| |
|

This overlay will guide you through the buttons:

एवं देव cअतुर्दशात्मकजगद्रूपेण जातः पुन स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम । यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ 7.1 ॥
एवम् देव चतुर्दश-आत्मक-जगत्-रूपेण जातः पुनर् खलु सत्य-लोक-निलये जातः असि धाता स्वयम् । यम् शंसन्ति हिरण्यगर्भम् अखिल-त्रैलोक्य-जीव-आत्मकम् यः अभूत् स्फीत-रजः-विकार-विकसत्-नाना सिसृक्षा-रसः ॥ ७।१ ॥
evam deva caturdaśa-ātmaka-jagat-rūpeṇa jātaḥ punar khalu satya-loka-nilaye jātaḥ asi dhātā svayam . yam śaṃsanti hiraṇyagarbham akhila-trailokya-jīva-ātmakam yaḥ abhūt sphīta-rajaḥ-vikāra-vikasat-nānā sisṛkṣā-rasaḥ .. 7.1 ..
सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं बोधं खल्वनवाष्य विश्वविषयं cइन्ताकुलस्तस्थिवान । तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ 7.2 ॥
सः अयम् विश्वि-सर्ग-दत्त-हृदयः सम्पश्यमानः स्वयम् बोधम् खलु अन् अ वाष्य विश्व-विषयम् चिन्ता-आकुलः तस्थिवान । तावत् त्वम् जगतांपते तप तप इति एवम् हि वैहायसीम् वाणीम् एनम् अशिश्रवः श्रुति-सुखाम् कुर्वन् तपः-प्रेरणाम् ॥ ७।२ ॥
saḥ ayam viśvi-sarga-datta-hṛdayaḥ sampaśyamānaḥ svayam bodham khalu an a vāṣya viśva-viṣayam cintā-ākulaḥ tasthivāna . tāvat tvam jagatāṃpate tapa tapa iti evam hi vaihāyasīm vāṇīm enam aśiśravaḥ śruti-sukhām kurvan tapaḥ-preraṇām .. 7.2 ..
कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ 7.3 ॥
कः असौ माम् अवदत् पुमान् इति जल-आपूर्णे जगत्-मण्डले दिक्षु उद्वीक्ष्य किम् अपि अन् ईक्षितवता वाक्य-अर्थम् उत्पश्यता । दिव्यम् वर्ष-सहस्रम् आत् तपसा तेन त्वम् आराधितः तस्मै दर्शितवान् असि स्व-निलयम् वैकुण्ठम् एक-अद्भुतम् ॥ ७।३ ॥
kaḥ asau mām avadat pumān iti jala-āpūrṇe jagat-maṇḍale dikṣu udvīkṣya kim api an īkṣitavatā vākya-artham utpaśyatā . divyam varṣa-sahasram āt tapasā tena tvam ārādhitaḥ tasmai darśitavān asi sva-nilayam vaikuṇṭham eka-adbhutam .. 7.3 ..
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । सान्द्रानन्दझरी cअ यत्र परमज्योतिःप्रकाशात्मके तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ 7.4 ॥
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यः बहि शूक-क्रोध-विमोह-साध्वस-मुखाः भावाः तु दूरम् गताः । सान्द्र-आनन्द-झरी च यत्र परम-ज्योतिः-प्रकाश-आत्मके तत् ते धाम विभावितम् विजयते वैकुण्ठ-रूपम् विभो ॥ ७।४ ॥
māyā yatra kadāpi no vikurute bhāte jagadbhyaḥ bahi śūka-krodha-vimoha-sādhvasa-mukhāḥ bhāvāḥ tu dūram gatāḥ . sāndra-ānanda-jharī ca yatra parama-jyotiḥ-prakāśa-ātmake tat te dhāma vibhāvitam vijayate vaikuṇṭha-rūpam vibho .. 7.4 ..
यस्मिन्नाम cअतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ 7.5 ॥
यस्मिन् नाम चतुर्भुजाः हरि-मणि-श्याम-अवदात-त्विषः नाना भूषण-रत्न-दीपित-दिशः राज-द्विमान-आलयाः । भक्ति-प्राप्त-तथाविध-उन्नत-पदाः दीव्यन्ति दिव्याः जनाः धाम निरस्त-सर्व-शमलम् वैकुण्ठ-रूपम् जयेत् ॥ ७।५ ॥
yasmin nāma caturbhujāḥ hari-maṇi-śyāma-avadāta-tviṣaḥ nānā bhūṣaṇa-ratna-dīpita-diśaḥ rāja-dvimāna-ālayāḥ . bhakti-prāpta-tathāvidha-unnata-padāḥ dīvyanti divyāḥ janāḥ dhāma nirasta-sarva-śamalam vaikuṇṭha-rūpam jayet .. 7.5 ..
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा । त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥ 7.6 ॥
नाना दिव्य-वधू-जनैः अभिवृता विद्युत्-लता-तुल्यया विश्व-उन्मादन-हृद्य-गात्र-लतया विद्योतित-आशा-अन्तरा । त्वद्-पाद-अंबुज-सौरभ-एक-कुतुकात् लक्ष्मीः स्वयम् लक्ष्यते यस्मिन् विस्मयनीय-दिव्य-विभवम् तत् ते पदम् देहि मे ॥ ७।६ ॥
nānā divya-vadhū-janaiḥ abhivṛtā vidyut-latā-tulyayā viśva-unmādana-hṛdya-gātra-latayā vidyotita-āśā-antarā . tvad-pāda-aṃbuja-saurabha-eka-kutukāt lakṣmīḥ svayam lakṣyate yasmin vismayanīya-divya-vibhavam tat te padam dehi me .. 7.6 ..
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति । श्रीवत्साङ्कितमात्तकौस्तुभमणिcछायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ 7.7 ॥
तत्र एवम् प्रतिदर्शिते निज-पदे रत्न-आसन-अध्यासितम् भास्वत्-कोटि-लसत्-किरीट-कटक-आदि-आकल्प-दीप-आकृति । श्रीवत्स-अङ्कितम् आत्त-कौस्तुभ-मणि-छाया-अरुणम् कारणम् विश्वेषाम् तव रूपम् ऐक्षत विधिः तत् ते विभो भातु मे ॥ ७।७ ॥
tatra evam pratidarśite nija-pade ratna-āsana-adhyāsitam bhāsvat-koṭi-lasat-kirīṭa-kaṭaka-ādi-ākalpa-dīpa-ākṛti . śrīvatsa-aṅkitam ātta-kaustubha-maṇi-chāyā-aruṇam kāraṇam viśveṣām tava rūpam aikṣata vidhiḥ tat te vibho bhātu me .. 7.7 ..
काळांभोदकळायकोमळरुcईcअक्रेण cअक्रं दिशा मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम । राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ 7.8 ॥
काळ-अम्भोद-कळाय-कोमल-रुची-चक्रेण चक्रम् दिशा मा आवृण्वानम् उदार-मन्द-हसित-स्यन्द-प्रसन्न-आननम् । राजत्-कम्बु-गदा-अरि-पङ्कज-धर-श्रीमत्-भुजा-मण्डलम् स्रष्टुः तुष्टि-करम् वपुः तव विभो मद्-रोगम् उद्वासयेत् ॥ ७।८ ॥
kāl̤a-ambhoda-kal̤āya-komala-rucī-cakreṇa cakram diśā mā āvṛṇvānam udāra-manda-hasita-syanda-prasanna-ānanam . rājat-kambu-gadā-ari-paṅkaja-dhara-śrīmat-bhujā-maṇḍalam sraṣṭuḥ tuṣṭi-karam vapuḥ tava vibho mad-rogam udvāsayet .. 7.8 ..
दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन । जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याcअष्ट तं त्वां भजे ॥ 7.9 ॥
दृष्ट्वा संभृत-संभ्रमः कमलभूः त्वद्-पाद-पाथोरुहे हर्ष-आवेश-वशंवदः निपतितः प्रीत्या कृतार्थीभवन । जानासि एव मनीषितम् मम विभो ज्ञानम् तत् आपादय द्वैत-अद्वैत-भवत्-स्वरूप-परम् इति आचष्ट तम् त्वाम् भजे ॥ ७।९ ॥
dṛṣṭvā saṃbhṛta-saṃbhramaḥ kamalabhūḥ tvad-pāda-pāthoruhe harṣa-āveśa-vaśaṃvadaḥ nipatitaḥ prītyā kṛtārthībhavana . jānāsi eva manīṣitam mama vibho jñānam tat āpādaya dvaita-advaita-bhavat-svarūpa-param iti ācaṣṭa tam tvām bhaje .. 7.9 ..
आताम्रे cअरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते । इत्याभाष्य गिरं प्रतोष्यनितरां तccइत्तगूढः स्वयं सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥ 7.10 ॥
आताम्रे चरणे विनम्रम् अथ तम् हस्तेन हस्ते स्पृशन् बोधः ते भविता न सर्ग-विधिबिः बन्धः अपि सञ्जायते । इति आभाष्य गिरम् तद्-चित्त-गूढः स्वयम् सृष्टौ तम् समुदैरयः स भगवन् उल्लासय उल्लाघताम् ॥ ७।१० ॥
ātāmre caraṇe vinamram atha tam hastena haste spṛśan bodhaḥ te bhavitā na sarga-vidhibiḥ bandhaḥ api sañjāyate . iti ābhāṣya giram tad-citta-gūḍhaḥ svayam sṛṣṭau tam samudairayaḥ sa bhagavan ullāsaya ullāghatām .. 7.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In