| |
|

This overlay will guide you through the buttons:

उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् । सधस्तिरोदधिथ देव भवत्प्रभावाद्उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ 29.1 ॥
उद्गच्छतः तव करात् अमृतम् हरत् सुदैत्येषु तान् अशरणान् अनुनीय देवान् । सधः तिरोदधिथ देव भवत्-प्रभावात् उद्यत्-स यूथ्य-कलहाः दितिजाः बभूवुः ॥ २९।१ ॥
udgacchataḥ tava karāt amṛtam harat sudaityeṣu tān aśaraṇān anunīya devān . sadhaḥ tirodadhitha deva bhavat-prabhāvāt udyat-sa yūthya-kalahāḥ ditijāḥ babhūvuḥ .. 29.1 ..
श्यामां रुचापि वयसापि तनुं तदानींप्राप्तोऽसि तुङ्गकुचमण्डलंभङ्गुरां त्वम् । पीयुषकुम्भकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ 29.2 ॥
श्यामाम् रुचा अपि वयसा अपि तनुम् तदानीम् प्राप्तः असि तुङ्ग-कुच-मण्डलं भङ्गुराम् त्वम् । पीयुष-कुम्भ-कलहम् परिमुच्य सर्वे तृष्णा-आकुलाः प्रतिययुः त्वद्-उरोज-कुम्भे ॥ २९।२ ॥
śyāmām rucā api vayasā api tanum tadānīm prāptaḥ asi tuṅga-kuca-maṇḍalaṃ bhaṅgurām tvam . pīyuṣa-kumbha-kalaham parimucya sarve tṛṣṇā-ākulāḥ pratiyayuḥ tvad-uroja-kumbhe .. 29.2 ..
का त्वं मृगाक्षि विभजस्व सुधामिमामित्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटास्मि दैत्याइत्यालपन्नपि सुविश्वसितानतानीः ॥ 29.3 ॥
का त्वम् मृग-अक्षि विभजस्व सुधाम् इमाम् इति आरूढ-राग-विवशान् अभियाचतः अमून् । विश्वस्यते मयि कथम् कुलटा अस्मि दैत्य-इति आलपन् अपि सु विश्वसित-आनत-अनीः ॥ २९।३ ॥
kā tvam mṛga-akṣi vibhajasva sudhām imām iti ārūḍha-rāga-vivaśān abhiyācataḥ amūn . viśvasyate mayi katham kulaṭā asmi daitya-iti ālapan api su viśvasita-ānata-anīḥ .. 29.3 ..
मोदात्सुधाकलशमेषु ददत्सु सा त्वंदुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पङ्क्तिप्रभेदविनिवेशितदेवदैत्यालीलाविलासगतिभिः समदाः सुधां ताम् ॥ 29.4 ॥
मोदात् सुधा-कलशम् एषु ददत्सु सा त्वम् दुश्चेष्टितम् मम सहध्वम् इति ब्रुवाणा । पङ्क्ति-प्रभेद-विनिवेशित-देव-दैत्या-लीला-विलास-गतिभिः स मदाः सुधाम् ताम् ॥ २९।४ ॥
modāt sudhā-kalaśam eṣu dadatsu sā tvam duśceṣṭitam mama sahadhvam iti bruvāṇā . paṅkti-prabheda-viniveśita-deva-daityā-līlā-vilāsa-gatibhiḥ sa madāḥ sudhām tām .. 29.4 ..
अस्मास्वियं प्रणयिनीत्युसुरेषु तेषुजोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्यस्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ 29.5 ॥
अस्मासु इयम् प्रणयिनी इति उसुरेषु तेषु जोषम् स्थितेषु अथ समाप्य सुधाम् सुरेषु । त्वम् भक्त-लोक-वशगः निज-रूपम् एत्य स्वर्भानुम् अर्ध-परिपीत-सुधम् व्यलावीः ॥ २९।५ ॥
asmāsu iyam praṇayinī iti usureṣu teṣu joṣam sthiteṣu atha samāpya sudhām sureṣu . tvam bhakta-loka-vaśagaḥ nija-rūpam etya svarbhānum ardha-paripīta-sudham vyalāvīḥ .. 29.5 ..
त्वत्तः सुधाहरणयोग्यफलं परेषुदत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमायाव्यामोहिते सुरगणे त्वमिहाविरासीः ॥ 29.6 ॥
त्वत्तः सुधा-हरण-योग्य-फलम् परेषु दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरे अथ मूर्छति रणे बलि-दैत्य-माया-व्यामोहिते सुर-गणे त्वम् इह आविरासीः ॥ २९।६ ॥
tvattaḥ sudhā-haraṇa-yogya-phalam pareṣu dattvā gate tvayi suraiḥ khalu te vyagṛhṇan . ghore atha mūrchati raṇe bali-daitya-māyā-vyāmohite sura-gaṇe tvam iha āvirāsīḥ .. 29.6 ..
त्वं कालनेमिमथ मालिसुखाञ्जघन्थशक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूनेफेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ 29.7 ॥
त्वम् कालनेमिम् अथ मालि-सुखान् जघन्थ शक्रः जघान बलि-जम्भ-वलान् स पाकान् । शुष्क-आर्द्र-दुष्कर-वधे नमुचौ च लून-इफेनेन नारद-गिरा न्यरुणः रणम् त्वम् ॥ २९।७ ॥
tvam kālanemim atha māli-sukhān jaghantha śakraḥ jaghāna bali-jambha-valān sa pākān . śuṣka-ārdra-duṣkara-vadhe namucau ca lūna-iphenena nārada-girā nyaruṇaḥ raṇam tvam .. 29.7 ..
योषावपुर्दनुजमोहनमाहितं तेश्रुत्वं विलोकनकुतूहलवान्महेशः । भूतैस्समं गिरिजया च गतः पदं तेस्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ 29.8 ॥
योषा-वपुः दनुज-मोहनम् आहितम् विलोकन-कुतूहलवान् महेशः । भूतैः समम् गिरिजया च गतः पदम् तेः तुत्वा अब्रवीत् अभिमतम् त्वम् अथो तिरोधाः ॥ २९।८ ॥
yoṣā-vapuḥ danuja-mohanam āhitam vilokana-kutūhalavān maheśaḥ . bhūtaiḥ samam girijayā ca gataḥ padam teḥ tutvā abravīt abhimatam tvam atho tirodhāḥ .. 29.8 ..
आरामसीमनि च कन्दुकघातलीलालोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगळद्वसनां मनोभूवेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥ 29.9 ॥
आराम-सीमनि च कन्दुक-घात-लीला-लोलायमान-नयनाम् कमनीम् मनोज्ञाम् । त्वाम् एष वीक्ष्य विगळत्-वसनाम् मनोभू-वेगात् अनङ्ग-रिपुः अङ्ग समालिलिङ्ग ॥ २९।९ ॥
ārāma-sīmani ca kanduka-ghāta-līlā-lolāyamāna-nayanām kamanīm manojñām . tvām eṣa vīkṣya vigal̤at-vasanām manobhū-vegāt anaṅga-ripuḥ aṅga samāliliṅga .. 29.9 ..
भूयोऽपि विद्रुतवतीमुपधाव्य देवोवीर्यप्रमोक्षविकसत्परमार्थबोधः । त्वन्मानितस्तव महत्वमुवाच देव्यैतत्तादृशस्त्वमव वातनिकेतनाथ ॥ 29.10 ॥
भूयस् अपि विद्रुतवतीम् उपधाव्य देवः वीर्य-प्रमोक्ष-विकसत्-परमार्थ-बोधः । त्वद्-मानितः तव महत्वम् उवाच देव्या एतत् तादृशः त्वम् वातनिकेतनाथ ॥ २९।१० ॥
bhūyas api vidrutavatīm upadhāvya devaḥ vīrya-pramokṣa-vikasat-paramārtha-bodhaḥ . tvad-mānitaḥ tava mahatvam uvāca devyā etat tādṛśaḥ tvam vātaniketanātha .. 29.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In