| |
|

This overlay will guide you through the buttons:

व्यक्ताव्यक्तमिदं न किञ्cइदभवत्प्राक्प्राकृतप्रक्षये मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम । नो मृत्युश्cअ तदामृतं cअ समभून्नाह्नो न रात्रेः स्थिति स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ 5.1 ॥
व्यक्त-अव्यक्तम् इदम् न किञ्चिद् अभवत् प्राक् प्राकृत-प्रक्षये मायायाम् गुण-साम्य-रुद्ध-विकृउतौ त्वयि आगतायाम् । नः मृत्युः च तदा अमृतम् च समभूत् न अह्नः न रात्रेः स्थिति तत्र एकः त्वम् अशिष्यथाः किल पर-आनन्द-प्रकाश-आत्मना ॥ ५।१ ॥
vyakta-avyaktam idam na kiñcid abhavat prāk prākṛta-prakṣaye māyāyām guṇa-sāmya-ruddha-vikṛutau tvayi āgatāyām . naḥ mṛtyuḥ ca tadā amṛtam ca samabhūt na ahnaḥ na rātreḥ sthiti tatra ekaḥ tvam aśiṣyathāḥ kila para-ānanda-prakāśa-ātmanā .. 5.1 ..
कालः कर्मगुणाश्cअ जीवनिवहा विश्वं cअ कार्यं विभोः cइल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः । तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां नो cएत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः ॥ 5.2 ॥
कालः कर्म-गुणाः च जीव-निवहाः विश्वम् च कार्यम् विभोः चित्-लीला-रतिम् एयुषि त्वयि तदा निर्लीन-ताम् आययुः । तेषाम् ना एव वदन्ति असत्वम् अयि भो शक्ति-आत्मना तिष्टताम् नो चेद् किम् गगन-प्रसून-भूयस् भवेत् संभवः ॥ ५।२ ॥
kālaḥ karma-guṇāḥ ca jīva-nivahāḥ viśvam ca kāryam vibhoḥ cit-līlā-ratim eyuṣi tvayi tadā nirlīna-tām āyayuḥ . teṣām nā eva vadanti asatvam ayi bho śakti-ātmanā tiṣṭatām no ced kim gagana-prasūna-bhūyas bhavet saṃbhavaḥ .. 5.2 ..
एवं cअ द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां विभ्राणे त्वयि cउक्षुभे त्रिभुवनीभावाय माया स्वयम । मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि cअ प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् ॥ 5.3 ॥
एवम् च द्वि-परार्ध-काल-विगत-अ वीक्षाम् सिसृक्षा-आत्मिकाम् विभ्राणे त्वयि चुक्षुभे त्रिभुवनी-भावाय माया स्वयम् । मायातः खलु काल-शक्तिः अखिल-अदृष्टाम् स्वभावः अपि च प्रादुर्भूय गुणान् विकास्य विदधुः तस्य अस्याः सहाय-क्रियाम् ॥ ५।३ ॥
evam ca dvi-parārdha-kāla-vigata-a vīkṣām sisṛkṣā-ātmikām vibhrāṇe tvayi cukṣubhe tribhuvanī-bhāvāya māyā svayam . māyātaḥ khalu kāla-śaktiḥ akhila-adṛṣṭām svabhāvaḥ api ca prādurbhūya guṇān vikāsya vidadhuḥ tasya asyāḥ sahāya-kriyām .. 5.3 ..
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः । कालादिप्रतिबोधिताऽथ भवता संcओदिता cअ स्वयं माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुcयते ॥ 5.4 ॥
माया-सन्निहितः अप्रविष्ट-वपुषा साक्षी इति गीतः भवान् भेदैः ताम् प्रतिबिंबतः विविशिवान् जीवः अपि ना एव अपरः । काल-आदि-प्रतिबोधिता अथ भवता संचोदिता च स्वयम् माया स खलु बुद्धि-तत्वम् असृजत् यः असौ महान् उच्यते ॥ ५।४ ॥
māyā-sannihitaḥ apraviṣṭa-vapuṣā sākṣī iti gītaḥ bhavān bhedaiḥ tām pratibiṃbataḥ viviśivān jīvaḥ api nā eva aparaḥ . kāla-ādi-pratibodhitā atha bhavatā saṃcoditā ca svayam māyā sa khalu buddhi-tatvam asṛjat yaḥ asau mahān ucyate .. 5.4 ..
तत्रासौ त्रिगुणात्मकोऽपि cअ महान् सत्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः । cअक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥ 5.5 ॥
तत्र असौ त्रिगुण-आत्मकः अपि च महान् सत्व-प्रधानः स्वयम् जीवे अस्मिन् खलु निर्विकल्पम् अहम् इति उद्बोध-निष्पादकः । चक्रे अस्मिन् स विकल्प-बोधक-महन्त-त्वम् महान् खलु असौ सम्पुष्टम् त्रिगुणैः तमः अति बहुलम् विष्णो भवत्-प्रेरणात् ॥ ५।५ ॥
tatra asau triguṇa-ātmakaḥ api ca mahān satva-pradhānaḥ svayam jīve asmin khalu nirvikalpam aham iti udbodha-niṣpādakaḥ . cakre asmin sa vikalpa-bodhaka-mahanta-tvam mahān khalu asau sampuṣṭam triguṇaiḥ tamaḥ ati bahulam viṣṇo bhavat-preraṇāt .. 5.5 ..
सोऽहं cअ त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना । देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राcयुतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ 5.6 ॥
सः अहम् च त्रिगुण-क्रमात् त्रिविध-ताम् आसाद्य वैकारिकः भूयस् तैजस-तामसौ इति भवन् आद्येन सत्व-आत्मना । देवान् इन्द्रिय-मानिनः अकृत दिशा-वात-अर्क-पाशि-अश्विनः वह्नि-इन्द्र-अच्युत-मित्रकान् विधु-विधि-श्री-रुद्र-शारीरकान् ॥ ५।६ ॥
saḥ aham ca triguṇa-kramāt trividha-tām āsādya vaikārikaḥ bhūyas taijasa-tāmasau iti bhavan ādyena satva-ātmanā . devān indriya-māninaḥ akṛta diśā-vāta-arka-pāśi-aśvinaḥ vahni-indra-acyuta-mitrakān vidhu-vidhi-śrī-rudra-śārīrakān .. 5.6 ..
भूमन्मानसभुद्ध्यहंकृतिमिळccइत्ताख्यवृत्यन्वितं तccआन्तःकरणं विभो तव बलात् सत्वांश एवासृजत । जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥ 5.7 ॥
भूमत्-मानस-भुद्धि-अहंकृति-मिळत्-चित्त-आख्य-वृति-अन्वितम् तत् च अन्तःकरणम् विभो तव बलात् सत्त्व-अंशे एव असृजत । जातः तैजसतः दश-इन्द्रिय-गणः तद्-तामस-अंशात् पुनर् स्तन्मात्रम् नभसः मरुत्-पुर-पते शब्दः अजनि त्वद्-बलात् ॥ ५।७ ॥
bhūmat-mānasa-bhuddhi-ahaṃkṛti-mil̤at-citta-ākhya-vṛti-anvitam tat ca antaḥkaraṇam vibho tava balāt sattva-aṃśe eva asṛjata . jātaḥ taijasataḥ daśa-indriya-gaṇaḥ tad-tāmasa-aṃśāt punar stanmātram nabhasaḥ marut-pura-pate śabdaḥ ajani tvad-balāt .. 5.7 ..
शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ cअ रसं तोयं cअ गन्धं महीम । एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ 5.8 ॥
शब्दात् व्योम ततस् ससर्जिथ विभो स्पर्शम् ततस् मारुतम् तस्मात् रूपम् अतस् महः अथ च रसम् तोयम् च गन्धम् । एवम् माधव पूर्व-पूर्व-कलना-दादि-आदि-अधर्म-अन्वितम् भूत-ग्रामम् इमम् त्वम् एव भगवन् प्राकाशयः तामसात् ॥ ५।८ ॥
śabdāt vyoma tatas sasarjitha vibho sparśam tatas mārutam tasmāt rūpam atas mahaḥ atha ca rasam toyam ca gandham . evam mādhava pūrva-pūrva-kalanā-dādi-ādi-adharma-anvitam bhūta-grāmam imam tvam eva bhagavan prākāśayaḥ tāmasāt .. 5.8 ..
एते भूतगणास्तथेन्द्रियगणा देवाश्cअ जाता पृथङ् नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा । त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं श्cएष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ 5.9 ॥
एते भूत-गणाः तथा इन्द्रिय-गणाः देवाः च जाता पृथक् नो शेकुः भुवन-अण्ड-निर्मिति-विधौ देवैः अमीभिः तदा । त्वम् नानाविध-सूक्तिभिः नुत-गुणः तत्वानि अमूनि आविशम् तानि घटयन् हैरण्य-मण्डम् व्यधाः ॥ ५।९ ॥
ete bhūta-gaṇāḥ tathā indriya-gaṇāḥ devāḥ ca jātā pṛthak no śekuḥ bhuvana-aṇḍa-nirmiti-vidhau devaiḥ amībhiḥ tadā . tvam nānāvidha-sūktibhiḥ nuta-guṇaḥ tatvāni amūni āviśam tāni ghaṭayan hairaṇya-maṇḍam vyadhāḥ .. 5.9 ..
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः निर्भिन्दन्नकृथाश्cअतुर्दशजगद्रूपं विराडाह्वयम । साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ 5.10 ॥
अण्डम् तत् खलु पूर्व-सृष्ट-सलिले अतिष्ठत् सहस्रम् समाः निर्भिन्दन् अकृथाः चतुर्दश-जगत्-रूपम् विराड्-आह्वयम् । साहस्रैः कर-पाद-मूर्ध-निवहैः निश्शेष-जीव-आत्मकः निर्भातः असि मरुत्-पुर-अधिप स माम् त्रायस्व सर्व-आमयात् ॥ ५।१० ॥
aṇḍam tat khalu pūrva-sṛṣṭa-salile atiṣṭhat sahasram samāḥ nirbhindan akṛthāḥ caturdaśa-jagat-rūpam virāḍ-āhvayam . sāhasraiḥ kara-pāda-mūrdha-nivahaiḥ niśśeṣa-jīva-ātmakaḥ nirbhātaḥ asi marut-pura-adhipa sa mām trāyasva sarva-āmayāt .. 5.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In