| |
|

This overlay will guide you through the buttons:

कदाचिद्गोपालान् विहितमखसम्भारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुध्वंसितुमनाः । विजानन्नप्येतान् विनयमृदु नन्दादिपशुपानपृच्छः को वायं जनक भवतामुद्यम इति ॥ 62.1 ॥
कदाचिद् गोपालान् विहित-मख-सम्भार-विभवान् निरीक्ष्य त्वम् शौरे मघव-मदम् उध्वंसितु-मनाः । विजानन् अपि एतान् विनय-मृदु नन्द-आदि-पशुपान् अपृच्छः कः वा अयम् जनक भवताम् उद्यमः इति ॥ ६२।१ ॥
kadācid gopālān vihita-makha-sambhāra-vibhavān nirīkṣya tvam śaure maghava-madam udhvaṃsitu-manāḥ . vijānan api etān vinaya-mṛdu nanda-ādi-paśupān apṛcchaḥ kaḥ vā ayam janaka bhavatām udyamaḥ iti .. 62.1 ..
बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितलेविशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ 62.2 ॥
बभाषे नन्दः त्वाम् सुत ननु विधेयः मघवतः मखः वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणाम् वर्ष-आयत्तम् निखिलम् उपजीव्यम् महि-तले विशेषात् अस्माकम् तृण-सलिल-जीवाः हि पशवः ॥ ६२।२ ॥
babhāṣe nandaḥ tvām suta nanu vidheyaḥ maghavataḥ makhaḥ varṣe varṣe sukhayati sa varṣeṇa pṛthivīm . nṛṇām varṣa-āyattam nikhilam upajīvyam mahi-tale viśeṣāt asmākam tṛṇa-salila-jīvāḥ hi paśavaḥ .. 62.2 ..
इति श्रुत्वा वाचं पितुरयि भवानाह सरसंधिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितांमहारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ 62.3 ॥
इति श्रुत्वा वाचम् पितुः अयि भवान् आह सरसंधिगेतत् नो सत्यम् मघव जनिता वृष्टिः इति यत् । अदृष्टम् जीवानाम् सृजति खलु वृष्टिम् समुचिताम् महा-अरण्ये वृक्षाः किम् इव बलिम् इन्द्राय ददते ॥ ६२।३ ॥
iti śrutvā vācam pituḥ ayi bhavān āha sarasaṃdhigetat no satyam maghava janitā vṛṣṭiḥ iti yat . adṛṣṭam jīvānām sṛjati khalu vṛṣṭim samucitām mahā-araṇye vṛkṣāḥ kim iva balim indrāya dadate .. 62.3 ..
इदं तावत्सत्यं यदिह पशवो नः कुलधनंतदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितलेततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ 62.4 ॥
इदम् तावत् सत्यम् यत् इह पशवः नः कुल-धनम् तत् आजीव्याय असौ बलिः अचल-भर्त्रे समुचितः । सुरेभ्यः अपि उत्कृष्टाः ननु धरणिदेवाः क्षिति-तले ततस् ते अपि आराध्याः इति जगदिथ त्वम् निज-जनाम् ॥ ६२।४ ॥
idam tāvat satyam yat iha paśavaḥ naḥ kula-dhanam tat ājīvyāya asau baliḥ acala-bhartre samucitaḥ . surebhyaḥ api utkṛṣṭāḥ nanu dharaṇidevāḥ kṣiti-tale tatas te api ārādhyāḥ iti jagaditha tvam nija-janām .. 62.4 ..
भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाद्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ 62.5 ॥
भवत्-वाचम् श्रुत्वा बहु-मति-युताः ते अपि पशुप-द्विजेन्द्रान् अर्चन्तः बलिम् अददुः उच्चैस् क्षितिभृते । व्यधुः प्रादक्षिण्यम् सु भृशम् अनमन्न-आदर-युताः त्वम् अदः शैल-आत्मा बलिम् अखिलम् आभीर-पुरतस् ॥ ६२।५ ॥
bhavat-vācam śrutvā bahu-mati-yutāḥ te api paśupa-dvijendrān arcantaḥ balim adaduḥ uccais kṣitibhṛte . vyadhuḥ prādakṣiṇyam su bhṛśam anamanna-ādara-yutāḥ tvam adaḥ śaila-ātmā balim akhilam ābhīra-puratas .. 62.5 ..
अवोचश्चैवं तान्किमिह वितथं मे निगदितंगिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलंसमस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ 62.6 ॥
अवोचः च एवम् तान् किम् इह वितथम् मे निगदितम् गिरि-इन्द्रः ननु एषु स्व-बलिम् उपभूङ्क्ते स्व-वपुषा । अयम् गोत्रः गोत्र-द्विषि च कुपिते रक्षितुम् अलम् समस्तान् इति उक्ताः जहृषुः अखिलाः गो कुल-जुषः ॥ ६२।६ ॥
avocaḥ ca evam tān kim iha vitatham me nigaditam giri-indraḥ nanu eṣu sva-balim upabhūṅkte sva-vapuṣā . ayam gotraḥ gotra-dviṣi ca kupite rakṣitum alam samastān iti uktāḥ jahṛṣuḥ akhilāḥ go kula-juṣaḥ .. 62.6 ..
परिप्रीताः याताः खलु भवदुपेता व्रजजुषोव्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयोन सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ 62.7 ॥
परिप्रीताः याताः खलु भवत्-उपेताः व्रज-जुषः व्रजम् यावत् तावत् निज-मख-विभङ्गम् निशमयन् । भवन्तम् जानन् अपि अधिक-रजसा आक्रान्त-हृदयः न सेहे देवेन्द्रः त्वद्-उपरचित-आत्म-उन्नतिः अपि ॥ ६२।७ ॥
pariprītāḥ yātāḥ khalu bhavat-upetāḥ vraja-juṣaḥ vrajam yāvat tāvat nija-makha-vibhaṅgam niśamayan . bhavantam jānan api adhika-rajasā ākrānta-hṛdayaḥ na sehe devendraḥ tvad-uparacita-ātma-unnatiḥ api .. 62.7 ..
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयंविधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमितिप्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ 62.8 ॥
मनुष्य-त्वम् यातः मधुभिद् अपि देवेषु अविनयम् विधत्ते चेद् नष्टः त्रिदश-सदसाम् कः अपि महिमा । ततस् च ध्वंसिष्ये पशु-पहतकस्य श्रियम् इति प्रवृत्तः त्वाम् जेतुम् स किल मघवा दुर्मद-निधिः ॥ ६२।८ ॥
manuṣya-tvam yātaḥ madhubhid api deveṣu avinayam vidhatte ced naṣṭaḥ tridaśa-sadasām kaḥ api mahimā . tatas ca dhvaṃsiṣye paśu-pahatakasya śriyam iti pravṛttaḥ tvām jetum sa kila maghavā durmada-nidhiḥ .. 62.8 ..
त्वदावासं हन्तुं प्रलयजलदानम्बरभुविप्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितोभवन्माया नैव त्रिभुवनपते मोहयति कम् ॥ 62.9 ॥
त्वद्-आवासम् हन्तुम् प्रलय-जलदान् अम्बर-भुवि प्रहिण्वन् बिभ्राणः कुलिश-मयम् अभ्र-इभ-गमनः । प्रतस्थे अन्यैः अन्तर् दहन-मरुत्-आद्यैः विहसितः भवत्-माया ना एव त्रिभुवन-पते मोहयति कम् ॥ ६२।९ ॥
tvad-āvāsam hantum pralaya-jaladān ambara-bhuvi prahiṇvan bibhrāṇaḥ kuliśa-mayam abhra-ibha-gamanaḥ . pratasthe anyaiḥ antar dahana-marut-ādyaiḥ vihasitaḥ bhavat-māyā nā eva tribhuvana-pate mohayati kam .. 62.9 ..
सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाप्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥ 62.10 ॥
सुर-इन्द्रः क्रुद्धः चेद् द्विज-करुणया शैल-कृपया अपि अनातङ्कः अस्माकम् नियतः इति विश्वास्य पशुपान् । अहो किम् न आयातः गिरिभिद् इति सञ्चिन्त्य निवसत्-मरुत्-गेह-अधीश प्रणुद मुरवैरिन् मम गदान् ॥ ६२।१० ॥
sura-indraḥ kruddhaḥ ced dvija-karuṇayā śaila-kṛpayā api anātaṅkaḥ asmākam niyataḥ iti viśvāsya paśupān . aho kim na āyātaḥ giribhid iti sañcintya nivasat-marut-geha-adhīśa praṇuda muravairin mama gadān .. 62.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In