| |
|

This overlay will guide you through the buttons:

आनन्दरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । कान्तिव्रजैरिव घनाघनमण्डलैर्द्यामावृण्वती विरुरुचे किल वर्षवेला ॥ 38.1 ॥
आनन्द-रूप भगवन् अयि ते अवतारे प्राप्ते प्रदीप्त-भवत्-अङ्ग निरीयमाणैः । कान्ति-व्रजैः इव घनाघन-मण्डलैः द्याम् आवृण्वती विरुरुचे किल वर्ष-वेला ॥ ३८।१ ॥
ānanda-rūpa bhagavan ayi te avatāre prāpte pradīpta-bhavat-aṅga nirīyamāṇaiḥ . kānti-vrajaiḥ iva ghanāghana-maṇḍalaiḥ dyām āvṛṇvatī viruruce kila varṣa-velā .. 38.1 ..
आशासु शीतलतरासु पयोदतोयैराशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाऽविरासीः ॥ 38.2 ॥
आशासु शीतलतरासु पयोद-तोयैः आशासित-आप्ति-विवशेषु च सत्-जनेषु । नैशाकर-उदय-विधौ निशि मध्यमायाम् क्लेश-अपहः त्रिजगताम् त्वम् इह आ अविरासीः ॥ ३८।२ ॥
āśāsu śītalatarāsu payoda-toyaiḥ āśāsita-āpti-vivaśeṣu ca sat-janeṣu . naiśākara-udaya-vidhau niśi madhyamāyām kleśa-apahaḥ trijagatām tvam iha ā avirāsīḥ .. 38.2 ..
बाल्यसृशापि वपुषा दधुषा विभूतीरुद्यत्किरीटकटकाङ्गदहारभासा । शङ्खारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥ 38.3 ॥
बाल्य-सृशा अपि वपुषा विभूतीः उद्यत्-किरीट-कटक-अङ्गद-हार-भासा । सूति-गेहे ॥ ३८।३ ॥
bālya-sṛśā api vapuṣā vibhūtīḥ udyat-kirīṭa-kaṭaka-aṅgada-hāra-bhāsā . sūti-gehe .. 38.3 ..
वक्षःस्थलीसुखनिलानविलासिलक्ष्मीमन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मन्दिरस्य खलकंसकृतामलक्ष्मीमुन्मार्जयन्निव विरेजिथ वासुदेव ॥ 38.4 ॥
वक्षः-स्थली-सुख-निलान-विलासि-लक्ष्मी-मन्दाक्ष-लक्षित-कटाक्ष-विमोक्ष-भेदैः । तद्-मन्दिरस्य खल-कंस-कृताम् अलक्ष्मीम् उन्मार्जयन् इव विरेजिथ वासुदेव ॥ ३८।४ ॥
vakṣaḥ-sthalī-sukha-nilāna-vilāsi-lakṣmī-mandākṣa-lakṣita-kaṭākṣa-vimokṣa-bhedaiḥ . tad-mandirasya khala-kaṃsa-kṛtām alakṣmīm unmārjayan iva virejitha vāsudeva .. 38.4 ..
शौरिस्तु धीरमुनिमण्डलचेतसोऽपिदूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । आनन्दबष्पपुळकोद्गमगद्गदार्द्रस्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ 38.5 ॥
शौरिः तु धीर-मुनि-मण्डल-चेतसः अपि दूर-स्थितम् वपुः उदीक्ष्य निज-ईक्षणाभ्याम् । आनन्द-बष्प-पुळक-उद्गम-गद्गद-आर्द्रः तुष्टाव दृष्टि-मकरन्द-रसम् भवन्तम् ॥ ३८।५ ॥
śauriḥ tu dhīra-muni-maṇḍala-cetasaḥ api dūra-sthitam vapuḥ udīkṣya nija-īkṣaṇābhyām . ānanda-baṣpa-pul̤aka-udgama-gadgada-ārdraḥ tuṣṭāva dṛṣṭi-makaranda-rasam bhavantam .. 38.5 ..
देव प्रसीद परपूरुष तापवल्लीनिर्लूनदात्र समनेत्र कलाविलासिन् । खेदानपाकुरु कृपागुरुभिः कटाक्षैर्इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ 38.6 ॥
देव प्रसीद परपूरुष ताप-वल्ली-निर्लून-दात्र सम-नेत्र कला-विलासिन् । खेदान् अपाकुरु कृपा-गुरुभिः कटाक्षैः इत्यादि तेन मुदितेन चिरम् नुतः अभूः ॥ ३८।६ ॥
deva prasīda parapūruṣa tāpa-vallī-nirlūna-dātra sama-netra kalā-vilāsin . khedān apākuru kṛpā-gurubhiḥ kaṭākṣaiḥ ityādi tena muditena ciram nutaḥ abhūḥ .. 38.6 ..
मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्यास्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगळं प्रतिबोध्य ताभ्यांमातुर्गिरा दधिथ मानुषबालवेषम् ॥ 38.7 ॥
मात्रा च नेत्र-सलिल-आस्तृत-गात्र-वल्ल्या अ स्तोत्रैः अभिष्टुत-गुणः करुणा-आलयः त्वम् । प्राचीन-जन्म-युगळम् प्रतिबोध्य ताभ्याम् मातुः गिरा दधिथ मानुष-बाल-वेषम् ॥ ३८।७ ॥
mātrā ca netra-salila-āstṛta-gātra-vallyā a stotraiḥ abhiṣṭuta-guṇaḥ karuṇā-ālayaḥ tvam . prācīna-janma-yugal̤am pratibodhya tābhyām mātuḥ girā dadhitha mānuṣa-bāla-veṣam .. 38.7 ..
त्वत्प्रेरिस्ततदनु नन्दतनूजया तेव्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधृत चित्ताविधार्यमार्यैरम्भोरुहस्थकळहंसकिशोररम्यम् ॥ 38.8 ॥
त्वद्-प्रेरिः त-तदनु नन्द-तनूजया स हि शूर-सूनुः । त्वाम् हस्तयोः अधृत चित्त-अ विधार्यम् आर्यैः अम्भोरुह-स्थ-कळहंस-किशोर-रम्यम् ॥ ३८।८ ॥
tvad-preriḥ ta-tadanu nanda-tanūjayā sa hi śūra-sūnuḥ . tvām hastayoḥ adhṛta citta-a vidhāryam āryaiḥ ambhoruha-stha-kal̤ahaṃsa-kiśora-ramyam .. 38.8 ..
जाता तदा पुशुपसद्मनि योगनिद्रानिद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्द्वारैः स्वयं व्यघटि सङ्गटितैस्सुगाढम् ॥ 38.9 ॥
जाता तदा पुशुप-सद्मनि योग-निद्रा-निद्रा-विमुद्रितम् अथ अकृत पौर-लोकम् । त्वद्-प्रेरणात् किम् इह चित्रम् अचेतनैः यत् द्वारैः स्वयम् व्यघटि सङ्गटितैः सु गाढम् ॥ ३८।९ ॥
jātā tadā puśupa-sadmani yoga-nidrā-nidrā-vimudritam atha akṛta paura-lokam . tvad-preraṇāt kim iha citram acetanaiḥ yat dvāraiḥ svayam vyaghaṭi saṅgaṭitaiḥ su gāḍham .. 38.9 ..
शेषेण भूरिफणवारितवारिणाऽथस्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतमः प्रतस्थेसोऽयं त्वमीश मम नाशय रोगवेगान् ॥ 38.10 ॥
शेषेण भूरि-फण-वारित-वारिणा अथ स्वैरम् प्रदर्शित-पथः मणि-दीपितेन । त्वाम् धारयन् स खलु धन्यतमः प्रतस्थे सः अयम् त्वम् ईश मम नाशय रोग-वेगान् ॥ ३८।१० ॥
śeṣeṇa bhūri-phaṇa-vārita-vāriṇā atha svairam pradarśita-pathaḥ maṇi-dīpitena . tvām dhārayan sa khalu dhanyatamaḥ pratasthe saḥ ayam tvam īśa mama nāśaya roga-vegān .. 38.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In