| |
|

This overlay will guide you through the buttons:

प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ 20.1 ॥
प्रियव्रतस्य प्रिय-पुत्र-भूतात् आग्नीध्र-राजात् उदितः हि नाभिः । त्वाम् दृष्टवान् इष्ट-दम् इष्ट-मध्ये तव एव तुष्ट्यै कृत-यज्ञ-कर्मा ॥ २०।१ ॥
priyavratasya priya-putra-bhūtāt āgnīdhra-rājāt uditaḥ hi nābhiḥ . tvām dṛṣṭavān iṣṭa-dam iṣṭa-madhye tava eva tuṣṭyai kṛta-yajña-karmā .. 20.1 ..
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते ॥ 20.2 ॥
अभिष्टुतः तत्र मुनि-ईश्वरैः त्वम् राज्ञा स्व-तुल्यम् सुतम् अर्थ्यमानः । स्वयम् जनिष्ये अहम् इति ब्रुवाणः तिरोदधाः बर्हिषि विश्वमूर्ते ॥ २०।२ ॥
abhiṣṭutaḥ tatra muni-īśvaraiḥ tvam rājñā sva-tulyam sutam arthyamānaḥ . svayam janiṣye aham iti bruvāṇaḥ tirodadhāḥ barhiṣi viśvamūrte .. 20.2 ..
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ 20.3 ॥
नाभिप्रियायाम् अथ मेरुदेव्याम् त्वम् अंशतः अभूः ऋषभ-अभिधानः । ॥ २०।३ ॥
nābhipriyāyām atha merudevyām tvam aṃśataḥ abhūḥ ṛṣabha-abhidhānaḥ . .. 20.3 ..
त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ 20.4 ॥
त्वयि त्रिलोकी-भृति राजी-भारम् निधाय नाभिः सह मेरुदेव्या । तपः-वनम् प्राप्य भवत्-निषेवी गतः किल आनन्द-पदम् पदम् ते ॥ २०।४ ॥
tvayi trilokī-bhṛti rājī-bhāram nidhāya nābhiḥ saha merudevyā . tapaḥ-vanam prāpya bhavat-niṣevī gataḥ kila ānanda-padam padam te .. 20.4 ..
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥ 20.5 ॥
इन्द्रः त्वद्-उत्कर्ष-कृतात् अमर्षात् ववर्ष न अस्मिन् अजन-अभ-वर्षे । यदा तदा त्वम् निज-योग-शक्त्या स्व-वर्षम् एनत् व्यदधाः सुवर्षम् ॥ २०।५ ॥
indraḥ tvad-utkarṣa-kṛtāt amarṣāt vavarṣa na asmin ajana-abha-varṣe . yadā tadā tvam nija-yoga-śaktyā sva-varṣam enat vyadadhāḥ suvarṣam .. 20.5 ..
जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । अजीजनत्तत्र शतं तनूजान्येषां क्षितीशो भरतोऽग्रजन्मा ॥ 20.6 ॥
जित-इन्द्रदत्ताम् कमनीम् जयन्तीम् अथ उद्वहन् आत्म-रत-आशयः अपि । अजीजनत् तत्र शतम् तनूजानि एषाम् क्षितीशः भरतः अग्रजन्मा ॥ २०।६ ॥
jita-indradattām kamanīm jayantīm atha udvahan ātma-rata-āśayaḥ api . ajījanat tatra śatam tanūjāni eṣām kṣitīśaḥ bharataḥ agrajanmā .. 20.6 ..
नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥ 20.7 ॥
नवा अभवन् योगि-वराः नवा अन्ये तु अपालयन् भारत-वर्षखण्डान् । सा एका तु अशीतिः तव शेष-पुत्राः तपः-बलात् भूसुर-भूयम् ईयुः ॥ २०।७ ॥
navā abhavan yogi-varāḥ navā anye tu apālayan bhārata-varṣakhaṇḍān . sā ekā tu aśītiḥ tava śeṣa-putrāḥ tapaḥ-balāt bhūsura-bhūyam īyuḥ .. 20.7 ..
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ 20.8 ॥
उक्त्वा सुतेभ्यः अथ मुनि-इन्द्र-मध्ये विरक्ति-भक्ति-अन्वित-मुक्ति-मार्गम् । स्वयम् गतः पारमहंस्य-वृत्तिम् अधा जड-उन्मत्त-पिशाच-चर्याम् ॥ २०।८ ॥
uktvā sutebhyaḥ atha muni-indra-madhye virakti-bhakti-anvita-mukti-mārgam . svayam gataḥ pāramahaṃsya-vṛttim adhā jaḍa-unmatta-piśāca-caryām .. 20.8 ..
परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ 20.9 ॥
परात्म-भूतः अपि पर-उपदेशम् कुर्वन् भवन् सर्व-निरस्यमानः । विकार-हीनः विचचार कृत्स्नाम् महीम् अहीन आत्म-रस-अभिलीनः ॥ २०।९ ॥
parātma-bhūtaḥ api para-upadeśam kurvan bhavan sarva-nirasyamānaḥ . vikāra-hīnaḥ vicacāra kṛtsnām mahīm ahīna ātma-rasa-abhilīnaḥ .. 20.9 ..
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ ॥ 20.10 ॥
शयु-व्रतम् गो-मृग-काक-चर्याम् चिरम् चरन् आप्य परम् स्व-रूपम् । दव-आहृत-अङ्गः कुटक-अचले त्वम् तापात् मम अपाकुरु वातनाथ ॥ २०।१० ॥
śayu-vratam go-mṛga-kāka-caryām ciram caran āpya param sva-rūpam . dava-āhṛta-aṅgaḥ kuṭaka-acale tvam tāpāt mama apākuru vātanātha .. 20.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In