| |
|

This overlay will guide you through the buttons:

त्वयि विहरणलोले बालजालैः प्रलम्बप्रमथनसविळम्बे धेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरन्त्यःकिमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ 58.1 ॥
त्वयि विहरण-लोले बाल-जालैः प्रलम्ब-प्रमथन-स विळम्बे धेनवः स्वैर-चाराः । तृण-कुतुक-निविष्टाः दूर-दूरम् चरन्त्यः किम् अपि विपिनम् ऐषीक-आख्यम् ईषांबभूवुः ॥ ५८।१ ॥
tvayi viharaṇa-lole bāla-jālaiḥ pralamba-pramathana-sa vil̤ambe dhenavaḥ svaira-cārāḥ . tṛṇa-kutuka-niviṣṭāḥ dūra-dūram carantyaḥ kim api vipinam aiṣīka-ākhyam īṣāṃbabhūvuḥ .. 58.1 ..
अनधिगतनिदाघक्रौर्यबृन्दावनान्तात्बहिरिदमुपयाताः काननं धेनवस्ताः । तव विरहविषण्णा ऊष्मलग्रीष्मतापप्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ 58.2 ॥
अन् अधिगत-निदाघ-क्रौर्य-बृन्दा वन-अन्तात् बहिस् इदम् उपयाताः काननम् धेनवः ताः । तव विरह-विषण्णाः स्तम्भम् आपुः ॥ ५८।२ ॥
an adhigata-nidāgha-kraurya-bṛndā vana-antāt bahis idam upayātāḥ kānanam dhenavaḥ tāḥ . tava viraha-viṣaṇṇāḥ stambham āpuḥ .. 58.2 ..
तदनु सह सहायैर्दूरमन्विष्य शौरेगळितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ 58.3 ॥
तदनु सह सहायैः दूरम् अन्विष्य शौरे-गळित-सरणि-मुञ्ज-अरण्य-सञ्जात-खेदम् । पशु-कुलम् अभिवीक्ष्य क्षिप्रम् आनेतुम् आरात् त्वयि गतवति ही ही सर्वतस् अग्निः जजृम्भे ॥ ५८।३ ॥
tadanu saha sahāyaiḥ dūram anviṣya śaure-gal̤ita-saraṇi-muñja-araṇya-sañjāta-khedam . paśu-kulam abhivīkṣya kṣipram ānetum ārāt tvayi gatavati hī hī sarvatas agniḥ jajṛmbhe .. 58.3 ..
सकलहरिति दीप्ते घोरभाङ्कारभीमेशिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनबन्धो पाहि पाहीति सर्वेशरणमुपगतास्त्वां तापहर्तारमेकम् ॥ 58.4 ॥
सकल-हरिति दीप्ते घोर-भाङ्कार-भीमेशिखिनि विहत-मार्गाः अर्ध-दग्धाः इव आर्ताः । अहह भुवनबन्धो पाहि पाहि इति सर्वे शरणम् उपगताः त्वाम् तापहर्तारम् एकम् ॥ ५८।४ ॥
sakala-hariti dīpte ghora-bhāṅkāra-bhīmeśikhini vihata-mārgāḥ ardha-dagdhāḥ iva ārtāḥ . ahaha bhuvanabandho pāhi pāhi iti sarve śaraṇam upagatāḥ tvām tāpahartāram ekam .. 58.4 ..
अलमलमतिभीत्य सर्वतो मीलयध्वंभृशमिति तव वाचा मीलिताक्षेषु तेषु । क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सासपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ 58.5 ॥
अलम् अलम् अति भीत्य सर्वतस् मीलयध्वम् भृशम् इति तव वाचा मीलित-अक्षेषु तेषु । क्वनु दव-दहनः असौ कुत्र मुञ्ज-अटवी सा आसपदि ववृतिरे ते हन्त भण्डीर-देशे ॥ ५८।५ ॥
alam alam ati bhītya sarvatas mīlayadhvam bhṛśam iti tava vācā mīlita-akṣeṣu teṣu . kvanu dava-dahanaḥ asau kutra muñja-aṭavī sā āsapadi vavṛtire te hanta bhaṇḍīra-deśe .. 58.5 ..
जय जय तव माया केयमीशेति तेषांनुतिभिरुदितहासो बद्वनानाविलासः । पुनरपि विपिनान्ते प्राचरः पाटलादिप्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ 58.6 ॥
जय जय तव माया का इयम् ईश इति तेषाम् नुतिभिः उदित-हासः । पुनर् अपि विपिन-अन्ते प्राचरः पाटला-आदि-प्रसव-निकर-मात्र-ग्राह्य-घर्म-अनुभावे ॥ ५८।६ ॥
jaya jaya tava māyā kā iyam īśa iti teṣām nutibhiḥ udita-hāsaḥ . punar api vipina-ante prācaraḥ pāṭalā-ādi-prasava-nikara-mātra-grāhya-gharma-anubhāve .. 58.6 ..
त्वयि विमुखविमोच्चैस्तापभारं वहन्तंतव भजनवदन्तः पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चत् भूरितेजःप्रवाहंतपसमयमनैषीर्यामुनेषु स्थलेषु ॥ 58.7 ॥
त्वयि ताप-भारम् वहन्तम् तव भजन-वत् अन्तः पङ्कम् उच्छोषयन्तम् । तव भुज-वत् उदञ्चत् भूरि-तेजः-प्रवाहम् तप-समयम् अनैषीः यामुनेषु स्थलेषु ॥ ५८।७ ॥
tvayi tāpa-bhāram vahantam tava bhajana-vat antaḥ paṅkam ucchoṣayantam . tava bhuja-vat udañcat bhūri-tejaḥ-pravāham tapa-samayam anaiṣīḥ yāmuneṣu sthaleṣu .. 58.7 ..
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्विकसदमलविद्यूत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलांक्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ 58.8 ॥
तदनु जलद-जालैः त्वद्-वपुः-तुल्य-भाभिः विकसत्-अमल-विद्यूत्-पीत-वासः-विलासैः । सकल-भुवन-भाजाम् हर्ष-दाम् वर्ष-वेलाम् क्षितिधर-कुहरेषु स्वैर-वासी व्यनैषीः ॥ ५८।८ ॥
tadanu jalada-jālaiḥ tvad-vapuḥ-tulya-bhābhiḥ vikasat-amala-vidyūt-pīta-vāsaḥ-vilāsaiḥ . sakala-bhuvana-bhājām harṣa-dām varṣa-velām kṣitidhara-kuhareṣu svaira-vāsī vyanaiṣīḥ .. 58.8 ..
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रःशिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं चप्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥ 58.9 ॥
कुहर-तल-निविष्टम् त्वाम् गरिष्ठम् गिरि-इन्द्रः शिखि-कुल-नव-केका-काकुभिः स्तोत्र-कारी । स्फुट-कुटज-कदम्ब-स्तोम-पुष्प-अञ्जलिम् च प्रविदधत् अनुभेजे देव गोवर्धनः असौ ॥ ५८।९ ॥
kuhara-tala-niviṣṭam tvām gariṣṭham giri-indraḥ śikhi-kula-nava-kekā-kākubhiḥ stotra-kārī . sphuṭa-kuṭaja-kadamba-stoma-puṣpa-añjalim ca pravidadhat anubheje deva govardhanaḥ asau .. 58.9 ..
अथ शरदमुपेतां तां भवद्भक्तचेतोविमलसलिलपूरां मानयन्काननेषु । तृणाममलवनान्ते चारु सञ्चारयन् गाःपवनपुरपते त्वं देहि मे देहसौख्यम् ॥ 58.10 ॥
अथ शरदम् उपेताम् ताम् भवत्-भक्त-चेतः-विमल-सलिलपूराम् मानयन् काननेषु । तृणाम् अमल-वन-अन्ते चारु सञ्चारयन् गाः-पवन-पुर-पते त्वम् देहि मे देह-सौख्यम् ॥ ५८।१० ॥
atha śaradam upetām tām bhavat-bhakta-cetaḥ-vimala-salilapūrām mānayan kānaneṣu . tṛṇām amala-vana-ante cāru sañcārayan gāḥ-pavana-pura-pate tvam dehi me deha-saukhyam .. 58.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In