| |
|

This overlay will guide you through the buttons:

कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ 87.1 ॥
कुचेल-नामा भवतः स तीर्थ्य-ताम् गतः स सान्दीपनि-मन्दिरे द्विजः । त्वद्-एक-रागेण धन-आदि-निःस्पृहः दिनानि निन्ये प्रशमी गृह-आश्रमी ॥ ८७।१ ॥
kucela-nāmā bhavataḥ sa tīrthya-tām gataḥ sa sāndīpani-mandire dvijaḥ . tvad-eka-rāgeṇa dhana-ādi-niḥspṛhaḥ dināni ninye praśamī gṛha-āśramī .. 87.1 ..
समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी । कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ 87.2 ॥
समान-शीला अपि तदीय-वल्लभा तथा एव नो चित्त-जयम् समेयुषी । कदाचिद् ऊचे बत वृत्ति-लब्धये रमापतिः किम् न सखा निषेव्यते ॥ ८७।२ ॥
samāna-śīlā api tadīya-vallabhā tathā eva no citta-jayam sameyuṣī . kadācid ūce bata vṛtti-labdhaye ramāpatiḥ kim na sakhā niṣevyate .. 87.2 ..
इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥ 87.3 ॥
इति ईरितः अयम् प्रियया क्षुधा आर्तया जुगुप्समानः अपि धने मद-आवहे । तदा त्वद्-आलोकन-कौतुकात् ययौ वहन् पट-अन्ते पृथुक-अन् उपायनम् ॥ ८७।३ ॥
iti īritaḥ ayam priyayā kṣudhā ārtayā jugupsamānaḥ api dhane mada-āvahe . tadā tvad-ālokana-kautukāt yayau vahan paṭa-ante pṛthuka-an upāyanam .. 87.3 ..
गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ 87.4 ॥
गतः अयम् आश्चर्य-मयीम् भवत्-पूरीम् गृहेषु शैब्या-भवनम् समेयिवान् । प्रविश्य वैकुण्ठम् इव आप निर्वृतिम् तव अति सम्भावनया तु किम् पुनर् ॥ ८७।४ ॥
gataḥ ayam āścarya-mayīm bhavat-pūrīm gṛheṣu śaibyā-bhavanam sameyivān . praviśya vaikuṇṭham iva āpa nirvṛtim tava ati sambhāvanayā tu kim punar .. 87.4 ..
प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुरा कृतम् । यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ 87.5 ॥
प्रपूजितम् तम् प्रियया च वीजितम् करे गृहीत्वा अकथयः पुरा कृतम् । यत् इन्धन-अर्थम् गुरु-दार-चोदितैः अपर्तु-वर्षम् तत् अमर्षि कानने ॥ ८७।५ ॥
prapūjitam tam priyayā ca vījitam kare gṛhītvā akathayaḥ purā kṛtam . yat indhana-artham guru-dāra-coditaiḥ apartu-varṣam tat amarṣi kānane .. 87.5 ..
त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ 87.6 ॥
त्रपा-जुषः अस्मात् पृथुकम् बलात् अथ प्रगृह्य मुष्टौ सकृत् आशिते त्वया । कृतम् कृतम् ननु इयता इति सम्भ्रमात् रमा किल उपेत्य करम् रुरोध ते ॥ ८७।६ ॥
trapā-juṣaḥ asmāt pṛthukam balāt atha pragṛhya muṣṭau sakṛt āśite tvayā . kṛtam kṛtam nanu iyatā iti sambhramāt ramā kila upetya karam rurodha te .. 87.6 ..
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ 87.7 ॥
भक्तेषु भक्तेन स मानितः त्वया पुरीम् वसन् एक-निशाम् महा-सुखम् । बत अपरेद्युस् द्रविणम् विना ययौ विचित्र-रूपः तव खलु अनुग्रहः ॥ ८७।७ ॥
bhakteṣu bhaktena sa mānitaḥ tvayā purīm vasan eka-niśām mahā-sukham . bata aparedyus draviṇam vinā yayau vicitra-rūpaḥ tava khalu anugrahaḥ .. 87.7 ..
यदि ह्ययचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ 87.8 ॥
यदि हि अयचिष्यम् अदास्यत् अच्युतः वदामि भार्याम् किम् इति व्रजन् असौ । त्वद्-उक्ति-लीला-स्मित-मग्न-धीः पुनर् क्रमात् अपश्यत् मणि-दीप्रम् आलयम् ॥ ८७।८ ॥
yadi hi ayaciṣyam adāsyat acyutaḥ vadāmi bhāryām kim iti vrajan asau . tvad-ukti-līlā-smita-magna-dhīḥ punar kramāt apaśyat maṇi-dīpram ālayam .. 87.8 ..
किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ 87.9 ॥
किम् मार्ग-विभ्रंशः इति भ्रमन् क्षणम् गृहम् प्रविष्टः स ददर्श वल्लभाम् । सखी-परीताम् मणि-हेम-भूषिताम् बुबोध च त्वद्-करुणाम् महा-अद्भुताम् ॥ ८७।९ ॥
kim mārga-vibhraṃśaḥ iti bhraman kṣaṇam gṛham praviṣṭaḥ sa dadarśa vallabhām . sakhī-parītām maṇi-hema-bhūṣitām bubodha ca tvad-karuṇām mahā-adbhutām .. 87.9 ..
स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥ 87.10 ॥
स रत्न-शालासु वसन् अपि स्वयम् समुन्नमत्-भक्ति-भरः अमृतम् ययौ । त्वम् एवम् आपूरित-भक्त-वाञ्छितः मरुत्-पुर-अधीश हरस्व मे गदान् ॥ ८७।१० ॥
sa ratna-śālāsu vasan api svayam samunnamat-bhakti-bharaḥ amṛtam yayau . tvam evam āpūrita-bhakta-vāñchitaḥ marut-pura-adhīśa harasva me gadān .. 87.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In