . rājñaḥ vṛttāni sarvāṇi rājā hi yugam ucyate .. 9.301..
9.301. The various ways in which a king behaves (resemble) the Krita, Treta, Dvapara, and Kali ages; hence the king is identified with the ages (of the world).
कलिः प्रसुप्तो भवति स जाग्रद्द्वापरं युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ ९.३०२॥
कलिः प्रसुप्तः भवति स जाग्रत्-द्वापरम् युगम् । कर्मसु अभ्युद्यतः त्रेता विचरन् तु कृतम् युगम् ॥ ९।३०२॥
kaliḥ prasuptaḥ bhavati sa jāgrat-dvāparam yugam . karmasu abhyudyataḥ tretā vicaran tu kṛtam yugam .. 9.302..
9.302. Sleeping he represents the Kali (or iron age), waking the Dvapara (or brazen) age, ready to act the Treta (or silver age), but moving (actively) the Krita (or golden) age.
इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ९.३०३॥
इन्द्रस्य अर्कस्य वायोः च यमस्य वरुणस्य च । चन्द्रस्य अग्नेः पृथिव्याः च तेजः-वृत्तम् नृपः चरेत् ॥ ९।३०३॥
indrasya arkasya vāyoḥ ca yamasya varuṇasya ca . candrasya agneḥ pṛthivyāḥ ca tejaḥ-vṛttam nṛpaḥ caret .. 9.303..
9.303. Let the king emulate the energetic action of Indra, of the Sun, of the Wind, of Yama, of Varuna, of the Moon, of the Fire, and of the Earth.
वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति । तथाऽभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ ९.३०४॥
वार्षिकान् चतुरः मासान् यथा इन्द्रः अभिप्रवर्षति । तथा अभिवर्षेत् स्वम् राष्ट्रम् कामैः इन्द्रव्रतम् चरन् ॥ ९।३०४॥
vārṣikān caturaḥ māsān yathā indraḥ abhipravarṣati . tathā abhivarṣet svam rāṣṭram kāmaiḥ indravratam caran .. 9.304..
9.304. As Indra sends copious rain during the four months of the rainy season, even so let the king, taking upon himself the office of Indra, shower benefits on his kingdom.
अष्टौ मासान् यथाऽदित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रात्नित्यमर्कव्रतं हि तत् ॥ ९.३०५॥
अष्टौ मासान् यथा आदित्यः तोयम् हरति रश्मिभिः । तथा हरेत् करम् राष्ट्रात् नित्यम् अर्कव्रतम् हि तत् ॥ ९।३०५॥
aṣṭau māsān yathā ādityaḥ toyam harati raśmibhiḥ . tathā haret karam rāṣṭrāt nityam arkavratam hi tat .. 9.305..
9.305. As the Sun during eight months (imperceptibly) draws up the water with his rays, even so let him gradually draw his taxes from his kingdom; for that is the office in which he resembles the Sun.
प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतधि मारुतम् ॥ ९.३०६॥
प्रविश्य सर्व-भूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यम् मारुतम् ॥ ९।३०६॥
praviśya sarva-bhūtāni yathā carati mārutaḥ . tathā cāraiḥ praveṣṭavyam mārutam .. 9.306..
9.306. As the Wind moves (everywhere), entering (in the shape of the vital air) all created beings, even so let him penetrate (everywhere) through his spies; that is the office in which he resembles the Wind.
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तधि यमव्रतम् ॥ ९.३०७॥
यथा यमः प्रिय-द्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजाः तधि यमव्रतम् ॥ ९।३०७॥
yathā yamaḥ priya-dveṣyau prāpte kāle niyacchati . tathā rājñā niyantavyāḥ prajāḥ tadhi yamavratam .. 9.307..
9.307. As Yama at the appointed time subjects to his rule both friends and foes, even so all subjects must be controlled by the king; that is the office in which he resembles Yama.
वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयाद्व्रतमेतधि वारुणम् ॥ ९.३०८॥
वरुणेन यथा पाशैः बद्धः एव अभिदृश्यते । तथा पापान् निगृह्णीयात् व्रतम् एतत् हि वारुणम् ॥ ९।३०८॥
varuṇena yathā pāśaiḥ baddhaḥ eva abhidṛśyate . tathā pāpān nigṛhṇīyāt vratam etat hi vāruṇam .. 9.308..
9.308. As (a sinner) is seen bound with ropes by Varuna, even so let him punish the wicked; that is his office in which he resembles Varuna.
परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ ९.३०९॥
परिपूर्णम् यथा चन्द्रम् दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयः यस्मिन् स चान्द्रव्रतिकः नृपः ॥ ९।३०९॥
paripūrṇam yathā candram dṛṣṭvā hṛṣyanti mānavāḥ . tathā prakṛtayaḥ yasmin sa cāndravratikaḥ nṛpaḥ .. 9.309..
9.309. He is a king, taking upon himself the office of the Moon, whose (appearance) his subjects (greet with as great joy) as men feel on seeing the full moon.
प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ ९.३१०॥
प्रताप-युक्तः तेजस्वी नित्यम् स्यात् पाप-कर्मसु । दुष्ट-सामन्त-हिंस्रः च तत् आग्नेयम् व्रतम् स्मृतम् ॥ ९।३१०॥
pratāpa-yuktaḥ tejasvī nityam syāt pāpa-karmasu . duṣṭa-sāmanta-hiṃsraḥ ca tat āgneyam vratam smṛtam .. 9.310..
9.310. (If) he is ardent in wrath against criminals and endowed with brilliant energy, and destroys wicked vassals, then his character is said (to resemble) that of Fire.
यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ९.३११॥
यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवम् व्रतम् ॥ ९।३११॥
yathā sarvāṇi bhūtāni dharā dhārayate samam . tathā sarvāṇi bhūtāni bibhrataḥ pārthivam vratam .. 9.311..
9.311. As the Earth supports all created beings equally, thus (a king) who supports all his subjects, (takes upon himself) the office of the Earth.
एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः । स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥ ९.३१२॥
एतैः उपायैः अन्यैः च युक्तः नित्यम् अतन्द्रितः । स्तेनान् राजा निगृह्णीयात् स्व-राष्ट्रे परे एव च ॥ ९।३१२॥
etaiḥ upāyaiḥ anyaiḥ ca yuktaḥ nityam atandritaḥ . stenān rājā nigṛhṇīyāt sva-rāṣṭre pare eva ca .. 9.312..
9.312. Employing these and other means, the king shall, ever untired, restrain thieves both in his own dominions and in (those of) others
परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ९.३१३॥
पराम् अपि आपदम् प्राप्तः ब्राह्मणान् न प्रकोपयेत् । ते हि एनम् कुपिताः हन्युः सद्यस् स बल-वाहनम् ॥ ९।३१३॥
parām api āpadam prāptaḥ brāhmaṇān na prakopayet . te hi enam kupitāḥ hanyuḥ sadyas sa bala-vāhanam .. 9.313..
9.313. Let him not, though fallen into the deepest distress, provoke Brahmanas to anger; for they, when angered, could instantly destroy him together with his army and his vehicles.
यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः । क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ ९.३१४॥
यैः कृतः सर्व-भक्षः अग्निः अपेयः च महा-उदधिः । क्षयी च आप्यायितः सोमः कः न नश्येत् प्रकोप्य तान् ॥ ९।३१४॥
yaiḥ kṛtaḥ sarva-bhakṣaḥ agniḥ apeyaḥ ca mahā-udadhiḥ . kṣayī ca āpyāyitaḥ somaḥ kaḥ na naśyet prakopya tān .. 9.314..
9.314. Who could escape destruction, when he provokes to anger those (men), by whom the fire was made to consume all things, by whom the (water of the) ocean was made undrinkable, and by whom the moon was made to wane and to increase again?
लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः । देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ ९.३१५॥
लोकान् अन्यान् सृजेयुः ये लोकपालान् च कोपिताः । देवान् कुर्युः अदेवान् च कः क्षिण्वन् तान् समृध्नुयात् ॥ ९।३१५॥
lokān anyān sṛjeyuḥ ye lokapālān ca kopitāḥ . devān kuryuḥ adevān ca kaḥ kṣiṇvan tān samṛdhnuyāt .. 9.315..
9.315. Who could prosper, while he injures those (men) who provoked to anger, could create other worlds and other guardians of the world, and deprive the gods of their divine station?
यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥ ९.३१६॥
यान् उपाश्रित्य तिष्ठन्ति लोकाः देवाः च सर्वदा । ब्रह्म च एव धनम् येषाम् कः हिंस्यात् तान् जिजीविषुः ॥ ९।३१६॥
yān upāśritya tiṣṭhanti lokāḥ devāḥ ca sarvadā . brahma ca eva dhanam yeṣām kaḥ hiṃsyāt tān jijīviṣuḥ .. 9.316..
9.316. What man, desirous of life, would injure them to whose support the (three) worlds and the gods ever owe their existence, and whose wealth is the Veda?
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥ ९.३१७॥
अ विद्वान् च एव विद्वान् च ब्राह्मणः दैवतम् महत् । प्रणीतः च अप्रणीतः च यथा अग्निः दैवतम् महत् ॥ ९।३१७॥
a vidvān ca eva vidvān ca brāhmaṇaḥ daivatam mahat . praṇītaḥ ca apraṇītaḥ ca yathā agniḥ daivatam mahat .. 9.317..
9.317. A Brahmana, be he ignorant or learned, is a great divinity, just as the fire, whether carried forth (for the performance of a burnt-oblation) or not carried forth, is a great divinity.
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ ९.३१८॥
श्मशानेषु अपि तेजस्वी पावकः ना एव दुष्यति । हूयमानः च यज्ञेषु भूयस् एव अभिवर्धते ॥ ९।३१८॥
śmaśāneṣu api tejasvī pāvakaḥ nā eva duṣyati . hūyamānaḥ ca yajñeṣu bhūyas eva abhivardhate .. 9.318..
9.318. The brilliant fire is not contaminated even in burial-places, and, when presented with oblations (of butter) at sacrifices, it again increases mightily.
एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ९.३१९॥
एवम् यदि अपि अनिष्टेषु वर्तन्ते सर्व-कर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमम् दैवतम् हि तत् ॥ ९।३१९॥
evam yadi api aniṣṭeṣu vartante sarva-karmasu . sarvathā brāhmaṇāḥ pūjyāḥ paramam daivatam hi tat .. 9.319..
9.319. Thus, though Brahmanas employ themselves in all (sorts of) mean occupations, they must be honoured in every way; for (each of) them is a very great deity.
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसम्भवम् ॥ ९.३२०॥
क्षत्रस्य अतिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशस् । ब्रह्मा एव संनियन्तृ स्यात् क्षत्रम् हि ब्रह्म-सम्भवम् ॥ ९।३२०॥
kṣatrasya atipravṛddhasya brāhmaṇān prati sarvaśas . brahmā eva saṃniyantṛ syāt kṣatram hi brahma-sambhavam .. 9.320..
9.320. When the Kshatriyas become in any way overbearing towards the Brahmanas, the Brahmanas themselves shall duly restrain them; for the Kshatriyas sprang from the Brahmanas.
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९.३२१॥
अद्भ्यः अग्निः ब्रह्मतः क्षत्रम् अश्मनः लोहम् उत्थितम् । तेषाम् सर्वत्रगम् तेजः स्वासु योनिषु शाम्यति ॥ ९।३२१॥
adbhyaḥ agniḥ brahmataḥ kṣatram aśmanaḥ loham utthitam . teṣām sarvatragam tejaḥ svāsu yoniṣu śāmyati .. 9.321..
9.321. Fire sprang from water, Kshatriyas from Brahmanas, iron from stone; the all-penetrating force of those (three) has no effect on that whence they were produced.
नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते । ब्रह्म क्षत्रं च सम्पृक्तमिह चामुत्र वर्धते ॥ ९.३२२॥
न अब्रह्म क्षत्रम् ऋध्नोति न अक्षत्रम् ब्रह्म वर्धते । ब्रह्म क्षत्रम् च सम्पृक्तम् इह च अमुत्र वर्धते ॥ ९।३२२॥
na abrahma kṣatram ṛdhnoti na akṣatram brahma vardhate . brahma kṣatram ca sampṛktam iha ca amutra vardhate .. 9.322..
9.322. Kshatriyas prosper not without Brahmanas, Brahmanas prosper not without Kshatriyas; Brahmanas and Kshatriyas, being closely united, prosper in this (world) and in the next.
दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्रे राज्यं समासाद्य कुर्वीत प्रायणं रणे ॥ ९.३२३॥
दत्त्वा धनम् तु विप्रेभ्यः सर्व-दण्ड-समुत्थितम् । पुत्रे राज्यम् समासाद्य कुर्वीत प्रायणम् रणे ॥ ९।३२३॥
dattvā dhanam tu viprebhyaḥ sarva-daṇḍa-samutthitam . putre rājyam samāsādya kurvīta prāyaṇam raṇe .. 9.323..
9.323. But (a king who feels his end drawing nigh) shall bestow all his wealth, accumulated from fines, on Brahmanas, make over his kingdom to his son, and then seek death in battle.
एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकेभ्यः सर्वान् भृत्यान्नियोजयेत् ॥ ९.३२४॥
एवम् चरन् सदा युक्तः राज-धर्मेषु पार्थिवः । हितेषु च एव लोकेभ्यः सर्वान् भृत्यान् नियोजयेत् ॥ ९।३२४॥
evam caran sadā yuktaḥ rāja-dharmeṣu pārthivaḥ . hiteṣu ca eva lokebhyaḥ sarvān bhṛtyān niyojayet .. 9.324..
9.324. Thus conducting himself (and) ever intent on (discharging) his royal duties, a king shall order all his servants (to work) for the good of his people.
एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ९.३२५॥
एषः अखिलः कर्म-विधिः उक्तः राज्ञः सनातनः । इमम् कर्म-विधिम् विद्यात् क्रमशस् वैश्य-शूद्रयोः ॥ ९।३२५॥
eṣaḥ akhilaḥ karma-vidhiḥ uktaḥ rājñaḥ sanātanaḥ . imam karma-vidhim vidyāt kramaśas vaiśya-śūdrayoḥ .. 9.325..
9.325. Thus the eternal law concerning the duties of a king has been fully declared; know that the following rules apply in (due) order to the duties of Vaisyas and Sudras.
वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ॥ ९.३२६॥
वैश्यः तु कृत-संस्कारः कृत्वा दार-परिग्रहम् । वार्तायाम् नित्य-युक्तः स्यात् पशूनाम् च एव रक्षणे ॥ ९।३२६॥
vaiśyaḥ tu kṛta-saṃskāraḥ kṛtvā dāra-parigraham . vārtāyām nitya-yuktaḥ syāt paśūnām ca eva rakṣaṇe .. 9.326..
9.326. After a Vaisya has received the sacraments and has taken a wife, he shall be always attentive to the business whereby he may subsist and to (that of) tending cattle.
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ९.३२७॥
प्रजापतिः हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ९।३२७॥
prajāpatiḥ hi vaiśyāya sṛṣṭvā paridade paśūn . brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ .. 9.327..
9.327. For when the Lord of creatures (Pragapati) created cattle, he made them over to the Vaisya; to the Brahmana, and to the king he entrusted all created beings.
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥ ९.३२८॥
न च वैश्यस्य कामः स्यात् न रक्षेयम् पशून् इति । वैश्ये च इच्छति न अन्येन रक्षितव्याः कथम् चन ॥ ९।३२८॥
na ca vaiśyasya kāmaḥ syāt na rakṣeyam paśūn iti . vaiśye ca icchati na anyena rakṣitavyāḥ katham cana .. 9.328..
9.328. A Vaisya must never (conceive this) wish, I will not keep cattle; and if a Vaisya is willing (to keep them), they must never be kept by (men of) other (castes).
मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च । गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥ ९.३२९॥
मणि-मुक्ता-प्रवालानाम् लोहानाम् तान्तवस्य च । गन्धानाम् च रसानाम् च विद्यात् अर्घ-बलाबलम् ॥ ९।३२९॥
maṇi-muktā-pravālānām lohānām tāntavasya ca . gandhānām ca rasānām ca vidyāt argha-balābalam .. 9.329..
9.329. (A Vaisya) must know the respective value of gems, of pearls, of coral, of metals, of (cloth) made of thread, of perfumes, and of condiments.
बीजानामुप्तिविद्च स्यात्क्षेत्रदोषगुणस्य च । मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥ ९.३३०॥
बीजानाम् उप्ति-विद् च स्यात् क्षेत्र-दोष-गुणस्य च । मानयोगम् च जानीयात् तुला-योगान् च सर्वशस् ॥ ९।३३०॥
bījānām upti-vid ca syāt kṣetra-doṣa-guṇasya ca . mānayogam ca jānīyāt tulā-yogān ca sarvaśas .. 9.330..
9.330. He must be acquainted with the (manner of) sowing of seeds, and of the good and bad qualities of fields, and he must perfectly know all measures and weights.
सारासारं च भाण्डानां देशानां च गुणागुणान् । लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ ९.३३१॥
सारासारम् च भाण्डानाम् देशानाम् च गुण-अगुणान् । लाभ-अ लाभम् च पण्यानाम् पशूनाम् परिवर्धनम् ॥ ९।३३१॥
sārāsāram ca bhāṇḍānām deśānām ca guṇa-aguṇān . lābha-a lābham ca paṇyānām paśūnām parivardhanam .. 9.331..
9.331. Moreover, the excellence and defects of commodities, the advantages and disadvantages of (different) countries, the (probable) profit and loss on merchandise, and the means of properly rearing cattle.
भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणाम् । द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ९.३३२॥
भृत्यानाम् च भृतिम् विद्यात् भाषाः च विविधाः नृणाम् । द्रव्याणाम् स्थान-योगान् च क्रय-विक्रयम् एव च ॥ ९।३३२॥
bhṛtyānām ca bhṛtim vidyāt bhāṣāḥ ca vividhāḥ nṛṇām . dravyāṇām sthāna-yogān ca kraya-vikrayam eva ca .. 9.332..
9.332. He must be acquainted with the (proper), wages of servants, with the various languages of men, with the manner of keeping goods, and (the rules of) purchase and sale.
धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम् । दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥ ९.३३३॥
धर्मेण च द्रव्य-वृद्धौ आतिष्ठेत् यत्नम् उत्तमम् । दद्यात् च सर्व-भूतानाम् अन्नम् एव प्रयत्नतः ॥ ९।३३३॥
dharmeṇa ca dravya-vṛddhau ātiṣṭhet yatnam uttamam . dadyāt ca sarva-bhūtānām annam eva prayatnataḥ .. 9.333..
9.333. Let him exert himself to the utmost in order to increase his property in a righteous manner, and let him zealously give food to all created beings.
विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥ ९.३३४॥ परम्
विप्राणाम् वेद-विदुषाम् गृहस्थानाम् यशस्विनाम् । शुश्रूषा एव तु शूद्रस्य धर्मः नैश्रेयसः परः ॥ ९।३३४॥ परम्
viprāṇām veda-viduṣām gṛhasthānām yaśasvinām . śuśrūṣā eva tu śūdrasya dharmaḥ naiśreyasaḥ paraḥ .. 9.334.. param
9.334. But to serve Brahmanas (who are) learned in the Vedas, householders, and famous (for virtue) is the highest duty of a Sudra, which leads to beatitude.
शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहङ्कृतः । ब्राह्मणापाश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ ९.३३५॥
शुचिः उत्कृष्ट-शुश्रूषुः मृदु-वाच् अनहङ्कृतः । ब्राह्मण-अपाश्रयः नित्यम् उत्कृष्टाम् जातिम् अश्नुते ॥ ९।३३५॥
śuciḥ utkṛṣṭa-śuśrūṣuḥ mṛdu-vāc anahaṅkṛtaḥ . brāhmaṇa-apāśrayaḥ nityam utkṛṣṭām jātim aśnute .. 9.335..
9.335. (A Sudra who is) pure, the servant of his betters, gentle in his speech, and free from pride, and always seeks a refuge with Brahmanas, attains (in his next life) a higher caste.
एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः । आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ ९.३३६॥
एषः अनापदि वर्णानाम् उक्तः कर्म-विधिः शुभः । आपदि अपि हि यः तेषाम् क्रमशस् तत् निबोधत ॥ ९।३३६॥
eṣaḥ anāpadi varṇānām uktaḥ karma-vidhiḥ śubhaḥ . āpadi api hi yaḥ teṣām kramaśas tat nibodhata .. 9.336..
9.336. The excellent law for the conduct of the (four) castes (varna), (when they are) not in distress, has been thus promulgated; now hear in order their (several duties) in times of distress.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In