| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गेधावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥ 91.1 ॥
श्री-कृष्ण त्वद्-पद-उपासनम् अभयतमम् बद्ध-मिथ्या अर्थ-दृष्टेः मर्त्यस्य आर्तस्य मन्ये व्यपसरति भयम् येन सर्व-आत्मना एव । यत् तावत् त्वद्-प्रणीतान् इह भजन-विधीन् आस्थितः मोह-मार्गे धावन् अपि आवृत-अक्षः स्खलति न कुहचिद् देवदेव अखिलात्मन् ॥ ९१।१ ॥
śrī-kṛṣṇa tvad-pada-upāsanam abhayatamam baddha-mithyā artha-dṛṣṭeḥ martyasya ārtasya manye vyapasarati bhayam yena sarva-ātmanā eva . yat tāvat tvad-praṇītān iha bhajana-vidhīn āsthitaḥ moha-mārge dhāvan api āvṛta-akṣaḥ skhalati na kuhacid devadeva akhilātman .. 91.1 ..
भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मायद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थप्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ 91.2 ॥
भूमन् कायेन वाचा मुहुर् अपि मनसा त्वद्-बल-प्रेरित-आत्मा अयत् यत् कुर्वे समस्तम् तत् इह परतरे त्वयि असौ अर्पयामि । जात्या अपि इह श्वपाकः त्वयि निहित-मनः कर्म-वाच्-इन्द्रिय-अर्थ-प्राणः विश्वम् पुनीते न तु विमुख-मनाः त्वद्-पदात् विप्र-वर्यः ॥ ९१।२ ॥
bhūman kāyena vācā muhur api manasā tvad-bala-prerita-ātmā ayat yat kurve samastam tat iha paratare tvayi asau arpayāmi . jātyā api iha śvapākaḥ tvayi nihita-manaḥ karma-vāc-indriya-artha-prāṇaḥ viśvam punīte na tu vimukha-manāḥ tvad-padāt vipra-varyaḥ .. 91.2 ..
भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयंतेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथंतं त्वां भक्त्या महत्या सततमनुभजन्नीश भीतिं विजह्याम् ॥ 91.3 ॥
भीतिः नाम द्वितीयात् भवति ननु मनः कल्पितम् च द्वितीयम् तेन ऐक्य-अभ्यास-शीलः हृदयम् इह यथाशक्ति बुद्ध्या निरुन्ध्याम् । माया-विद्धे तु तस्मिन् पुनर् अपि न तथा भाति माया-अधिनाथम् तम् त्वाम् भक्त्या महत्या सततम् अनुभजन् ईश भीतिम् विजह्याम् ॥ ९१।३ ॥
bhītiḥ nāma dvitīyāt bhavati nanu manaḥ kalpitam ca dvitīyam tena aikya-abhyāsa-śīlaḥ hṛdayam iha yathāśakti buddhyā nirundhyām . māyā-viddhe tu tasmin punar api na tathā bhāti māyā-adhinātham tam tvām bhaktyā mahatyā satatam anubhajan īśa bhītim vijahyām .. 91.3 ..
भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसामासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्सङ्गो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भिस्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ 91.4 ॥
भक्तेः उत्पत्ति-वृद्धी तव चरण-जुषम् सङ्गमेन एव पुंसाम् आसाद्ये पुण्य-भाजाम् श्रियः इव जगति श्रीमताम् सङ्गमेन । तद्-सङ्गः देव भूयात् मम खलु सततम् तद्-मुखात् उन्मिषद्भिः त्वद्-माहात्म्य-प्रकारैः भवति च सु दृढा भक्तिः उद्धूत-पापा ॥ ९१।४ ॥
bhakteḥ utpatti-vṛddhī tava caraṇa-juṣam saṅgamena eva puṃsām āsādye puṇya-bhājām śriyaḥ iva jagati śrīmatām saṅgamena . tad-saṅgaḥ deva bhūyāt mama khalu satatam tad-mukhāt unmiṣadbhiḥ tvad-māhātmya-prakāraiḥ bhavati ca su dṛḍhā bhaktiḥ uddhūta-pāpā .. 91.4 ..
श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयोगायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगायन्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ 91.5 ॥
श्रेयः-मार्गेषु भक्तौ अधिक-बहु-मतिः जन्म-कर्माणि भूयस् गायन् क्षेमाणि नामानि अपि तद्-उभयतस् प्रद्रुतम् प्रद्रुत-आत्मा । उद्यत्-हासः कदचिद् कुहाचिद् अपि रुदन् क्वापि गर्जन् प्रगायन् उन्मादी इव प्रनृत्यन् अयि कुरु करुणाम् लोक-बाह्यः चरेयम् ॥ ९१।५ ॥
śreyaḥ-mārgeṣu bhaktau adhika-bahu-matiḥ janma-karmāṇi bhūyas gāyan kṣemāṇi nāmāni api tad-ubhayatas pradrutam pradruta-ātmā . udyat-hāsaḥ kadacid kuhācid api rudan kvāpi garjan pragāyan unmādī iva pranṛtyan ayi kuru karuṇām loka-bāhyaḥ careyam .. 91.5 ..
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव ॥ 91.6 ॥
भूतानि एतानि भूत-आत्मकम् अपि सकलम् पक्षि-मत्स्यान् मृग-आदीन् मर्त्यान् मित्राणि शत्रून् अपि यमित-मतिः त्वद्-मयानि आनमानि । त्वद्-सेवायाम् हि सिध्येत् मम तव कृपया भक्ति-दार्ढ्यम् विरागः त्वद्-तत्त्वस्य अवबोधः अपि च भुवन-पते यत्न-भेदम् विना एव ॥ ९१।६ ॥
bhūtāni etāni bhūta-ātmakam api sakalam pakṣi-matsyān mṛga-ādīn martyān mitrāṇi śatrūn api yamita-matiḥ tvad-mayāni ānamāni . tvad-sevāyām hi sidhyet mama tava kṛpayā bhakti-dārḍhyam virāgaḥ tvad-tattvasya avabodhaḥ api ca bhuvana-pate yatna-bhedam vinā eva .. 91.6 ..
नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वाच्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधाज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ 91.7 ॥
नो मुह्यन् क्षुध्-तृष्-आद्यैः भव-सरणि-भवैः त्वद्-निलीन-आशय-त्वात् चिन्ता-सातत्य-शाली निमिष-लवम् अपि त्वद्-पदात् अप्रकम्पः । इष्ट-अनिष्टेषु तुष्टि-व्यसन-विरहितः मायिक-त्व-अवबोधात् ज्योत्स्नाभिः त्वद्-नख-इन्दोः अधिक-शिशिरितेन आत्मना सञ्चरेयम् ॥ ९१।७ ॥
no muhyan kṣudh-tṛṣ-ādyaiḥ bhava-saraṇi-bhavaiḥ tvad-nilīna-āśaya-tvāt cintā-sātatya-śālī nimiṣa-lavam api tvad-padāt aprakampaḥ . iṣṭa-aniṣṭeṣu tuṣṭi-vyasana-virahitaḥ māyika-tva-avabodhāt jyotsnābhiḥ tvad-nakha-indoḥ adhika-śiśiritena ātmanā sañcareyam .. 91.7 ..
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मेत्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ 91.8 ॥
भूतेषु एषु त्वद्-ऐक्य-स्मृति-समधिगतौ न अधिकारः अधुना चेद् त्वद्-प्रेम त्वद्-क-मैत्री जड-मतिषु कृपा भूयात् उपेक्षा । अर्चायाम् वा समर्चा-कुतुकम् उरुतर-श्रद्धया वर्धताम् मे त्वद्-संसेवी तथा अपि द्रुतम् उपलभते भक्त-लोक-उत्तम-त्वम् ॥ ९१।८ ॥
bhūteṣu eṣu tvad-aikya-smṛti-samadhigatau na adhikāraḥ adhunā ced tvad-prema tvad-ka-maitrī jaḍa-matiṣu kṛpā bhūyāt upekṣā . arcāyām vā samarcā-kutukam urutara-śraddhayā vardhatām me tvad-saṃsevī tathā api drutam upalabhate bhakta-loka-uttama-tvam .. 91.8 ..
आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्तीजीवान्भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशान्त्यैत्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥ 91.9 ॥
आवृत्य त्वद्-स्व-रूपम् क्षिति-जल-मरुत्-आदि-आत्मना विक्षिपन्ती जीवान् भूयिष्ठ-कर्म-आवलि-विवश-गतीन् दुःख-जाले क्षिपन्ती । त्वद्-माया मा अभिभूत् माम् अयि भुवन-पते कल्पते तद्-प्रशान्त्यै त्वद्-पादे भक्तिः एव इति अवदत् अयि विभो सिद्धयोगी प्रबुद्धः ॥ ९१।९ ॥
āvṛtya tvad-sva-rūpam kṣiti-jala-marut-ādi-ātmanā vikṣipantī jīvān bhūyiṣṭha-karma-āvali-vivaśa-gatīn duḥkha-jāle kṣipantī . tvad-māyā mā abhibhūt mām ayi bhuvana-pate kalpate tad-praśāntyai tvad-pāde bhaktiḥ eva iti avadat ayi vibho siddhayogī prabuddhaḥ .. 91.9 ..
दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्याल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवत्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहेतस्यायं पूर्वरङ्गः पवनपुरपते नाशयाशेषरोगान् ॥ 91.10 ॥
दुःखानि आलोक्य जन्तुषु अलम् उदित-विवेकः अहम् आचार्य-वर्यात् लब्ध्वा त्वद्-रूप-तत्त्वम् गुण-चरित-कथा-आदि-उद्भवत्-भक्ति-भूमा । मायाम् एनाम् तरित्वा परम-सुख-मये त्वद्-पदे मोदिता अह इतस्य अयम् पूर्वरङ्गः पवनपुर-पते नाशय अशेष-रोगान् ॥ ९१।१० ॥
duḥkhāni ālokya jantuṣu alam udita-vivekaḥ aham ācārya-varyāt labdhvā tvad-rūpa-tattvam guṇa-carita-kathā-ādi-udbhavat-bhakti-bhūmā . māyām enām taritvā parama-sukha-maye tvad-pade moditā aha itasya ayam pūrvaraṅgaḥ pavanapura-pate nāśaya aśeṣa-rogān .. 91.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In