| |
|

This overlay will guide you through the buttons:

ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ 61.1 ॥
ततस् च वृन्दावनतः अति दूरतस् वनम् गतः त्वम् खलु गोप-गोकुलैः । हृद्-अन्तरे भक्ततर-द्विज-अङ्गना-कदम्बक-अनुग्रहण-आग्रहम् वहन् ॥ ६१।१ ॥
tatas ca vṛndāvanataḥ ati dūratas vanam gataḥ tvam khalu gopa-gokulaiḥ . hṛd-antare bhaktatara-dvija-aṅganā-kadambaka-anugrahaṇa-āgraham vahan .. 61.1 ..
ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ 61.2 ॥
ततस् निरीक्ष्य अशरणे वन-अन्तरे किशोर-लोकम् क्षुधितम् तृषा-आकुलम् । अदूरतः यज्ञ-परान् द्विजान् प्रति व्यसर्जयः दीदिवि-याचनाय तान् ॥ ६१।२ ॥
tatas nirīkṣya aśaraṇe vana-antare kiśora-lokam kṣudhitam tṛṣā-ākulam . adūrataḥ yajña-parān dvijān prati vyasarjayaḥ dīdivi-yācanāya tān .. 61.2 ..
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ 61.3 ॥
गतेषु अथो तेषु अभिधाय ते अभिधाम् कुमारकेषु ओदन-याचिषु प्रभो । श्रुति-स्थिराः अपि अभिनिन्द्युः अश्रुतिम् न किञ्चिद् ऊचुः च महीसुर-उत्तमाः ॥ ६१।३ ॥
gateṣu atho teṣu abhidhāya te abhidhām kumārakeṣu odana-yāciṣu prabho . śruti-sthirāḥ api abhinindyuḥ aśrutim na kiñcid ūcuḥ ca mahīsura-uttamāḥ .. 61.3 ..
अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ 61.4 ॥
अनादरात् खिन्न-धियः हि बालकाः समाययुः युक्तम् इदम् हि यज्वसु । चिरात् अभक्ताः खलु ते महीसुराः कथम् हि भक्तम् त्वयि तैः समर्प्यते ॥ ६१।४ ॥
anādarāt khinna-dhiyaḥ hi bālakāḥ samāyayuḥ yuktam idam hi yajvasu . cirāt abhaktāḥ khalu te mahīsurāḥ katham hi bhaktam tvayi taiḥ samarpyate .. 61.4 ..
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ 61.5 ॥
निवेदयध्वम् गृहिणी-जनाय माम् दिशेयुः अन्नम् करुणा-आकुलाः इमाः । इति स्मित-आर्द्रम् भवता ईरिताः गताः ते दारकाः दार-जनम् ययाचिरे ॥ ६१।५ ॥
nivedayadhvam gṛhiṇī-janāya mām diśeyuḥ annam karuṇā-ākulāḥ imāḥ . iti smita-ārdram bhavatā īritāḥ gatāḥ te dārakāḥ dāra-janam yayācire .. 61.5 ..
गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ 61.6 ॥
गृहीत-नाम्नि त्वयि सम्भ्रम-आकुलाः चतुर्विधम् भोज्य-रसम् प्रगृह्य ताः । चिरम् धृत-त्वद्-प्रविलोकन-आग्रहाः स्वकैः निरुद्धाः अपि तूर्णम् आययुः ॥ ६१।६ ॥
gṛhīta-nāmni tvayi sambhrama-ākulāḥ caturvidham bhojya-rasam pragṛhya tāḥ . ciram dhṛta-tvad-pravilokana-āgrahāḥ svakaiḥ niruddhāḥ api tūrṇam āyayuḥ .. 61.6 ..
विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ 61.7 ॥
विलोल-पिञ्छम् चिकुरे कपोलयोः समुल्लसत्-कुण्डलम् आर्द्रम् ईक्षिते । निधाय बाहुम् सुहृद्-अंस-सीमनि स्थितम् भवन्तम् समलोकयन्त ताः ॥ ६१।७ ॥
vilola-piñcham cikure kapolayoḥ samullasat-kuṇḍalam ārdram īkṣite . nidhāya bāhum suhṛd-aṃsa-sīmani sthitam bhavantam samalokayanta tāḥ .. 61.7 ..
तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ 61.8 ॥
तदा च काचिद् त्वद्-उपागम-उद्यता गृहीत-हस्ता दयितेन यज्वना । तदा एव सञ्चिन्त्य भवन्तम् अञ्जसा विवेश कैवल्यम् अहो कृतिनी असौ ॥ ६१।८ ॥
tadā ca kācid tvad-upāgama-udyatā gṛhīta-hastā dayitena yajvanā . tadā eva sañcintya bhavantam añjasā viveśa kaivalyam aho kṛtinī asau .. 61.8 ..
आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ 61.9 ॥
आदाय भोज्यानि अनुगृह्य ताः पुनर् त्वद्-अङ्ग-सङ्ग-स्पृहया उज्झतीः गृहम् । विलोक्य यज्ञाय विसर्जयन् इमाः चकर्थ भर्तॄन् अपि तासु अगर्हणान् ॥ ६१।९ ॥
ādāya bhojyāni anugṛhya tāḥ punar tvad-aṅga-saṅga-spṛhayā ujjhatīḥ gṛham . vilokya yajñāya visarjayan imāḥ cakartha bhartṝn api tāsu agarhaṇān .. 61.9 ..
निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥ 61.10 ॥
निरूप्य दोषम् निजम् अङ्गना-जने विलोक्य भक्तिम् च पुनर् विचारिभिः । प्रबुद्ध-तत्त्वैः त्वम् अभिष्टुतः द्विजैः मरुत्-पुर-अधीश निरुन्धि मे गदान् ॥ ६१।१० ॥
nirūpya doṣam nijam aṅganā-jane vilokya bhaktim ca punar vicāribhiḥ . prabuddha-tattvaiḥ tvam abhiṣṭutaḥ dvijaiḥ marut-pura-adhīśa nirundhi me gadān .. 61.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In