| |
|

This overlay will guide you through the buttons:

अजामिळो नाम महीसुरः पुरा चरन्विभो धर्म पथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ॥ 22.1 ॥
अजामिळः नाम महीसुरः पुरा चरन् विभो धर्म-पथान् गृहाश्रमी । गुरोः गिरा काननम् एत्य दृष्टवान् सुघृष्ट-शीलाम् कुलटाम् मद-आकुलाम् ॥ २२।१ ॥
ajāmil̤aḥ nāma mahīsuraḥ purā caran vibho dharma-pathān gṛhāśramī . guroḥ girā kānanam etya dṛṣṭavān sughṛṣṭa-śīlām kulaṭām mada-ākulām .. 22.1 ..
स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ 22.2 ॥
स्वतस् प्रशान्तः अपि तद्-आहृत-आशयः स्वधर्मम् उत्सृज्य तया समारमन् । अधर्म-कारी दशमी भवन् पुनर् दधौ भवत्-नाम-युते सुते रतिम् ॥ २२।२ ॥
svatas praśāntaḥ api tad-āhṛta-āśayaḥ svadharmam utsṛjya tayā samāraman . adharma-kārī daśamī bhavan punar dadhau bhavat-nāma-yute sute ratim .. 22.2 ..
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन्भिया । पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ 22.3 ॥
स मृत्यु-काले यम-राज-किङ्करान् भयङ्करान् त्रीन् अभिलक्षयन् भिया । पुरा मनाक् त्वद्-स्मृति-वासना-बलात् जुहाव नारायण-नामकम् सुतम् ॥ २२।३ ॥
sa mṛtyu-kāle yama-rāja-kiṅkarān bhayaṅkarān trīn abhilakṣayan bhiyā . purā manāk tvad-smṛti-vāsanā-balāt juhāva nārāyaṇa-nāmakam sutam .. 22.3 ..
दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोरमाः ॥ 22.4 ॥
दुराशयस्य अपि तदात्व-निर्गत-त्वदीय-नाम-अक्षर-मात्र-वैभवात् । पुरस् अभिपेतुः भवदीय-पार्षदाः चतुर्-भुजाः पीत-पटाः मनोरमाः ॥ २२।४ ॥
durāśayasya api tadātva-nirgata-tvadīya-nāma-akṣara-mātra-vaibhavāt . puras abhipetuḥ bhavadīya-pārṣadāḥ catur-bhujāḥ pīta-paṭāḥ manoramāḥ .. 22.4 ..
अमुं च संपाश्य विकर्षतो भतान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ 22.5 ॥
अमुम् च संपाश्य विकर्षतः विमुञ्चत इति आरुरुधुः बलात् अमी । निवारिताः ते च भवत्-जनैः तदा तदीय-पापम् निखिलम् न्यवेदयन् ॥ २२।५ ॥
amum ca saṃpāśya vikarṣataḥ vimuñcata iti ārurudhuḥ balāt amī . nivāritāḥ te ca bhavat-janaiḥ tadā tadīya-pāpam nikhilam nyavedayan .. 22.5 ..
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्दिताः । न निष्कृतिः किईं विदिता भवादृशामिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.6 ॥
भवन्तु पापानि कथम् तु निष्कृते कृते अपि भो दण्डनम् अस्ति पण्दिताः । न निष्कृतिः किईम् विदिता भवादृशाम् इति प्रभो त्वद्-पुरुषाः बभाषिरे ॥ २२।६ ॥
bhavantu pāpāni katham tu niṣkṛte kṛte api bho daṇḍanam asti paṇditāḥ . na niṣkṛtiḥ kiīm viditā bhavādṛśām iti prabho tvad-puruṣāḥ babhāṣire .. 22.6 ..
श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.7 ॥
श्रुति-स्मृतिभ्याम् विहिताः व्रत-आदयः पुनन्ति पापम् न लुनन्ति वासनाम् । अनन्त-सेवा तु निकृन्तति द्वयीम् इति प्रभो त्वद्-पुरुषाः बभाषिरे ॥ २२।७ ॥
śruti-smṛtibhyām vihitāḥ vrata-ādayaḥ punanti pāpam na lunanti vāsanām . ananta-sevā tu nikṛntati dvayīm iti prabho tvad-puruṣāḥ babhāṣire .. 22.7 ..
अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.8 ॥
अनेन भो जन्म-सहस्र-कोटिभिः कृतेषु पापेषु अपि निष्कृतिः कृता । तत् अग्रहीत् नाम भय-आकुलः हरेः इति प्रभो त्वद्-पुरुषाः बभाषिरे ॥ २२।८ ॥
anena bho janma-sahasra-koṭibhiḥ kṛteṣu pāpeṣu api niṣkṛtiḥ kṛtā . tat agrahīt nāma bhaya-ākulaḥ hareḥ iti prabho tvad-puruṣāḥ babhāṣire .. 22.8 ..
नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदानिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22.9 ॥
नृणाम् अबुद्ध्या अपि मुकुन्द-कीर्तनम् दहति अघ-ओघान् महिमा अस्य तादृशः । यथा अग्निः रेधांसि यथा औषधम् गदान् इति प्रभो त्वद्-पुरुषाः बभाषिरे ॥ २२।९ ॥
nṛṇām abuddhyā api mukunda-kīrtanam dahati agha-oghān mahimā asya tādṛśaḥ . yathā agniḥ redhāṃsi yathā auṣadham gadān iti prabho tvad-puruṣāḥ babhāṣire .. 22.9 ..
इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥ 22.10 ॥
इति ईरितैः याम्य-भटैः अपासृते भवत्-भटानाम् च गणे तिरोहिते । भवत्-स्मृतिम् कञ्चन कालम् आचरन् भवत्-पदम् प्रापि भवत्-भटैः असौ ॥ २२।१० ॥
iti īritaiḥ yāmya-bhaṭaiḥ apāsṛte bhavat-bhaṭānām ca gaṇe tirohite . bhavat-smṛtim kañcana kālam ācaran bhavat-padam prāpi bhavat-bhaṭaiḥ asau .. 22.10 ..
स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालय पाहि माम् ॥ 22.11 ॥
स्व-किङ्गरा-वेदन-शङ्कितः यमः त्वद्-अङ्घ्रि-भक्तेषु न गम्यताम् इति । स्वकीय-भृत्यान् अशिशिक्षत् उच्चकैस् स देव वातालय पाहि माम् ॥ २२।११ ॥
sva-kiṅgarā-vedana-śaṅkitaḥ yamaḥ tvad-aṅghri-bhakteṣu na gamyatām iti . svakīya-bhṛtyān aśiśikṣat uccakais sa deva vātālaya pāhi mām .. 22.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In