| |
|

This overlay will guide you through the buttons:

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वम् तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ 1.1 ॥
सान्द्र-आनन्द-अवबोध-आत्मकम् अनुपमितम् काल-देश-अवधिभ्याम् निर्मुक्तम् नित्यम् उक्तम् निगम-शत-सहस्रेण निर्भास्यमानम् । अस्पष्टम् दृष्ट-मात्रे पुनर् उरु-पुरुष-अर्थ-आत्मकम् ब्रह्म तत् तावत् भाति साक्षात् गुरु-पवन-पुरे हन्त भाग्यम् जनानाम् ॥ १।१ ॥
sāndra-ānanda-avabodha-ātmakam anupamitam kāla-deśa-avadhibhyām nirmuktam nityam uktam nigama-śata-sahasreṇa nirbhāsyamānam . aspaṣṭam dṛṣṭa-mātre punar uru-puruṣa-artha-ātmakam brahma tat tāvat bhāti sākṣāt guru-pavana-pure hanta bhāgyam janānām .. 1.1 ..
एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ 1.2 ॥
एवम् दुर्लभ्य-वस्तुनि अपि सुलभ-तया हस्त-लब्धे यत् अन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्र-ता एव स्फुटा इयम् । एते तावत् वयम् तु स्थिरतर-मनसा विश्व-पीडा-अपहत्यै निश्शेष-आत्मानम् एनम् गुरु-पवन-पुर-अधीशम् एव आश्रयामः ॥ १।२ ॥
evam durlabhya-vastuni api sulabha-tayā hasta-labdhe yat anyat tanvā vācā dhiyā vā bhajati bata janaḥ kṣudra-tā eva sphuṭā iyam . ete tāvat vayam tu sthiratara-manasā viśva-pīḍā-apahatyai niśśeṣa-ātmānam enam guru-pavana-pura-adhīśam eva āśrayāmaḥ .. 1.2 ..
सत्त्वं यत्तत्पराभ्यामपरिकलनतो निर्मलं तेन तावद् भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ 1.3 ॥
सत्त्वम् यत् तत् पराभ्याम् अ परिकलनतः निर्मलम् तेन तावत् भूतैः ते वपुः इति बहुशस् श्रूयते व्यास-वाक्यम् । तद्-स्वच्छ-त्वात् यत् अच्छादित-पर-सुख-चित्-गर्भ-निर्भास-रूपम् तस्मिन् धन्याः रमन्ते श्रुति-मति-मधुरे सुग्रहे विग्रहे ते ॥ १।३ ॥
sattvam yat tat parābhyām a parikalanataḥ nirmalam tena tāvat bhūtaiḥ te vapuḥ iti bahuśas śrūyate vyāsa-vākyam . tad-svaccha-tvāt yat acchādita-para-sukha-cit-garbha-nirbhāsa-rūpam tasmin dhanyāḥ ramante śruti-mati-madhure sugrahe vigrahe te .. 1.3 ..
निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ 1.4 ॥
निष्कम्पे नित्य-पूर्णे निरवधि परम-आनन्द-पीयूष-रूपे निर्लीन-अनेक-मुक्ता-आवलि-सुभगतमे निर्मल-ब्रह्म-सिन्धौ । कल्लोल-उल्लास-तुल्यम् खलु विमलतरम् सत्त्वम् आहुः तद्-आत्मा कस्मात् नः निष्कलः त्वम् सकलः इति वचः त्वद्-कलासु एव भूमन् ॥ १।४ ॥
niṣkampe nitya-pūrṇe niravadhi parama-ānanda-pīyūṣa-rūpe nirlīna-aneka-muktā-āvali-subhagatame nirmala-brahma-sindhau . kallola-ullāsa-tulyam khalu vimalataram sattvam āhuḥ tad-ātmā kasmāt naḥ niṣkalaḥ tvam sakalaḥ iti vacaḥ tvad-kalāsu eva bhūman .. 1.4 ..
निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले । तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥ 1.5 ॥
निर्व्यापारः अपि निष्कारणम् अज भजसे यत् क्रियाम् ईक्षण-आख्याम् तेन एवा उदेति लीना प्रकृतिः असति-कल्पा अपि कल्प-आदि-काले । तस्याः संशुद्धम् अंशम् कम् अपि तम् अ तिरोधायकम् सत्त्व-रूपम् स त्वम् धृत्वा दधासि स्व-महिम-विभव-अकुण्ठ वैकुण्ठ रूपम् ॥ १।५ ॥
nirvyāpāraḥ api niṣkāraṇam aja bhajase yat kriyām īkṣaṇa-ākhyām tena evā udeti līnā prakṛtiḥ asati-kalpā api kalpa-ādi-kāle . tasyāḥ saṃśuddham aṃśam kam api tam a tirodhāyakam sattva-rūpam sa tvam dhṛtvā dadhāsi sva-mahima-vibhava-akuṇṭha vaikuṇṭha rūpam .. 1.5 ..
तत्ते प्रत्यग्रधाराधरललितकळायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥ 1.6 ॥
तत् ते प्रत्यग्र-धाराधर-ललित-कळाया-आवली-केलिकारम् लावण्यस्य एक-सारम् सु कृति-जन-दृशाम् पूर्ण-पुण्य-अवतारम् । लक्ष्मी-निश्शङ्क-लीला-निलयनम् अमृत-स्यन्द-सन्दोहम् अन्तर् सिञ्चत्-सञ्चिन्तकानाम् वपुः अनुकलये मारुतागारनाथ ॥ १।६ ॥
tat te pratyagra-dhārādhara-lalita-kal̤āyā-āvalī-kelikāram lāvaṇyasya eka-sāram su kṛti-jana-dṛśām pūrṇa-puṇya-avatāram . lakṣmī-niśśaṅka-līlā-nilayanam amṛta-syanda-sandoham antar siñcat-sañcintakānām vapuḥ anukalaye mārutāgāranātha .. 1.6 ..
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने । नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन् ॥ 1.7 ॥
kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne | no cejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ netraiḥ śrotraiśca pītvā paramarasasudhāṃbhodhipūre rameran || 1.7 ||
kaṣṭā te sṛṣṭiceṣṭā bahutarabhavakhedāvahā jīvabhājā mityevaṃ pūrvamālocitamajita mayā naivamadyābhijāne | no cejjīvāḥ kathaṃ vā madhurataramidaṃ tvadvapuścidrasārdraṃ netraiḥ śrotraiśca pītvā paramarasasudhāṃbhodhipūre rameran || 1.7 ||
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥ 1.8 ॥
नम्राणाम् सन्निधत्ते सततम् अपि पुरस् तैः अन् अभ्यार्थितान् अपि अर्थान् अ पि अर्थान् कामान् अजस्रम् वितरति परम-आनन्द-सान्द्राम् गतिम् च । इत्थम् निश्शेष-लभ्यः निरवधिक-फलः पारिजातः हरे त्वम् क्षुद्रम् तम् शक्रवाटी-द्रुमम् अभिलषति व्यर्थम् अर्थि-व्रजः अयम् ॥ १।८ ॥
namrāṇām sannidhatte satatam api puras taiḥ an abhyārthitān api arthān a pi arthān kāmān ajasram vitarati parama-ānanda-sāndrām gatim ca . ittham niśśeṣa-labhyaḥ niravadhika-phalaḥ pārijātaḥ hare tvam kṣudram tam śakravāṭī-drumam abhilaṣati vyartham arthi-vrajaḥ ayam .. 1.8 ..
कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास् त्वं चाऽऽत्माराम् एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥ 1.9 ॥
कारुण्यात् कामम् अन्यम् ददति खलु परे स्व-आत्म-दः त्वम् विशेषाः दैश्वर्यात् ईशते अन्ये जगति पर-जने स्व-आत्मनः अपि ईश्वरः त्वम् । त्वयि उच्चैस् आरमन्ति प्रतिपद-मधुरे चेतनाः स्फीत-भाग्याः त्वम् च एव इति अतुल-गुण-गण-आधार शौरे नमः ते ॥ १।९ ॥
kāruṇyāt kāmam anyam dadati khalu pare sva-ātma-daḥ tvam viśeṣāḥ daiśvaryāt īśate anye jagati para-jane sva-ātmanaḥ api īśvaraḥ tvam . tvayi uccais āramanti pratipada-madhure cetanāḥ sphīta-bhāgyāḥ tvam ca eva iti atula-guṇa-gaṇa-ādhāra śaure namaḥ te .. 1.9 ..
ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवcछब्दमुख्याश्रयोऽसि ॥ 1.10 ॥
ऐश्वर्यम् शङ्करात् ईश्वर-विनियमनम् विश्व-तेजः-हराणाम् तेजः-संहारि वीर्यम् विमलम् अपि यशः निस्पृहैः च उपगीतम् । अङ्ग-असङ्गा सदा श्रीः अखिल-विद् असि न क्वापि ते सङ्ग-वार्ता तद्-वातागार-वासिन् मुर-हर भगवत्-शब्द-मुख्य-आश्रयः असि ॥ १।१० ॥
aiśvaryam śaṅkarāt īśvara-viniyamanam viśva-tejaḥ-harāṇām tejaḥ-saṃhāri vīryam vimalam api yaśaḥ nispṛhaiḥ ca upagītam . aṅga-asaṅgā sadā śrīḥ akhila-vid asi na kvāpi te saṅga-vārtā tad-vātāgāra-vāsin mura-hara bhagavat-śabda-mukhya-āśrayaḥ asi .. 1.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In